कडलूर् मण्डलम्
| Cuddalore District கடலூர் மாவட்டம் |
|||||||||
| Kadalur | |||||||||
| — मण्डलम् — | |||||||||
|
|
|||||||||
|
|
|||||||||
| निर्देशाङ्काः | |||||||||
| देशः | भारतम् | ||||||||
| राज्यम् | Tamil Nadu | ||||||||
| मण्डलानि | Cuddalore | ||||||||
| उपमण्डलानि | Cuddalore, Panruti, Chidambaram, Neyveli, Virudhachalam | ||||||||
| केन्द्रप्रदेशानि | Cuddalore | ||||||||
| बृहत्तमं नगरम् | Cuddalore | ||||||||
| बृहत्तमं महानगरम् | None | ||||||||
| समीपतमं नगरम् | Pondicherry, Chennai | ||||||||
| Collector & District Magistrate | Mr.Rajendra Ratnoo IAS | ||||||||
| संसत् (स्थानानि) | elected () | ||||||||
| अधिवेशनसभा | कडलूरु | ||||||||
| जनसङ्ख्या |
२२,८५,३९५[१] (2011[update]) • ७०२ /km2 ( /sq mi)7 (11) |
||||||||
| लिङ्गानुपातः | 984 ♂/♀ | ||||||||
| साक्षरता • Male |
79.04%% • 86.84%% |
||||||||
| व्यावहारिकभाषा(ः) | Tamil, English | ||||||||
|---|---|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||||
| वायुमण्डलम् तापमानम् |
• ४१ °C ( °F) |
||||||||
| Central location: | |||||||||
|
सङ्केताः
|
|||||||||
| जालस्थानम् | Official website of District Collectorate, Cuddalore | ||||||||
कडलूरु (तमिऴ् - கடலூர் மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । कडलूरुनगरम् अस्य मण्डलस्य केन्द्रस्थलम् । क्रि.पू प्रथमशतमानस्य कानिचन समाधिस्थलवस्तूनि अस्य मण्डलस्य मरुङ्गूरुग्रामे प्रथमतः लब्धानि । तेषामुपरि तमिळ्-ब्राह्मी लिप्यां लेखाः अपि दृष्टाः ।
अन्तर्विषयाः |
[सम्पादयतु] भौगोलिकम्
कडलूरुमण्डलस्य विस्तारः ३५६४ चतरश्रकिलोमीटर् । . अस्य मण्डलस्य उत्तरभागे विलुप्पुरं मण्डलम्, पूर्वभागे बङ्गालसमुद्रः, दक्षिणदिशायां नागपट्टिनं मण्डलम्, पश्चिमतः पेरम्बलूरुमण्डलं च अस्ति ।
[सम्पादयतु] आर्थिकता
२००६तमे वर्षे केन्द्रसर्वकारस्य पञ्चायती राज् सचिवालयेन निर्दिष्टेषु देशस्य २५० अतिदीनमण्डलेषु कडलूरु अपि परिगणितम् । सम्प्रति, तमिऴ्नाडुराज्यस्य षट् मण्डलानि सर्वकारस्य दीन-प्रदेश-सहायधनयोजनया (Backward Regions Grant Fund Programme) साहाय्यं लभमानाः सन्ति, तेषु कडलूरु अन्यतमम् ।
[सम्पादयतु] जनसंख्या
२०११ जनगणनानुगुणं कडलूरुमण्डलस्य जनसंख्या २,६००,८८०।देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या कडलूरु १५८तमम् । अस्य मण्डलस्य जनसंख्यासान्द्रता प्रतिचतुरश्रकिलोमीटर् ७०२ जनाः (१८२०/चतुरश्रमैल्)। २००१-२०११ दशके जनसंख्यावृद्धिः १३.८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । साक्षरता ७९.०४% अस्ति ।
[सम्पादयतु] तालुकाः
कडलूरुमण्डले ६ तालुकाः सन्ति
- कडलूरु
- चिदम्बरम्
- पण्रुट्टि
- काट्टुमन्नार्कोयिल्
- विरुदाचलम्
- तित्तकुडि
[सम्पादयतु] कृषिः वाणिज्यं च
कडलूरुमण्डले भल्लातकस्य कृषिः अधिकं दृश्यते । तमिऴ्नाडुनः ५२% भल्लातकस्य उत्पादनम् अस्मिन् मण्डले भवति । अत्रत्यानि पनसफलानि अपि प्रसिद्धानि (पण्रुटि-पनसम्) । नैवेलिनगरे नैवेलि लिग्नैट् कार्पोरेषन् संस्था अस्ति । अत्र अङ्गारतः विद्युदुत्पादनं भवति । अत्र भारतस्य अतिबृहत् अनावृत-अङ्गार-खनिः अस्ति ।
[सम्पादयतु] वीक्षणीयस्थलानि
कडलूरुमण्डले बहवः प्रसिद्धाः देवालयाः सन्ति । चिदम्बरक्षेत्रे विद्यमानं नटराजमन्दिरम् विश्वप्रसिद्धम् । कडलूरुनगरे पातालेश्वरदेवालयः अस्ति । कडलूरुनगरात् ७ किलोमीटर् दूरे विद्यमानः तिरुवन्दिपुरदेवालयः श्रीवैष्णवानां १०८ दिव्यक्षेत्रेषु अन्यतमः । अत्र भगवान् विष्णुः देवनाथरूपेण पूज्यते । चिन्दम्बरात् ३१ किलोमीटर् दूरे विद्यमाने श्रीमुष्णं क्षेत्रे विख्यातं भूवराहमन्दिरम् अस्ति । विरुदाचलक्षेत्रे विरुदगिरीश्वरदेवालयः अस्ति । कडलूरुनगरात् २ किलोमीटर् दूरे रजततीरम् (Silver beach) इति प्रसिद्धं समुद्रतीरम् अस्ति । चिदम्बरसमीपे पिच्चावरे मान्ग्रोव्-अरण्यानि सन्ति । मान्ग्रोव् अरण्यानां विस्तारे पिच्चावरस्य विश्वे एव द्वितीयस्थानम् । इदं प्रसिद्धं जैकप्रवासस्थानम् । कुरिञ्जिप्पडितालुकायां वेङ्गडपेटेप्रदेशे विजयनगरकालस्य अवशेषाः द्रष्टुं शक्याः ।
[सम्पादयतु] बाह्यसम्पर्कतन्तुः
- ↑ 2011 Census of India (Excel). Indian government (16 April 2011).
- ↑ www.tn.gov.in