कोचेरिल रामन् नारायणन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(कोचेरिल रामन नारायणन् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कोचेरिल रामन् नारायणन्
Kocheril Raman Narayanan
भारतस्य दशमः राष्ट्रपतिः
कार्यालये
२५/७/१९९७ – २५/७/२००२
प्रधानमन्त्री गुजराल
अटल बिहारी वाजपेयी
उपराष्ट्रपतिः किशन कान्त
पूर्वगमः श्रीशङ्करदयाल शर्मा
पादानुध्यातः ए पी जे अब्दुल कलाम
उपराष्ट्रपतिः
कार्यालये
२१/८/१९९२ – २४/७/१९९७
राष्ट्रपतिः श्रीशङ्करदयाल शर्मा
पूर्वगमः श्रीशङ्करदयाल शर्मा
पादानुध्यातः किशन कान्त
व्यक्तिगत विचाराः
जननम् २७/१०/१९२०
उझावूर, केरलराज्यं, भारतम्
मरणम् ९/११/२००५
नवदेहली, देहली, भारतम्
राजनैतिकपक्षः इण्डियन नेशनल कोङ्ग्रेस
मुख्यशिक्षणम् केरलाविश्वविद्यालयः (B.A., M.A.)
लण्डन स्कूल ओफ इकनोमिक्स (B.Sc)
धर्मः हिन्दुधर्मः
हस्ताक्षरम्

श्रीकोचेरिल रामन् नारायणन् भारतगणराज्यस्य दशमः राष्ट्रपतिःराष्ट्रपतेः कार्ये पारदर्शिता भवतु इति विचारस्य जनकः, अनुगामी च श्रीनारायणन् देशहिताय बहूनि कार्याणि अकरोत् । भारतगणराज्यस्य प्रप्रथमः दलित-राष्ट्रपतिः एषः । प्रतिभावत् व्यक्तित्वं, ज्ञानस्य तीव्रपिपासा, कर्मनिष्ठा तस्य सफलतायाः मूलकारणानि । अन्ताराष्ट्रियविषय-शिक्षा-राजनीति-विज्ञान-दर्शन-साहित्य-कला-नृत्य-सङ्गीत-पर्यटनादीनां विषयानां गहनतया अध्ययनं कृतमासीत् तेन । सर्वेषु विषयेषु नैपुण्यं प्राप्तः सः स्वस्य ज्ञानस्य लाभं पुस्तकमाध्यमेनापि जनसामान्येभ्यः अयच्छत् । सः स्वस्य जीवनविषये कथयति स्म यत्,

I see and understand both the symbolic as well as the substantive elements of the life. Sometimes I visualize it as a journey of an individual from a remote village on the sidelines of society to the hub of social standing. But at the same time I also realize that my life encapsulates the ability of the democratic system to accommodate and empower marginalized sections of society

जन्म[सम्पादयतु]

१९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तविंशतितमे (२७/१०/१९२०) दिनाङ्के केरलराज्यस्य कोट्टयममण्डलस्य उझावूर-ग्रामे श्रीनारायणस्य जन्म अभवत् । तस्य पिता कोचेरिल प्रतिष्ठितः वैद्यः आसीत् । तस्य माता Paappiyamma निरक्षरासीत्, परन्तु व्यावहारिकजीवनस्य बहु ज्ञानम् आसीत् तस्याः । तयोः सप्त शिशवः आसन् । तेषु श्रीनारायणः चतुर्थः । कोचेरिल इत्यस्य आर्थिकस्थितिः सुदृढा नासीत् । सः वनेषु उपलब्धौषधीनाम् उपयोगेन आयुर्वैदिकरीत्या रोगिणाम् उपचारं करोति स्म । सामान्यतः तस्य औषधकार्यं सेवाभावेन एव चलति स्म । निर्धनग्रामिणः वैद्याय कियत् धनं दातुं शक्नुयुः ? मध्याह्न-सायङ्कालयोः भोजनमपि बहु परिश्रमेण एकत्रितं भवति स्म ।

शिक्षणम्[सम्पादयतु]

पठने श्रीनारायणस्य बहु रूचिः आसीत् । बालकस्य पठनरूचिं पश्यन् पिता तम् उझावूर-ग्रामस्थं विद्यालयं पठितुं प्रैषयत् । पठनपिपासोः श्रीनारायणस्य प्राथमिकशिक्षणं परिश्रमयुक्तं, दुष्करं चासीत् । पञ्चदश कि.मी. दूरं स्थितं विद्यालयं श्रीनारायणः चलित्वा नियमिततया गच्छति स्म । निर्धनपिता विद्यालयस्य मासिकशुल्कं (fees) दातुं न शक्नोति स्म । अतः शिक्षकाः मुहूर्मुहुः श्रीनारायणं वर्गात् बहिर्निष्कासयन्ति स्म । परन्तु ज्ञानस्य उपरि कस्यापि अधिकारः न भवति । श्रीनारायणः वर्गात् बहिस्स्थित्वापि शिक्षकस्य पाठम् अवधानेन शृणोति स्म । श्रीनारायणस्य पितुः पार्श्वे पुस्तकं क्रेतुं धनमपि नासीत् । अतः श्रीनारायणस्य अग्रजः अन्यविद्यार्थिभ्यः पुस्तकानि याचयित्वा तस्य प्रतिलिपिं करोति स्म । अग्रजेन लिखिताभ्यः पुस्तकस्य प्रतिलिपिभ्यः श्रीनारायणः स्वाध्ययनं करोति स्म । स्वस्य उच्चपठननिष्ठया सः महात्मना स्थापितात् हरिजन-सेवक-सङ्घात् छात्रवृत्तिं प्रापत् । ततः सर्वम् अध्ययनं तेन छात्रवृत्त्या एव कृतम् । १९३६-३७ वर्षे सः कुरविलङ्गडु-ग्रामस्य 'सेण्ट मैरीज'-उच्चविद्यालयात् प्रथमश्रेण्या उत्तीर्णः अभवत् । ततः १९४० तमे वर्षे कोच्चायम-ग्रामस्य 'सी. एम. एम.'-महाविद्यालयात् 'इण्डरमीडिएट' मध्ये उत्तीर्णः अभवत् । 'इण्डरमीडिएट' उत्तीर्णः विंशतिवर्षीयः श्रीनारायणः त्रावणकोर-विश्वविद्यालयात् (अधुना केरलविश्वविद्यालयः) 'बी.ए. आनर्स, एम. ए.' (आङ्गसाहित्यं) च उत्तीर्णम् अकरोत् ।

उच्चशिक्षां प्राप्तुं श्रीनारायणस्य बहु इच्छा आसीत् । परन्तु परिवारस्य निर्धनताम् अपाकर्तुं सः जीविकोपार्जनं प्रारभत । तस्य रूचिः पत्रकारितायाम् आसीत् । अतः सः देहली-महानगरं गत्वा ‘द हिन्दू’, ‘द टाइम्स ओफ इण्डिया’ समाचारपत्रयोः कृते कार्यं प्रारब्धम् । १९४५ तमस्य वर्षस्य 'अप्रैल'-मासस्य दशमे दिनाङ्के महात्मनः साक्षात्कारम् अकरवम् । सः पत्रकारत्वेन मम उत्तमतमः अवसरः आसीत् इति सः स्वस्य जीवन्याम् अलिखत् ।

सः यावत् धनम् अर्जयति स्म, तावत् परिवारस्य पोषणाय पर्याप्तम् आसीत् । परन्तु विदेशं गत्वा पठितुं यावत् धनम् आवश्यकम् आसीत्, तावत् धनं सः सङ्ग्रहितुं न शक्नोति स्म । तस्य हृदि स्थिता विदेशे पठनस्य इच्छा तं व्याकुलं करोति स्म । तदैव तेन एकः मार्ग प्राप्तः । बाल्यकालात् युवावस्थापर्यन्तं यत् अध्ययनम् अकरोत्, तस्य विवरणम् एकस्मिन् पत्रे लिखित्वा सः श्रीजे.डी.आर. ताता इत्यस्य समीपं प्रैषयत् । तेन पत्रेण सह विदेशपठनस्य व्ययस्य विवरणमपि प्रैषयत् सः । श्रीताता स्वस्य आशीर्वादेन सह श्रीनारायणस्य विदेशे अध्ययनाय यावत् धनम् आवश्यकम् आसीत्, तावत् तस्मै अयच्छत् । १९४५ तमे वर्षे सः विदेशं गत्वा 'लण्डन स्कूल ओफ इकनोमिक्स'-महाविद्यालये प्रवेशं प्रापत् । तस्मात् महाविद्यालयात् 'बी.एस.सी. ओनर्स'-राजनीतिविज्ञान-इत्यनयोः विषयोः नैपुण्यम् आर्जयत् सः ।

राजनीतिप्रवेशः[सम्पादयतु]

यस्मिन् 'लण्डन स्कूल ओफ इकनोमिक्स'-महाविद्यालये श्रीनारायणः पठति स्म, तस्य महाविद्यालयस्य नेहरू प्राच्यछात्रः आसीत् । श्रीनारायणः यस्मात् प्राध्यापकात् राजनीतिविषयम् अपठत्, तस्मात् प्राध्यापकात् नेहरू अपि राजनीतिम् अपठत् । तस्य प्राध्यापकस्य ख्यातिः चतुर्दिग्षु आसीत् । तस्य ज्ञानं, चिन्तनशक्तिः विद्यार्थिनम् आकर्षयति स्म । तस्य नाम आसीत् गेरोल्ड लास्की । सः गेरोल्ड लास्की श्रीनारायणात् प्रभावितः आसीत् । श्रीनारायणस्य राजनीतिविषयकं ज्ञानं तेन सम्यक् अनुभूतम् आसीत् । अतः सः स्वस्य प्राच्यछात्रस्य कृते एकं पत्रं श्रीनारायणस्य माध्यमेन प्रैषयत् । तस्मिन् पत्रे तेन श्रीनारायणस्य राजनीतौ आधिपत्यविषये, कुशलतायाः विषये लिखितम् आसीत् ।

स्वमातृभूमिं सम्प्राप्य श्रीनारायणः नेहरू इत्यस्य कार्यालयम् अगच्छत् । काश्चन सामान्याः चर्चाः कृत्वा सः प्राध्यापकेन दत्तं पत्रं नेहरू इत्येनं दत्वा कार्यालयात् निर्गतः । श्रीनारायणस्य विषये पत्रे यत् लिखितम् आसीत्, तत् पठित्वा नेहरू श्रीनारायणं पुनराह्वयति । किञ्चित् दूरं गतः श्रीनारायणः कार्यालयं यदा पुनः प्रविष्टः, तदा नेहरू तं कानिचन प्रश्नानि अपृच्छत् । ततः नेहरू तस्मै विदेशसेवायाः दायित्वम् अयच्छत् । एवं श्रीनारायणस्य राजनीतिप्रवेशः अभवत् ।

विवाहः, परिवारश्च[सम्पादयतु]

१९४९ तमे वर्षे श्रीनारायणेन विदेशसेवायाः कार्यं प्रारब्धम् । तस्य प्रथमनियुक्तिः सचिवत्वेन बर्मा-देशस्य रङ्गून-महानगरस्थे भारतीयदूतावासे अभवत् । यदा सः भारतीयदूतत्वेन रङ्गून-महानगरे कार्यरतः आसीत्, तदा तस्य सम्पर्कः बर्मीकन्यया मा टिण्ट टिण्ट इत्यनया सह अभवत् । सा रङ्गून-महानगरे YWCA संस्थायां कार्यकर्ता आसीत् । मा टिण्ट टिण्ट जानाति स्म यत्, श्रीनारायणः लास्की इत्यस्य शिष्यः अस्ति । अतः सा तं ‘राजनैतिकस्वतन्त्रता’-विषये वक्तुम् आहूतवती । क्रमशः वारं वारं मेलनेन तौ प्रेमपाशेन बद्धौ अभवताम् । प्रेम तु अभवत्, परन्तु विवाहं कर्तुं भारतीयसंविधानम् अनुमतिं न यच्छति स्म । कारणं विदेशसेवायां रतः अधिकारी विदेशस्य नागरिकेन सह विवाहं कर्तुं न शक्नोति इति नियमः भारतीयसंविधाने उल्लिखितः । अतः श्रीनारायणः प्रधानमन्त्रिकार्यालयं विवाहानुमत्यै विनतिपत्रं प्रैषयत् । प्रधानमन्त्रिकार्यालयात् अनुमतिः प्राप्ता श्रीनारायणेन । १९५१ तमस्य वर्षस्य 'जून'-मासस्य अष्टमे दिनाङ्के श्रीनारायणस्य मा टिण्ट टिण्ट इत्यनयाः च विवाहः अभवत् । विवाहानन्तरं मा टिण्ट टिण्ट स्वनाम परिवर्तयित्वा ऊषा औद्घोषयत् । भारते ऊषा नारायणन् महिलाकल्याणस्य कार्ये सल्लग्ना अभवत् । तयोः पुत्र्योः नाम क्रमेण चित्रा, अमृता च ।

भारतीयराजदूतत्वेन श्रीनारायणस्य कार्याणि[सम्पादयतु]

भारतस्य विदेशसेवायाः दायित्वं वहन् श्रीनारायणः रङ्गून-टोकियो-लण्डन्-केनबरा-हनोई-इत्येतेषु स्थानेषु स्थितेषु दूतावासेषु कार्यम् अकरोत् । सः थाईलेण्ड(१९६७-६९)-टर्की(१९७३-७५)-चीन(१९७६-७८)-देशेषु अपि भारतीयदूतत्वे दायित्वम् अवहत् । १९७४ तमे वर्षे पाकिस्थानस्य विभाजनान्तरम् अमेरिका-देशेन सह भारतस्य सम्बन्धाः सम्यक् नासन् । अतः इन्दिरा गान्धी श्रीनारायणं वाशिङ्गटन-महानगरे स्थितं भारतीयदूतवासं न्ययुङ्क्त । १९८४ वर्षपर्यन्तं श्रीनारायणः अमेरिका-देशे एव आसीत् । १९४९ तः १९७८ पर्यन्तं विदेशसेवायां रतः श्रीनारायणः भारतस्य सम्मानं सर्वत्र अवर्धयत् । १९४९ तमे वर्षे नेहरू यदा प्रधानमन्त्री आसीत्, तदा श्रीनारायणेन विदेशसेवायाः दायित्वं स्वीकृतम् आसीत् । १९८४ तमे वर्षे यदा विदेशसेवायाः दायित्वात् श्रीनारायणः विमुक्तः अभवत्, तदा इन्दिरा गान्धी भारतगणराज्यस्य प्रधानमन्त्री आसीत् ।

भारतीयमन्त्रिमण्डले स्थानम्[सम्पादयतु]

विदेशसेवायाः कार्ये सल्लग्नः श्रीनारायणः कार्यानुभवं, कार्यकुशलतां तु प्रापत् । परन्तु देशस्य दलित-वर्गस्य कृते किमपि विशेषं कर्तुं न शक्तवान् । भारतीयसंविधाने दलित-वर्गाय आरक्षणस्य सुविधा तु आसीत् । परन्तु समाजस्य केचन जनाः दलित-वर्गस्य उपेक्षां कुर्वन्ति स्म । आरक्षणस्याधिकरे सत्यपि दलित-वर्गः स्वाधिकारं प्राप्तुं सङ्घर्षरतः आसीत् । तस्मिन् सङ्घर्षे जात्याधारितहिंसायाः बाहूल्यमासीत् । परन्तु श्रीनारायणः असंविधानिकरीत्या सङ्घर्षस्य विरोधी आसीत् । तस्य मनसि भारतीयसंविधानं प्रति दृढनिष्ठा आसीत् । तस्य चिन्तनम् आसीत् यत्, “राजनैतिकसत्तायाः उपयोगं कुर्वन्, जात्याधारितहिंसाम् अकृत्वा च दलित-वर्गस्य विकासः कर्तव्यः । राजनीत्यादिक्षेत्रेषु सक्रियाः भूत्वा दलित-जनाः अपि उच्चस्थानेषु आरूढाः भवितुम् अर्हन्ति” इति । एतत् लक्ष्यं हृदि निधाय श्रीनारायणेन १९८४ तमे वर्षे संसद्प्रवेशस्य निर्णयः कृतः ।

१९८४, १९८९, १९९१ वर्षाणां निर्वाचने केरलराज्यस्य ओट्टापालम-संसदीयक्षेत्रात् बहुमतेन निर्वाचितः श्रीनारायणः वारत्रयं लोकसभायाः सदस्योऽभवत् । भारतसर्वकारस्य अनेकेषु विभागेषु मन्त्रित्वेन तेन कार्यं कृतम् । केन्द्रिययोजनामन्त्री, विदेशमन्त्री, विज्ञापन-पौद्योगिकीमन्त्री, अन्तरिक्ष-समुद्र-अणुशक्ति-विकासमन्त्री भूत्वा देशसेवाम् अकरोत् ।

उपराष्ट्रपतित्वेन श्रीनारायणः[सम्पादयतु]

१९९२ तमे वर्षे उपराष्ट्रपतिपदं रिक्तमभवत् । अतः तत्कालिनः प्रधानमन्त्री श्रीनारायणस्य नाम उपराष्ट्रपतिप्रतायशित्वेन अघोयत् । ततः विपक्षसहितम् अन्यपक्षाः अपि श्रीनारायणस्य समर्थनम् अकुर्वन् । १९९२ तमस्य वर्षस्य 'अगस्त'-मासस्य एकविंशतितमे (२१/८/१९९२) दिनाङ्के श्रीनारायणः भारतगणराज्यस्य उपराष्ट्रपतित्वेन दायित्वं स्वयकरोत् ।

उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । श्रीनारायणः विनम्रतया, निर्भयतया, नियमानुसारं, तटस्थतया च राज्यसभायाम् अध्यक्षत्वेन कार्यम् अकरोत् । राज्यसभायाम् अनुशासनसम्बद्धां नीतिं रचितुं तेन 'इथिक्स'-समित्याः कार्यं वेगवन्तं कारितम् । तस्याः समित्याः विषये कोऽपि अध्यक्षः बहु महत्वं नायच्छत् । परन्तु अनुशासनसल्लग्नायै तस्यै समित्यै श्रीनारायणः बहु गभिरतया कार्यम् अकरोत् । तेन तस्य बहु प्रशंसा अपि अभवत् ।

राष्ट्रपतिप्रत्याशित्वेन श्रीनारायणः[सम्पादयतु]

श्रीनारायणः यदा उपराष्ट्रपतित्वेन दायित्वं वहन् आसीत्, तदा १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के श्रीशङ्करस्य कार्यकालः पूर्णः अभवत् । शिवसेना-पक्षं विहाय सर्वपक्षाः श्रीनारायणस्य नाम राष्ट्रपतिप्रत्याशित्वेन समर्थितवन्तः । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के यः राष्ट्रपतिनिर्वाचनः अभवत्, तस्मिन् श्रीनारायणस्य विरोधित्वेन टी एन शेषन आसीत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य सप्तदशे (७/७/१९९७) दिनाङ्के ९५% मतैः श्रीनारायणस्य विजयः अभवत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्रीजे ए वर्मा श्रीनारायणं राष्ट्रपतिपदगोरवरक्षणस्य शपथम् अकारयत् ।

भारतस्वतन्त्रतायाः सुवर्णजयन्तीदिवसः राष्ट्रपतित्वेन श्रीनारायणस्य महत्वपूर्णदिवसः आसीत् । भारतस्वतन्त्रतादिवसस्य उत्सवः हर्षोल्लासेन सह आचरितः देशजनैः । भारतवासिनं सम्बोद्ध्य तत्कालिनप्रधानमन्त्री गुजराल अवदत्, “महात्मनः कथनम् आसीत् यत्, अहं तदा सन्तुष्टो भवामि, यदा भारतगणराज्यस्य सर्वोच्चपदे अर्थात् राष्ट्रपतिपदे कोऽपि दलित-जनः आरूढो भवेत् । महात्मनः इच्छा पूर्णा अभवत् इति अहं देशजनान् वक्तुम् इच्छामि । अद्य अस्माकं देशस्य सर्वोच्चपदे एकः दलित-जनः आरूढोऽस्ति । अस्माकं राष्ट्रपतिः श्रीनारायणः अत्यन्तनिर्धनपरिवारे जन्म प्रापत् । अद्य सः भारतविकासस्य मूख्यधारायाम् आगत्य देशस्य विकासे महत्वपूर्णं योगदानं कुर्वन् अस्ति” इति । भारतीयलोकतन्त्रदिवसस्य सुवर्णजयन्ती अपि श्रीनारायणस्य अध्यक्षतायामेव आचरिता देशजनैः ।

श्रीनारायणस्य राष्ट्रपतित्वेन कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल-रचितस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के वाजपेयी-रचितस्य सर्वकारस्य पतनम् अभवत् ।

केन्द्रे यः पक्षः शासनं करोति, सः राष्ट्रपतिपदस्य दूरुपयोगं करोति इति सर्वेषां ज्ञानमस्ति । राष्ट्रपतिपदारूढः व्यक्तिः देशात् अधिकः पक्षस्य कृते ऋणी भवति चेत्, पक्षस्य लाभाय देशविरोधी निर्णयकरणे अपि सङ्कोचं नानुभवति सः । यथा मृत्युदण्डस्य अपराधेः दण्डः आजीवनकारागारस्य दण्डेन सह परिर्वतनं भवति, एकस्मिन् राज्ये विपक्षस्य यः सर्वकारः शासनं करोति, तस्योपरि दोषारोपणं कृत्वा तस्मात् पक्षात् शासनं कर्षयित्वा राष्ट्रपतिशासनस्य घोषणा कर्तव्या च । अस्य कथनस्य प्रमाणं दातुम् एतादृशानि बहूनि उदाहरणानि अस्माकं भारतीयराजनैतिकेतिहासे सन्ति । परन्तु श्रीनारायणः स्वस्य कार्यकाले राष्ट्रपतिपदस्य गौरवरक्षणेन सह गौरववर्धनमपि अकरोत् । तस्य शासनकाले वारद्वयं राज्यसर्वकारात् शासनं कर्षयित्वा तस्मिन् राज्ये राष्ट्रपतिशासनस्य घोषणार्थं प्रस्तावौ आस्ताम् । १९९७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वाविंशतितमे (२२/१०/१९९७) दिनाङ्के गुजराल-सर्वकारेण कल्याणसिंह इत्यनेना उत्तरप्रदेशराज्ये चालितस्य शासनस्य विरोधं कृत्वा राष्ट्रपतिशासनस्य प्रस्तावः कृतः । ततः १९९८ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे (२५/११/१९९८) दिनाङ्के वाजपेयी-सर्वकारेण अपि राष्ट्रपतिशासनस्य प्रस्तावः कृतः आसीत् । तस्य सर्वकारेण बिहारराज्यस्य राबडीदेवी-सर्वकारस्य निरस्ततायाः याचना कृता आसीत् । परन्तु विवेकी, देशभक्तः श्रीनारायणः देशहिताय तटस्थनिर्णयम् अकरोत् । सः तयोः राज्ययोः राष्ट्रपतिशासनस्य घोषणां नाकरोत् । एवं भारतगणराज्यस्य राज्ययोः सङ्घीय(Fedralism)अधिकारस्य रक्षणम् अभवत् ।

२००२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/२००२) दिनाङ्के राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकालः पूर्णः अभवत् । “बहुनि कार्याणि मया कर्तव्यानि आसन् । परन्तु मम कार्यकालसमाप्तिकारणत्वात् अहं तानि कार्यानि न कर्तुं शक्तवान्” इति एकस्मिन् साक्षात्कारे श्रीनारायणेन उक्तम् आसीत् । तस्य साक्षात्कारस्य एकः अंशः अत्र लिखितः ।

As the President of India, I had lots of ecperiences that were full of pain and helplessness. There were occassions when I could do nothing for people and for the nation. These experiances have pained me a lot. Tey have depressed me a lot. I have agonised became of the limitations of power. Power and the helplessness surrounding it are a peculiar tragedy, in fact.

मृत्युः[सम्पादयतु]

२००५ तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे (९/११/२००५) दिनाङ्के भारतगणराज्यस्य दशमराष्ट्रपतेः श्रीनारायणस्य देहावसानम् अभवत् । पञ्चाशीतिवर्षीयस्य श्रीनारायणस्य अन्तिमसंसारः देहली-महानगरे स्थितस्य शान्तिवनस्य समीपं यमुनानद्याः तीरे अभवत् ।

बाह्यानुबन्धाः[सम्पादयतु]

http://www.indiapicks.com/stamps/Presidnts_PMs/KR_Narayanan.htm

http://www.iloveindia.com/indian-heroes/k-r-narayanan-biography.html

http://politics.jagranjunction.com/2011/08/02/former-president-k-r-narayanan-profil/

http://jmi.ac.in/cdms/tribute-to-Dr-KR-Narayanan

http://www.indohistory.com/k_r_narayanan.html

http://www.penguinbooksindia.com/en/content/kr-narayanan

http://www.mapsofindia.com/on-this-day/27th-october-1920-tenth-indian-president-k.r.-narayanan-was-born