गुजरातविद्यापीठम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुजरातविद्यापीठम्
ગુજરાત વિદ્યાપીઠ
Gujarat Vidyapith
—  अत्र गुजरातविद्यापीठस्य समग्रं दर्शनं भवति ।  —
Gvplogo.gif
स्थितिः अहमदाबाद्, गुजरातराज्यम्
स्थापनातिथिः १८-१०-१९२०
ध्येयसूत्रम् सा विद्या या विमुक्तये
ध्येयसूत्रस्य_मूलस्थानम् उपनिषद्
विद्यार्थिनः १०,००० (२०१३-१४)
जालस्थानम् www.gujaratvidyapith.org

गुजरातविद्यापीठं (गुजराती: ગુજરાત વિદ્યાપીઠ, आङ्ग्ल: Gujarat Vidyapithआङ्ग्लः) गुजरातराज्यस्य अहमदाबाद्-महानगरस्य आश्रममार्गक्षेत्रे स्थितम् ऐतिहासिकं विद्यापीठमस्ति । भारतस्वतन्त्रतान्दोलनेऽस्य विद्यापीठस्य महत् योगदानमस्ति । गुजरातराज्यस्य पुरातनतमेषु विश्वविद्यालयेषु अस्य गणना भवति ।
आङ्ग्लानां शासनस्य प्रतिकाराय [मोहनदासकरमचन्दगान्धिः|महात्मा]] अस्य विद्यापीठस्य स्थापनां चकार । अस्य स्थापनायाः मुख्योद्देशः “भारतीययूनः मानसिकबन्धनस्य मुक्तिर्भवतु” इति आसीत् । तथा आङ्ग्लैः शोषितायाः शिक्षाप्रणाल्याः मोचनेनैव भारतस्य बन्धनमुक्तिर्भवेदिति मार्गोऽपि महात्मना चिन्तितः आसीत् । 'लोर्ड मेकोले'द्वारा सूचितायाः शिक्षाप्रणाल्याः मुख्योद्देशस्तु भारतीयविद्यार्थिनः आङ्ग्लानां सेवकाः भवेयुरित्येव आसीत् । अतः 'मेकोले'द्वारा सूचितशिक्षाप्रणाल्याः विरोधाय, यूनः 'हिन्द स्वराज'-आन्दोलने स्वयोगदानञ्च ददतु इति विचिन्त्यैव विद्यपीठस्य स्थापनां कृतवान् महात्मा


इतिहासः[सम्पादयतु]

गुजरातविद्यापीठस्य स्थापनां १९२० तमे वर्षे 'अक्तूबर्'-मासस्य १८ दिनाङ्के महात्मा कृतवान् । आदौ एतत् विद्यापीठं राष्ट्रियविद्यापीठ(National University)रूपेण चलति स्म । एतत् विद्यापीठम् असहयोगान्दोलनस्य जन्मदातृ अस्ति । महात्मा आजीवनमस्य कुलपतिपदं विभूषितवान् । अत्र बालविद्यालयादारभ्य विद्यावाचस्पतिपर्यन्तं शिक्षायाः व्यवस्थास्ति । तदा शिक्षायाः मुख्योद्देशाः चारित्र्यनिर्माणं, स्वोत्कर्षेण सह राष्ट्रोत्कर्षः, संस्कृतेः रक्षणं, असहयोगान्दोलने योगदानमित्यादयः आसन् । स्वन्त्रतानन्तरम् असहयोगान्दोलने योगदानं विहाय सर्वानुद्देशान् सम्प्रत्यप्याचरन्ति विद्यार्थिनः । शिक्षया सह केचनानुशासनाः अपि सन्ति, यस्य विद्यार्थिनः पालनं कुर्वन्ति । यथा –

1 सत्याहिंसयोः पालनम् ।
2 सेवारूपेण यत् कार्यं भवति, तत् गौरवपूर्णतया फलदायकञ्च भवेत् ।
3 सर्वधर्मसमभावस्य स्वीकारः ।
4 ग्रामनिवासिभ्यः उपयोगी भवेत् तथा आभ्यासक्रमो भवेत् ।
5 मातृभाषामाध्यमेनैव शिक्षणं भवेत् ।

गुजरातविद्यापीठं स्वस्य अनुशासनत्वात्, उज्वलभूतकालत्वाच्च प्रसिद्धिं प्राप्तवदस्ति । विद्यापीठस्य शिक्षणकार्यं वारद्वयं स्थगितमासीत् । यदा १९३०-३२ वर्षे 'नागरिक-असहयोगान्दोलनं' जातं, तदा शिक्षणकार्यं स्थगितमासीत् । पुनः १९४२ तमे वर्षे 'भारत छोडो' आन्दोलने शिक्षकाः, विद्यार्थिनश्च स्वयोगदानं दत्तवन्तः । तदा अनेकाः विद्यार्थिनः कारागारे बन्धिताः अभवन् ।

विद्यापीठस्य नियमाः (शिक्षकविद्यार्थिभ्याम्)[सम्पादयतु]

1 अस्पृष्यतायाः विरोधः ।
2 नित्यं तन्तुकरणयन्त्रेण तन्तुनिर्माणम् ।
3 आजीवनं खादीवस्त्रधारणम् ।
4 हिन्दीभाषायाः अनिवार्यरूपेण अभ्यासः ।
5 मातृभाषायाः शिक्षणं साक्षात्पद्धत्या भवेत् ।
6 अभ्यासक्रमस्य यथा महत्वं भवति, तथा अभ्यासेतरप्रवृत्तीनां महत्वमपि भवेत् ।
7 उद्योगशिक्षणस्य शिक्षायां समावेशो भवेत् ।
8 शिक्षायां ग्रामीणशिक्षणस्य समावेशो भवेत् ।
9 आत्मनिर्भरतया नित्यनैमित्तिककार्याणि भवेयुः (स्वस्य कार्यं स्वयमेव करणीयम्) ।

परिसरः[सम्पादयतु]

Gvp.jpg

गुजरातविद्यापीठस्य मुख्यद्वारं प्रस्तरैः निर्मितम् अस्ति । विद्यापीठद्वारस्य दक्षिणतः ग्रन्थालयः, वामतः सङ्गणकविभागश्चास्ति । ग्रन्थालयस्य मार्गे 'ऊर्जाप्रकल्प'प्रदर्शनी अस्ति । अस्यां प्रदर्शन्यां सूर्यकिरणैः, मानवशक्त्या च चलन्ति बहूनि साधनानि स्थापितानि सन्ति । अग्रे सेवकनिवासः, कार्यालयः चास्ति । कार्यालयस्य पृष्ठतः अल्पाहारगृहं, दक्षिणतः अतिथिगृहञ्चास्ति । कार्यालयस्य पुरतः अहिंसाशोधभवनमस्ति । अहिंसाशोधभवने 'अहिंसा' इति विषयं मुख्यरूपेण स्वीकृत्य शोधकार्यं भवति । अहिंसाशोधभवनस्य पृष्ठतः महादेव देसाई-महाविद्यालयः अस्ति । अत्रैव मुख्यरूपेण शिक्षणकार्यं चलति । अत्र प्रार्थनाकक्षे स्थित्वैव विद्यार्थिनः प्रार्थनां कुर्वन्ति । प्रार्थनायाः समयः ११ वादनतः १२ वादनपर्यन्तं भवति । प्रार्थनायाम् आरम्भे संस्कृतश्लोकानां गायनं भवति । ततः तन्तुकरणयन्त्रेण तन्तुनिर्माणं चलति । १२ वादनतः ६ वादनपर्यन्तं शिक्षणकार्यं चलति । महाविद्यालयस्य पुरतः हृदयाह्लादकम् उद्यानम् अस्ति, तथा च आदिवासिशोधभवनम् अस्ति । आदिवासिशोधभवने आदिवासिसंस्कृतेः रक्षणं भवतु इत्युद्देशेन 'आदिवासिसंस्कृतिः' इति विषये संशोधनं भवति । अत्र आदिवासिनः कथं निवसन्ति ?, कथं कार्यं कुर्वन्ति ?, कला-नृत्य-सङ्गीत-वाद्यादीनां तेषां जीवने किं स्थानमस्ति ? इत्यादिविषयान् प्रकटयन्ती प्रदर्शनी अस्ति । अस्य भवनस्य वामतः ‘युसिक’भवनमस्ति । अत्र सङ्गणकविभागसदृशं सङ्गणकस्याध्ययनं भवति । परन्तु विषयाः भिन्नाः भवन्ति । अत्र मुख्यरूपेण यन्त्रांशस्य (Hardware), जालकर्मणः (Network) चाध्ययनं भवति । अस्य भवनस्य पुरतः गोष्ठीभवनं (Conference Hall), वामतः विनयमन्दिरविद्यालयश्चास्ति । विनयमन्दिरे बालमन्दिरात् १२ कक्षापर्यन्तं शिक्षणकार्यं चलति । अत्र 'बुनियादि'शिक्षणप्रणाल्या शिक्षणकार्यं भवति । विनयमन्दिरस्य पुरतः व्यायामशाला अस्ति । अत्र छात्रेभ्यः क्रीडा-व्यायामसाधनानि सन्ति । व्यायामशालायाः दक्षिणतः सेवकनिवासः, वामतः स्नातकछात्रालयः, पृष्ठतः स्नानागारश्चास्ति । स्नानागारस्य पृष्ठे क्रीडाङ्गणमस्ति । विद्यापीठे पठनीयं चेत् छात्रालयावासः अनिवार्यः अस्ति । अतः अत्र ४५०-५०० विद्यार्थीनां निवासाय विशालः छात्रावासः अस्ति । अत्र महादेव देसाई-महाविद्यालये पठन्तः विद्यार्थिनः निवसन्ति । स्नातकछात्रालयस्य पृष्ठे विनयमन्दिरविद्यालयस्य छात्राणां छात्रावासः अस्ति । विनयमन्दिरछात्रावासस्य पुरतः शिक्षाशास्त्रि(B.Ed)छात्रावासः अस्ति । शिक्षाशास्त्रिछात्रावासस्य दक्षिणतः शिक्षाशास्त्रिमहाविद्यालयः अस्ति । अस्मिन् महाविद्यालये शिक्षाशास्त्रिणः संस्कृत-हिन्दी-गुजरात्या-ङ्ग्ल-भूगोलादीनां विषयाणाम् अध्ययनं भवति । अस्य पृष्ठतः महिलाछात्रावासः अस्ति । विद्यापीठेऽस्मिन् २७ विभागाः सन्ति । गुजरातविद्यापीठपरिसरे सहस्राधिकाः वृक्षाः, त्रयः ‘खम्भाती’कूपाः (ખંભાતી કૂવા), त्रीणि उद्यानानि च सन्ति । यद्यपि विद्यापीठं नगरस्य केन्द्रभागेऽस्ति, मुख्यमार्गेऽपि अस्ति, तथापि परिसरे शान्तिदायकं वातावरणं भवति ।

ग्रन्थालयः[सम्पादयतु]

अत्रस्थः ग्रन्थालयः गुजरातराज्यस्य बृहत्तमः ग्रन्थालयः अस्ति । अस्य ग्रन्थालयस्य स्थापनां १९२० तमे वर्षे महात्मा एव कृतवान् । अत्र ६,०१,७३० पुस्तकानि, ३८२ मासिकपत्रिकाणि, ३८ समाचारपत्राणि, ६९१ हस्तप्रतयः च सन्ति । ग्रन्थालये पाठकानां सङ्ख्या ४०,००० अधिका भवेत् । ग्रन्थालये मुद्रणाधिकार(Copyright)विभागः अस्ति, यत्र १,१५,००० अधिकानि पुस्तकानि सन्ति । ग्रन्थालये सप्त भिन्नविभागाः सन्ति, यथा- मुख्यपुस्तकालय-सन्दर्भग्रन्थ-मुद्रणाधिकार-गान्धिविचार-मासिकपत्रिका-मुख्यवाचनकक्ष-बालविभागाः इति । ग्रन्थालयः वर्षे ३६४ दिनानि पाठकेभ्यः कार्यरतः भवति । केवलं चैत्रमासस्य प्रतिपदायाम् अवकाशो भवति । पाठकाः प्रातः ८ वादनतः सायं ७ वादनपर्यन्तं ग्रन्थालये पठितुं शक्नुवन्ति ।

कुलपतयः[सम्पादयतु]

गुजरातविद्यापीठस्य अन्यकेन्द्राणि[सम्पादयतु]

अहमदाबाद्-महानगरे[सम्पादयतु]

महात्मागान्धिः परिसरः, कोचरब आश्रमः, शाहिबागक्षेत्रम्, मेमनगरम्

गान्धिनगरे[सम्पादयतु]

सादरा, रान्धेजा

खेडामण्डले[सम्पादयतु]

देथाली, भालद, बमङ्गाम

आणन्दमण्डले[सम्पादयतु]

बोचासण, भलेल

वल्साडमण्डले[सम्पादयतु]

अम्भेटी

एतेषु केन्द्रेषु गान्धिविचारधारानुसारं शिक्षणकार्यं चलति । एतेषां मुख्यकेन्द्रं गुजरातविद्यापीठम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

http://www.gujaratvidyapith.org/

https://www.google.co.in/maps/place/Gujarat+Vidyapith/@23.043681,72.569179,17z/data=!3m1!4b1!4m2!3m1!1s0x395e8489f898d735:0x1c3f6ad422502f92

"http://sa.wikipedia.org/w/index.php?title=गुजरातविद्यापीठम्&oldid=268970" इत्यस्माद् पुनः प्राप्तिः