गुरुराव देशपाण्डे
गुरुरावदेशपाण्डे | |
---|---|
व्यैक्तिकतथ्यानि | |
मूलतः | भारतीयः |
सङ्गीतविद्या | हिन्दुस्तानीशास्त्रीयसङ्गीतम् |
वृत्तिः | गायकः |
गुरुरावदेशपाण्डे (Gururao Deshpande) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः गायकः। गुरुरावः १८८९ तमे वर्षे गौरवान्विते देशपाण्डेकुटुम्बे अजायत । तस्य पिता नारायणरावः माता गङ्गाबाई । मातापित्रोः कलासाहित्यादिषु विशेषासक्तिः आसीत् । नारायणरावः कर्णाटकसङ्गीतज्ञः आसीत् । किन्तु पुत्रः न्यायवादी भवेत् इति तस्य आशयः आसीत् । किन्तु गुरुरावः हिन्दुस्तानीसङ्गीतात् नितराम् आसक्तः आसीत् इत्यतः पितुः आशयः पूर्णः न जातः । गुरुरावः अपूर्वेण मधुरध्वनिना अनुगृहीतः आसीत् । हिन्दुस्तानीसङ्गीते तस्मिन् विद्यमानं प्रीत्यतिशयम् अभिज्ञातवन्तौ मातापितरौ तस्य सङ्गीताभ्यासाय योग्यां व्यवस्थाम् अकल्पयताम् । दशवर्षीयं पुत्रं सङ्गीताध्ययनाय श्री दत्तोपन्तजोषी, श्री टि के पित्रे इत्यनयोः प्रसिद्धसङ्गीतज्ञयोः समीपं प्रेषितवन्तौ । १९१९ तमे वर्षे गुरुरावः सङ्गीतस्य गभीरं ज्ञानं प्राप्तुं सुप्रसिद्धस्य ग्वालियर्-घरानातज्ञस्य पण्डितस्य रामकृष्ण बुवा वझे वर्यस्य समीपं बेळगावनगरं प्रति अगच्छत् । ग्वालियर्-गायकि-विषये समीचीनं मूलज्ञानं प्राप्तवान् गुरुरावदेशपाण्डे विविधानाम् उस्ताद्-नामकानां सङ्गीतज्ञानां सङ्गीतं श्रोतुमेव उत्तरदिशि दीर्घप्रवासम् अकरोत् । श्रेष्ठानां सङ्गीतस्य श्रवणात् तेन अपूर्वः अनुभवः गभीरं ज्ञानं च सम्पादितम् । उस्ताद् अब्दुल् करीम् खान्, उस्ताद् फियाझ् खान्, उस्ताद् मञ्जि खान्, श्रीमती केसर्बाई केर्कर् - इत्येतेषाम् आदर्शयुतं जीवनम्, शास्त्रीयसङ्गीतविषयिणी बद्धादरता च तस्मिन् महान्तं परिणामम् अजनयत् ।
बाल्यजीवनम्
[सम्पादयतु]कदाचित् कोल्हापुरे प्रसिद्धस्य सरोदिया उस्ताद् हफिझ् अलि खानस्य सङ्गीतसभा, जैपुर-अत्रौलि-घरानायाः पिता इति ख्यातस्य उस्ताद् अल्लादिया खानस्य गृहे आयोजिता आसीत् । तद्दिने तस्य आगमने विलम्बः भविष्यति इति ज्ञातम् । तदा अल्लादिया खान् साहेबस्य पुत्रः शिष्यश्च उस्ताद् मञ्जिखानः तत्र विद्यमानं युवगायकं 'तस्य आगमनपर्यन्तं भवान् गायतु' इति अवदत् । तत्र उपस्थितानां सङ्गीतदिग्गजानां पुरतः गानं न सामान्यकर्म । किन्तु युवगायकः अग्रे आगत्य नटबिहागरागालपनेन सर्वेषां मनः अतोषयत् । तस्य गानात् उस्ताद् अल्लादियाखानः नितरां प्रभावितः जातः । सः युवगायकम् उद्दिश्य अवदत् - 'पुत्र, भवतः गानम् अत्युत्तममस्ति । गायतु, गायतु' इति । ततः सः पुत्रम् उद्दिश्य अपृच्छत् - 'एषः कस्य शिष्यः ?' इति । पुत्रः मञ्जिखानः अवदत् - 'एषः वाझे बुवाशिष्यः अस्ति' इति । खानसाहेबः अपृच्छत् - 'किन्तु पुत्र, एषः अस्माकं घरानायाः गानं कथं गायन् अस्ति ?' इति । मञ्जिखानः अवदत् - 'एषः मां गुरुं मन्यते' इति । सन्तुष्टः अल्लादियाखानः अवदत् - 'एतं शीघ्रं शिक्षकं करोतु' इति । अयं युवगायकः आसीत् गानाचार्यः गुरुरावदेशपाण्डे ।
गुरुरावस्य गानम्
[सम्पादयतु]निर्दिष्टस्य घरानामात्रस्य गानस्य सम्प्रदायः गुरुरावेण परित्यक्तः । सः आसीत् अत्युत्तमः सङ्गीतज्ञः । तदीयं सङ्गीतं बहूनां घराणानां सङ्गमरूपम् आसीत् । सीमातीतस्थितिं प्रति नयनयोग्यम् आसीत् । तदीयं सङ्गीतं सर्वदा मनोहारि भवति स्म । साधारणाः जनाः, विमर्शकाः, सङ्गीतज्ञाश्च सर्वेऽपि तस्य सङ्गीतस्य श्लाघनं कुर्वन्ति स्म । आलापः, तान्, लय, लयकारी, कृतिः वा स्यात् सः तस्य पूर्णाभिव्यञ्जने समर्थः आसीत् । ग्वालियर्-घरानाशैल्यां कृतभूरिपरिश्रमः सः सर्वासां घरानाशैलीनां सौन्दर्यावगमे अत्युत्सुकः आसीत् । किराणा-घराणालापे सुरे 'सुर्', सुरे 'रस्', विविधरागाणां कृते योग्यस्य 'लय'स्य उपयोगः, जैपुरघरानायाम् अप्रसिद्धानां रागाणां निरर्गलप्रस्तुतिः, आग्राघरानायां धाङ्ग् (शैली), 'नाम्-ताम्'आलापः, 'चीझ् भाव्' (कृतिः)उपस्थापनम् इत्यादीनि तदीयानि वैशिष्ट्यानि । गुरुरावः मान्त्रिकगायकः आसीत् यः प्रत्येकस्मिन् बिन्दौ सिन्धोः समग्रतायाः आनयने, विविधघराणानां वयनेन नूतनस्य एकीभावस्य आविर्भवने च सुनिपुणः सः । अत एव परिपूर्णगायकः इति सर्वैः अभिज्ञातः आसीत् । तस्य सङ्गीतं सरलमाधुर्येण श्रव्यमनोहरम् आसीत् । अत्युत्कृष्टस्य अपूर्वरीत्या परिष्कृतस्य आशुप्रतिभायाश्च संयोगरूपम् आसीत् तदीयं सङ्गीतम् । अशीत्यधिके आयुषि अपि तस्य शक्तिः उत्साहश्च अनुकरणयोग्यौ आस्ताम् । रागाणां नूतनविस्तारे सर्जनेन तेषाम् अपूर्वतायाः पवित्रतायाः समचित्ततायाश्च दर्शनं कारयति स्म सः ।
गुरुरावः साम्प्रदायिकगायकत्वेन अपि अत्यन्तं यशस्वी, सर्वघरानापद्धतेः तद्विद्यः सन् स्वीयं गानं सम्पूर्णतया ससन्तोषम् अनुभवन् अन्यानपि तोषयति स्म । अतः एव तस्य सङ्गीतं गुरुराव-घराना इत्येव प्रसिद्धं जातम् । अनुपमगायकाः अपि उत्कृष्टसङ्गीतस्य विषये कथनावसरे अस्य उल्लेखं कुर्वन्ति स्म । अद्यत्वे अपि उपलभ्यमानं तदीयं यमन्-बसन्त्-खम्बवति- कन्नडनाट्यसङ्गीतादीनां ध्वनिमुद्रणम् इमम् अंशं सप्रमाणं प्रतिपादयन्ति । गुरुरावः ठुम्रि-टप्प-इत्यादिभिः युक्तस्य लघुशास्त्रीयसङ्गीतस्य अपि भावपूर्णगायकः आसीत् । ठुम्रिराजः इति ख्यातात् मौझुद्दीन् खान् साहिब्वर्यात् तेन प्रेरणा प्राप्ता आसीत् । मराठी-कन्नडनाट्यसङ्गीतस्य तदीयं गानम् अत्यपूर्वम् आसीत् । तेन भजन-अभङ्ग-कन्नडभक्तिगीतादीनि अत्यन्तं भक्त्या गीयन्ते स्म । पितुः सकाशात् तेन कर्णाटकशैली अधिगता आसीत् । कन्नडभक्तिगीतानि तेन कर्णाटकशैल्या गीयन्ते स्म । इदं बहु प्रसिद्धिं प्राप्नोत् । तदीयं पोगदिरेलो रङ्ग इत्येतत् पुरन्दरदासेन विरचितं गीतम् अत्युत्पन्नकर्मत्वेन प्रसिद्धम् । सार्वजनिककार्यक्रमाणां प्रस्तुतीकरणाय गुरुरावदेशपाण्डेवर्येण आभारतम् अटितम् । सम्प्रतं पाकिस्थानं प्रति अपि तेन गतमासीत् सङ्गीतकार्यक्रमस्य प्रस्तुत्यै । तेषु दिनेषु कोऽपि प्रमुखः सङ्गीतकार्यक्रमः गुरुरावस्य सङ्गीतकार्यक्रमरहितः न भवति स्म । यदा नई देहलीस्थेन भारतीय-आकाशवाणीकेन्द्रेण कर्णाटकस्य धारवाडनगरे प्रसारकेन्द्रम् आरब्धव्यम् इति निश्चितं तदा सङ्गीतनिर्मापकरूपेण कर्तव्यनिर्वहणाय कस्यचन सुशिक्षितस्य सङ्गीतज्ञस्य आवश्यकता आसीत् । गुरुरावस्य सामर्थ्यम् अवगत्य तं तस्मिन् पदे नियोजितवन्तः । सः षोडश वर्षाणि यावत् तत् उत्तरदायित्वं समीचीनतया निरवहत् ।
प्राप्ताः प्रशस्तयः
[सम्पादयतु]भारतीयसङ्गीतपरम्परायां, गुरुरावदेशपाण्डेवर्यस्य कालपर्यन्तमपि सङ्गीतज्ञानां प्रशस्ति-सम्माननादीनां परिकल्पना नितरां भिन्ना एव आसीत् । उत्तमगुरोः प्राप्तिः, 'मेह्नत्/तालीम्', गुरुजनानां पुरतः गुणीनां पुरतः गानं प्रस्तूय तेभ्यः साधुवादप्राप्तिः एव महत् सम्माननम् इति परिगण्यते स्म । स्वस्य गुरोः पण्डितस्य रामकृष्णबुवावझेवर्यस्य पुरतः, उस्ताद् अल्लादिय खान्, मञ्जि खान् साहेब्, केसर्बाई केर्कार्, अब्दुल् करीम् खान् साहेब् इत्यादीनां श्रेष्ठगायकानां पुरतः गानावसरः एव महत् सम्माननम् इति भावयति स्म गुरुरावः । विनयशीलः सः सर्वविधप्रसिद्धितः दूरं तिष्ठति स्म । महात्मनः सवायी गन्धर्वस्य २४ पुण्यस्मरणावसरे कर्णाटकस्थे कुन्दगोलप्रदेशे सम्पन्ने सङ्गीतोत्सवे पण्डितः गुरुरावः गायनाचार्यः इत्येतेन बिरुदा सम्मानितः जातः । अद्यत्वे तेनैव नाम्ना सः प्रसिद्धः अस्ति । १९७१ तमे वर्षे सः सङ्गीतनृत्याकादमीद्वारा सम्मानितः जातः । स्वीयं सङ्गीतज्ञानं वाणिज्यलाभाय तेन कदापि न उपयुक्तम् ।
षष्ट्यब्दसमारोहः
[सम्पादयतु]देशस्य प्रसिद्धतमेषु गायकेषु अन्यतमः सङ्गीतसम्राट् पण्डितः भीमसेनजोषीवर्यः बाल्ये गुरुराववर्यस्य सङ्गीतस्य श्रवणावसरात् कदापि च्युतः न भवति स्म । स्वस्य गदगप्रदेशात् दूरे कार्यक्रमः भवति चेदपि अवश्यं तत्र उपस्थितः भवति स्म । समीपात् श्रोतुम् अवसरः लभ्यते इत्यतः एव सह सहगानस्य अवसरम् अङ्गीकरोति स्म । गुरुरावदेशपाण्डेवर्येण हिन्दुस्तानीसङ्गीतक्षेत्राय कृतस्य अपूर्वस्य योगदानस्य गौरवसूचनाय भीमसेनजोषीवर्येण १९६२ तमस्य वर्षस्य एप्रिल्मासस्य १४ दिनाङ्के गुरुरावदेशपाण्डेवर्यस्य 'षष्ट्यब्दसमारोहः' आचरितः महाराष्ट्रे पुणेनगरे । तत्र बहवः श्रेष्ठाः कलाविदः सङ्गीतकार्यक्रमं प्रस्तुतवन्तः । तस्मिन् कार्यक्रमे सम्मानितातिथिरूपेण उपस्थितः ज्येष्ठः गायकः कृष्णराववर्यः गुरुरावदेशपाण्डेवर्यम् उद्दिश्य अत्युत्कृष्टैः मौक्तिकैः युक्तः इति अवर्णयत् ।
व्यक्तित्वम्
[सम्पादयतु]तदीयं व्यक्तित्वं नितरां प्रभावयुक्तम् आसीत् । सर्ववयस्काः विद्वज्जनाः गुणिनः च अन्तःप्रेरणया एव तं नितराम् आद्रियन्ते स्म । तदीयं शिक्षणं कौटुम्बिकपृष्ठभूमिका च जीवने बहुमुखव्यक्तित्वसम्पादने सहाकरोत् । अननुशासनस्य दर्शनेन यद्यपि सः कुपितः भवति स्म तथापि आसीत् सहृदयी मृदुभाषी च । तदीयसमकालीनाः सहोद्योगिनश्च तं सरलं, करुणापूर्णम्, अन्येषां भावविषये सूक्ष्मज्ञं च मन्यन्ते । समयपालनं स्वच्छता च तस्य सहजस्वभावः आसीत् । सः कदापि अननुशासनं न सहते स्म । 'सः स्वयं घटीरूपः' इति वदति स्म भीमसेनजोषी यच्च वचनं तस्य समयपालनविषये भूरि भाषते । गुरुरावः शिक्षणतज्ज्ञः आसीत् । शिक्षणं मानवं सुसंस्कृतं करोति, सुसंस्कृतः कलाविद् एव स्वस्य सहोद्योगकलाविद्भिः, श्रोतृभिः, आयोजकैः, सार्वजनिकैश्च समीचीनं व्यवहर्तुम् अर्हति । अतः एव गुरुरावः पण्डितस्य विनायकतोरविवर्यस्य सङ्गीताभ्यासेन सह शैक्षिकाभ्यासस्य समापनविषये आग्रहवान् आसीत् । गुरुरावस्य कलाविदः पुत्राः सर्वे अपि अत्युत्तमं शैक्षणिकार्हतां सम्पादितवन्तः सन्ति । गुरुरावस्य सङ्गीते सार्वलौकिकप्रभावः दृश्यते स्म । तस्य प्रेरणास्रोतः आसीत् परमधार्मिकः तत्त्वज्ञानी श्री गुरुदेवः रानडेवर्यः । तस्य तत्त्वानाम् अभिव्यक्तिरूपा एव आसीत् गुरुरावस्य जीवनशैली सरलता च । गुरुदेवस्य राम्भवुरानडेवर्यस्य प्रवचनानि श्रोतुं नियतरूपेण गुरुरावः गच्छति स्म । स्वस्य गन्धर्वगानेन स्वीयाध्यात्मगुरोः मनः सन्तोषयति स्म गुरुरावः । नित्यं तेन ध्यानं क्रियते स्म, 'ज्ञानेश्वर्याः' 'दासबोधस्य' पारायणं च क्रियते स्म ।
गुरुरावः साहित्यञ्च
[सम्पादयतु]सः कन्नडभाषाम् आङ्ग्लभाषां च समीचीनतया अधीतवान् आसीत् इत्यतः भाषाद्वयस्य साहित्ये अपि तस्य विशेषासक्तिः आसीत् । कुमारव्यासभारतम् लक्ष्मीशभारतम् इत्येतयोः कन्नडसाहित्यस्य प्राचीनग्रन्थयोः आमूलाध्ययनं तेन कृतमासीत् । हिन्दुस्तानीसङ्गीतस्य गमकशैल्या अनयोः कृतयोः वाचनं तस्य एव नूतनः परिक्रमः । अस्य प्रेरणा तेन भरतबिन्दूराववर्यात् प्राप्तं यस्य गुरुरावः महान् अभिमानी आसीत् । कन्नडसाहित्याय तदीयं महत् योगदानं नाम उत्कृष्टं गमकवाचनम् । कुमारव्यासस्य लक्ष्मीशभारतस्य सुदीर्घप्रवचनानि बहु जनप्रियाणि आसन् । गमकवाचनाय तेन आकर्णाटकम् अटितम् । तदा व्याख्यानदानाय प्रसिद्धः लेखकः श्री बेटगेरे कृष्णशर्मा तेन सह सर्वत्र अगच्छत् । कर्णाटकस्य हुब्बल्लीनगरे प्रवृत्ते गमकसम्मेलने गुरुरावः गमकगौरीशङ्करः इत्येतेन बिरुदा सम्मानितः । ज्ञानपीठप्रशस्तिविजेता डा द रा बेन्द्रेवर्यः गुरुराववर्यस्य आत्मीयेषु अन्यतमः आसीत् । उभौ अपि कन्नडसाहित्यस्य विविधेषु विषयेषु सुदीर्घां चर्चां कुरुतः आस्ताम् । आङ्ग्लसाहित्ये अपि गुरुरावः कृतभूरिपरिश्रमः आसीत् । 'इण्टर् आर्ट्स्' इत्येतां तदानीन्तनकालस्य महत्त्वपूर्णां परीक्षाम् उत्तीर्णः गुरुरावः, वर्ड्स् वर्त्, मिल्टन्, शेक्स्पियर् इत्यादीनां प्रसिद्ध-आङ्ग्लकवीनां महान् अभिमानी आसीत् । तेषां काव्यानि तेन गभीरतया पठितानि आसन् । बहुधा तानि तेन उल्लिख्यन्ते स्म । गुरुरावेण ज्यौतिषम् अधीतम् आसीत्, स्वसमीपे आगतानां दुःखीनां साहाय्यं ज्योतिष्यसहाय्येन प्रवृत्तिरूपेण कदाचित् तेन क्रियते स्म ।
शिष्याः
[सम्पादयतु]- पण्डितः नारायणराव मजुम्दारः
- पण्डितः विनायक मल्हार्राव् तोरवी
- श्रीमती लता नाडिगिर्
- श्री बि एन् लोङ्खडि
- श्रीमती मालादीक्षित्
- श्रीमती विजया लिङ्गसूर्
- श्री धीरेन्द्र हावनूर्
- श्रीमती सुनन्दा कडपा
- श्रीमती रत्नप्रभा जोशी
- श्री चिदम्बर तोरवी
आधारः
[सम्पादयतु]http://www.gururaodeshpandesangeetsabha.com Archived २०१३-०६-०६ at the Wayback Machine