गुलजारीलाल नन्दा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गुल्जारीलालनन्दा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुलजारीलाल नन्दा
भारतस्य प्रधानमन्त्री
कार्यालये
11 January 1966 – 24 January 1966
राष्ट्रपतिः Sarvepalli Radhakrishnan
पूर्वगमः Lal Bahadur Shastri
पादानुध्यातः Indira Gandhi
कार्यालये
27 May 1964 – 9 June 1964
राष्ट्रपतिः Sarvepalli Radhakrishnan
पूर्वगमः Jawaharlal Nehru
पादानुध्यातः Lal Bahadur Shastri
Minister of Home Affairs
कार्यालये
29 August 1963 – 14 November 1966
प्रधानमन्त्री Jawaharlal Nehru
Lal Bahadur Shastri
Indira Gandhi
पूर्वगमः Lal Bahadur Shastri
पादानुध्यातः Yashwantrao Chavan
व्यक्तिगत विचाराः
जननम् 4 July 1898(1898-07-04)
Sialkot, Punjab, British Raj
(now in Pakistan)
मरणम् 15 January 1998(1998-01-15) (aged 99)
New Delhi
राजनैतिकपक्षः Indian National Congress
मुख्यशिक्षणम् Allahabad University

जन्म[सम्पादयतु]

गुल्जारिलाल् नन्दा क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्के पञ्जाब्राज्यस्य सियाल्कोट्इत्यत्र जन्म प्राप्तवान् । एतस्य पिता कश्चन सामान्यशिक्षकः । अलहाबाद् विश्वविद्यालये अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् [१]। एतेन सह न्यायशास्त्रस्य परीक्षाम् अपि समापितवान् ।

स्वातन्त्र्यान्दोलने भागः[सम्पादयतु]

गान्धिमहोदयस्य प्रभावेन असहकारान्दोलने भागं गृहितवान् । किन्तु आन्दोलनं यदा हिंसा रूपं प्रति परिवर्तितं सत् स्थगितम् अभवत्, तदा गुल्जारिलाल् नन्दः अर्थशास्त्राध्यापकवृत्तिम् आरब्ध्वान् । उद्यमकार्मिकाणां समस्याविषये एतस्य अधिका आसक्तिः आसीत् । अतः १९२२ तमे वर्षे न्याषनल् टेक्सटाइल्स् असोसियेषन् इत्यस्य सङ्घस्य कार्यदर्शी गुल्जारिलाल् नन्द्ः अभवत् ।

राजकीयप्रवेशः[सम्पादयतु]

१९३७ तमे वर्षे मुम्बयीराज्यसभा सदस्यः अभवत् । तदा १९३७ तः १९३९ पर्यन्तं कार्मिकराजदेयविभागयोः संसदीयकार्यदर्शिरूपेण सेवां कृतवान् । अनन्तरं १९४६ तः १९५० पर्यन्तं मुम्बयीसर्वकारस्य कार्मिकसचिवः भूत्वा कर्मकराणां समस्यानां विषये शासनरचने यशस्वी अभवत् । गुल्जरिलाल् नन्दः कस्तूरबा मेमोरियल् न्यासस्य अध्यक्षः, हिन्दूस्थान मज्दूर् सेवकसङ्घस्य कार्यदर्शी, तथैव मुम्बयीगृहमण्डल्याः अध्यक्षः, राष्ट्रियसमित्याः सदस्यः च भूत्वा सेवां कृतवान् । १९४७ तमे वर्षे अन्ताराष्ट्रियकार्मिकसमावेशे भारतस्य प्रधानी भूत्वा भागं गृहितवान् । एषः समावेशः लण्डन्- स्वीडन्- फ़्रान्स्- बेल्जियम्- इन्ग्लेण्ड्देशानां कर्मकराणां वसतिसमस्यायाः अध्ययनं नियोजनं च अकरोत् ।

विशिष्टकार्यक्रमेषु भागः[सम्पादयतु]

१९५० तमे वर्षस्य योजना समितेः उपाध्यक्षः अभवत् । अनन्तरं केन्द्र सर्वकारः एतं योजनासचिवः इति न्ययोजयत् । एतेन कार्येण सह जलविद्युत्विभागयोः दायित्वम् अपि निरूढवान् । १९५२ तमे वर्षे निर्वाचने जयं प्राप्तवान् एषः पूर्वतनविभागे एव कार्यं कृतवान् । १९५५ तमे वर्षे सिङ्गापूरे आयोजिते योजनासमीतेः समावेशे तथैव १९५९ तमे वर्षे जिनीवायाम् आयोजिते अन्ताराष्ट्रियकार्मिकाणां सभाम् अपि एषः भारतस्य अधिकृतप्रतिनिधिरूपेण भागं गृहितवान् । १९५७ तमे वर्षे प्रवृत्ते निर्वचने गुल्जारिलाल् नन्दः जयं प्राप्तवान् । तदा कार्मिक-उद्योग- योजनाविभागानां केन्द्रसचिवः इति नियुक्तः । अनन्तरं योजनायोगस्य उपाध्यक्षः अभवत् । १९६२ तमे वर्षे पुनः गुजरातस्य समरकण्डतः निर्वाचितः एषः समाजवादिनीत्या सर्वकारस्य अवधानम् आकृष्टवान् । तस्मिन् एव वर्षे कार्मिक-उद्योगसचिवः भूत्वा एषः १९६३ तः १९६६ पर्यन्तं गृहसचिवः अभवन् । श्रीमत्याः इन्दिरागान्ध्याः सचिवसम्पुटे गृहसचिवः एषः नन्दः १९७० तमे वर्षे किञ्चित् कालं यावत् रेल्वेसचिवः अपि अभवत् । तदा प्रयाणिकानां कृते अनेकव्यवस्थाः कृतवान् । रेल्वेविभागः स्वसामर्थ्यं प्राप्नोत् । व्ययं न्यूनं कृतवान् । निरुद्योगं निवारयितुं परिश्रमं कृतवान् । धूमशकटयाने तस्य निस्थानके च पानजलस्य तथैव शौचालयस्य व्यवस्थां कृतवान् ।

तात्कालिकप्रधानमन्त्रित्वम्[सम्पादयतु]

१९७२ तमे वर्षे राजकीयनिवृत्तिं स्वीकृतवान् । अनन्तरं भाटकगृहे वासं कृतवान् किन्तु भाटकं दातुम् अपि तस्य समीपे धनं न आसीत् । तस्य आदायस्य मूलं किमपि न आसीत् । मित्राणाम् आग्रहेण स्वातन्त्र्ययोद्धानां निवृत्तिवेतननिमित्तम् आवेदनपत्रं दत्वा मासे त्रिशतरूप्यकाणि स्वीकरोति स्म । श्रेष्ठः गान्धिवादी एषः तात्कालिकप्रधानमन्त्रिरूपेण कार्यं निरूढवान् । तात्कालिकमन्त्री चेदपि तस्य निष्ठा श्रद्धा अपूर्वा आसीत् । १९६४तमवर्षस्य मे मासस्य१७ दिनाङ्कतः षोडशदिनानि (नेहरू मरणानन्तरं)यावत् तथा १९६६तमवर्षस्य जनवरीमासस्य ११ दिनाङ्कतः चतुर्दशदिनानि यावत् नन्दः प्रधानमन्त्री आसीत् ।[२]

जीवने आदर्शः[सम्पादयतु]

१९७० तमे वर्षे स्वातन्त्र्योत्सवस्य दिने भारतदेशः एतं भारतरत्नपुरस्कारेण सम्माननं करणीयम् इति चिन्तनम् अकरोत् । किन्तु एषः अनारोग्यस्य कारणेन प्रशस्तिं स्वीकर्तुं न आगतवान् । तदा सह अहमदाबादे पुत्र्याः गृहे आसीत् । १९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्के गुल्जारिलाल् नन्दा शतवर्षाणां जीवनं समाप्य दिवङ्गतः ।

टिप्पणी[सम्पादयतु]

  1. "" Internet Archive of Proud Past Alumni"". Retrieved 27 अप्रैल 2014. 
  2. "Famous Indians". Retrieved 27 अप्रैल 2014. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गुलजारीलाल_नन्दा&oldid=285041" इत्यस्माद् पुनः प्राप्तिः