जे.आर्.डि.टाटा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
जहाङ्गीर् रतन्जि दादाभायी टाटा
जननम् क्रि.श. १९२९तमवर्षस्य जुलै मासस्य २९तमदिनम्।
प्यारिस्, फ्रांस
मरणम् क्रि.श. १९९३तमवर्षस्य नवेम्बर्मासस्य २९तमदिनम्।
जेनिवा, स्विट्झर्ल्याण्ड्
राष्ट्रियता भारतीयः
वृत्तिः महोद्यमी
संस्था टाटासमवायसमूहः
मातपितरौ सूनी(माता)
आर्.डि.टाटा (पिता)

जहाङ्गीर् रतन्जि दादाभायी टाटा (जीवितकालः क्रि.श. १९०४तमवर्षस्य जुलै मासस्य २९दिनाङ्कतः क्रि.श. १९९३तमवर्षस्य नवेम्बर् २९दिनाङ्कपर्यन्तम्) दीर्घं नामाङ्कितः दीर्घकीर्तिमान् जे.आर्.डि.टाटा इत्येव प्रथितः भारतस्य प्रसिद्धः यन्त्रोद्यमपतिः, भारतीयविमानयानस्य श्रीकारकर्ता, बृहत्तमं टाटासमवायं ५३वर्षाणि सञ्चाल्य भारतस्य यन्त्रोद्यमक्षेत्रे त्रिविक्रमपदन्यासयिता भारतमतुः सुपुत्रः । टाटा उद्यमस्य उत्पादनानि इत्युक्ते सारलोहः,विद्युच्छक्तिः, कार्यनम्, संवृतयानम्, अश्मचूर्णम्, रासायनिकवस्तूनि,वस्त्राणि, कागदानि, व्यपदेशविज्ञानम्, नित्योपयोगिवस्तूनि, महिलानां रूपसज्जनवस्तूनि, इत्यादीनि । अस्य समवायस्य उद्यमः इतोपि वर्धमानः इतोप्यतिशयेन शतशः वस्तूनि उत्पानपथे सन्ति । जे.आर्.डि.टाटा वर्यः आर्.डि.टाटा वर्यस्य पुत्रः । अस्य पिता जम् सेट् जि नुझर्वान् जि टाटा इत्याख्यः सर् दोराब् टाटा, सर् रतन् टाटा, इत्यादिभ्यः पुत्रेभ्यः यत् महत्त्वं ददाति स्म तथैव आर्.डि.टाटा महोदयाय अपि दत्तवान् । किन्तु आर्.डि.टाट तु व्यवहारकुशलः नेतृत्वयुतः उद्यममं प्रगतौ नेतुं कार्यदक्षः आसीत् । पितुः साक्षात् उत्ताराधीकारी इति लक्षणं प्रदर्शयति स्म । जे.आर्.डि. टाटा पितुः सर्वगुणान् आत्मसात्कृतवान् ।

जन्म बाल्य शिक्षा च[सम्पादयतु]

जेहाङ्गीर् रतन्जी दादाभायी टाटा पार्सी झोरास्ट्रियन् मतस्य आनुयायी । पिता अतीव सम्प्रदायबद्धः । आर्.डि.टाटा तथा सूनि (मूलं फेञ्च् नाम सुझान् ब्रैर्) दम्पत्योः ५ अपत्येषु द्वितीयः जेहाङ्गीर् क्रि.श. १९०४तमवर्षस्य जुलै मासस्य २९तमे दिने प्यारिस् देशे अजायत । अस्य अग्रजा क्रि.श. १९०३तमे वर्षे सञ्जाता । रोडाबे (क्रि.श. १९०९) दराब् (क्रि.श. १९१२) तथा जिम्मि (१९१६) अस्य सहोदराः । जेहाङ्गीर् (सर्वे जे इति सम्बोधयन्ति स्म ) इति पदस्य पर्शियन् भाषायां विश्वविजेता इति अर्थः । आर्.डि.टाटा तु जेम् सेट् जि.टाटा इत्यस्य मातुलः दादा बायी इत्यस्य पुत्रः । जेम् सेट् जी भारतस्य सर्वप्रथमम् औद्योगिगक्षेत्रम् आरभ्य तस्य सुदृढां प्रतिष्ठाम् अकरोत् । अतः एव जेम् सेट् जी वर्यं भारतस्य यन्त्रोद्यमजनकः]] इति सम्बोधयन्ति । क्रि.श. १८९५तः अपि आर्.डि.महोदयः जम् सेट् जि तथा दोरभ् टाटा इत्यनेन सह व्यावहारिकभागी आसीत् । दोरब् टाटा तु विश्वासयोग्यः कर्यदक्षः च । जेम् सेट् वर्येण प्रतिष्ठापितं मूलभूततन्त्रज्ञानयुक्तं उत्पादनामूलघटकं च दैनन्दिनजीवनावश्यकानि वस्तूनि उत्पादयति । जम् सेट्जी मूलपूरुषः चेत् जे.आर्.डि. तस्य संरक्षकः प्रवर्तकः च । बहुशः स्वस्य जीवनस्य ५३वर्षाणां सुदीर्घे याजमान्ये न केनापि अन्येन चिन्त्यानि नूतनानि उद्यमक्षेत्राणि चित्वा तदध्ययनं कृत्वा कार्यरतः अभूतपूर्वं यशः प्राप्तवान् । टाटा इति नाम अमरं कृतवान् टाटा उद्यमस्य अनेकेषु उद्यमशीलेषु जनेषु एषः अग्रगण्यः एव ।

विद्याभ्यासः[सम्पादयतु]

जे.आर्.डि.टाटा वर्यस्य विद्यार्जनम् अरम्भे फ्रान्स् देशे पश्चात् जपान् देशे ततः परं भारते अभवत् । जहङ्गीरस्य फ्रेञ्च् भाषां विना अन्यभाषाः न जानाति स्म । अस्य आङ्ग्लभाषासामर्थ्यं वर्धयितुं वर्षमेकम् इङ्ग्लेण्ड् मध्ये सपोक् उत्तरसमुद्रस्य तीरे क्रामर् शालां प्रवेशितवन्तः । सः अत्यन्तं शीतप्रदेशः । सौत् वोल्ड् शालाध्ययनस्य पश्चात् फ्रेञ्च् सैन्ये एकवर्षं रेजिमेण्ट् डि स्पाहिस् प्रविष्टवान् । षण्मासान् यावत् तत्रैव कार्यमकरोत् । सैन्ये अधिकारिणः स्थानप्राप्तिः तु निश्चिता आसीत् । केम्ब्रिज़् महाविद्यालये इञ्जिनियरिङ्ग् अध्ययनार्थं प्रविष्टवान् । आर्.डि.टाटा मुम्बयीनगरे सून्याः आशानुगुणं सुनीता इति विशालगृहं मलबार् पर्वते क्रीतवान् । क्रि.श. १९२०तमे वर्षे मुम्बयीनगरस्य नेरल् रेल्वेनिस्थानकस्य समीपे विद्यमाने गिरिधाम्नि माथेरान् इति स्थाने दिन् श पिटिट् इत्यस्य महागृहे किञ्चित्कालं स्थातुं व्यवस्था अभवत् । किन्तु कार्यक्रमे अकस्मात् परिवर्तनम् अभवत् । तस्य पिता मनः परिवर्त्य जहङ्गीरं मुम्बैनगरं गन्तुम् आग्रहम् अकरोत् । क्रि.श. १९२३तमे वर्षे सून्याः आरोग्ये व्यत्यासः भूत्वा भारतम् आगमन्स्य स्थितौ नासीत् । क्रि.श. १९२३तमे वर्षे सूनि स्वस्य ४३तमे वयसि इहलोकं त्यक्तवती । एनं विष्ययं तन्त्रीसन्देशेन श्रुतवान् आर्.डि.वर्यः प्यारिस् प्राप्तेः पूर्वम् एव तस्याः चरमसंस्कारः समाप्तः । भारते सर् दोराब् टाटा वर्स्यस्य आरोग्यं दिने दिने क्षीयमाणः आसीत् । आर्.डि.टाटा अपि वयसा स्वास्थ्येन च अधिकम् उत्तरदायित्वं स्वीकर्तुम् अर्हः नासीत् । सून्याः मरणस्य पश्चात् पितामही पौत्राणां योगक्षेमं पश्यति स्म।[उद्धरणं वाञ्छितम्]

टाटा समवाये प्रशिक्षुः[सम्पादयतु]

पितुः आदेशानुसारं नवयुवा जहाङ्गीरः टाटा सन्स् कम्पनी इत्यस्य प्रशिक्षुः सन् मुम्बैनगरे पादार्पणम् अकरोत् । जहाङ्गीरः क्रि.श. १९२५तमे वर्षे मुम्बैनगरे टाटासमवायं प्रविश्य प्रशिक्षुः अभवत् । तस्य तत्र देशभाषाः सर्वमपि नवं नवं भाति । गुजरातीभाषां वा हिन्दीभाषां वा सम्यक् न जानाति स्म । विमानोद्यमसम्बद्धकार्याणि अधिकासक्त्या पश्यति निर्वहति स्म । अन्यकार्याणि कर्तुम् अर्हतासम्पादनार्थं प्रशिक्षणस्य अवश्यकता आसीत् । जे.एन्.इत्यस्य मृत्युपत्रानुगुणं वार्षिकवेतनम्, दोराब् इत्यस्य त्रिलक्षरूप्यकाणि आर्.डि.इत्यस्य द्विलक्षरूप्यकाणि, जहङ्गीरस्य त्रिसहस्रम्, दुराबस्य द्विसहस्रम्, जिम्मि इत्यस्य एकसहस्रम् इति निश्चितम् । किन्तु जहङ्गीरः सर्वेभ्यः समभागं दातुम् इष्टवान् । टाटासमवायेन अस्य ७५०रूप्यकाणि मासिकवेतनं निश्चितम् । क्रि.श. १९२६तः १९३१पर्यन्तं बर्दोर्जि पद् शा इत्येकः अस्य समवायस्य निदेशकः अभवत् । तदा टाटागृहे कश्चित् भारतीयप्रशासनसेवानिवृत्तः कार्यभारं निर्वहति स्म । तस्य नाम स्काट् मन् जान् पीटर् सन् । जहङ्गीरः आत्मकथग्रन्थे एतं बहुवारं स्मरति । आरम्भिके स्तरे टाटोद्यमसदृशं महोद्यमं प्रविश्य गहनं गत्वा अन्तरङ्गं ज्ञातुं विविधक्षेत्राणां कर्मनिर्वाहं दृष्टुं च अवकाशं प्राप्तवान् । आर्.डि.टाटा वर्यः पुत्रस्य जहङ्गीरस्य पीटर् सन् इत्यस्य परिचयं कारितवान् । पीटर्सन् तस्य प्रकोष्टस्य कोणे लेखनपीठं संस्थाप्य जहङ्गीस्य कार्यस्थानं निर्दिष्टवान् । पीटर्सन् इत्यस्य हस्ताक्षरात् पूर्वं जहङ्गीरः तानि सर्वाणि पत्राणि पठित्वा पिटर्सन् पुरतः प्रस्तौति स्म । एवं जहङ्गीर टाटा वर्यस्य समवाये प्रचाल्यमानस्य पत्रव्यवहारस्य स्पन्दनक्रमस्य च परिचयः अभवत् । एतत्पश्चात् रतन् टाटा स्वपुत्रं टाटा स्टील् प्लाण्ट् समवाये कर्तव्यं निर्वोढुं जम्शेट् पुरं प्रशिक्षुरूपेण प्रेषितवान् । क्रि.श. १९२५तमे एव वर्षे पिता आर्.डि.टाटा प्यारिस् नगरे परासुः अभावत् । सर् दोराब् मधुमेहरोगेण पीडितः दुर्बलः अभवत् । टाटा समवास्य संवृद्ध्या उत्तरदायित्वम् अधिकं भवति स्म ।

ऋणभारं सदा मनसि[सम्पादयतु]

पित्रा आर्.डि.टाटावर्येण कृतम् ऋणभारं समापनं जे.आर्.डि.टाटा वर्यस्य आद्यं कर्तव्यम् अभवत् । २२वर्षीयः जहङ्गीरः गृहस्य समवायस्य च दायित्वं स्कन्धे स्थापितवान् । परम्परया पित्रा परिपालितः टाटा सन्स् समवायस्य निदेशकपदं जहङ्गीरः स्वीकृतवान् । पित्रा कृतं समवायेन कृतं च ऋणम् अधिकम् एव आसीत् । सर् दोराब् धनस्य विषये अतीव नियतः । किन्त् आर्.डि.किञ्चित् व्यर्थव्ययकारी आसीत् । अपि च पत्न्याः आरोग्यरक्षणार्थं विदेशेभाटगृहार्थं च अधिकधनव्ययः भवति स्म । एतत्सर्वं ऋणभारहरणम् अतिकष्टकरम् अभवत् । सर् दोरब् बहुभागं धनम् अवगणितवान् तथापि ऋणभारम् अधिकम् एव आसीत् । जहङ्गीरः सम्यक् आलोच्य ऋणविमुक्तः भवितुम् इच्छन् प्यारिस् नगरे विद्यमानं महागृहं, तत्र विद्यमानव्यवहारान् सर्वान् च विक्रीतवान् । अपि च मुम्बै नगरे विद्यमनं सुनिता गृहस्यापि विक्रयणं कृतवन् । अनेन सम्पूर्णं ऋणभाराद्मुक्तः कञ्चित्कालं ताजमहल् वृसतिगृहे वासम् अकरोत् ।

वैमानिकस्य स्वप्नम्[सम्पादयतु]

क्रि.श. १९३० नेविल् विन्सेण्ट् इति आङ्ग्लेयः विमानचालकः भारतस्य जनान् स्वस्य लघुविमाने आरोप्य नगरप्रदक्षिणं कर्तुम् आसक्तिं प्रदर्शितवान् । सहसी महदाकाङ्क्षी सः विमानासक्तं जहङ्गीरम् अस्मिन् कार्ये प्रेरितवान् । तदा जहङ्गीरः टाटासाम्राज्ये लघुपदन्यस्तकालः । टाटासमवायस्य निदेशकः सर् दोराब् टाटा इत्यस्य विमानस्य आवश्यकतायाः विषये अग्रिमदिनेषु सम्भाव्यमानस्य अभ्यर्थनविषये पीटर्सन् द्वारा विषयं निवेदितवान् । विमाननिर्माणस्य समवायमेकम् अरम्भयितुं सूचितवान् । जहङ्गीरस्य बाल्यादेव प्ररूढा विमानचालकत्वस्य आशा सार्वजनिकविमानयानसेवारम्भस्य चिन्तनस्य स्वप्नं च साकारम् अभवत् । एषा कथा टाटा एर्लैन्स् उदयस्य । आरम्भे एषः समवायः टाटा सन्स् इति संस्थायाः कश्चन अङ्गः एव आसीत् । क्रि.श. १९३२तमवर्षस्य अक्टोबर् पञ्चदशे दिनं वैमानिकलोकस्य अविस्मरणीयं दिनम् । तद्दिने जहङ्गीरः पाकिस्तानस्य कराचितः अहम्मदाबाद् द्वारा मुम्बैनगरं विमानयानसञ्चारस्य व्यवस्थामकरोत् । सूक्ष्ममतिः, समयप्राज्ञः, दूरदर्शी च जहङ्गीरः विमानयानसञ्चारस्य बहुमखप्रयोजनं ज्ञातवान् आसीत् । दोरब् टाटा तथा तस्य पिता च मिलित्वा यम् उद्यमं प्रतिष्टापयताम् । तस्मिन् जहङ्गीरस्य पूर्णक्षमता नासीत् । अतः स्वस्य आसक्तिक्षेत्रे वैमानिकोद्यमे परिश्रमं कर्तुम् उद्युक्तवान् ।

ब्युगाट् कार् तथा थेल्मि सन्दर्शनम्[सम्पादयतु]

युवकस्य जहङ्गीरस्य क्रीडाकार्यानानि वेगेन चालनस्य उन्मादः आसीत् । क्रि.श. १९२०तमे वर्षे अस्य पिता अस्य जन्मोत्सवदिने उपहाररूपेण ब्यूगाट् कार्यान् दत्तवान् । जहङ्गीरः मुम्बैवीथिषु बुर्र्... इति वेगेन गमनं ब्रिटिश् अधिकारिणः न सहन्ते स्म । अतः अतिवेगचालनम् इति मिथ्यापवादं तस्मिन् आरोप्य अभियोगम् अकुर्वन् । तदा जहङ्गीरः तत्कालीनप्रसिद्धं न्यायवादिनं ज्याक् वैकेजि इत्येनं दृष्ट्वा तस्य साहाय्येन आरोपमुक्तः अपवादमुक्तः अभवत् । अभियोगवशाद् यद एषः ज्याकस्य गृहं गतवान् तदा तत्र काञ्चित् सुन्दरतरुणीम् अपश्यत् । सा ज्याकस्य अग्रजपुत्री । पुनः पुनः तस्याः सन्दर्शने जाते प्रेमाङ्कुरः अभवत् । अन्ते क्रि.श. १९३०तमे वर्षे थेल्मा इत्याख्यां तामेव परिणितावान् । थेल्ली इत्यस्याः अस्य पत्न्याः मातृगृहम् अमेरिकादेशः । जलतरणम्, चित्ररचनम्, नृत्यं च अस्याः प्रियव्यसनानि । अधुनिकवस्त्रेण सह शाटी अपि अस्याः प्रियवेषभूषा आसीत् ।

टाटासंस्थायां पादार्पणम्[सम्पादयतु]

टाटा सन्स् समवायस्य अनुभवि निदेशकः सर् नवरोस् जि सक्लाट् वाल इत्येषः क्रि.श. १९३८तमे वर्षे लण्डन् नगरे दिवङ्गतः । सर् दोरब्जि इयेषः पश्चात् टाटा सन्स् समवायस्य निदेशकः अभवत् । तस्य मरणस्य पश्चात् बृहत्प्रमाणेन संवर्धितस्य टाटासमवायस्य चालयितुं कस्यचित् समर्थस्य आवश्यकता आसीत् । टाटा सन्स् संस्थायाः निदेशकाः सर्वे सम्यक् मन्त्रालोचनं कृत्वा जहङ्गीरटाटावर्यम् अस्याः संस्थायाः प्रधननिदेशकम् अकुर्वन् । एवं क्रि.श. १९२८तमवर्षस्य जुलैमासस्य २६तमे दिने टाटासंस्थया सह अनुबन्धः आरब्धः । अयं सम्बन्धः क्रि.श.१९९१तमवर्षस्य मार्चमासस्य २५ पर्यन्तम् अनवरतं सेवाम् अकरोत् ।

टाटा एर्लैन्स् प्रथमविश्वसनीयः विमानसमवायः[सम्पादयतु]

क्रि.श. १९४६तमवर्षे जे.आर्.डि.टाटावर्स्यस्य अतिप्रियः समवायः टाटा एर्लैन्स् स्वतन्त्रः उद्यमसमवायः अभवत् । वर्षद्वयस्य पश्चात् टाटा एर्लैन्स् इण्टर्न्याषनल् इति संस्थां प्रतिष्ठापितवान् । क्रि.श. १९५३तमे वर्षे भारतस्य उद्यमाः राष्ट्रिकृताः । तदा अन्यसमवायद्वयस्य नेदेशकस्थानं त्यक्तवान् । जहङ्गीरः कश्चित् साहसी वाणिज्योद्यमी । तान्त्रिकविषयान् सम्यक् परिज्ञातवान्, प्रशासनपरिणतः चासीत् । वैमानिकविज्ञानस्य कार्यानवेगप्रतियोगितायाः बहूनि पुस्तकानि पठित्वा विषयसङ्ग्रहं कृतवान् । क्रि.श. १९८२तमवर्षे स्वस्य ७८तमवर्षस्य जन्मोत्सवावसरे जहङ्गीरटाटावर्यः विमानोड्डयनस्य ऐतिहासिककर्यक्रमम् आयोजितवान् । अयं तदानीन्तनकालस्य यूनः प्रेरयितुम् तेषु विमानयानविषये आसक्तिं वर्धयितुं च कृतः कार्यक्रमः आसीत् । तदा टाटासंस्थायाः आश्रये १४समवायाः आसन् । वाणिज्यवाहनोद्यमः, इञ्जिनियरिङ्गसंस्थाः, उपाहारमन्दिराणि, वातनियन्त्रणस्य वातानुकूलस्य यन्त्रोद्यमः,समन्त्रणसेवा, व्यपदेशतन्त्रज्ञानम्, उपभोगसेवाः,टि.सि.एस्. इत्यादयः समवायाः प्रमुखाः आसन् । जहङ्गीरः एतान् सर्वान् स्वसामर्थ्येन सञ्चालितवान् । अनेकानि आधुनिकतन्त्रज्ञानानि अनुस्थाप्य प्रगतिं लक्षितवान् । भारतस्य अनेकाः समस्याः परिहर्तुं बद्धकङ्कणः स्वयं कार्यं कृतवान् । भारतीयस्त्रीणां विद्याभ्यास्य तासां सेवानां स्वसेवासङ्घटनानां च विषये योजनाः निरूपितवान् ।

आर्.जे.डि.अधिकारावधिः[सम्पादयतु]

जहङ्गीर् टाटावर्यः भारतस्य अतिबृहत्समवायस्य चतुर्थः निदेशकः सन् निर्वाचितः अभवत् । क्रि.श. १९२९तमवर्षे ६२कोटिरूप्यकाणां सम्पत्तिः आसीत् । क्रि.श. १९६०तमवर्षे १०सहस्रकोटिरूप्यकाणाम् अभवत् । क्रि.श. १९९३तमवर्षे अस्य सम्पत्तिः १५सहस्रकोटिपर्यन्तं संवर्धिता । ५०अधिकाः संस्थाः अगणिताः लघूद्यमाः टाटा समूहसमवायाश्रये सन्ति । वैमानिकाः, उपाहारमन्दिराणाम्, लोकोमोटिव्, सोडा आश्, औषधानां, वातानुकूलस्य, प्रसादनसाधनानाम्, वज्रचूर्णानानाम्,भारवाहकानाम्, च उद्यमसमवायाः सन्ति । वर्तमानसमवायन् दृढीकृत्य लवणोत्पादनम् इत्यादीनां नूतनोद्यमान् आरब्धवान् । क्रि.श. १९६४-१९९१तमे काले भारतसर्वकारस्य नियन्त्रणनीत्यनुगुणं टाटासंस्थायाः संवर्धनं कुण्ठितम् अभवत् । अस्मिन् विषये जहङ्गीरटाटावर्यस्य ससमाधानः असीत् । सर्वकारस्य प्रोत्साहनं यद्यस्ति इतोप्यतिशयेन उपलब्धिं प्राप्तुं शक्यते इति सः सर्वदा वदति स्म ।

स्वाधीनाधिकारिणां प्रशंसा प्रोत्साहनं च[सम्पादयतु]

जे.आ.डि.टाटा स्वोद्यमक्षेत्रे निदेशकानां कार्यकौशलं पुरुधा परिशील्य प्रशंसां कृत्वा प्रोत्साहयति स्म । स्वस्य कार्यावधौ अनेकाः तादृशप्रतिभायुतान् अभिज्ञाय पारितोषिकान् दत्तवान् । केचन अस्यां संस्थायां दशकवर्षाणि सेवां कृतवन्तः गण्याः केचन एवं सन्ति । सर् होमि मोदि, सर् अर्देशिल् जलाल्, सर् जेहाङ्गीर् गान्धि, रूस्सि मोदि, होमी जे.भाभा, जे.डि.चोक्सि, नानि वल्किवाल, जे.एन्.मथाय्, ए.डि.श्राफ्, डि.आर्. पेण्ड्से, फ्रेड्डि मेहता, इत्यादयः प्रमुखाः । एतेषु केचन आदर्शपुरुषा अपि आसन् । यथा.. दर्बारी शेर्, मुल्गांव्कर्, अत्यन्तं प्रभाविनः कर्मकुशलाः । टाटासमवायसमूहम् एतावति औन्नत्ये आन्यने एतेषां योगदानं महत् अस्ति । टाटा अड्मिनिस्ट्रेटिव् सर्वीसस्, टाटा म्यनेज़्मेण्ट् सेण्टर्, प्रोफेशनल्स् इत्यादीनां संस्थानां प्रगतौ एतादृशानां निस्वार्थिजनानां परिश्रमः अस्ति एव । हौरा इति सेतोः निर्माणार्थम् आवश्यकस्य टिस्क्रोम् इति सारलोहस्य उत्पादनं कृतम् । तिस्कोर् इति अतिकठोरः प्रबलः सम्मिश्रसारलोहः रेल्यनसञ्चालनस्य लोहमार्गनिर्माणार्थं योग्यः भवति । अस्य निर्माणं टाटा उद्यमसमवायेन बृहत्प्रमाणेन कृतम् । अनया संस्थया कर्मकरेभ्यः विविधानि सौकर्याणि प्रदत्तानि । भारतीयरेल्यनस्य निशकटानिर्माणार्थं टाटासारलोहम् उपयोजयन्ति । टाटासमूहसमवाये कर्मकरेभ्यः अनेकानि सौकर्याणि प्रकल्पितवन्तः । क्रि.श. १९१२तमे वर्षे एव स्वकर्मकराणां ८होराकार्यकालं निश्चितवन्तः । तस्मिन् एव काले कर्मकराः यूरोप् देशे अपि १२होराकालं कार्यं कुर्वन्ति स्म । क्रि.श. १९२०तमवर्षे कर्मकराणां सवेतनविरामः कार्मिकभविष्यनिधिः इत्यादीनि सौकर्याणि तदानीन्तनकले एव योजितवन्तः इति विशेषः । एतादृशविषयान् अपि सम्यक् विचिन्त्य दूरदृष्ट्या च योजनाः कृताः इति कारणेन अद्यापि टाटासमूहसमवायः अग्रगण्योद्यमेषु अन्यतमः अस्ति ।

संस्थापिताः संवर्धिताः च संस्थाः[सम्पादयतु]

१९८० भारतस्य भव्यभविष्यति विमानयानस्य शुभारम्भः आशादायकः आवश्यकः चासीत् । इण्डियन् एर् लैन्स् तथा एर् इण्डिया इति उभयोः विमानसंस्थायोः अध्यक्षः भवितुं जहङ्गीर टाटावर्स्यस्य आमन्त्रणम् आगतम् । क्रि.श. १९७८तमवर्षपर्यन्तं कथञ्चित् एर् इण्डिया संस्थायाम् आसीत् । क्रि.श. १९८०तमे वर्षे पुनः जहङ्गीरः प्रार्थितः । तस्मिन् काले भारते विमानसशकः आरब्धः आसीत् तथापि कूटराजनितेः कारणेण जहङ्गीरस्य आसक्तिः कुण्ठिता अभवत् । क्रि.श. १९८२तमवर्षे वायुयानस्य सुवर्णवर्षमहोत्सवम् आचरितम् । तन्निमित्तं क्रि.श. कराचितः अहमदाबाद् द्वारा मुम्बैपर्यन्तं वायुयानस्य पूर्वकृतकार्यस्य पुनरुज्जीवनं कृतम् ।

जर्मनसंस्थायाः सहकारेण टेल्कोसमवायसंस्थापनम्[सम्पादयतु]

क्रि.श. १९५०तमवर्षे जर्मन् देशस्य Dailmer-Benz,इति समवायस्य सहयोगेन Tata Locomotive and Engineering Co.(TELCO) प्रतिष्ठापितम् । १५वर्षाणाम् कार्यव्यापारस्य पश्चात् क्रि.श. १९६०तमवर्षस्य सेप्टम्बर्मासस्य २४तमे दिने Tata Engineering & Locomotive Co इति नामान्तरम् अवाप्नोत् । क्रि.श. १९६०तमवर्षे TELCO यन्त्रागारः नवीकृतः । क्रि.श. १९८८तमवर्षे मूल् गांव्कर् इति कश्चित् निदेशकः निवृत्तः रतन् टाटावर्याय स्थानं दत्तवान् । जे.आर्.डि.टाटामहोदयः स्वस्य ६८तमे वयसि ट्ल्को अध्यक्षपदं सुमन्त मूलगांव्कर् वर्याय दत्तवान् । दर्बारि सेठ इति कञ्चित् स्वस्य ७८तमे वयसि टाटाकेमिकल्स् इति संस्थायाः अध्यक्षं कृतवान् । तथैव रुस्सि इत्यस्मै स्वस्य ८०तमे वयसि टाटास्टील् उद्यमस्य दायित्वम् दत्तवान् । क्रि.श. १९८१तमे वर्शे रतन टाटा इति पुत्रं टाटासमूहोद्यमस्य अध्यक्षं कृत्वा स्वयं बहिः स्थित्वा परिवीक्षते स्म । टाटानिदेशकः सर् नवरोजि सक्लाट् वल इत्यस्य मरणस्य पश्चात् टाटा सन्स् संस्थायां जहङ्गीरस्य नियोजनं क्रि.श. १९३८तमवर्षस्य जुलै २६तमे दिने अभवत् । १४समवायाः Tata & Sons इति समूहे आसन् । अस्य नेतृत्वे अनेकप्रथमस्य शुभारम्भः अभवत् । वाणिज्यवाहनानि, सञ्चारयानानि, इञ्जिनियरिङ्ग्, उपाहारमन्दिराणि, वातानुकूलनोद्यमः, शीतकयन्त्रोद्यमः, उपभोक्तृसेवाः, व्यदेश, नित्योपयोगिवस्तूनामुद्यमः, औद्यमिकवस्तूत्पादनम्, टि.सि.एस्. इत्यादयः अस्य याजमाने एव प्रगतिमवाप्नुवन् । जहङ्गीर टाटा देशस्य अनेकाः समस्याः परिहर्तुं स्वयोगदानं कृतवान् । जनसङ्ख्यानियन्त्रणं, अनक्षरतायाः निर्मूलनम्, जनजीवनस्तरवर्धनम्, श्त्रीयोगक्षेमः, इत्यादिषु सर्वकारीययोजनासु अस्य योगदानम् अस्ति । एतत् परिगणय्य क्रि.श. १९९२तमे वर्षे विश्वसंस्था एतस्मै प्रशस्तिम् अयच्छत् ।

चारित्रिकमुम्बैनगरस्य नीलनक्षा[सम्पादयतु]

द्वितीयमहायुद्धस्य पश्चात् भारतदेशे यान्त्रीकरणेन उत्पादनानि संवर्धयितुं जहङ्गीर टाटा अतीव उत्सुकः आसीत् । तेन सह तदानीन्तभारतस्य प्रसिद्धाः उद्यमपतयः जे.डि.बिर्ला, कस्तुर् भाय् लाल् भाय् इत्यादयः सम्मिलिताः । टेक्नोक्राट्, जान् मथाय्, अर्देशिर् दलाल्, ए.डि.श्राफ्, इत्यादयः मिलित्वा क्रि.श १९४४तमे वर्षे मुम्बैयोजनां रचितवन्तः । यदग्रे भारतस्य आर्थिकसमृद्धिस्वप्नदृष्टा Plan of Economic Development for India अभवत् । एवम् अस्य जहङ्गीरस्य देशोत्थनस्य कार्याणि परिगणय्य भारतसर्वकारः अस्मै भारतरत्नप्रशस्तिं क्रि.श. १९९२तमे वर्षे प्रयच्छत् ।

कर्मभूमिः भारतम् मृत्युभूमिः यूरोफ्[सम्पादयतु]

क्रि.श. १९९३तमे वर्षे जे.आर्.डि.वर्यः वातारणस्य आनुकूल्यार्थं जिनिवानगरम् अगच्छत् । तत्र तस्य आरोग्ये विषमता आगता । चिकित्सालये प्रवेशितः तत्रैव इहलोकम् अत्यजत् । तस्य अन्तिमेच्छां भाविन्यः योजनाः च श्रोतुं निकटे न कोऽपि आसीदिति दुर्दैवम् । तस्य प्रियपत्नी मुम्बैनगरे रुग्णालये प्रज्ञाहीनस्थितौ मृत्युना सह युध्यते स्म । भारतस्य सम्पत्तिं संवर्ध्य औद्योगीकरणस्य शुभारम्भं कृतवान्, उद्यमक्षेत्रे बहूनां मार्गदशनं कृतवान् टाटासमूयसमवायस्य अन्यनिदेशकाः इव निदेशकः युरोपदेशे मरणं प्राप्तवान् । [[भारतम्|भारते गौरवार्थं दिनत्रयं संसद्भवनं पिहितम् आसीत् ।

जीवनसोपानानि[सम्पादयतु]

  • १९०४ प्यरिस् नगरे जननम् ।
  • १९०९ फ्रान्सनगरवसावसरे पार्श्वगृहस्य वैमानिकस्य Louis Bleriot इत्यनेन विमानचालनस्य आसक्तिः उत्पन्ना
  • १९०९-१७ मुम्बैनगरे केथिड्रेल् शलायां विद्यार्जनम् ।
  • १९१७-१८ जपानस्य हाकोहामनगरे वासः । इङ्ग्लेण्डस्य क्रामरशलायां वर्षमेकम् अध्ययनम् । मातुः सून्याः मरणम् ।
  • १९२४ फ्रेञ्च् सैन्ये एकवर्षं सेवा ।
  • १९२५ भारतम् आगन्तुम् आमन्त्रणम् । टाटासंस्थायां प्रशिक्षुरूपेण प्रवेशः ।
  • १९२६ जम सेट् पुरे वर्षमेकं वासः । फ्रान्स् देशे पितुः मरणम् । टाटा समूहस्य निदेशकत्वेन नियोजनम् ।
  • १९२९ भारतस्य प्रथमः विमानचालकः इति अनुज्ञापत्रप्राप्तिः ।
  • १९३० अगाखान् एवियेशन् इति भारतसंयुक्तराष्ट्रयोः मध्ये द्वीतयः विमानचालकः।
  • १९३० थेल्म् विकाजि इत्यनया सह विवाहः ।
  • १९३२ टाटा एर्लैन्स् प्रथिष्ठापनम्, कराचिमुम्बैनगरयोः मध्ये प्रथमः वायुसञ्चारः ।
  • १९३८ टाटा सन्स् इति संस्थायाः अध्यक्षपदे नियुक्तिः ।
  • १९४४ Bombay Plan सिद्धता ।
  • १९४५, Tata Institute of Fundamental Research, प्रतिष्ठापनर्थं प्रयत्नः भारतस्य nuclear programmes, leads the first delegation of industrialists to the UK and USA.
  • १९४७ Doctor of Science ,(Honoris Causa),अलहाबाद् विश्वविद्यालयः ।
  • १९४८, Air India संलीनः ।
  • १९५३ International Management Man by The National Association of Foremen, Milwaukee निर्वाचितः ।
  • १९५३ Air India, nationalised, जे.आर्.डि.टाटावर्यस्य अध्यक्षपदे नियुक्तिः ।
  • १९५४ Officer of the Legion of Honour फ्रेञ्च सर्वकारस्य प्रशस्तिः ।
  • १९५५ भारतसर्वकारस्य पद्मविभूषणप्रशस्तिः
  • १९५८-५९ IATA अध्यपदे चयनम् ।
  • १९६२, ३०तमः civil aviation in India दिने Re-enacted flight Karachi-Bombay स्मरणार्थं ।
  • १९६४ Knight Commander of the Order of Gregory the Great , (Papal Honour)
  • १९६६ गौरवम् - Air Commodore, Indian Air Force
  • १९७४ गौरवम् - Air Vice-Marshal, Indian Air Force, इति नियोजनम् ।
  • १९७५ Sir Jehangir Ghandy Medal for Industrial Peace, प्रशस्तिः ।
  • १९७८ मोरार्जी देसायी,Chairmanship of Air India, विसर्जनम् ।
  • १९७८ गौरवम् - Knight Commander's Cross of the Order of Germany.
  • १९७९ Tony Jannus प्रशस्तिः ।
  • १९८१ Doctor of Laws (Honoris Causa), मुम्बै विश्वविद्यालयः ।
  • १९८२, Karachi-Bombay flight Golden Jubilee of Indian civil aviation,स्मरणार्थम् ।
  • १९८३ Commander of the Legion of Honour प्रशास्तिः ।
  • १९८५ Gold Air Medal , by the Federation Aeronautique Internationale प्रशस्तिः ।
  • १९८६ Bessemer Medal of the Institute of Metals, London प्रशस्तिः ।
  • १९८६ Edward Warner Award by the International Civil Aviation Organisation, प्रशस्तिः ।
  • १९८८ Daniel Guggenheim Medal रशस्तिः ।
  • १९८८ Dadabhai Naoroji Memorial प्रशस्तिः ।
  • १९९१ Chairmanship of Tata Sons Limited,तः निवृत्तिः । पुत्राय रतन टाटावर्याय समर्पणम् ।
  • १९९२ भारतरत्नप्रशस्तिः
  • १९९२ UN Population प्रशस्तिः ।
  • १९९२ Doctor of Engineering (Honoris Causa),रूर्किविश्वविद्यालयः ।
  • १९९३ Doctor of Literature (Honoris Causa), Tata Institute of Social Sciences इति संस्थातः ।
  • १९९३, जिनिवानगरे निधनम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=जे.आर्.डि.टाटा&oldid=281512" इत्यस्माद् पुनः प्राप्तिः