नेल्सन् मण्डेला

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(नेल्सन् मण्डेल इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नेल्सन् मण्डेलः

नेल्सन् मण्डेलः
जननम् क्रि.श. १९१८तमवर्षस्य जुलैमासस्य १८तमदिनम् ।
कूनु, मथाथ्, ट्रान्स्की, दक्षिणाफ्रिकादेशः।
राष्ट्रियता आफ्रिकीयः
संस्था आफ्रिकादेशस्य राष्ट्रियकाङ्रेस्
मातपितरौ (माता)
टेम्बू (पिता)

नेल्सन् मण्डेला दक्षिण-आफ्रिकादेशस्य सुप्रसिद्धः नायकः । नेल्सन् रोलिह्लाह्ल मण्डेला अस्य पूर्णनाम भवति । अमेरिकादेशस्य मार्टिन् लूथर् किङ्ग् यथा वर्णभेदस्य विरुद्धम् आन्दोलनं कृतवान् तथैव अयमपि स्वदेशे आन्दोलनं कृतवान् । अत्रत्य जनानां प्रीतिपात्रः अस्ति । अधुनिकयुगस्य राजकीयक्षेत्रस्य सुप्रसिद्धः, नैतिकव्यक्तित्वयुक्तः च आसीत् । भारतस्य राष्ट्रपतिचरः के.आर्. नारायणन् ’अधुनिकगान्धिः’ इति एनं सम्बोधितवान् आसीत् ।

जननम्, बाल्यञ्च[सम्पादयतु]

नेल्सन् मण्डेलः जुलैमासस्य १८ तमे दिनाङ्के १९१८ तमे संवत्सरे दक्षिण-आफ्रिकादेशस्य ट्रान्स्कै पत्तनस्य उयतलसमीपस्थे क्वुनुग्रामे अजायत । अस्य जनाङ्गस्य सम्प्रदायानुसारं नाम स्थापितम् आसीत् । अस्य पिता हेन्रिगाड्ला । अस्य चतस्रः भार्याः आसन् । तृतीया भार्या नेल्सन् मण्डेलावर्यस्य माता भवति । अस्याः नाम नोसेकेनि फ्यानि । एषा अनक्षरस्ता आसीत् । अतः पुत्रः साक्षरवान् भवेत् इति अस्याः आशा आसीत् । अस्य दशमे वयसि पिता मृतवान् । बाल्ये बन्धुना सह शालाविरामेषु दिनेषु गोपालनं करोति स्म । एषु समयेषु एव सः वर्णभेदस्य विषये ज्ञातवान् आसीत् ।

अध्ययनम्[सम्पादयतु]

अस्य पितुः मरणानन्तरं श्वशुरः एव अद्ययने साहाय्यं कृतवान् । प्रप्रथमतया १९८२ तमे वर्षे शालां गतवान् । हेल्डेट् वेस्लियान् शालायां प्रौढशिक्षणं प्राप्तवान् । १९३८ तमे संवत्सरे मेट्रिक्यूलेक्षन् परीक्षायाम् उत्तीर्णः । समनन्तर (कनूनु) विषयस्य अध्ययनार्थं जोहान्सबर्गनगरं गतवान् । तत्र कृष्णवर्णियेभ्यः जनेभ्यः उषितुं सुव्यवस्था नासीत् । अतः मण्डेलावर्यः अल्पेन स्वधनेनैव पत्रालयशिक्षणद्वारा बि.ए. पदवीधरः जातः। सिडेल्स्कि नामकस्य न्यायवादी समीपे कानूनुविषये शिक्षणं प्राप्तवान् । विट् वाटर् स्ट्राण्ड विश्वविद्यालये कानुनुविषये अध्ययनं कृतवान् ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

पत्नी इवेलिन् मेस्सिसुलु सह

नेल्सन् मण्डेला प्रभावीनायकः आसीत् । १९४४ तमे वर्षे जोहान्सबर्गनगरस्य इवेलिन् मेस्सिसुलु नाम कन्यां परिणीतवान् । सिसुलु एका अनुवैद्या आसीत् । १९५६ तमे संवत्सरे अनयासह विच्छेदनम् अभूत् । त्रीणि सन्तानानि आसन् । एषा एव पालयति स्म । विन्निनोम जानो नाम कन्यां १९५८ तमे संवत्सरे परिणीतवान् । एषा द्वितीया भवति । एषा समाजसेवाकर्त्री आसीत् । नेल्सन् मण्डेला उत्तमलेखकः । स्व आत्मकथां लिखितवान् अस्ति । अस्य वैक्तिकजीवननिरूपकौ ग्रन्थौ भवतः । फातिमायार् रचितः “हैयर् द्यान् होप्”, बेञ्जमिन् पोग्रुण्डवर्यस्य मण्डेलावर्यस्य जीवनाधारितः ग्रन्थः च । २७ वर्षाणि कारागृहे आसीत् । समाजाय सहाय्यं कुर्वन्नेव जीवितवान् अस्ति ।

आन्दोलनम्[सम्पादयतु]

आफ्रिकादेशे वर्णभेदः बहुधा कृष्णवर्णीय जनान् पीडयति स्म । प्राथमिकशिक्षणाध्ययनकाले विरमेषु समयेषु बान्धुभिस्सह गोपालनार्थं गच्छति स्म । कश्चनः बन्धुः वर्णभेदस्य विषये अफ्रिकादेशे विद्यमानान् क्लेशान् बोधितवान् । तदारभ्य अस्य मनसि वर्णभेदस्य निवारणार्थं चिन्तनम् आसीत् । अस्मिन् देशे कृष्णवर्णीयाः आन्दोलनं कर्तुं न शक्नुवन्ति स्म । ग्रन्थालयेषु प्रवेशः न आसीत् । चलचित्रमन्दिरेश्वपि प्रवेशः न आसीत् । कृष्णवर्णीयजनेभ्यः स्वातन्त्र्यमेव न आसीत् । चित्रविचित्रं वर्णभेदम् असहमानः सर्वकारस्य विरुद्धम् आन्दोलनम् कृतवान् । जून्मासस्य २६ तमे दिनाङ्के १९५० तमे संवत्सरे आन्दोलनदिनम् इति उद्घोषितम् आसीत् । तदा ए एन् सि सहकारं दत्तमासीत् । १९५७ तमे संवत्सरे युवसङ्घस्य अद्यक्षः आसीत् । एषु दिनेषु ए एन् सि सदस्येभ्यः अस्मै च सभासु भागग्रहणार्थम्, भाषणार्थञ्च निषेधः कृतः आसीत् । तथापि स्वकार्यं न त्यक्तवान् । सर्वकारनिन्दाकारणात् क्रि.श. १९५६ तः १९६१ संवत्सरपर्यन्तं सर्वकारं विरुध्य न्यायसमरं कृत्वा क्रि.श. १९६१ तमे वर्षे जयम् आप्नोत् ।

कारागृहबन्धनम्[सम्पादयतु]

कारागृहस्य प्रकोष्ठः

मेमासस्य १९६१ तमे संवत्सरे नेटाल्-देशस्य पीटर् यार्ट्ज बर्गनगरे अस्य भाषणम् आसीत् । निषेधः इति बहुदिनेभ्यः भाषणं न कृतवान् आसीत् । किन्तु तत्रत्य भाषणं प्रचोदनकारी सार्वकारस्य विरुद्धं च आसित् । बन्धितुम् आरक्षकाः प्रयासं कृतवन्तः । ततः सह पलायितः । अस्मिन् समये आदेशं जनान् प्रेरयन् अटितवान् । अन्य आफ्रिकादेशेषु गत्वा तत्रत्य नायकानां सहायं स्वीकृतवान् । एवं वर्णभेदस्य विरुद्धम् आन्दोलनं कर्तुं प्रेरितवान् । षण्मासानन्तरं पुनरागतः । न्यायालयेन पञ्चवर्षाणि कारागृहबन्धनं सूचितम् असीत् । राबेन्द्वीपस्य कारागृहे स्थापितम् आसीत् । सप्तविंवशति वर्षाणि कारागृहे एव आसीत् । कारागृहे ए,बि,सि,डि इति बन्धनस्थेषु विभागः आसीत् । मण्डेला डि विभागे आसीत् । अस्मै सुव्यवस्था न कल्पिता आसीत् ।


पुरस्काराः[सम्पादयतु]

  • १९९३ तमे वर्षे अनेन नोबेल् शान्तिप्रशस्तिः प्राप्ता ।
  • १९७३ तमे संवत्सरे लीड्स विश्वविद्यालयः परमाणोः अन्वेशणं कृतम् आसीत्। तस्य परमाणोः नाम मण्डेलापरमाणुः इति स्तापितम् आसीत् ।
  • १९७५ तमे संवत्सरे गौरवाजीवसदस्यत्वं लण्डन् विश्वविद्यालयः दत्तः।
  • १९७९ तमे संवत्सरे लेसोथो विश्वविद्यालयः गौरवडाक्टरेट् उपाधिं दत्तम् ।
  • १९८० तमे संवत्सरे भारतसर्वकारस्य जवाहरलाल नेहरू अन्ताराष्ट्रीयपुरस्कारेण सम्मानितः ।
  • १९८२ तमे संवत्सरे गौरवाध्यक्षः (जीववधिकालस्य) सञातः ।
  • भारतसर्वकारः एतस्मै भारतरत्नप्रशस्तिम् अयच्छत् ।
  • कारागृहे यदा आसीत् तदानीन्तन पुरस्काराः*
  • १९८६ तमे संवत्सरे जिम्बाब्वे विश्वविद्यालयस्य डाक्टर् आफ् लास् पुरस्कारं प्राप्तवान् ।
  • अन्ताराष्ट्रीय शान्ति-स्वातन्त्र्यपुरस्कारं प्राप्तवान् ।
  • १९८७ तमे संवत्सरे हवान विश्वविद्यालयस्य (क्युबा), स्टेट्स्-रास् विश्वविद्यालयस्य (युनैटेड्), कार्लमार्क्स् विश्वविद्यालयस्य (जर्मनी) च गौरवपुरस्कारान् प्राप्तवान् ।
  • १९८८ तमे संवत्सरे विश्वसंस्थायाः मानवताधिकारस्य चतुर्थं पुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे सुखरोव् पुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे ब्रेमेन् सालिडारिटे पुरस्कारं प्राप्तवान् (जर्मनी) ।
  • १९८८ तमे संवत्सरे शान्तिपुरस्कारं प्राप्तवान् ।
  • १९८८ तमे संवत्सरे इटालिदेशस्य बोरोना विश्वविद्यालयस्य गौरवपदविपुरस्कारं प्राप्तवान् ।
  • १९८९ तमे संवत्सरे अगष्ट सीजर् स्याण्डिनो पुरस्कारं प्राप्तवान् ।
  • १९८९ तमे संवत्सरे टूरेण्टोदेशस्य यार्कविश्वविद्यालयस्य गौरवडाक्टरेट् प्राप्तवान् ।

बाह्यानुबन्धः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=नेल्सन्_मण्डेला&oldid=264192" इत्यस्माद् पुनः प्राप्तिः