पद्मपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पद्मपुराण इत्यस्मात् पुनर्निर्दिष्टम्)
पद्मपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः भक्तिहः
प्रकार वैष्णवग्रन्थः
पृष्ठ ५५,००० श्लोकाः

पद्मपुराणम् (Padma Purana) अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | अस्मिन् पुराणे पञ्च खण्डाः सन्ति - सृष्टिखण्डः, भूमिखण्डः, स्वर्गखण्डः, पातालखण्डः, उत्तरखण्डः च | 'क्रियायोगसार'नामिका भक्तितत्वनिरूपकः खिलभागः अपि अस्मिन् विद्यते |

निरूपिताः विषयाः[सम्पादयतु]

अन्तर्विषयाः[सम्पादयतु]

सृष्टिखण्डः[सम्पादयतु]

सृष्टिखण्डः भीष्म-पुलस्त्ययोः संवादरूपेण वर्तते | प्रसिद्धयात्रास्थलस्य पुष्करतीर्थस्य माहात्म्यम् अत्र वर्णितम् अस्ति |

भूमिखण्डः[सम्पादयतु]

अस्मिन् खण्डे भूमेः भौगोलिकं विवरणम् अस्ति | पृथोः ययातेः च कथानकं वर्तते | प्राज्ञाः वदन्ति यत् अत्र उपलभ्यमानानि भौगोलिकानि ऎतिहासिकानि च विवरणानि विश्वासयोग्यानि सन्ति इति |

स्वर्गखण्डः[सम्पादयतु]

स्वर्गखण्डे ब्रह्माण्डस्य उगमः विस्तृतरूपेण वर्णितः अस्ति | तीर्थक्षेत्राणां महत्त्वम् अत्र दर्शितम् अस्ति | जम्बूद्वीपस्य भौगोलिकविस्तारः लक्षणानि च स्पष्टतया अत्र निरूपितानि सन्ति |पर्वतनद्यादीनां विवरणम् अत्र प्राप्तुं शक्नुमः | प्राचीनकालीनभारतीयानां विषये अपि इतः वयं ज्ञातुं शक्नुमः |

पातालखण्डः[सम्पादयतु]

पातालखण्डे उग्रश्रवः ऋषिगणम् उद्दिश्य भगवतः विष्णोः अवतारिणः रामस्य कथाम् अवदत् |अस्मिन् भगवतः कृष्णस्य जीवनविषयः अपि उपवर्णितः अस्ति | षोडशाध्यायैः युक्तः अयं पातालखण्डः शिवगीतम् इत्यपि प्रसिद्धः अस्ति |

उत्तरखण्डः[सम्पादयतु]

उत्तरखण्डे शिवपार्वत्योः संवादः दृश्यते | विषयस्तु धर्मस्य मूलतत्त्वानि | अत्र विष्णुसहस्रनाम अपि विभिन्नप्रकारेण दत्तः अस्ति |

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पद्मपुराणम्&oldid=451514" इत्यस्माद् प्रतिप्राप्तम्