मल्लाडिहळ्ळि राघावेन्द्रस्वामी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

मल्लाडिहळ्ळिराघवेन्दस्वामी कश्चित् महासाधकः, तपस्वी, महायोगाचार्यः, शतोत्तरायुष्मान्, (१०५वर्षाणि जीवितवान्) विशिष्टसङ्घटकः, निष्कामकर्मयोगी, आयुर्वेदपरिणतः, च । राघवेन्द्रस्वामिनं निकटवर्तिनः अभिनवधन्वन्तरिः इत्येव सम्बोधयन्ति स्म । चित्रदुर्गमण्डलस्य होळल्केरे उपमण्डलस्य मल्लाडिहळ्ळि इति कुग्रामे अस्य आगमनं ग्रामवासिनां सौभाग्यम् इति भावयन्ति । स्वगुरोः शिवानन्दस्य अनुज्ञया ग्रामात् ग्रामं गत्वा दरिद्राणाम् असहयकानां, दीनानाम् उद्धारार्थं कार्याणि अकरोत् । अत्र योगशिबिराणि आरोग्यशिबिराणि सञ्चाल्य तत्र आरोग्यकेन्द्राणि अपि आरब्धवान् । ग्रामस्य नैर्मल्यार्थं योजनाः अकरोत् । शुद्धतायाः आरोग्यस्य उत्तमजीवनशैल्याः प्रयोजनम् उद्दिश्य जनान् प्रबोधितवान् । एवं ग्रामतायः सर्वाङ्गीणाभिवृद्धये कारणिकपुरुषः अभवत् । क्रि.श. १९४३तमे वर्षे मल्लाडिअहळ्ळिप्रदेशस्य प्रजानाम् अभ्यर्थनम् अङ्गीकृत्य अत्रागतः राघवेन्द्रस्वामी स्वजीवितस्य ५०अधिकानि वर्षाणि समाजस्य उत्थानार्थम् विनियोजितवान् ।

बाल्यम् आनारोग्यं कोल्लूरुगमनम्[सम्पादयतु]

राघवेन्द्रस्वामिनः पिता अनन्तपद्मनाभ नम्बूदरी मूलतः केरलस्य ज्योतिर्विद्वान् । तत्र परिसरे विद्यमानजनान् जीवनमौल्यानि उपदिशति स्म । पद्माम्बळ् इति अस्य मातुः नाम । सा महासाध्वी जातपुत्रस्य कुमारस्वामी इति नाम अकरोत् । जातः शिशुः बालरोगबाधितः चतुर्दशवर्षाणि निर्भावः मांसपिण्डः इव आसीत् । अस्य शिशोः दोषपरिहारार्थं माता बहुदूरे विद्यमानं मूकाम्बिकास्थानं कोल्लूरुक्षेत्रं नेतुमिच्छति । तावति काले पद्माम्बळ् अनन्तपद्मनाभः च विविधरोगबाधितौ अतिदुर्बलौ अभवताम् । चतुर्दशवर्षस्य पुत्रम् उन्नीय एव गन्तव्यं चेत् अतीव कष्टकरम् आसीत् । तस्मिन् काले वाहनस्य मार्गस्य वा सौकर्यं नासीदेव । दुर्गमे अरण्यमार्गेन मासान् यावत् पादचलनेन कोल्लूरुक्षेत्रं प्राप्तव्यम् । तः तौ दम्पती प्रचलन्तौ दक्षिणकन्नडमण्डलस्य बार्कूरु इति प्रदेशम् आगत्य नरसिंहय्य इति सद्गृहस्थस्य गृहे आश्रयं प्राप्नुवतः ।

मन्त्रालयस्य स्वामिनः आशीर्वादः[सम्पादयतु]

तस्मिन् एव समये मन्त्रालयस्य मठाधिपतिः बारकूरुग्रामे कृतशिबिरः आसीत् । एतं विकलाङ्गं बालम् आशीर्भिः अनुगृहीतवान् राघवेन्द्र इति नमकरणम् अपि अकरोत् । अतीव श्रान्ता पद्माम्बा बारकूरुग्रामे दिवङ्गता । पिता नम्बूदरी तु पुत्रं क्रि.श. १९०६तमवर्षस्य युगादिपर्वदिने यक्षगानपण्डिताय रामायणस्य महाभारतस्य व्याख्यात्रे नरसिंहय्य इति विदुषे समर्प्य तमसिद्धये हिमालयम् अगच्छत् । नरसिंहस्य पत्नी पुथलीबायी तं बालं प्रीत्या समपोषयत् ।

पोषकपितृभ्यां सह आश्रमवासः[सम्पादयतु]

पुथलीबायी कुमारस्वामिनः लालनपालयोः अनन्यमातृप्रेम्णा स्वस्य सर्वस्वमपि समर्पितवती । तस्याः सेवया प्रतिदिनं बालके परिवर्तनम् आगतम् । बालके मानवसहजप्रतिस्पन्दः आगतः । अनेन पितरौ नितरां मुदितौ । अनन्तपद्मनाभनम्बूदरीवर्यस्य मित्रम् उद्दामपण्डितः विद्वान् रामचन्द्रशास्त्री एतं बालं पुतलीबायी गृहिण्यै समर्पणे साहाय्यम् आचरितवान् ।

स्वामिना शिवानन्देन तारकमन्त्रोपदेशः[सम्पादयतु]

बाल्यस्य गुरुः श्रिवरामय्यः, तारकमन्त्रोपदेशेष्टा नित्यानन्दस्वामी, रङ्गनाथभट्टः, वरूड अनन्तस्वामी, बरोडा माणिक्यरायः, पळनिस्वामी, इत्यादयः बालकस्य राघवेन्द्रस्य जीवने परिवर्तनस्य कारणिकेषु प्रमुखाः सन्ति । तारकमन्त्रस्य उपदेशावसरे स्वामी नित्यानन्दः रागवेन्द्रस्य मस्तके करं संस्थाप्य भौतिकलोकस्य ज्ञानं विस्मार्य अहङ्कारं सर्वं लोपितवान् । केवलम् आनन्दस्य अनुभूतिः बालकस्य राघवेन्द्रस्य मनसः परिवर्तनम् अकरोत् । द्वन्द्वरहिता निर्लिप्ता शून्यस्थितिः जगतः सृष्टेः प्रथमाध्ययः इव राघवेन्द्रस्य अनुभवः आसीत् । एवम् अध्यत्ममार्गे संवर्धमानस्य तस्य मनसि दैवसाक्षात्कारस्य आशा संवृद्धा । तदर्थं अनेकेषां महात्मनां स्वामिनां यतीनां च दर्शनं कृत्वा तेषाम् अनुग्रहं प्राप्तवान् । दैहिकसामर्थ्यमपि संवर्ध्य अग्रिमं लक्ष्यं राष्ट्रसेवां कर्तुं सन्नद्धः अभवत् । दैवतस्य स्पष्टं परिकल्पनं तस्य मनसि उपवान् स्वामी शिवानन्दः । रोगिषु दीनेषु, आर्तेषु अपि देवदर्शनस्य भागं जागरितवान् । देवः कश्चित् भावः । समग्रं जगत् देवः इति विश्वस्तुं भावशुद्धिः आवश्यकी । इति विचिन्त्य अग्रिमं जीवनम् अस्मिन् एव पथि चालयितुं निश्चितवान् ।

बरोडायां लहोरनगरे च व्यायामप्रशिक्षणम्[सम्पादयतु]

राघवेन्द्रस्य प्रौढशिक्षा पदविपूर्वशिक्षा च कुन्दापुरे अभवत् । बरोडानगरे कलियुगभीष्मः इति ख्यातेन शतोत्तरायुष्मता, जुम्मादादस्य शिष्येन बालब्रह्मचारी प्रोफेसर् माणिक्यरायेन स्थापिते जुम्मादादव्यायमशालायां शब्दवेदी इति योगप्रकारमपि अधीतवान् । तत्र प्रथमश्रेण्या उत्तर्णाय तस्मै B.Pc ; Bachelor of Physical Culture इति पदवी लाहोरस्य वैद्यश्रेष्ठस्य आचार्यस्य बाबा लक्ष्मणदासस्य आध्यक्ष्ये प्रदत्ता । लहोरस्य बाबा लक्ष्मणदासस्य कैवल्यधाम आश्रमे आयुर्वेदं, सिद्धविद्याम्, अस्तिसन्धनकलां,युनानिवैद्यपद्धतिम् अधीतवान् । लाहोरगमनात् पूर्वमेव अस्य योगस्य ३०६आसनानां परिपूर्णज्ञानमासीत् । सूर्यनमस्कारः, योगासनानि,प्राणायामः, इत्याद्याः आत्मविद्याः बोधयन् योगविद्यायाः निष्णातः सन् स्वगुरोः शिवानन्दस्य प्रीतिपात्रम् अभवत् । स्वामी शिवानन्दः राघवेन्द्रस्य मुखे दिव्यतेजः, दीर्घयोगाचरणस्य वज्रकायत्वम् अङ्गसौष्ठवं च अनुलक्ष्य परमान्दितः अभवत् । राघवेन्द्रस्य काव्यरचनं, नाटकम्, उपन्यासाः, प्रहसनानि च उत्तमस्तरे आसन् ।

भट्टकळनगरे मारुतिव्यायामशालारम्भेन राष्ट्रसेवारम्भः[सम्पादयतु]

स्वामिनः शिवानन्दस्य आशीर्वादमार्गदर्शनपूर्वकं राघवेन्द्रःकार्णाटकराज्यस्य उत्तरकन्नडमण्डलस्य भट्कळ इति प्रदेशे मारुतिव्यावामशाला संस्थापनम् अकरोत् । राघवेन्द्रः प्रतिग्रामं गच्छन् योगशिबिराणि सञ्चालितवान् । कर्णाटकस्य अनेकान् प्रदेशान् पर्यटन् अन्ते मल्लाडिहळ्ळिप्रदेशम् आगच्छात् । तत्र तस्य स्वागतार्थं प्राथमिकशालायाः मुख्योपाध्यायः अत्रिवर्यः, ग्रामप्रमुखैः सह आगतः आसीत् । सप्ताहकालादनन्तरं यदा राघवेन्द्रः प्रस्थितवान् तदा ग्रामीणाः सर्वे क्रन्दितुम् आरब्धवन्तः । तत्रस्थस्य यतीश्वरस्य शङ्करलिङ्गभगवतः सूचनानुसारं जनहितरक्षणार्थं तत्रैव न्यवसत् ।

मल्लडिहळ्ळिप्रवेशः आश्रमप्रतिष्ठापनम्[सम्पादयतु]

एवमेव पुनः पुनः प्रीत्याग्रहः सर्वदा आगत्य पञ्चाशत् वर्षाणि मल्लडिहळ्ळिग्रामे एव अवसत् । एवं पूर्वनिश्चयेन विना अत्रागत्य आजीवम् दीनदरिद्रानाम् उद्धारार्थं जीवनं यापितवान् । प्रायः विश्वनियामकस्य सङ्कल्पवशादेव अत्र स्थितवान् इति राघवेन्द्रस्वामिनः भावः । तेन स्थापितः अनाथसेवाश्रमः अनाथानां दीनबालानाम् आश्रयस्य सेवाकुटीरः अभवत् । स्वामिनः राघवेन्द्रस्य अपारशिष्यस्तोमेषु प्रधानः होळल्केरे सूर्यनारायणः अग्रे सूरदासजी इति प्रसिद्धः । स्वामिनः छायेव अनुसरतः एषः आश्रमस्य सर्वतोमुखाभिवृद्धये प्रायतत । प्रतिवर्षं अक्टोबर्मासस्य चतुर्थदिनाङ्कतः २४पर्यन्तं आयुर्वेदयोगशिबिराणि प्रचलन्ति ।

ध्यानम्==अनाथसेवाश्रमे सेवाकार्याणि==

  • शल्यतन्त्रम् (Science of Surgery)
  • शलाक्यतन्त्रम् (Science of E.N.&T)
  • कायचिकित्सा (General Treatment)
  • भूतचिकित्सा (Treatment of Demonical Disease)
  • कौमारभर्त्यम् (Management of Childrens' Diseases)
  • अगदतन्त्रः (Toxicology)
  • रसायनतन्त्रम् (Science of Rejuvination)
  • वाजीकरणम् (Science of Aphrodisiac).

एवमेव यमः, नियमः,आसनम्, प्राणायामः प्रत्याहरः, धारणम्, ध्यानम् , समाधिः इति अष्टाङ्गयोगस्य विभागान् बोधयति स्म । विशेषदिनेषु सायं नाटकम्, नृत्यं, भाषणम्, यक्षगानम्, हरिकथाकालक्षेपः, गानं, गमकम्, इत्यदीन् कार्यक्रमान् योजयति स्म । अस्य सेवारतेषु राजनीतिज्ञाः, कवयः, सङ्गीतकारा, क्रीडापटवः, मठाधीशाः, उद्यमपतयः, पत्रकर्तारः, अभिनेतारः, च भवन्ति स्म ।

मौनव्रतकाले साहित्यकृषिः[सम्पादयतु]

स्वामी राघवेन्द्रः प्रतिवर्षं श्रावणमासे आमासं मौनव्रतधारी भवति स्म । तस्मिन् काले सहस्राधिकपुटानां साहित्यकृषिं करोति स्म । तेन लिखतग्रन्थेषु केचन एवं सन्ति । वचनसाहित्यम्, कथासङ्कलनानि, आयुर्वेदलेखाः, योगग्रन्थाः, बृहद्योगदर्शनम्, योगसम्पुटम्, व्यायामः, आत्मनिवेदनम्, आत्मचरित्रं जोळिगेय पवाड । अस्य काव्यनाम तिरुक इति ।

प्रशस्तिपुरस्कारेषु अनादरः[सम्पादयतु]

कर्णाटकस्य सर्वकारः बहुवारं तस्मै भारतसर्वकारस्य पद्मप्रशस्तिं दापयितुं प्रस्तावम् अकरोत् । किन्तु सर्वदा तां प्रीत्या निराकरोत् । कुवेम्पुविश्वविद्यालयः तस्मै सादरं डाक्टरेट् दातुम् आह्वयत् किन्तु तदपि निराकृतवान् । आश्रमस्य समुत्थानाय धनस्य आवश्यकता अस्ति तद्ददातु इति सूचितवान् । आश्रमस्य सर्वव्यवहाराः दानधनेन एव चालनीयाः आसन् । तिरुक इति काव्यनाम्नि लिखितपुस्तकानां विक्रयणेन अल्पायः भवति स्म । स्कन्दस्यूतं धरन् धनसङ्ग्रार्थं सर्वदा सूर्दासेन सह अटति स्म ।

शतमानस्य वर्धन्त्युत्सव[सम्पादयतु]

क्रि.श. १९९१तमे वर्षे राघवेन्द्रस्वामिनः जन्मशतमानोत्सवं ग्रामजनाः हितैषिणः च मिलित्वा ससम्भ्रमं समाचरन् । तस्मिन् अवसरे तेन रचितः ग्रन्थः आत्मनिवेदने इति लोकार्पितः । अभिमानिनां, शिष्यानां च प्रीत्याग्रहेन जोळिगेय पवाड इति आत्मचरित्रग्रन्थम् अरचयत् । तत्र तस्य परिश्रमस्य उपलब्धीनां च विषयस्य निरूपणं हृदयस्पर्शि अस्ति । तदैव लघुहृदयाघातः अभवत् । पुनः क्रि.श. १९९६तमे वर्षे पुनः हृदयाघातः सज्ञातः । तदा बेङ्गळूरुनगरस्य मल्य चिकित्सालये चिकित्सितः ।

अन्तिमयात्रा[सम्पादयतु]

सम्पूर्णमासं यावत् अर्धप्रज्ञास्थितौ स्थितः राघवेन्द्रस्वामी पुनः समानान्यस्थितिं नागतवान् । एवं महायोगाचार्यः कि.श. १९९६तमवर्षस्य आगस्ट् मासस्य अन्तिमे दिने परमात्मनि लीनः अभवत् । तस्य अन्त्येष्टिं मल्लडिहळ्ळिआश्रमपरिसरे एव कृत्वा भव्यसमाधिमन्दिरं निर्मितवन्तः । सहस्राधिकजनानां जीवनानि प्रकाशितवान् स्वामी राघवेन्द्रः स्वजीवनं सार्थकम् अकरोत् । वर्षद्वयस्य पश्चात् राघवेन्द्रस्य स्मरणात् एव इहलोकं त्यक्तवान् । तस्य गौरवार्थं राघवेन्द्रस्य समाधिमन्दिरस्य पार्श्वे एव अस्य समाधिमन्दिरमपि ग्रामजनाः निर्मितवन्तः । अद्यापि विविधदिग्देशेभ्यः शिष्याः, अनुयायिनः, भक्ताः, साहित्यप्रियाः, समाजपरिवर्तकाः स्वश्रद्धाबाष्पं समर्पयितुम् अत्र आयान्ति ।

राघवेन्द्रस्वामिना प्रतिष्ठापिताः संवर्धिताः च संस्थाः[सम्पादयतु]

स्वामिना आरब्द्धाः सम्पोषिताः प्रौढशालाः, छात्रावासाः, बनशङ्करिमन्दिरम्, महाविद्यालयः, दैहिकप्रशिक्षाविद्यालयः, प्रशिक्षकमहाविद्यालयः, आयुर्वेदमहाविद्यालयः, इत्यादः इदाणि प्रवृद्धाः तस्य परिश्रमस्य यशसः साक्षिणः सन्ति ।

मुरुघराजेन्द्रयतेः परिवीक्षणे मल्लाडीहळ्ळी[सम्पादयतु]

सद्यः काले श्री मुरुघराजेन्द्रस्वामी मल्लाडिहळ्ळि वर्तमानानां सर्वसङ्घटनानां दायित्वं स्वीकृत्य प्रचालयन् अस्ति । महाविद्यालयाः, प्रौढशाल, शिक्षकानां वसतिनिलयाः, सम्यक् प्रचलन्तः सन्ति ।

अनुपमं साहित्यकृषिः[सम्पादयतु]

  • काविताः

१. पूजा(कवितासङ्ग्रहः) २. हण्णुकायि (कवितासङ्ग्रहः) ३. भक्तिगीतानि ४.हनुमन्तनखड्ग

  • दीर्घकथाः

1. कोनेय गुटुकु (ಕೊನೆಯಗುಟುಕು) २. मूळेय हन्दर (ಮೂಳೆಯ ಹಂದರ) ३. चितेयो समाधियो (ಚಿತೆಯೋ ಸಮಾಧಿಯೋ) ४. उदयास्त (ಉದಯಾಸ್ತ) ५. सूत्रद बोम्बे (ಸೂತ್ರದ ಬೊಂಬೆ) ६. रसऋषि (ರಸಋಷಿ) ७. गुड्डद सिङ्गरि (ಗುಡ್ಡದ ಸಿಂಗಾರಿ) ८. त्यागजीवि (ತ್ಯಾಗಜೀವಿ) ९. एल्ल हसिवेय आट (ಎಲ್ಲ ಹಸಿವೆಯ ಆಟ)

  • नाटकानि

१. रणचण्डी (ರಣಚಂಡಿ) २. महाकवि भारती (ಮಹಾಕವಿ ಭಾರತಿ) ३. न्ययमन्त्री (ನ್ಯಾಯಮಂತ್ರಿ) ४. उषा स्वयंवर (ಉಷಾ ಸ್ವಯಂವರ) ५. दारिय देवरु (ದಾರಿಯ ದೇವರು) ६. वनमहोत्सव (ವನಮಹೋತ್ಸವ) ७. तिरुनाम (ತಿರುನಾಮ) ८. देव्वद मने (ದೆವ್ವದ ಮನೆ) ९. सुखीराज्य (ಸುಖೀರಾಜ್ಯ) १०.कर्मयोगी (ಕರ್ಮಯೋಗಿ) ११ उद्धार (ಉದ್ಧಾರ) १२. मूरु नाटकानि (ಮೂರು ನಾಟಕಗಳು)

  • गीतनाटकानि

१. भक्तशबरी (ಭಕ್ತ ಶಬರಿ) २. महाशिल्पि (ಮಹಾಶಿಲ್ಪಿ)

  • एकपात्राभिनयाः

१. ध्यनभारती (ಧ್ಯಾನಭಾರತಿ) २. ज्वालामुखी (ಜ್ವಾಲಾಮುಖಿ) ३. मूरु एकपात्राभिनयगळु (ಮೂರು ಏಕಪಾತ್ರಾಭಿನಯಗಳು) ४. प्रेमपषाणि मत्तु ममतेय मगळु (ಪ್ರೇಮಪಷಾಣಿ ಮತ್ತು ಮಮತೆಯ ಮಗಳು) ५.धनपिशाचि म्त्फ़्तु एकपात्राभिनयगळु (ಧನಪಿಷಾಚಿ ಮತ್ತು ಇತರ ಏಕಪಾತ್ರಾಭಿನಯಗಳು) ६. पञ्चाय्तिराज्य मत्तु इतर एकपात्राभिनयगळू (ಪಂಚಾಯ್ತಿ ರಾಜ್ಯ ಮತ್ತು ಇತರ ಏಕಪಾತ್ರಾಭಿನಯಗಳು) ७. नन्न रामराज्य (ನನ್ನ ರಾಮರಾಜ್ಯ.)

  • वचनसाहित्यम्

१. अन्तर्वाणी

  • कीर्तनसाहित्यम् ।

१. किरातार्जुनीय (ಕಿರಾತಾರ್ಜುನೀಯ) २. गिरिजाकल्याण (ಗಿರಿಜಾಕಲ್ಯಾಣ) ३. तिरुनीलकण्ठः (ತಿರುನೀಲಕಂಠರು) ४. हेळवनकट्टे सन्द गिरियम्म (ಹೆಳವನ ಕಟ್ಟೆ ಸಂತ ಗಿರಿಯಮ್ಮ)

  • कथासङ्कलनम् ।

१. देवर उपवास (ದೇವರ ಉಪವಾಸ) २. कथेयो व्यथेयो (ಕಥೆಯೋ ವ್ಯಥೆಯೋ) ३. किरुनाटकगळु (ಕಿರುನಾಟಕ ಕಥೆಗಳು)

  • आयुर्वेद

१. स्वयं वैद्य (ಸ್ವಯಂವೈದ್ಯ) २. चौपदि आयुर्वेद चिकित्सा सङ्ग्रह (ಚೌಪದಿ ಆಯುರ್ವೇದ ಚಿಕಿತ್ಸಾ ಸಂಗ್ರಹ) ३. वनौषधिगळ गुणधर्मः हागू विविधभाषाकोशः ( ವನೌಷಧಿಗಳ ಗುಣಧರ್ಮ ಹಾಗೂ ವಿವಿಧ ಭಾಷಾಕೋಶ) ४.गृहवैद्यकैपिडि (ಗೃಹ ವೈದ್ಯ ಕೈಪಿಡಿ)

  • व्यायामः

१. सूर्यनमस्कारः (ಸೂರ್ಯ ನಮಸ್ಕಾರ) २.सूर्यनमस्कारस्य चित्रपटः (ಸೂರ್ಯ ನಮಸ್ಕಾರ ಚಿತ್ರಪಟ) ३. अङ्गमर्दनम् ४. सर्वाङ्गसुन्दर व्यायामः (ಸರ್ವಾಂಗ ಸುಂದರ ವ್ಯಾಯಾಮ) ५. गुरुनमस्कारः (ಗುರು ನಮಸ್ಕಾರ)

  • योगः

१. प्राणायामः (ಪ್ರಾಣಾಯಾಮ) २. देहस्वास्थ्यक्कागि योगासनगळु (ದೇಹ ಸ್ವಾಸ್ಥ್ಯಕ್ಕಾಗಿ ಯೋಗಾಸನಗಳು) २. कथारूपकयोगासन (ಕಥಾ ರೂಪಕ ಯೋಗಾಸನ) ४. षट्कर्मविधिः (ಷಟ್ಕರ್ಮವಿಧಿ)

  • अन्याः

१. आत्मनिवेदने (ಆತ್ಮ ನಿವೇದನೆ) २. जोळिगे पवाड (ಜೋಳಿಗೆ ಪವಾಡ.)

"