मोरारजी देसाई

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मोरारजी देसायी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

मोरारजी देसाई (१८९६तः१९९५पर्यन्तम्),गुजरातराज्ये भडेली इत्यत्र जात: । स: १९७७तमवर्षात् १९७९तमवर्षपर्यन्तं भारतस्य प्रधानमन्त्री आसीत् । जातीयता अस्माकं राष्ट्रेण प्राप्तः शापः ।

बाल्यं शिक्षणं च[सम्पादयतु]

प्रकृतिचिकित्सायाम् अधिकम् आसक्तिमान्, अप्रतिमः स्वातन्त्र्ययोद्धा 'मोरारजी देसायी’ । एषः १८९६तमवर्षस्य फ़ेब्रुवरीमासे २९ दिनाङ्के गुजरातराज्यस्य भडेली ग्रामे जन्म प्राप्तवान् । चतुर्षु वर्षेषु आगच्छति आङ्ग्ल -लीप् इयर् वर्षे एतस्य जन्मदिनम् भवति । मोरार्जेः पिता रामचोडजी देसायी गुजराती अनाविल् ब्राह्मणः । एतस्य पूर्वजाः पेश्वे आस्थाने देसायीरूपेण कार्यं कृतवन्तः इति एतेषां वंशस्य नाम देसायी इति अभवत् । मोरारजी देसायीवर्यस्य लघु वयसि एव देशभक्तिः बहु आसीत् । यदा सः 'बुल्सारिया भाय् अनाय भाय्’ माध्यमिक शालायां पठन् आसीत्, तदा एव अस्माकं देशः परकीयानां शासने अस्ति इति ज्ञातवान् आसीत् । दशम कक्षां समाप्य भावनगरमहारजस्य साहाय्येन महाविद्यालये पठितुं मुम्बयीनगरं गतवान् । क्रीडाव्यायामयोः कारणतः एषः सदृढः अभवत् । टेन्निस् एतस्य प्रीतेः क्रीडा आसीत् । १९१५ तमे वर्षे कोलकतायां यत्र काङ्ग्रेस् अधिवेशनम् अभवत् तत्र एषः स्वयंसेवकः भूत्वा कार्यं कृतवान् । तत्र महात्मा गान्धिं दृष्ट्वा प्रभावितः अभवत् । 'स्वराज्यं मम जन्मसिद्धः अधिकारः’ इति उक्तवान् बालगङ्गाधरतिलकः अपि मोरार्जीवर्यस्य देशभक्तिवर्धने कारणीभूतः अभवत् ।

वृत्तिजीवनम्[सम्पादयतु]

मोरारजी बि. ए. परीक्षायां प्रथमश्रेण्याम् उत्तीर्णः अभवत् । मुम्बयीप्रान्तस्य सिविल् सर्वीस् करविभागं प्रति आवेदनापत्रं दत्वा १९१८ तमे वर्षे अहमदाबादस्य तात्कालिक डेप्युटी कलेक्टर् इति नियुक्तः अभवत् । यदा १९१९ तः १९३० पर्यन्तम् अस्मिन् कार्ये आसीत् तदा एकसहस्र क्रिमिनल्-व्यवहाराणां विचारणं कृत्वा निर्णयं दत्तवान् ।

सर्वकारीय-उद्योगे स्थित्वा अपि मोरारजीवर्यस्य देशभक्तिः सदा जागरिता एव आसीत् । गान्धिमहोदयस्य विचाराः एतस्मै बहु रोचन्ते स्म । १९३१ तमे वर्षे उद्योगस्य कृते त्यागपत्रं दत्तवान् । हिन्दु - मुस्लिम् जनानां कोलाहलः, गान्धिमहाभागस्य लवणसत्याग्रहः, च सर्वकारस्य विरुद्धं लेखनं लेखितुं मोरार्जीमहोदयस्य मनसि प्रेरणां दत्तवन्तौ । एतदेव तस्य त्यागपत्रदाने कारणीभूतम् अभवत् ।

स्वातन्त्र्यसङ्ग्रामे भागः[सम्पादयतु]

यदा सर्वकारस्य उद्योगस्य त्यागं कृतवान्, तदा तस्य पूर्णसमयं देशसेवानिमित्तमेव अभवत् । स्वातन्त्र्यसङ्ग्रामे भागं गृहीत्वा देशाय स्वातन्त्रसम्पादनमेव मोरारजीवर्यस्य लक्ष्यमासीत् । षड्वारम् एतस्य बन्धनम् अभवत् । सामान्यतया सप्तवर्षं कारागृहे आसीत् । एतस्य पत्नी गजराबेन् अपि एकवारं कारागृहवासम् अनुभूतवती । १९३५तमवर्षस्य इन्डिया एक्ट् अनुगुणं काङ्ग्रेस् पक्षः निर्वाचने षट्सु प्रान्तेषु जयं प्राप्य सर्वकारम् अरचयत् । १९३७ तमे वर्षे बाळासाहेबखेरः काङ्ग्रेस्पक्षस्य मन्त्री अभवत् । मोरार्जिमहोदयः रवेरसम्पुटे करविभागस्य मन्त्रिरूपेण राजकीयं प्रविष्टवान् । १९४२ तमे वर्षे क्विट् इन्डिया आन्दोलने भागं गृहितवान् इत्यतः एतं बन्धयित्वा येरवडाकारागृहे स्थापितम् ।

मुख्यमन्त्रिरूपेण मोरारजी[सम्पादयतु]

१९३९ तमवर्षतः १९४५ तमवर्षपर्यन्तं प्रचलिते द्वितियमहायुद्धस्य समाप्तेः अनन्तरं मोरार्जीदेसायी महोदयः मुम्बय्याः मुख्यमन्त्री अभवत् । तस्य शासने सः प्रान्तः उत्तमप्रगतिं प्राप्नोत् । १९३७ तमे वर्षे एषः सुरानिरोधं कर्तुम् उत्साहं दर्शितवान् । तदा सर्वकारः अहमदाबाद्-मुम्बयीनगरयोः सुरानिरोधशासनम् आनेतुं निर्णयं कृतवान् । यदा एषः मुम्बयी- मुख्यमन्त्री आसीत् तदा मुम्बयीनगरे सर्वत्र सुरानिरोधशासनम् आनीतवान्। मोरार्जीमहोदयः द्वादशवर्षाणि यावत् गुजरातराज्यस्य मुख्यमन्त्री आसीत् । १९५६ तमे वर्षे महागुजरात् निर्माणनिमित्तं यत् आन्दोलनं प्रवृत्तं तस्य अवरोधं कर्तुम् उपवासं कृतवान् । तदा अपि गान्धिमार्गम् अनुसृतवान् । १९६७ तमे वर्षे श्रीमती इन्दिरा गान्धिः एतम् उपप्रधानमन्त्रीस्थाने नियुक्तवती । १९७५ तमे वर्षे यदा आपत्कालः घोषितः तदा (जून् २६) भद्रताशासनानुसारं देसायीमहोदयं बद्धवन्तः । लोकनायकः जयप्रकाशनारायाणम् अपि बद्धवन्तः । १९ मासान् यावत् देसायीमहोदयः कारागृहवासम् अनुभूतवान् । कारागृहे सरलजीवनम् आचरितवान् एषः मितभोजनं कृत्वा रामचरितमानसं, तुलसीरामायणं, भगवद्गीताम् अन्यधर्मग्रन्थान् च पठति स्म । १९७७ तमे वर्षे जनवरी मासस्य १९ दिनाङ्के एतस्य, तथा अन्येषां च कारागृहतः विमोचनम् अभवत् ।

प्रधानमन्त्रिरूपेण मोरारजी[सम्पादयतु]

तस्मिन्नेव वर्षे मार्चमासे लोकसभायाः निर्वचनमासीत् । कारागृहतः विमोचनं येषाम् अभवत् ते (विरोधपक्षीयजनाः) निर्वाचने काङ्ग्रेस्पक्षेण सह प्रतिस्पर्धयितुं १९७७ तमे वर्षे फ़ेब्रवरी १० दिनाङ्के 'जनतापक्ष' इति एकं नूतनं पक्षं रचितवन्तः । निर्वचने जनतापक्षः अत्यधिकबहुमतं प्राप्य काङ्ग्रेसेतर सर्वकारः आगतः । तदा मोरार्जीमहाभागः प्रधानमन्त्री अभवत् । एषः भारतस्य चतुर्थः प्रधानमन्त्री । तदा एतस्य वयः द्व्यशीतिवर्षाणि । तथापि एतस्य शरीरशक्तिः ज्ञापकशक्तिः च सम्यगेव आसीत् । यस्मिन् समये एषः प्रधानमन्त्री आसीत् तस्मिन् समये इन्दिरागान्ध्ईमहोदयया परिष्कृतं स्वातन्त्र्यापहरणशासननियमं स्थगयित्वा जनस्वातन्त्र्यं पत्रिकास्वातन्त्र्यं पुनः प्रचलने आनीतवान् । एतस्मिन् काले मुक्तविपणीषु आवश्यकवस्तुनां सरलतया प्राप्त्यर्थं व्यवस्थां कृतवान् । गान्धिवादम् अक्षरशः पालयन् एषः यदि कश्चित् सचिवः भ्रष्टाचारे भवति तर्हि तं निःसङ्कोचेन विचारयितुम् आदिशति स्म । अतः एतस्य विषये बहुनायकानाम् असमाधाननम् आसीत् । अतः परिस्थितिः विपरीता जाता १९७९ तमे वर्षे जुलै १५ दिनाङ्के एषः प्रधानमन्रीे स्थानं त्यक्त्वा राजकीयनिवृत्तीं स्वीकृतवान् ।

व्यक्तित्वम्[सम्पादयतु]

मोरार्जीमहभागः महात्मागान्धेः निकटः आसीत् । अतः एतस्य व्यक्तित्वम् असाधारणं जातमासीत् । 'भयम् एव हिंसायाः मूलम्’ इति विश्वसितवान् आसीत् । भगवद्गीतायाः अन्तरार्थं सम्यक् ज्ञातवान् एषः कदापि कोपं न करोति स्म । शान्तचित्तं जितेन्द्रियस्य लक्षणम् इति ज्ञातवानासीत् । एषः शास्त्रीयसङ्गीतप्रियः आसीत् ।

मोरार्जीमहोदयः कदापि श्लाघनं न इच्छति स्म । १९९१ तमे वर्षस्य भारतसर्वकारस्य भारतरत्नप्रशस्तिः एतस्मै दत्ता । प्रशस्तिः तस्य इष्टा नासीत् । एतया प्रशस्त्या सः खेदं वा आनन्दं वा न प्रदर्शितवान् । १९९४ तमे वर्षे जनवरी मासे षिक्यागो देशस्य न्याषनल् फ़ेडरेशन् आफ़् इन्डियन् असोसिएषन् संस्था एतस्मै गान्धिप्रशस्तीं दत्त्वा गौरवं प्रदर्शितवती । पाकिस्थानसर्वकारः अपि स्वस्य अत्युन्नतां 'निशान् - ए - पाकिस्थान' प्रशस्तिम् एतस्मै अददात् । एषा प्रशस्तिः मोरार्जीमहोदयस्य अधिकारावधौ पाकिस्थानेन सह उत्तमसम्बन्धस्य रक्षणार्थं दत्ता ।

लेखकः मोरारजी[सम्पादयतु]

देसायीवर्यः उत्तमः लेखकः आसीत् । प्रकृतिचिकित्सायाः विषये एषः 'नेचर् क्यूर्’ इति एकं पुस्तकं लिखितवान् । स्वस्य जीवनमेव अधिकृत्य 'दि स्टोरी आफ़् मै लाइफ़्’ इति त्रयाणां सम्पुटानां ग्रन्थः बहु जनप्रियः अभवत् । केवलं शाखाहारी एषः उपवासेन बहु रोगाः निवारयितुं शक्याः इति विश्वसितवान् आसीत् । भगवद्गीतामहाभारतयोः विषये त्रीणि पुस्तकानि रचितवान् । निसर्गचिकित्सायां विश्वासवान् स्वमूत्रपानचिकित्सया नवनवतिवर्षपूर्णं जीवनं समाप्य १९९५ तमे वर्षे दिवङ्गतः ।

"

"http://sa.wikipedia.org/w/index.php?title=मोरारजी_देसाई&oldid=265413" इत्यस्माद् पुनः प्राप्तिः