सती
सति(दाक्षायणी इत्यपि नाम्ना प्रसिद्धा) हिन्दुधर्मे देव्याः आदिशक्तिः। सा भगवतः महादेवस्य प्रथमा पत्नी प्रजापति दक्षस्य च पुत्री। एषा सति पुनर्जन्मरूपेण पार्वती भूत्वा महादेवस्य द्वितीया पत्नी अभवत्।
सति च पार्वती च द्वे अपि महादेवम् अक्रोधं कर्तुं तं च शांतिरुपे आनेतुं समर्था अतः द्वे अपि पूजनीया। नवदुर्गा अपि देव्याः पार्वत्याः रूपाः।
जन्म
[सम्पादयतु]आदिशक्ति ब्रह्मदेवस्य प्रार्थनया मनुष्यरूपेण जनिम् अलभत्। सति प्रजापति दक्षस्य तस्य पत्न्याः प्रसुत्याः च पुत्री। दक्षः ब्रह्मदेवस्य पुत्रः स्वस्य निर्णयेन समर्था च। सति जन्मसमये अतीव सुन्दरा गौरवर्णा च। अतः सा गौरी इति नाम्ना अपि प्रसिद्धा।
सतिशिवयोः विवाहः
[सम्पादयतु]आदिशक्तिः शिवस्य भक्तिः कृत्वा तस्य पत्नी भवेत् इति ब्रह्मदेवस्य इच्छा। किन्तु प्रजापति दक्षः महादेवस्य अरिः। येन केन प्रकारेण दक्षेण सत्याः विरोधः कृतम्। अतः सतिः तस्याः गृहं तत्याजित्वा अरण्यम् जगाम तत्र च शिवाराधना चकार। तत्र केवलं एकस्य बिल्वपत्रस्य भक्षणं चकार। शिवः तेन प्रभावितः सत्या सह विवाहः कर्तुं सिसिद्धः। किन्तु दक्षस्य विरोधेन सत्या स्वयंवरस्य उपायः सूचिता। दक्षेण महति मण्डपे सत्याः स्वयंवरः आयोजितः। तत्र शिवस्य मूर्तिः स्थापयित्वा दक्षः शिवस्य अपमानं कृतम्। सति शिवमूर्तिम् एव पुष्पहारः समर्पयत्। शिवः तत्र आविर्भूतः। एवं सतिशिवयोः विवाहः स्वयंवरमण्डपे जातः।
दाक्षयज्ञः
[सम्पादयतु]प्रजापति दक्षः सतिशिवयोः विवाहेन न सन्तुष्टः। तदा शिवस्य अपमानं कर्तुं दक्षः एकः यज्ञः समायोजितः। तदा सतिशिवाभ्यां न निमंत्रणं प्राप्तम्। तथापि सति आग्रहेण शिवं यज्ञमण्डपे आनयत्। तदा दक्षः शिवस्य अपमानं कृतम्। सतिम् अशुभम् अगदत्। तेन दुःखिता सतिः तस्यैव यज्ञमण्डपे अपतत्। तेन सा दिवंगता। क्रोधेन शिवः स्वस्य जटायां वीरभद्रः भद्रकाली च समुत्पन्नः। भद्रकाली सम्पूर्णं यज्ञमण्डपं उद्ध्वस्तः कृतम्। वीरभद्रेण दक्षस्य मस्तकं धडात्पृथक्चकार। ब्रह्मदेवः एषः ज्ञात्वा शिवं क्षमायाचना चकार। तदा शिवः यज्ञमण्डपं पुनः जीवितः कृत्वा दक्षाय एकस्य पशोः मस्तकः ददौ। सत्याः ज्वलशरीरं गृहीत्वा शिवः सम्पूर्ण पृथिव्याः परिभ्रमणं कृतम्। भगवतः विष्णोः प्रार्थनया शिवः व्यरमत्। किन्तु एतस्माद्विरोधात् सत्याः शरीरं पृथिव्यां एकपञ्चाशत्सु (५१) स्थानेषु पतितम्। तत्र च शक्तिपीठाः प्राभवन्।
सत्याः पुनर्जन्मः
[सम्पादयतु]सति पुनर्जन्मेण नगाधिराजस्य हिमालयस्य पुत्री अभवत्। हिमालयः शिवस्य गाढः भक्तः । तदा पार्वतीशिवयोः विवाहः अभवत्। तदनन्तरं पार्वतीं गणेशः स्कन्दः च एतौ द्विपुत्रौ अपि जाता।