औशनसस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


औशनसः शुक्रस्य पुत्रो भृगुवंशीय ऋषिरासीत् । औशनसस्मृतौ शिष्टाचारशिक्षाया महत्त्वं प्रमुखतां मजते । विशेषतो ब्रह्मचारिणां जीवने शिष्टाचारशिक्षायाः प्रयोजन मधिकतयाऽस्तीति तेन भणितम् क्स्मै कीदृशः शिष्टाचारो दर्शयितव्यः, तस्य वर्णना सुष्टु विहितास्ति । यथा-ब्राह्मणानां कुशलपृच्छा, शूद्राणां च शारीरिक-कुशलजज्ञासा इत्यादिरीत्या शिष्टाचारा न कदापि विस्मरणीया इति तेन विस्तरतः प्रोक्तमस्ति । मानव -समाजे स्त्रीणां मर्यादरक्षा सर्वथा काम्या, विशेषतः समाजे माता, पिता ज्येष्ठभ्राता, गुरवः तथा मातृकुलोद्भवाः पितृकुलोदभवाश्च सर्वे विद्यावयोज्येष्ठा गुरुजना यथायोग्यम् आराधनीया स्युरिति तेन स्पष्टं दर्शितम् । मातुरासनं सर्वोपरि वरीवर्त्ति ।

औशनसस्मृतौ केवलमष्टावेवा-ध्यायाः सन्ति । तत्र प्रथमाध्याये ब्रह्मचारिणां क्रमागतकर्त्तव्यविचारः, द्वितीयाध्याये ब्रह्मचारि धर्माः, तृतीयाध्याये ब्रह्मचारिणां शौचाचार वर्णनम्, चतुर्थांध्याये श्राद्धे ब्राह्मणानाम् आमन्त्रणव्यवस्था, पञ्चमाध्याये पिण्डदान विधिः, षष्ठाध्याये अशौचव्यवस्था, सपिण्ड-सगोत्र -समानोदकविचारः, सद्यः शौचविधिश्च प्रतिपादिताः । ततः सप्तमाध्याये गृहस्थानां प्रेतकर्मव्यवस्था, सपिण्डकरण्-श्राद्धविधिश्च प्रतिपादितः । ततः अष्टमध्याये प्रायश्चित-व्यवस्ता, प्रायश्चित्ताकरणे दोषः, अनेक -पापानां प्रायश्चित्तविधानादिकं सर्वं स्पष्टं प्रतिपादितम् ।

अस्यां स्मृतौ ब्राह्मणो यथा बर्णानां गुरु र्भवति, तथा स्त्रीणां पतिरेव गुरुः मान्य इति मन्तव्यम् । एवमेव मानव-समाजस्य कल्याणाय शिष्टाचार -शिक्षया सर्वथा भाव्यम् इति औशनसीया स्मृति-शिक्षा- समाजे यथा मनुष्यनिमित्तं विद्याया माहत्म्यम् अनिवार्यमस्ति, तथा जीवन निर्वाहार्थं धनस्यापि प्रयोजनं सर्वथा वर्त्तत इति तेन दर्शितम् ।

स्मृतेरस्या नीतिशिक्षा युगोपयोगिनी-यथा-
गुरुरग्नि र्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=औशनसस्मृतिः&oldid=480068" इत्यस्माद् प्रतिप्राप्तम्