विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
|
|
प्रेता जयता नरः ॥
हे मानव ! अग्रे सर, विजयी भव । -सामवेदः १८६-२
|
|
संस्कृतम् संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टााध्याकयी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्था्नं इवास्ति। ( अधिकवाचनाय »)
|
|
|
|
|
|
|
|
|
|
वायुः अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते। वायुं विना जीवनम् असम्भवम् अस्ति। प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः। एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः। किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः। जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते। पृथिव्याः परितः वायूनाम् आवरणम् अस्ति। तत् आवरणं वायुमण्डलं कथ्यते। जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते। सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति। यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः। अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति। ( अधिकवाचनाय »)
|
|
सप्तर्षयः के ?
अयं च श्लोक: -
- कश्यपोऽत्रिः भरद्वाजः विश्वामित्रोऽथ गौतमः ।
- जमदग्निः वसिष्ठश्च सप्तैते ॠषयः स्मृताः ॥
|
|
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
- चाणक्यनीतिदर्पणम् ५/१९
इयं भूमिः सत्येन एव धृता अस्ति। सूर्यः सत्येन एव तपति। वायुः स॒ञ्चरति सत्यस्य आधारेण एव। जगति विद्यमानं सर्वमपि सत्ये एव प्रतिष्ठितम् अस्ति। सत्यमेव सर्वस्य आधारभूतं, शक्तिमूलं च। अतः अस्माभिः सत्यम् उपासितव्यम्।
|
|
|
|
|
|