हनुमानप्रसाद पोद्दार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हनुमानप्रसाद पोद्दार(हिन्दी: हनुमानप्रसाद पोद्दार, आङ्ग्ल: hanuman prasad poddar )इत्ययम् गीता, वेदाः, पुराणानि, उपनिषदः, रामायणं, महाभारतादीनि धार्मिकपुस्तकानि ग्रामं ग्रामं प्रापयितुं कार्यरतः आसीत् । तं ‘गीता प्रेस गोरखपुर’ इति प्रकाशनं को वा न जानाति ? । अस्य प्रकाशनस्य मुख्यसूत्रधारत्वेन हनुमानप्रसाद पोद्दार इत्ययम् आसीत् ।[१] अनेन ‘कल्याण’ इति सामयिकमाध्यमेन धार्मिके, आध्यात्मिकपत्रकारक्षेत्रे च महत्वपूर्णं योगदानं प्रदत्तम् । तस्मिन् अपि महत्मना सूचिताः नियमाः सिद्धान्तत्वेन पालिताः । अद्यापि अस्य प्रकाशनस्य पुस्तकानि न्यूनेन मूल्येन प्राप्नुमः इत्यत्र हनुमानप्रसाद पोद्दार इत्यस्य महत्वपूर्णं योगदानम् अस्ति ।

जन्म, परिवारश्च[सम्पादयतु]

हनुमानप्रसादस्य जन्म १८९२ तमस्य वर्षस्य सितम्बर-मासस्य १७ तमे दिनाङ्के मेघालय-राज्यस्य शिलन नामाख्ये नगरे अभवत् । [२] तस्य पूर्वजाः राजस्थानवासिनः आसन् । किन्तु व्यापारार्थं पूर्वभारतं गताः । अतः हनुमानप्रसादस्य बाल्यकालः कोलकाता-नगरे व्यतीतः । तस्य पिता भीमराजः व्यापारी आसीत् । तस्य बाल्ये मातुः मृत्युरभवदतः तं पितामही अपोषयत् । [३]

शिक्षणम्[सम्पादयतु]

हनुमानप्रसादेन शालाकीयं शिक्षणं न प्राप्तम् । तेन स्वध्यायेन शिक्षणं प्राप्तम् । सः हिन्दीभाषायाः विद्वद्भिः, सम्पादकैश्च सह सम्पर्कवशात् हिन्दीसाहित्यम् अपठत् ।[४] अयोध्याप्रसादनामकेन विदुषा आङ्ग्लम् अपठत् । बङ्गालीयक्रान्तिकारिणां, सताञ्च जीवनचरित्राण्यपि अपठत् ।

पितुः जीवनात् प्रेरणा[सम्पादयतु]

हनुमानप्रसादस्य पिता भीमराजः व्यापरी आसीत् । किन्तु धार्मिकवृत्तियुतः आसीत् । तस्य आपणे अहर्निशं सत्सङ्गः भवति स्म । सः कतिचिद्भिः मित्रैस्सह मिलित्वा सनातनधर्मस्य पुष्टिकारिणी सभा इत्येतस्याः संस्थायाः स्थापनाम् अकरोत् । तस्य एतादृशः स्वभावस्य प्रभावः पुत्रस्य उपरि आसीत् ।[५] तेन पितुर्जीवनात् प्रसिद्ध्याः दूरे वनास्तव्यमित् प्रेरणा प्राप्ता ।

भारतीयसंस्कृतेः ज्ञानं, गुणानां च विकासः[सम्पादयतु]

कोलकाता-नगरे दानचन्द चोपडा इत्येकः व्यापारी वसति स्म । तस्य गृहे प्रतिदिनं जैनमुनीनाम् आगमनं भवति स्म । हनुमानप्रसादः तत्र प्रतिदिनं गच्छति स्म । तेन वैष्णवेतरां भारतीयसंस्कृतिं ज्ञातुं सः सहायतां प्रापत् । तेन किशोरावस्थायां धार्मिकसहिष्णुतायाः, उदारतायाः च गुणाः प्राप्ताः ।[६]

क्रान्तिकारिभिः सह सम्पर्कः[सम्पादयतु]

बङ्गाल-राज्यं तदानीं क्रान्तिकारिप्रवृत्तीनां केन्द्रम् आसीत् । कोलकाता-नगरे तदानीं क्रान्तिकारिणः वसन्ति स्म । तेषां सहवासेन हनुमानप्रसादः क्रान्तिकारिविचारयुतः अभवत् । १९०६ तमे वर्षे कोलकाता-नगरे कोंग्रेस-पक्षस्य अखिलभारतीयम् अधिवेशनम् आसीत् । तत्र हनुमानप्रसादेन जहाल इति पक्षतः कार्यं कृतम् । ततः परं तस्य गोपालकृष्ण गोखले, महात्मा, लोकमान्यः तिलकः, श्री अरविन्दः, सुभाष चन्द्रः बोस इत्यादिभिः सह सम्पर्कः अभवत् । [४]मदन मोहन मालवीय इत्येतेन सह तु तस्य आजीवनं सम्बन्धः आसीत् ।

जयदयाल गोएन्का इत्यस्य आध्यात्मिकगुरुत्वेन स्वीकारः[सम्पादयतु]

कोलकाता-नगरस्य पारकजी-कोठी इत्यत्र तस्य पितुः आपणः आसीत् । किशोरः हनुमानप्रसादः पितुः सहायतां कर्तुं प्रतिदिनम् आपणं गच्छति स्म । तदानीं जयदयाल गोएन्का इत्ययं हनुमानप्रसादस्य निकटवर्तिनम् आपणं प्रतिदिनं गच्छति स्म । जयदयाल गोएन्का अत्यन्तधार्मिकप्रकृतियुक्तः मनुष्यः आसीत् । [५]गीतायाः सन्देशप्रचारः तस्य जीवनलक्ष्यम् आसीत् । जयदयाल गोएन्का इत्यस्य ज्ञानयोगे, कर्मयोगे, भक्तियोगे च अद्भुतं ज्ञानम् आसीत् । जयदयाल गोएन्का इत्यस्य व्यक्तित्वस्य प्रभावेण हनुमानप्रसादः आध्यात्मिकगुरुत्वेन तम् स्व्यकरोत् ।

लेखनारम्भः[सम्पादयतु]

२० वर्षाणां न्यूने वयसि हनुमानप्रसादः लेखनम् आरभत । तस्य "मर्यादा" , "नवनीतम्" इति लेखौ कोलकाता-नगरस्य समाचारादिपत्रेषु प्रकाशितौ भवतः स्मः । याभ्यां सः प्रसिद्धिं प्रापत् । यैः तस्य साक्षात्कारः न कृतः, तैः सन्देशमाध्यमेन हनुमानप्रसादस्य परिचयः साधितः ।[७]

दानग्रहणे मालवीय इत्यस्य साहाय्यम्[सम्पादयतु]

१९१४ तमे वर्षे मदन मोहन मालवीय बनारस हिन्दुविश्वविद्यालयनिर्माणहेतवे धनार्जनं कर्तुं कोलकाता-नगरं गतः । तदानीं मारवाडी-समाजात् धनसङ्ग्रहाय हनुमानप्रसादेन महत्वपूर्णं योगदानं प्रदत्तम् । १९१५ तमे वर्षे महात्मा कोलकाता-नगरं समागतः । तदानीं हनुमानप्रसादेन स्वदेशसेवायाः व्रतं धृतम् । किन्तु महात्मना प्रभावितः सता अपि तेन क्रान्तिकारिविचाराः न त्यक्ताः । तदानीम् अपि सः क्रान्तिकारिदले सक्रियः आसीत् ।[८]

कारावासः, जीवनपरिवर्तनं च[सम्पादयतु]

हनुमानप्रसादः क्रान्तिकारिदले सक्रियः आसीत् अतः १९१६ तमे वर्षे राजद्रोहस्य आरोपेण बन्दीकृतः । ततः परं हनुमानप्रसादः अलीपुरस्य केन्द्रकारागारं, शिमलापाल इति नामकं कारागारं च प्रेषितः । तत्र सः भजनकीर्तनेन सह आध्यात्मिकसाधनाम् अकरोत् । इत्थं २१ मासान् यावत् कारागारे साधनाम् अकरोत् येन तस्य जीवने परिवर्तनम् आगतम् ।[९] हिंसावादिराजनीतिं प्रति तस्य मनः खिन्नताम् अन्वभवत् च ।

कोंग्रेस-पक्षस्य त्यागः धर्मप्रचारकार्यारम्भः[सम्पादयतु]

बङ्गालप्रदेशात् बहिष्कृतः हनुमानप्रसादः १९१८ तमे वर्षे कारागारात् विमुक्तः । एतादृश्यां स्थितौ सः स्वस्य पूर्वजानां स्थाने राजस्थाने न्यवसत् । कतिचित् दिनानि यापयित्वा ततः मुम्बई-नगरम् अगच्छत् । तत्र कोंग्रेस-पक्षस्य प्रत्येकं कार्यक्रमेषु उपस्थितः अभवत् । कोंग्रेस-पक्षस्य नेतृभिः सह विचारभेदवशात् हनुमानप्रसादः कोंग्रेस-पक्षमपि अत्यजत् । आध्यात्मिकतायाः, साधनायाः, धर्मप्रचारस्य च कार्यम् आरभत ।

हनुमानप्रसादः गीता प्रेस प्रकाशने विश्वासिकः[सम्पादयतु]

जयदयाल गोएन्का वेस्ट बङ्गाल सोसैटि रेजिस्ट्रेशन एक्ट इत्यत्र गोविन्दभवन-नामिकायाः संस्थायाः पञ्जीकरणम् अकारयत् । संस्थायाः माध्यमेन गीतावितरणस्य कार्यम् अचालयत् । कोलकाता-नगरस्य वणिक-नामकात् प्रकाशनात् पञ्चसहस्रप्रत्तीः अमुद्रापयत् । [१०] किन्तु तेषु मुद्रणदोषाः आसन् । अतः जयदयाल गोएन्का इत्ययं स्वप्रकाशनस्य उद्घाटने प्रेरणां प्रापत् । १९२३ तमे वर्षे गोविन्दभवन-कार्यालयेन 'गीता प्रेस गोरखपुर' इत्यस्य प्रकाशनस्य स्थापना कृता । तदानीं हनुमानप्रसादः कोंग्रेस-पक्षस्य दायित्वं त्यक्त्वा गीता प्रेस इत्यस्मिन् प्रकाशने सम्मिलितः । जयदयाल गोएन्का इत्येतेन 'गीता प्रेस' इत्यस्य विश्वासिक(trustee)पदं हनुमानप्रसादाय प्रदत्तम् । पत्रिकाणां प्रकाशने सम्पूर्णा स्वतन्त्रता अपि प्रदत्ता ।

कल्याणाङ्कस्य आरम्भः[सम्पादयतु]

हनुमानप्रसादेन १९२६ तमे वर्षे 'गीता प्रेस' इत्यतः 'कल्याण'-नामकं हिन्दी-सामयिकम् आरब्धम् । अस्य प्रारम्भात् प्राक् हनुमानप्रसादः महात्मनः आशीर्वादाय अगच्छत् । [११] महात्मना प्रसन्नेन सता उक्तं – “कल्याणाङ्के" नियमद्वयं पालनीयम् । कस्यापि विज्ञापनं न स्वीकर्तव्यम्, कस्यापि पुस्तकस्य समालोचना न कर्तव्या” इति । महात्मनः वचांसि श्रुत्वा हनुमानप्रसादः अवदत् हे महात्मन् ! नियमद्वयस्य पालनाय” आशीर्वादं ददातु ।

कल्याणाङ्कस्य हेतुः[सम्पादयतु]

हनुमानप्रसादः महात्मने प्रदत्तं वचनम् अपालयत् । [१२] साम्प्रतं नवतिः वर्षान्तेऽपि कल्याणाङ्के विज्ञापनं न प्रकाश्यते । कल्याणाङ्कस्य प्रथमे प्रकाशने तेन स्पष्टता कृता यद् - १ कल्याणाङ्कस्य प्रकाशनं संसारं, मानवकल्याणं च उद्दिश्य भवति । २ कल्याणङ्कः साधूनां, महात्मनां, महापुरुषाणां च दिव्यवाणीप्रचारेण जनान् जीवितुं प्रेरयिष्यति । ३ देश-जाति-धर्मादीनां लघुताग्रन्थितः विमुच्य सांसारिकजनान् भगवत्प्राप्तिमार्गं दर्शयिष्यति । ४ धनार्जनहेतुना विना कल्याणाङ्कः जनसामान्यस्य धार्मिकस्य, आध्यात्मिकस्य च उन्नतौ कार्यरतः भविष्यति | 'कल्याण'-सामयिकेन भारतीयवाङ्मयं शुद्धस्वरूपेण प्रतिगृहं गच्छेत् इति हनुमानप्रसादः प्रयत्नम् अकरोत् । भारतीयेषु सामयिकेषु 'कल्याण' इत्यस्य विशिष्टा प्रगतिः अभवत् । ४५ वर्षेषु तेन ४४ विशेषाङ्कानां प्रकाशनं कृतम् । 'कल्याण' इत्यस्य प्रारम्भात् हनुमानप्रसादः सम्पादनप्रकाशनकार्याभ्यां धनं न स्वीकरोति स्म । भोजनवस्त्रे अपि स्वरीत्यैव आनेष्यति इति सङ्कल्पितवान् । ‘कल्याण’ इत्यस्य विकासाय हनुमानप्रसादेन कदापि अन्यसामयिकैः सह स्पर्धा न कृता ।

दुर्गाप्रसादस्य साहाय्यकरः[सम्पादयतु]

एकदा सङ्कीर्तन-सामयिकस्य तन्त्रिणा दुर्गाप्रसादेन चिन्तया स्वसामयिकस्य ग्राहकसङ्ख्यायाम् आधिक्यं भवेत्तादृक् मन्त्रं ददातु इति उक्तम् । हनुमानप्रसादः उक्तवान् यद् – “भवान् मद्वद् सङ्कीर्तने चित्राणि मुद्रयतु । तदर्थं चित्राणि निःशुल्कं ददामि” इति । इत्थं सङ्कीर्तन-सामयिकस्य ग्राहकसङ्ख्यायाम् आधिक्यम् अभवत् ।[१३] दुर्गाप्रसादेन पुनः अन्यः उपायः पृष्टः । हनुमानप्रसादः कल्याणाङ्कस्य ग्राहकाणाम् आवलिं प्रेषितवान् । तेषु १२०० ग्राहकाणां नाम्नाम् उपरि चिह्नं कृत्वा तेभ्यः सङ्कीर्तनस्य प्रेषणेन अष्टशताधिकाः (८००) जनाः ग्राहकाः भविष्यन्ति इति अकथयत् । किन्तु इत्थं १२०० तः १२०० जनाः लब्धाः ।

महाभारतकल्पतरोः सामयिकयोः आरम्भः[सम्पादयतु]

१९३३ वर्षतः गीता प्रेस इत्यनेन प्रकाशनेन आङ्गलभाषायां कल्पतरु इति सामयिकस्य प्रकाशनं कृतम् । विदेशे अस्य बहुमानम् अभवत् । तस्मिन् भागवतस्य, रामायणस्य, महाभारतस्य च अनुवादाः प्रकाश्यन्ते स्म । हनुमानप्रसादः आमरणम् एतेन सह सम्मिलितः । भारतस्य प्राचीनग्रन्थं महाभारतं सामान्यजनं यावत् प्रेषयितुं १९५५ तमे वर्षे महाभारत नामाभिधं मासिकम् आरभत । [१४] तस्मिन् यथाक्रमं संस्कृतकथातः हिन्दीभाषायाम् अनुवादं कृत्वा लेखान् प्राकाशयत् । कथेयम् आपञ्चवर्षं प्रचाल्यमाना आसीत् । कथायाः समाप्तौ सत्यां सामयिकस्य प्रकाशनम् अपि पिहितम् अभवत् ।

हनुमानप्रसादस्य सेवा[सम्पादयतु]

हनुमानप्रसादस्य जीवनं गवां, गङ्गायाः च सेवायां समर्पितम् आसीत् । गीता प्रेस प्राकाशनेन गीतायाः प्रचारप्रसारः कृतः । प्रकाशनकार्यं तेन प्रकाशनं यावदेव सीमितं न कृतम् । अतिवृष्ट्यादिषु ईश्वरीय-आपत्तिषु पीडितानां सहायता अपि विहिता । गवां सेवायै अपि बहूनि कार्याणि कृतानि । [१५]

हनुमानप्रसादस्य त्यागः[सम्पादयतु]

एकदा हिन्दीसाहित्यसम्मेलनम् आसीत् । तत्र हनुमानप्रसादः साहित्यवाचस्पति इति पदवीं प्रापत् । किन्तु तेन अस्य विषयस्य उल्लेखः कुत्रापि न कृतः । तस्मै 'राव बहादुर' भवितुं ब्रिटिश-सर्वकारः प्रस्तावम् अस्थापयत् । संयुक्तः प्रान्ताध्यक्षः सर् हेगी तस्मै सर् इति उपाधिं दातुं प्रस्तावम् अस्थापयत् । [१६] किन्तु हनुमानप्रसादः अभिनन्दनादिभिः सदैव दूरमेव स्थितवान् ।

निवृत्तिः[सम्पादयतु]

समाजे सर्वत्र भ्रष्टाचारं दृष्ट्वा हनुमानप्रसादः खिन्नः भवति स्म । अतः एकान्तस्थलं प्राप्य साधनां कर्तुं व्यचारयत् । शरीरस्य निर्बलतावशात् निवृत्तः भवितुं व्यचारयत् । अन्ते गोविन्दभवन ट्रस्ट इत्यस्मिन् स्वविचारान् प्रस्तूय १९६९ तमे वर्षे निवृत्तः अभवत् । [१६]

मृत्युः[सम्पादयतु]

साधनायै कार्यमुक्तः अभवत्,किन्तु ईश्वरेच्छया रुग्णे जाते सति निदानेन उदरे कर्करोगवशात् आवर्षद्वयं प्रतिकारं कृत्वा १९७१ वर्षस्य मार्च-मासस्य २२ तमे दिनाङ्के ईश्वराङ्कं प्रापत् । [१७]

सन्दर्भः[सम्पादयतु]

  1. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 169. ISBN 9789351080923. 
  2. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदाबाद. p. 169. ISBN 9789351080923. 
  3. रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 6. 
  4. ४.० ४.१ जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 170. ISBN 9789351080923. 
  5. ५.० ५.१ जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 170. ISBN 9789351080923. 
  6. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 170. ISBN 9789351080923. 
  7. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 171. ISBN 9789351080923. 
  8. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 171. ISBN 9789351080923. 
  9. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 171. ISBN 9789351080923. 
  10. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 171. ISBN 9789351080923. 
  11. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 172. ISBN 9789351080923. 
  12. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 172. ISBN 9789351080923. 
  13. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 173. ISBN 9789351080923. 
  14. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 173. ISBN 9789351080923. 
  15. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 17. ISBN 9789351080923. 
  16. १६.० १६.१ जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 174. ISBN 9789351080923. 
  17. जितेन्द्र पटेल (2013). हनुमानप्रसाद पोद्दार. बाबुभाई एच शाह पार्श्व पब्लिकेशन् अहमदीबाद. p. 174. ISBN 9789351080923. 
"https://sa.wikipedia.org/w/index.php?title=हनुमानप्रसाद_पोद्दार&oldid=371022" इत्यस्माद् प्रतिप्राप्तम्