भवप्रत्ययो विदेहप्रकृतिलयानाम् (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शब्दार्थः[सम्पादयतु]

• भव = objective existence, becoming

• प्रत्ययः = cause, cognitive principle, content of mind, cognition

• विदेह = bodiless, disembodied

• प्रकृति = creative cause, subtlest material cause, nature

• लयानाम् = dissolved, merged into

सूत्रसारः[सम्पादयतु]

'भवप्रत्ययः' असम्प्रज्ञातसमाधिः, विदेहेषु, प्रकृतिलीनेषु च भवति॥

केचन ये उच्चस्तरं प्राप्तवन्तः अथवा अव्यक्तप्रकृतिं जानन्ति, ते स्वस्य अवशिष्टैः अज्ञानस्य गुप्तसंस्कारैः अस्मिन् जगति जन्मनि आकृष्टाः भवन्ति, स्वाभाविकतया च एनं (भवप्रत्यय)-समाधिस्थितिं प्राप्नुवन्ति।

Some who have attained higher levels (विदेहः) or know un-manifest nature (प्रकृतिलयः), are drawn into birth in this world by their remaining latent (अव्यक्तम्) impressions of ignorance, and more naturally come to these states of samadhi.

व्यासभाष्यम्[सम्पादयतु]

स खल्वयं द्विविधः — उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति । विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥१९॥

भाष्यार्थः[सम्पादयतु]

विदेह-नामकानां देवतानां 'भवप्रत्ययः' असम्प्रज्ञातसमाधिः भवति। ते देवाः स्वस्य संस्कारमात्रावशिष्टेन चित्तेन कैवल्यपदवत् अनुभवं कुर्वन्तः स्वस्य (पूर्व-)संस्काराणाम् अनुरूपतया फलानि प्राप्यमाणाः, तान् संस्कारान् समापयन्ति। तथैव ( 'भवप्रत्यय' असम्प्रज्ञातसमाधियुक्ताः ) प्रकृतिलीनाः ( देवगणाः अपि ) अकृतकृत्यचित्तस्य प्रकृतौ लीनाः भवन्ति, ततः कैवल्यपदवत् अनुभवं कुर्वन्तः भवन्ति, यावत्पर्यन्तं ( तेषां ) चित्तम् अकृतकार्यतायाः कारणेन पुनः ( लौकिकदशायां ) न अवतरति॥ १९ ।।

विदेहः, प्रकृतिलीनः च[सम्पादयतु]

श्रुतिषु, स्मृतिषु च अनेकप्रकाराणाम् आमुष्मिकानां (परलोकीयानां) भोगानां वर्णनं प्राप्यते। ते भोगाः निम्नासु श्रेणीषु संकलिताः भवितुम् अर्हन्ति। यथा -

१. स्वर्गप्राप्तिः - 'ज्योतिष्टोम'-आदियागान् कृत्वा स्वर्गप्राप्तिः भवति।

२. देवत्वप्राप्तिः - विदेहप्राप्तिः एव देवत्वप्राप्तिः अस्ति।

३. स्वर्गराज्यप्राप्तिः - स्वर्गराज्यस्य प्राप्तिः 'वाजपेय'-यागेन भवति।

४. प्रकृतिलीनता - प्रकृतिलीन-नामकस्य देवत्वस्य प्राप्तिः।

एतासु आमुष्मिक(परलोकीय)गतिषु प्रथमा, द्वितीया च वेदेषु अपि अतिप्रथिता अस्ति, अतः स्पष्टतः सर्वविदिता अस्ति, किन्तु विदेहत्वस्य, प्रकृतिलीनत्वस्य च स्वरूपं स्पष्टतः विदितं नास्ति। सांख्यकारिकायां[१], सांख्यसूत्रे[२], योगसूत्रे[३], योगभाष्ये[४], एतेषां ग्रन्थानां टीकासु च वैदेह्यस्य, प्रकृतिलयत्वस्य च यत्किञ्चित् निर्देशनं तु प्राप्यते, किन्तु एतस्य स्वरूपे अपेक्षितः प्रकाशः न दरीदृश्यते। एतेषां द्विविधानां देवतानां विषये वायुपुराणे वर्णनं प्राप्यते। यथा -

'दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।

भौतिकास्तु शतं पूर्णं, सहस्रं त्वभिमानिकाः ॥

बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः ।

पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ।

निर्गुणं पुरुषं प्राप्य कालसंख्या न विद्यते ॥

एतेषां सर्वेषाम् आधाराणां निर्गलितार्थः भवति यत्, पञ्च महाभूताः, इन्द्रियम्, अहङ्कारः, बुद्धिः इत्येतेषां पूर्णसाक्षात्कारकर्तारः, परन्तु पुरुषख्यातिरहिताः योगिनः एतानि तत्त्वानि एव 'आत्मा' उत 'पुरुषः' इति मत्त्वा तेषां तत्त्वानाम् एव उपासनां कुर्वन्ति। एतेषां तत्त्वानाम् उपासनाकरणात् ते तेषां सम्बद्धेन वासितान्तःकरणेन (वासनायुक्त-अन्तःकरणेन) अभिभूताः भूत्वा स्थूलशरीरस्य पतने सति एतेषु तत्त्वेषु यथायोग्यतया लीनाः भूत्वा रक्तशोणितनिर्मितषाट्कौशिकशरीर-रहिताः भूत्वा वायुपुराणोक्तकालपर्यन्तं 'विदेह'-देवतानां स्थित्यां भवन्ति।

'अव्यक्त'प्रकृतिं 'सर्वस्व'त्वेन स्वीकृत्य 'अव्यक्त'स्य उपासनाद्वारा तद्वासनावासितान्तःकरणयुक्ताः भूत्वा शरीरपातस्य अनन्तरम् अव्यक्त-'प्रकृतौ' लीनाः भवन्ति। एवञ्च शतसहस्र-मन्वन्तरपर्यन्तं 'प्रकृतिलीन'-देवतानां स्थित्यां तिष्ठन्ति।

विदेहगणाः स्थूलदेह-रहिताः किन्तु 'व्यक्त'-लिङ्गशरीरधारिणः भवन्ति। प्रकृतिलीनाः 'अव्यक्त'-कारणशरीरधारिणः भवन्ति।

'विदेहगणाः' सावरणब्रह्माण्डस्य अन्तर्गताः भवन्ति, किन्तु 'प्रकृतिलीनाः' सावरणब्रह्माण्डात् बहिर्भूताः भवन्ति। विदेहानाम् ऐश्वर्यं प्रकृतिलीनानाम् अपेक्षया स्थानस्य, कालस्य, भोगस्य च दृष्ट्या अतीव सीमितं भवति।

विदेहास्तु सावरणब्रह्माण्डान्तर्गता इति भेदस्ते च मलिनाल्पैश्वर्यभोगाः । प्रकृतिलयास्तु तेषामपीशाः स्वसंकल्पमात्रनिर्मितसत्त्वप्रधाननिर्मलविषयभोगास्त ईश्वर कोटय उच्यन्ते'।

"प्रकृतिलयानाञ्च विदेहेभ्योऽयं भेदः-विदेहाः सावरणब्रह्माण्डान्तर्गता एवाल्प मैश्वयं मलिनञ्च विषयं भुजते, प्रकृतिलयास्तु बहिर्गमनेन विदेहान् प्रत्यपीशते, स्वसंकल्पमात्रेण तव निर्मलं कारणसत्त्वनिमितं विषयञ्च भुञ्जते त ईश्वरकोटय उच्यन्त इति।

सांख्यकारिका सं० ४४ सूत्रस्य टीकां कुर्वन् तत्त्वकौमुदीकारः 'वाचस्पतिमिश्रः' लिखति यत्, बन्धनाः त्रिप्रकारकाः भवन्ति। यथा -

'प्रकृतेर्वत बन्धेन तथा वैकारिकेण च ।

दक्षिणाभिस्तृतीयेन बद्धो जन्तुर्विवर्तते'।।

(१) प्राकृतिकाः - एतेषु त्रिषु प्राकृतिकबन्धः, तेषां भवति, ये (अव्यक्त)-प्रकृतौ आत्मनः बोधं कुर्वन्तः प्रकृतेः उपासनां कुर्वन्ति। एतत् बन्धनं पुराणोक्त-प्रकृतिलयानां विषयकः अस्ति।

(२) वैकारिकाः - वैकारिकबन्धः तेषां भवति, ये विकाराः अर्थात् महाभूतः, इन्द्रियम्, अहङ्कारः, बुद्धिः इत्येतानि तत्त्वानि एव पुरुषं मत्त्वा उपासनां कुर्वन्ति। 'ते खल्वमी विदेहाः येषां वैकृतिको बन्धः इत्यर्थः।' येषाम् एषः वैकृतिक-बन्धः भवति, ते "विदेहाः' उच्यन्ते।

(३) दक्षिणाबन्धाः - दक्षिणाबन्धः तेषाम् इष्टापूर्तादिकर्तॄणां, पुरुषज्ञानरहितानां, कामना-परिपूर्ण-मनोयुक्तानां साधारणजनानां भवति।

किन्तु आश्चर्यमस्ति यत्, स एव 'वाचस्पतिमिश्रः' यदा योगभाष्यस्य तत्त्ववैशारदीं टीकां लखति, तदा तुं केवलं 'भूतेन्द्रिया'णाम् उपासकान् विदेहगति-प्राप्तप्राप्तान् एव स्वीकरोति, परन्तु बुद्धिः, अहङ्कारः, पञ्चतन्मात्रा इत्येतेषाम् उपासकान् तेषु तेषु तत्त्वेषु लीनतायाः अनन्तरं तान् 'प्रकृतिलीनाः' इति प्रदर्शयति, तान् च सः 'विदेहाः इति न स्वीकरोति। एतादृशस्य प्रकाण्डस्य दार्शनिकस्य वचनेषु शास्त्रीयसिद्धान्तानां विषये एतावान् गभीरः स्ववचो व्याघातः कुतः समुत्पन्नः? इति न अवगम्यते। वस्तुतः यं विषयं ‘सांख्यतत्त्वकौमुदी'मध्ये सः उक्तवान् - तदेव शास्त्रीयम् अस्ति, अविरुद्धम् अस्ति, युक्तिसंगतं च अस्ति इति विदुषां मतम्।

'तत्त्ववैशारदी'-मध्ये तस्य एतत्कथनम् - 'तथा प्रकृतिलयाश्च अव्यक्तमहदहङ्कारपञ्चतन्मात्रेवन्यतममा स्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासनावासितान्तःकरणा: पिण्डपातानन्तरमव्यक्तादीना मन्यतमस्मिल्लीनाः। इत्यस्य किं कारणं भवितुम् अर्हति? तस्मिन् विषये चिन्तनं कर्तुं न शक्यते। अत एव केवलम् 'अव्यक्तप्रधाने' लयः एव सूत्रस्य, भाष्यस्य च अनुसारं 'प्रकृतिलयः' अस्ति - इति अवगन्तव्यं भवति। यदा तत्त्वज्ञानहीनशून्यवत्-समाधिः अधिगतः भवति, परन्तु पुरुषतत्त्वस्य साक्षात्कारस्य अभावत्वात् एनं समाधिम् एव चरमगतिं मत्त्वा अन्तर्मुखः भूत्वा यदा (वशीकारवैराग्यद्वारा विषयविमुखतात्वात्) अन्तःकरणं 'प्रकृतौ' लीनं भवेत्, तदा 'प्रकृतिलीनता'याः सिद्धिः भवति[५]।। १९ ।।

विशेषभाष्यव्याख्या[सम्पादयतु]

स खलु अयं द्विविधः - सः एषः असम्प्रज्ञातसमाधिः द्विविधः वर्तते।

(१) उपायप्रत्ययः - उपायः प्रत्ययः कारणं यस्य सः। अर्थात्, उपायैः सिद्ध-जायमानः समाधिः। एषः उपायकारणकः असम्प्रज्ञातसमाधिः अपि उच्यते।

(२) भवप्रत्ययः - भवः तत्तद्योनिषु जन्म एव प्रत्ययः कारणं यस्य सः। जन्मतः एव सिद्धिप्राप्तः समाधिः। एषः जन्मकारणकः असम्प्रज्ञातसमाधिः अपि उच्यते।

या, भवत्यनेनेति भवः अविद्या, सा एव प्रत्ययः कारणं यस्य सः, तथोक्तः। अर्थात् अविद्याजन्यः असम्प्रज्ञातसमाधिः । तत्र - तयोः उभयोः । उपायप्रत्ययोः योगिनां भवति उपायप्रत्ययः उत उपायकारणकः असम्प्रज्ञातसमाधिः योगिनां भवति।

भवप्रत्ययः - 'भवप्रत्यय'-नामकः (जन्मकारणकः) असम्प्रज्ञातसमाधिः। विदेहप्रकृतिलयानाम् - विदेहानां, प्रकृतिलीनानां च भवति। अत्र 'सूचीकटाहन्यायः' इत्यस्य माध्यमेन प्रप्रथमं 'भवप्रत्यय'स्य असम्प्रज्ञातसमाधेः विवरणं प्रदीयमानम् अस्ति। 'देवलोके भवप्रत्ययो जन्ममात्रकारणक इति'। एषः समाधिः मोक्षदायकः न भवति। अत एव एषः 'योगः' न उच्यते। एषः तु 'योगाभास'मात्रः भवति। है। 'तेषां पतनत्वादर्शनाद्योगाभासोऽयम्'

विदेहानां देवानाम् - विदेह-नामक-देवतानाम्। भवप्रत्ययः - अविद्याकारणकः उत जन्मकारणकः 'भवप्रत्यय'-नामकः असम्प्रज्ञातसमाधिः भवति। अविद्यायाः कारणेन जायमानः ( परवैराग्यात् अनुत्पन्नः ) उत विदेहादिरूपे जन्मप्राप्तिमात्रेण सिद्धङ्गम्यमानः असम्प्रज्ञातसमाधिः भवति। ते हि - ते विदेहदेवताः। स्वसंस्कारमात्र-उपगेन चित्तेन – स्वस्मिन् ( चित्ते ) संस्काराः इति स्वसंस्काराः, त एव इति संस्कारमात्राः, तान् उपगच्छतीति स्वसंस्कारमात्रोपगं, तेन तथोक्तेन अर्थात् स्वसंस्कार-मात्ररूपतां यावत् प्राप्तिना अर्थात् सर्ववृत्तिशून्ययुक्तेन एवञ्च स्वसंस्कारमात्रावशिष्टरूपयुक्तेन चित्तेन। कैवल्यपदमिवानुभवन्तः - कैवल्यपदवत् अनुभवं कुर्वन्। विदेहानां, प्रकृतिलीनानां च एतस्याः अवस्थायाः कैवल्येन सह ( उत असम्प्रज्ञातेन ) एतत् साम्यम् अस्ति यत्, एतस्मिन् अपि चित्तं सर्वथा 'वृत्तिहीनं' भवति, वैषम्यम् एतदस्ति यत्, एतस्मिन् चित्ते विद्यमानाः संस्काराः साधिकाराः भवन्ति, परन्तु कैवल्ये ( असम्प्रज्ञातयोगे ) चित्तं साधिकारसंस्कारात् पूर्णतया शून्यं भवति।

स्वसंस्कारविपाकं तथा जातीयकम् अतिवाहयन्ति - तस्य तस्य प्रकारस्य स्वस्य ( कर्माशयानां ) संस्काराणां फलम्, अतिवाहयन्ति - अभिनिहरन्ति, अतिक्रामन्ति, भुञ्जन्ते अर्थात् भोगयन्ति। अन्ते संस्कारविपाकस्य समाप्तिं कृत्वा 'पुनरपि संसारे विशन्ति' अर्थात् संसारं प्रत्यागच्छन्ति। तथा - तेनैव प्रकारेण। प्रकृतिलयाः - 'प्रकृतिलीन'-नामकाः देवताः अपि। साधिकारे चेतसि - चित्तस्य निवृत्ताधिकारः न अभवत् इत्यतः (भावे सप्तमी) एव । प्रकृतिलीने सति - प्रकृतौ लीने सति ( भावे सप्तमी)। कैवल्यपदमिवानुभवन्ति - कैवल्यपदं प्राप्तम् इति आभासीयम् अनुभवं (चित्तस्य संस्कारमात्रावशेषतायाः कारणेन) कुर्वन्ति। यावन्नपुनरावर्ततेऽधिकारवशाच्चित्तमिति - यावत् पर्यन्तं तेषां चित्तं 'भोगापवर्गरूपि'णं कार्यं पूर्णं न करोति अर्थात् चरितार्थं न करोति उत यावत्पर्यन्तं पुनः ( संसारे ) न अवतरति उत प्रादुर्भूतं न भवति॥ १९ ॥

विशेषव्याख्या[सम्पादयतु]

  • भवप्रत्ययः - 'भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः ।' 'भवप्रत्यय'-नामकः (जन्मकारणकः) असम्प्रज्ञातसमाधिः। 'भवो जन्म कारणं यस्येति विग्रहः ।
  • 'अवृत्तिकत्वञ्च कैवल्येन सारूप्यं साधिकारसंस्कारशेषता च वैरूप्यम् ।'
पातञ्जलयोगसूत्राणि
पूर्वतनः
----
भवप्रत्ययो विदेहप्रकृतिलयानाम् (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. 'वैराग्यात्प्रकृतिलय:'-सां० का० ४५ ।
  2. 'न कारणलयात्कृतकृत्यता मग्नवदुत्थानात्'–सां० सू० ३।५४ ।
  3. 'भवप्रत्ययो विदेहप्रकृतिलयानाम्'–यो० सू० १।१९।
  4. 'स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये'- यो० भा० पृ० ५९ । ( क ) 'विदेहानां देवानां भवप्रत्ययः - ते हि स्वसंस्कारमात्रोपगेन चित्तेन कैवल्य पदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति; तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति; यावन्न पुनरावर्ततेऽधिकार वशाच्चित्तमिति ।'–यो० भा० पृ० ७२। (ग) 'विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्ते न लोकमध्ये न्यस्ता इति ।'-यो० भा० ३।२६ सू० ।
  5. 'तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः यः पुराणे प्रकृतिलयान् प्रत्युच्यते-'पूर्ण शतसहस्रं हि तिष्ठन्त्यव्यक्तचिन्तकाः' इति । बैका रिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषधियोपासते तान् प्रतीदमुच्यते--'दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः । बौद्धाः दशसहस्राणि तिष्ठन्ति विगतज्वराः ।' ते खल्वमी विदेहा येषां वैकृतिको बन्धः इति ।-सां० त० कौ० पृ० १७८-१७९ ।

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine