सदस्यः:Vidyabhat001/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


फलकम्:EngvarB

फलकम्:Infobox United Nations

अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌
अफलकम्:EngvarB This article needs additional citations for verification. Please help improve this article by adding citations to reliable sources. Unsourced material may be challenged and removed. (March 2011) फलकम्:Infobox United Nations अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌
अन्ताराष्ट्रियवृद्धदिवसः
के आचरन्ति All UN Member States
दिनाङ्कः October 1


Vidyabhat001/प्रयोगपृष्ठम्
Vidyabhat001/प्रयोगपृष्ठम्
के आचरन्ति संयुक्तराष्ट्रसङ्घः
दिनाङ्कः १ अक्तूबर

अन्ताराष्ट्रियवृद्धदिवसः ( /ˈəntɑːrɑːʃhtrɪjəvrdðədɪvəsəhə/) (हिन्दी: अन्तर्राष्ट्रीय बुजुर्ग दिवस, आङ्ग्ल: International Day of Older Persons) सम्पूर्णे विश्वस्मिन् अक्टूबर-मासस्य १ दिनाङ्के आचर्यते [१]। अस्मिन् दिने वरिष्ठनागरिकाणां, सम्बन्धिनां च सम्मानं क्रियते । वरिष्ठाणां हिताय चिन्तनम् अपि क्रियते । साम्प्रतं वृद्धसमाजः विफलीकरणेन अत्यधिकः ग्रस्तः वर्तते । यद्यपि वरिष्ठजनाः सर्वाधिकतया अनुभविनः भवन्ति, तथापि कोऽपि जनः तेषाम् अभिप्रायं, परामर्शं वा न स्वीकरोति । अतः “वयं प्रयोजनहीनाः स्मः” इति ते वृद्धजनाः अनुभवन्ति । अनेन कारणेन अस्माकं वृद्धसमाजः सर्वथा दुःखी एव दृश्यते । अतः वृद्धजनानां, वरिष्ठनागरिकाणां च सम्माननार्थम् अयं दिवसः सर्वकारेण निर्णीतः, उद्घोषितः च अस्ति ।

आरम्भः[सम्पादयतु]

विश्वस्मिन् सर्वत्र वृद्धजनैः सह दुर्व्यवहारस्य आधिक्यं दृश्यते । अतः अस्य दुर्व्यवहारस्य शमनार्थं संयुक्तराष्ट्रेण १९९० तमस्य वर्षस्य दिसम्बर-मासस्य १४ (१४/१२/१९९०) दिनाङ्के निर्णयः कृतः यत् – “सम्पूर्णे विश्वस्मिन् प्रतिवर्षम् अक्टूबर-मासस्य १ (१ अक्टूबर) दिनाङ्के अन्ताराष्ट्रियवृद्धदिवसः आचरणीयः । १९९१ तमस्य वर्षस्य अक्टूबर-मासस्य १ (१/१०/१९९१) दिनाङ्के विश्वस्मिन् प्रथमवारम् अन्ताराष्ट्रियवृद्धदिवसः आचरितः । अनन्तरं प्रतिवर्षम् अयं दिवसः आचर्यते [२]

गोष्ठ्यः, सम्मेलनानि च[सम्पादयतु]

सर्वप्रथमम् अर्जेण्टिना-देशे वृद्धजनानां समस्यानां विषये संयुक्तराष्ट्रसभायाः आयोजनम् अभवत् । तस्यां सभायां वृद्धजनानां साहाय्यार्थं, लाभाय च चर्चा जाता । तस्याः सभायाः अनन्तरं बहुषु देशेषु वृद्धविषयकानि सम्मेलनानि अभवन् । १९९१ तमे वर्षे वृद्धविषयकानि बहूनि सम्मेलनानि जातानि । अतः तद्वर्षम् “अन्ताराष्ट्रियवृद्धवर्षं” आचरितम् आसीत् । तत्पूर्वं १९८२ तमे वर्षे विश्वस्वास्थ्यसङ्घटनेन अपि एकम् अभियानम् आरब्धम् आसीत् । “वृद्धावस्था को सुखी बनाइए” इति तस्य अभियानस्य घोषः (Slogan) आसीत् ।

संयुक्तराष्ट्रसङ्घेन अक्टूबर-मासस्य १ (१ अक्टूबर) दिनाङ्कः अन्ताराष्ट्रियवृद्धदिवसः उद्घोषितः अस्ति । सम्पूर्णे विश्वस्मिन् अस्य दिवसस्य आयोजनम् अपि क्रियते । वृद्धजनेभ्यः जनानां हृदि सम्मानस्य भावः, संवेदनायाः भावः च आगच्छेत् । वृद्धजनानां स्वास्थ्यविषयिणीनाम्, आर्थिकविषयिणीनां च समस्यानां निवारणम् अपि क्रियते । वृद्धावस्थान्तर्गतानां बहूनां रोगाणाम् ओषधीनाम् निर्माणम् अपि कृतम् । बहुषु स्थानेषु चिकित्सालयानाम् उद्घाटनम् अपि कृतम् ।

प्रायशः पाश्चात्यदेशेषु ये वृद्धजनाः आर्थिकसमस्यया ग्रस्ताः सन्ति, तेभ्यः वृद्धावस्थानिवृत्तिवेतनस्य व्यवस्था कृता अस्ति । तेन वृद्धजनानाम् आवश्यकतानां पूर्तिः भवति । साम्प्रतं पाश्चात्यदेशेषु वृद्धजनेभ्यः आर्थिकसमस्या न भवति । किन्तु इतः परम् अपि एका समस्या वर्तते – “एकाकिता” । यतः तेषां पुत्राः, परिवारजनाः च वयस्के सति पृथक् निवसितुं गच्छन्ति । सप्ताहान्ते, उत्सवे वा मेलनं भवति । रुग्णे सत्यपि सान्त्वनायै केऽपि पारिवारिकजनाः, स्वजनाः वा वृद्धजनानां समीपे न भवन्ति । सर्वदा ते आशां कुर्वन्ति । तथापि कोऽपि जनः तेषां सेवायै न गच्छति । अन्ते यदा तेषां मृत्युः भवति तदा सर्वे पाश्चात्तापं कुर्वन्ति । [३]

वृद्धजनानाम् अवहेलनम्[सम्पादयतु]

यथा कश्चन वृक्षः यावद् वर्धते, तावन्नमति, सः वृक्षः फलदः अपि भवति, तथैव वृद्धः अपि तावदेव विनम्रः, अनुभवी च भवति । किन्तु अद्यतनाः साक्षराः युवकाः वृद्धान् वृद्धाश्रमं प्रेषयन्ति । ते विस्मरन्ति यत् – “विश्वस्मिन् अनुभवस्य अपरः विकल्पः एव नास्ति । आत्मानुभवेन एव वृद्धैः स्वस्य संसारयात्रा निर्मिता । स्वगृहस्य निर्माणे यः जनः स्वस्य जीवनम् अपि त्यजति, तस्य वृद्धे सति युवकाः गृहात् निष्कासयन्ति । अनेन ज्ञायते यत् – “अस्माकं संस्काराः एव मृताः” । सामाजिकप्रतिष्ठायाः कारणेन एव वृद्धजनानां प्रति अन्यायः क्रियते ।

जीवने अनुभवाः[सम्पादयतु]

जनाः वृद्धावस्थायां नैकरोगग्रस्ताः कुर्वन्ति । विभिन्नरोगैः शरीरं शिथिलं भवति । किन्तु “वर्तमाने यः युवा अस्ति, सः भविष्यत्काले वृद्धः भविष्यति” इति निश्चितम् अस्ति । वरिष्ठनागरिकाः अस्माकं समाजस्य अमूल्याधाराः वर्तन्ते । अद्यतनः युवकवर्गः राष्ट्रस्य उन्नत्यै वरिष्ठनागरिकाणाम् अनुभवस्य लाभं प्राप्तुं शक्नोति । यदि जनः वृद्धजनानाम् अनुभवाधारेण कार्याणि कुर्यात्, तर्हि सफलतां प्राप्तुं शक्नोति ।

यजुर्वेदे उल्लेखः[सम्पादयतु]

शास्त्रेषु अपि वृद्धजनानां सम्माननस्य महत्त्वं प्राप्यते । “सन्ततिभिः मातापितॄणां सेवा, सम्मानं करणीयम्” इति अधः लिखितः मन्त्रः शिक्ष्यते –


यदापि पोष मातरं पुत्रः प्रभुदितो धयान् ।
इतदगे अनृणो भवाम्यहतौ पितरौ ममां ॥

अर्थः – याभ्यां (माता-पिता) स्वप्रयत्नैः अहं पालितः, तौ इदानीम् अशक्तौ अभवताम् । किन्तु अहं वयस्कः अस्मि । अतः अहं तयोः सेवां, सत्कारं च करोमि । ताभ्यां काऽपि समस्या, पीडा वा न भवेत् इति मे कर्त्तव्यम् अस्ति । अनेन प्रकारेण एव अहं तयोः ऋणात् मुक्तः भविष्यामि ।

अनेन प्रकारेण वृद्धानां सेवा करणीया । मनुस्मृतौ अपि भगवता मनुना उक्तं यत् -


अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् [४]

अर्थः – यः जनः सदैव वृद्धजनानां सेवां, सत्कारं च करोति, अभिवादनं करोति च, तस्य आयुर्विद्यायशोबलानि चत्वारि वर्धन्ते । अतः वृद्धजनानां सेवा नित्यं करणीया ।

वृद्धजनानां सङ्ख्या[सम्पादयतु]

सम्पूर्णे विश्वस्मिन् वेगेन जनसङ्ख्या वर्धमाना अस्ति । किन्तु अस्मिन् वर्षे जन्ममाने न्यूनता अभवत् । अपरे पक्षे स्वास्थ्यचिकित्सायै सौकर्यैः वयसि वृद्धिः भवन्ती अस्ति । भारत-देशे १९४७ तमे वर्षे आयुषः माध्यमानं २७ वर्षं, १९६१ तमे वर्षे ४२ वर्षं, १९८१ तमे वर्षे ५४ वर्षं च आसीत् । साम्प्रतं ६५ वर्षम् आयुषः माध्यमानम् अभवत् । यतः चिकित्साक्षेत्रे सर्वत्र प्रगतिः जाता । इदानीम् अपि चिकित्साक्षेत्रं प्रगतिशीलं चास्ति ।

१९९१ तमे वर्षे भारते षष्टिलक्षोत्तरपञ्चकोटी (५ कोटी ६० लक्षं) जनाः वरिष्ठनागरिकाः आसन् । ते षष्ठीवर्षदेशीयाः वा तस्मादधिकावर्षदेशीयाः आसन् । भारतस्य प्रदेशेषु केरल-प्रदेशे सर्वाधिकाः वृद्धाः सन्ति । वृद्धानां जीवनम् अस्मभ्यं लाभकरं वर्तते । तेषाम् अनुभवैः अस्माकं जीवनं योग्यमार्गे गच्छति । वृद्धानां जनसङ्ख्या चिन्तनीया नास्ति, तेषां स्वास्थ्यम् एव चिन्तनीयम् अस्ति[३]

योजनाः प्रोत्साहनञ्च[सम्पादयतु]

भारतदेशे वृद्धानां सेवायै, रक्षणाय च सर्वकारेण नियमाः निर्मिताः । भारतस्य केन्द्रसर्वकारेण १९९१ तमे वर्षे वरिष्ठनागरिकाणाम् आयोग्यविकासाभ्यां प्रोत्साहनं कर्तुम् एका राष्ट्रियनीतिः निर्धारिता । अस्याः नीतेः मुख्योद्देश्यम् अस्ति यत् – “जनाः स्वस्मै, सहभागिने वा वृद्धावस्थायाः सौकर्याय प्रोत्साहिताः भवेयुः” इति । अस्यां नीतौ वृद्धजनानां संरक्षणार्थं परिवारान् प्रोत्साहितं कर्तुं प्रयासाः अपि कृताः ।

२००७ तमे वर्षे वरिष्ठनागरिकाणां पोषणार्थं नूतना योजना आरब्धा । अस्यां योजनायां वृद्धेभ्यः वृद्धाश्रमाणां स्थापना अभवत् । सर्वकारेण वृद्धाश्रमेषु चिकित्सकानां व्यवस्था अपि कृता । तथापि वृद्धाश्रमेषु वृद्धानां सङ्ख्यायां वृद्धिः भवन्ती अस्ति । अतः अनेन ज्ञायते यत् – “वृद्धाः उपेक्षिताः भवन्तः सन्ति” ।

समस्याः, समाधानानि च[सम्पादयतु]

वृद्धजनाः शरीरेण दुर्बलाः भवन्ति । ते किमपि दैहिककार्यं कर्तुम् असमर्थाः भवन्ति । अतः ते कस्मिँश्चित् अपि यन्त्रागारे, कार्यशालायां वा कार्यं कर्तुं न शक्नुवन्ति । यदि अर्थागमः न भविष्यति, तर्हि गृहसञ्चालनं कथं भवितुम् अर्हति । अतः तेभ्यः निवृत्तिवेतनस्य व्यवस्था अपेक्षिता वर्तते । ये वृद्धाः शारीरिकदृष्ट्या स्वस्थाः सन्ति, तेभ्यः लघुभारोपकरणानां व्यवस्था करणीया ।

वृद्धानां कल्याणाय प्रोत्साहनकार्यक्रमेषु चिन्तनं करणीयम् । तेन वृद्धानां जीवने उत्साहः समुद्भविष्यति । वृद्धेभ्यः रूचिकराः योजनाः योजनीयाः । किन्तु वृद्धानाम् अपि दायित्वमस्ति यत् - ते यूनां कार्येषु हस्तक्षेपं मा कुर्युः । केवलं स्वस्वास्थ्यस्य चिन्ता करणीया । सर्वदा साधारणं, स्वास्थ्यवर्धकं च आहारः गृहीतव्यः ।

कदापि उद्वेगग्रस्तः मा भवेत् इति चिन्तनीयम् । प्रतिदिनं नियमितरूपेण व्यायामः करणीयः । प्रातःकाले, सांयकाले च नित्यम् अटनं कर्त्तयम् । तेन तेषां शरीरं स्वस्थं, कार्यशीलं च भविष्यति । सर्वदा शान्तिमयं, सन्तुष्टिपूर्वकं, संयमितं च जीवनं यापनीयम् [३]

सन्दर्भाः[सम्पादयतु]

बाह्यसम्पर्काः[सम्पादयतु]

can't use in sandboxअन्ताराष्ट्रियविशेषदिनम्]] can't use in sandboxचित्रं योजनीयम्]]


अन्द्रिया
Città di Andria
Castel del Monte
Country Italy
Region फलकम्:Country data Apulia
Province / Metropolitan city Barletta-Andria-Trani (BT)
Frazioni Castel del Monte, Montegrosso, Troianelli
Government
 • Mayor Nicola Giorgino
Area
 • Total ४०७.८६ km
Elevation
१५१ m
Population
 (1 January 2016)[१]
 • Total १,००,४४०
 • Density २५०/km
Demonym(s) Andriesi
Time zone UTC+1 (CET)
 • Summer (DST) UTC+2 (CEST)
Postal code
76123
Dialing code 0883
Patron saint Richard of Andria
Saint day April 4
Website Official website
अन्द्रिया
Skyline of अन्द्रिया


अन्द्रिया इटली देशस्य एकः नगरं अस्ति ।

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxइटली देशस्य नगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]



फलकम्:Use Indian English

For the clan, see Andhak.
Vidyabhat001/प्रयोगपृष्ठम्
अन्धकः
Shiva slays Andhaka, c. 1590, Akbar's translation of Harivamsa
अन्धकः
अन्धकः
अन्धकः

सः यादवकुलस्य राजा आसीत्।

can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]


Test Infobox
Example alt text
Caption for example.png
Header defined alone
Data defined alone
All three defined (header, label, data, all with same number)
Label and data defined (label) Label and data defined (data)
Below text

के बालरामप्पणिक्कर् महोदयेन पञ्चभिरङ्कैः निबद्धं नाटकं भवति अन्नदातृचरितम् । उतियन् नाम्ना चेरराज्ञा कुरुपाण्डवयुद्धे तत्सैनिकेभ्यः कृतम् अन्नदानमेव अस्य नाटकस्य इतिवृत्तम् । अयं राजा अनेन कर्मणा पेरुञ्चोट्टुतियन् इत्यपि स्तूयते । नाटकस्य इतिवृत्तं तावत् तमिळ्भाषायाः पेरियपुराणात् गृहीतं भवति । अस्य सम्पादनं १९४८ तमे संवत्सरे अनन्तशयनेन (तिरुवनन्तपुरम्) कृतम् अस्ति ।

can't use in sandboxसंस्कृतनाटकानि]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

  1. Source: Istat 2010