अलि अक्बर् खान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उस्ताद् अलि अक्बर् खान्

उस्ताद् अलि अक्बर् खान् (Ali Akbar Khan) (क्रि.श. १९२२ तमवर्षस्य एप्रिल् मासस्य १४दिनाङ्कतः क्रि.श. २००९तमवर्षस्य जून् मासस्य १८पर्यन्तम् ) इति नामकः प्रख्यातः सरोद् इति सङ्गीतवाद्यस्य वादकः । समग्रे विश्वे अनेन कृतसङ्गीतगोष्ठीनां कारणेन भारतीयसङ्गीतपदधतेः सरोद् वाद्यस्य च परिचयः प्रचारः च अभवत् ।

पृष्ठभूमिः शिक्षा च[सम्पादयतु]

अलि अक्बरखानः क्रि.श. १९२२ तमवर्षस्य एप्रिल मासस्य १४दिनाङ्के बाङ्ग्लादेशस्य शिवपुरमण्डलस्य कोमिल्ला इति ग्रामे अल्लावुद्दीन खान मदीना बेगम् इति दम्पत्योः पुत्रत्वेन जातः। अस्य पिता अल्लावुद्दीनः अनेकवाद्यानि वादयति स्म। स्वस्य जीवितकाले सेनिया मैहर् घराणायाः रूपम् एव परिवर्तितवान् । बाल्ये एव पितुः गुरुत्वेन गानं वादनं च शिक्षितवान् । आरम्भे अल्लावुद्दीनः पुत्राय वाद्यानि एव अशिक्षयत् । क्रमेण् अकेवलं सरोदवादनार्थं नियतं कृतवान् । अनेकवर्षाणां कठिणश्रमेण तस्य २०तमे वयसि प्रथमं सरोदवदनस्य गोष्ठीम् कृतवान् । कतिपयवर्षाणां पश्चात् जोधपुरमहारजस्य अस्थाने गोष्ठिं कृत्वा आस्थानस्य सङ्गीतविद्वान् इति नियोजितः।

विदेशप्रवासः[सम्पादयतु]

न केवलं भारतदेशे किन्तु अन्यदेशेषु अपि सङ्गीतगोष्ठीं सञ्चालयित्वा सरोद् वाद्यस्य परिचयं कारितवान् । क्रि.श १९५६तमे वर्षे कोलकतानगरे " अलि अक्बर् खान् कालेज़् आफ् म्यूसिक् " इति सङ्गीतशालां स्थापितवान् । क्रि.श. १९५८ तमे वर्षे अमेरिकादेशे, क्रि.श १९८५ तमे वर्षे स्विट्ज़र्ल्यांण्डदेशे च सङ्गीतशालाशाखाः आरब्धवान्।

सङ्गीतशैली[सम्पादयतु]

सरोद्वाद्यस्य वादने काचित् विशिष्टां शैलीं रूढिपथे आनीतवान् अलि अक्बर् खानः भारतस्य सङ्गीतस्य प्रथमम् एल्.पि.अभिलेखं पश्चात्त्यदेशे ध्वनिमुद्रणं कृतवान् इति अस्य विशेषः।

जुगलबन्धि[सम्पादयतु]

स्वस्य समाकालीनैः पण्डितः रविशङ्करः, पण्डित निखिल् ब्यानर्जी, डा. एल्. सुब्रह्मण्यम् इत्यादिभिः सङ्गीतविद्वद्भिः अलि अक्बर् खानः युगालन्धगानगोष्ठीं कृतवान् । एते कार्यक्रमाः लोकप्रियाः अपि अभवन् ।

प्रशस्तयः[सम्पादयतु]

क्रि.श. १९८९ तमे वर्षे अलि अक्बर् खानः पद्मभूषणप्रशस्तिं, क्रि.शाल् १९८९तमे वर्षे पद्मविभूषणप्रशस्तिं च क्रि.श. १९९१ तमे वर्षे मेकार्थर् फेलोशिप् पुरस्कारं च प्राप्तवान् ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अलि_अक्बर्_खान्&oldid=398920" इत्यस्माद् प्रतिप्राप्तम्