इन्दुलाल याज्ञिक

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इन्दुलाल याज्ञिकः


इन्दुलाल याज्ञिकः (गुजराती: ઇન્દુલાલ યાજ્ઞિક, आङ्ग्ल: इन्दुलाल याज्ञिक ) गुजरातराज्यस्य अस्मिता तथा गरिमा निरन्तरम् सर्वत्र प्रसरेत् तदर्थं जागरूकः आसीत् । स्वस्य वाचा कर्मणा च लोकजागृतिं कर्तुं प्रयत्नरतः अपि आसीत् । अत एव जनमनसि स्थानं प्राप्य सः "इन्दु चाचा" इति अपरं नाम प्रापत् ।

जन्म, परिवारश्च[सम्पादयतु]

तस्य जन्म १८९२ तमस्य वर्षस्य फरवरी मासस्य द्वाविंशति(२२)तमे दिनाङ्के नडियाद-नगरे अभवत् । तस्य पितुर्नाम कनैयालाल, मातुः नाम मणिबा, अनुजस्य नाम रमणलाल इति च आसीत् । इन्दुलाल याज्ञिकस्य पिता कनैयालाल इत्ययं समाजसुधारकः आसीत्, मणिबा आदर्शगृहिणी, प्रेमयुक्ता शान्ता च माता आसीत् ।

शिक्षणम्[सम्पादयतु]

इन्दुलाल महोदयस्य दशवर्षस्य वयः यावत् कनैयालाल मुम्बई-नगरे पठति स्म । कनैयालाल महोदयस्य मातुः भगिनी नडियाद-नगरे वसति स्म । कनैयालाल इत्ययम् इन्दुलाल इत्येतं पाठयितुं तस्याः गृहं प्रैषयत् । यदा इन्दुलाल इत्ययं पञ्चवर्षीयः अभवत्, तदा कनैयालाल महोदयस्य मातुः भगिनी तं प्रातिवैश्येन बालकेन सह पण्ड्या महोदयस्य शालायां प्रैषयत् । किन्तु सा शाला इन्दुलाल महोदयस्य कृते रुचिकरा नाभवत् । अतः कनैयालाल महोदयस्य मातुः भगिनी तं नडियाद-नगरस्य लखावाड इत्यत्र झवेरभाई पटेल महोदयस्य गृहे पठितुं प्रैषयत् । झवेरभाई पटेल इत्ययम् इन्दुलाल महोदयस्य प्रथमः शिक्षकः आसीत् । तेन इन्दुलाल इत्यस्मै त्रिचतुराणि वर्षाणि यावत् गुजरातीभाषायाः शिक्षणं दत्तम्, आङ्ग्लशालायां सः सारल्येन पठेत् तथा योग्यश्च कृतः । अनन्तरं वहोरवाण इत्यत्र मणिशङ्करस्य शालायाम् आङ्ग्लं पठितुं याज्ञिकं तृतीयकक्षायां प्रावेशयत् । इन्दुलाल महोदयस्य तत्रत्यम् अध्ययनं समाप्तम् । अतः १९०३ तमे वर्षे सर्वकारमानिते उच्चविद्यालये तस्य प्रवेशः कारितः । नडियाद-नगरस्य सामाजिकं राजकीयं च वातावरणं कनैयालाल इत्ययं पूर्णतया जानाति स्म ।

पितुः मृत्युः[सम्पादयतु]

१९०४ तमे वर्षे कनैयालाल इत्ययं विद्यार्थिभिः सह भायखला-क्षेत्रे वसति स्म । तदानीं तत्र प्लेग् इति रोगः प्रसृतः आसीत् । अतः सर्वेषां विद्यार्थिनां व्यवस्थायै कनैयालाल मलाड-स्थानं गतः । ततः निर्गमनसमये रेलयानं प्राप्तुं धावनम् अकरोत् । अतः मुम्बई-नगरं प्राप्य तस्य पादमूले ग्रन्थिः (tumor) अभवत् । किन्तु सः तत् न अजानात् । अतः तेन विचारितं श्रान्तता अस्ति, किन्तु तद् प्लेग्-रोगस्य ग्रन्थिः आसीत् । दिनत्रये रोगे वृद्धौ सति एकत्रिंशत्वर्षीयस्य कनैयालाल महोदयस्य अवसानम् अभवत् । यदा पितुः अवसानम् अभवत्, तदा याज्ञिकः द्वादशवर्षीयः आसीत् । युवावस्थायां वैधव्यं प्राप्य मणिबा बहुदुःखिता आसीत् । कनैयालाल महोदयस्य मातुः भगिनी (धनलक्ष्मी) अपि तस्य मृत्योः कारणात् बहुदुःखिता आसीत् । ततः परं कनैयालाल महोदयस्य अवसानेन पीडिताः धनलक्ष्मी, मणिबा, पितृव्यः साकरलाल इत्येते याज्ञिकस्य पालने मग्नाः अभवन् ।

याज्ञिकस्य सङ्कल्पः[सम्पादयतु]

स्वस्य गृहं चालयितुं धनस्य आवश्यकता आसीत् । अतः मणिबा इत्यनया प्रासादस्य एकः प्रकोष्ठः याज्ञिकार्थं संरक्षितः। अन्यत् सर्वम् उपमण्डलकार्यालये कार्यरताय भाइलाल व्यासाय भाटकेन प्रदत्तम् । अनन्तरं भाईलाल व्यासस्य सङ्गे सति इन्दुलाल याज्ञिकः त्रयोदशवर्षणां वयसि दिवसे पञ्चघण्टां यावदेव शयनं करिष्यामि इति सङ्कल्पम् अकरोत्। अतः प्रतिरात्रि दशवादने शेते, ३:३० वादने उत्तिष्ठति स्म च । तदानीं प्रातः ३:३० वादने भाईलाल व्यासस्य पत्नी प्रतिदिनं दीपकं प्रज्वाल्य याज्ञिकं पाठयति स्म । यदा ‘रॉयल हिस्टरी’ नामकम् अभ्यासातिरिक्तं पुस्तकं पठन् याज्ञिकः शयनम् अकरोत्, तदा भाईलाल व्यासस्य पत्नी तं ज्वलनात् रक्षितवती । सः पठने निपुणः आसीत् । याज्ञिकः तदानीं षष्ठमकक्षायाम् अर्थात् साम्प्रतं दशमकक्षायामिव प्रथमक्रमाङ्कं प्राप्तवान्

केशवलाल इत्यस्मात् पठनावसरः[सम्पादयतु]

षष्ठमकक्षायाम् प्रथमक्रमाङ्कं प्राप्तवान् । अतः तेन मेट्रिक् वर्गं प्रविश्य साक्षर केशवलाल ह.ध्रुव इत्यस्मात् गुर्जरभाषायाः पठनस्य अवसरः लब्धः । केशवलाल ह. ध्रुव शब्दानां, व्याकरणस्य, मानवीयभावानां, स्वभावनानां च सूक्ष्मतया पृथक्करणं कृत्वा सरस्वतीचन्द्र इत्यमुं पाठम् अपाठयत् । अतः इन्दुलाल याज्ञिकः भाषासाहित्यस्य उत्तमशिक्षकत्वेन केशवलाल ह. ध्रुव इत्येतं स्व्यकरोत् । केशवलाल ह. ध्रुव इत्ययं छात्रालयस्य नियामकः अपि आसीत् । किन्तु छात्रालयस्य नियामकत्वेन तस्य नीतिः इन्दुलाल महोदयाय न रोचते स्म ।

उच्चशिक्षणम्[सम्पादयतु]

मेट्रिक् परीक्षाम् उत्तीर्य १९०७ तमे वर्षे इन्दुलाल महोदयः मातुर्भगिन्याः, पितामहस्य च आशीर्वादं प्राप्य कुलदेवान् प्रणम्य स्वपितुः स्मरणं कृत्वा अहमदाबाद-नगरं गतः । अहमदाबाद-नगरे "गुजरात कॉलेज्" इत्यस्य छात्रालयं प्रविश्य इन्दुलाल इत्ययं ततः छात्रवृत्तिं प्रापत् । यदा सः महाविद्यालयं गतः, तदा छात्राः ‘कॅन्वास्’ उपानहं धृत्वा क्रिकेट्-क्रीडां क्रीडन्तः आसन् । किन्तु इन्दुलाल याज्ञिकाय सः व्ययः अधिकः आसीदतः सः मुक्तपादेन चरति स्म । अतः छात्राः तम् अमदावादी होल् बूट् इति आह्वयन्ति स्म । १९०९ तमे वर्षे "गुजरात कॉलेज्" त्यक्त्वा मुम्बई-नगरस्य "सेन्ट् ज़ेवियर्" महाविद्यालयं प्रविष्टः । तत्र क्रैस्त-धर्मस्य आचार्यं ड्रेक्मेन् नामकं मिलित्वा रसायनशास्त्रम् अध्येतुं निरचिनोत् ।

चन्द्रशेखरस्य साहाय्यं, जीवने अन्येषां प्रभावः[सम्पादयतु]

मुम्बई-नगरे अभ्यासकाले नडियाद-नगरस्य अन्यमित्रैस्सह सम्पर्कः अभवत् । तेषु एकः चन्द्रशेखरपण्ड्या याज्ञिकं प्रति सहानुभूतिं प्रदर्श्य तस्य प्रगत्यै ध्यानं ददाति स्म । चन्द्रशेखर पण्ड्या इत्यनेन मुम्बई-नगरे संस्कृतिसुधारणया, सर्वाङ्गिविकासेन च सह रसायनशास्त्रस्य अध्ययनम् समापितम् । एकदा याज्ञिकः कोग्रेस-पक्षस्य अम्बालाल महोदयस्य भाषणं श्रोतुं गतः । तत्र तस्य सरलभाषाशैल्या विशुद्धव्यवहारेण च सः प्रभावितः अभवत् । तत्रैव याज्ञिकस्य मनसुखलाल इत्यनेन सह सम्पर्कः अभवत् । याज्ञिकः तस्य भाषणशैल्या, विचारेण च प्रभावितः सन् जीवनस्य सर्वाङ्गिविकासार्थं दिशां प्रापत् । तथापि तस्य मार्गदर्शकस्तु चन्द्रशेखर पण्ड्या एव आसीत् ।

विवाहः[सम्पादयतु]

१९०५ तमे वर्षे त्रयोदशवर्षस्य याज्ञिकस्य तनसुखराम मनसुखराम त्रिपाठी महोदयस्य कन्यया कुमुद इत्यनया सह विवाहः अभवत् । कुमुद इत्यस्याः माता गुणवंतबेन, याज्ञिकस्य माता मणिबा परस्परं बाल्यकालस्य सखी, प्रतिवेशी च आसीत् । अतः कुमुदयाज्ञिकयोः विवाहः अभवत् । मातुः आज्ञया विवाहितस्य याज्ञिकस्य विरक्तं स्वाभिमानधनं मनः वैवाहिकं जीवनं जीवितुं नेच्छति स्म । अन्ते १९२१ तमे वर्षे पत्निं त्यक्त्वा याज्ञिकः देशसेवायै संलग्नः अभवत् । १९२९ तमे वर्षे क्षयरोगेण कुमुदस्य अवसानम् अभवत् । अनया घटनया तस्य उपरि कुमुदाख्यपत्न्याः मृत्योः कारणं सः स्वयम् एव अस्ति इति कलङ्कः अभवत् ।

याज्ञिकस्य प्रेरकस्त्रोतांसि[सम्पादयतु]

इन्दुलाल याज्ञिकः एनी बेसन्ट् इत्यस्याः कार्यपद्धत्यां श्रद्धामावहत । तस्याः आत्मकथायां पूर्वाश्रमस्य सङ्ग्रामयुतम् अतिकठोरं जीवनवृत्तं ज्ञात्वा बेसन्ट् इत्यस्यां याज्ञिकस्य गौरवम् अवर्धत । बेसन्ट् इत्यस्याः गुरु मिलन इति पुस्तकं पठित्वा याज्ञिकस्य वैचारिकं परिवर्तनम् अभवत् । सः दृढमनश्च अभवत् । अतः याज्ञिकस्य भावः धर्मश्रद्धयोः न्यूनः अभवत् । स्वतन्त्रबुद्धेः, विज्ञानसमाजशास्त्रयोः ज्ञानस्य च विकासः अभवत् । तदनन्तरं पुनर्मिल् ब्रड्लो महोदयस्य भौतिकबुद्धिवाद इति विषयकं पुस्तकं पठित्वा तस्य विचारेषु परिवर्तनम् अभवत् । इन्दुलाल याज्ञिकेन श्रद्धायुक्तैः विचारैः सह रूढिगताः आचाराः अपि प्राप्ताः । जीवनविकासे, अभ्यासविकासे, बुद्धिविकासे च याज्ञिकः चन्द्रशेखरपण्ड्या इत्यनेन प्रेरितः । चन्द्रशेखरपण्ड्या इत्यनेन याज्ञिकं बुद्धिमन्तं कर्तुं महत्तमः प्रयासः कृतः । याज्ञिकस्य जीवने आध्यात्मिकतायाः, राजकीयपरिस्थितेः च विकासे श्री अरविन्द घोष महोदयस्यापि महत्तमं योगदानम् अस्ति । अरविन्दस्य पत्रविषये याज्ञिकः अवदत् – “तस्य पत्रस्य वैशिष्ट्यम् इदम् आसीत् यत् कौरवान् प्रति कृष्णः अर्जुनं यथा प्रबुद्धम् अकरोत् तथा अस्य पत्रं जनान् वैदेशिकान् प्रति प्रबुद्धान् अकरोत्” । नारायण-चन्द्रावरकर इत्ययं न्यायाधीशपदात् निवृत्तः सन् समाजसुधारकस्य कार्यं कुर्वाणः आसीत् । याज्ञिकस्योपरि तस्य अपि प्रभावः आसीत् । प्रारम्भिकजीवने याज्ञिकः अस्पृश्यताम् आमनति स्म, किन्तु विल्सन् कॉलेज्-सभायाम् अस्पृश्यतायाः विषये नारायण-चन्द्रावरकर महोदयस्य भाषणं श्रुत्वा अस्पृश्यतायाः विचारम् अत्यजत् । अतः विचाराणाम् उन्नत्यै नारायण-चन्द्रावरकर इत्ययं याज्ञिकस्य प्रेरकः अभवत् ।

महात्मनः प्रति आकर्षणम्, अधिवक्तृजीवनं च[सम्पादयतु]

गोखले इत्ययं राजपुरुषत्वेन हिन्दूनाम् अधिकारयाचनायाः चर्चां पृथक्कृत्य स्वविशिष्टशैल्यां सर्वकारस्य कर्मक्षुब्धतायाः निन्दाम् अकरोत् । महात्मानम् उद्दिश्य अवदत् यत् - महात्मनि तादृक्सत्वम् अस्ति, येन स्वमातृभूम्यै हुतात्मनां (martyr) वीराणाम् उत्पत्तिः भवति । गोखले महोदयस्य इमे शब्दाः याज्ञिकस्य हृदये अङ्किताः अभवन् । तद्दिनात् प्रारभ्य याज्ञिकः महात्मानं प्रति आकर्षितः अभवत् । मुम्बई-नगरे सेन्ट् ज़ेवियर्-महाविद्यालये रसायनशास्त्रे उत्तीर्णः सन् याज्ञिकः विज्ञानविषयं निश्चित्य अभ्यासम् आरभत । तत्र शङ्करलाल बेन्कर, इन्दुलाल इत्येतौ स्वाभाविकतया मिलतः । परिचयोऽयं गुर्जरसभायां दृढत्वं गतः। १९१२ तमे वर्षे इन्दुलाल इत्ययम् एल.एल.बी. परीक्षायाम् उत्तीर्णः सन् मुम्बई-नगरे सन्देश इत्यत्र पत्रकारत्वं स्व्यकरोत् । १९१३ तमे वर्षे फरवरी-मासे महाविद्यालयस्य पदवीदानसमारोहे इन्दुलाल इत्यनेन एल.एल.बी. इत्यस्य पदवीप्रमाणपत्रं च प्राप्तम् । मुम्बई-नगरे न्यायवादी (advocate) भवितुं हाईकोर्ट् इत्यस्य शासनम् (सनद्) आवश्यकम् । तदर्थं तस्य पार्श्वे ५०० रूप्यकाणि नासन् । किन्तु कश्चन तनसुखराम नामाख्यः मित्रं तद् धनम् दत्तवान् । येन याज्ञिकः न्यायवादिनः वस्त्राणि अक्रीणात् । तत्र मस्तके शिरस्त्र (cap) धारणस्य निषेधः आसीत् । अतः तेन शिरोवेष्टनं (turban) धृतः । तेन मझ-ग्रामस्य न्यायालये कार्यम् आरब्धम् । तत्र परिचयवशात् सः कार्यं प्राप्नोति स्म । किन्तु मुम्बई-नगरस्य दरिद्रजनानाम् श्रेणिकासु अन्धकारं, मद्यपानस्य व्यसनम्, द्युतव्यसनम् स्त्रीणाम् अधोगत्यादीनां दृश्याणि च द्रष्ट्वा इन्दुलाल महोदयस्य हृदयम् अद्रवत् ।

कनैयालाल मुनशी इत्येतेन सह मेलनम्[सम्पादयतु]

तदनन्तरं १९१४ तमे वर्षे कनैयालाल मुनशी इत्येतेन सह तस्य मेलनम् अभवत् । किन्तु सभामेलनाद् अत्र कनैयालाल मुनशी महोदयस्य भिन्ने कार्ये गतिं दृष्ट्वा सः आश्चर्यं गतः । तौ उभौ सखायौ आस्ताम्, किन्तु तयोः वैचारिकदृष्टिः भिन्ना आसीत् । कनैयालाल मुनशी इत्ययं वेदोपनिषदां चर्चां विदधाति स्म , आर्यसंस्कृतिम् च उपाशयति स्म । किन्तु इन्दुलाल याज्ञिकः अर्वाचीनभौतिकवादस्य, प्रजासेवायाः च अनुरागी आसीत् । सः उच्चन्यायालयस्य ग्रन्थालये स्वशासनप्राप्त्यै उपयोगी भवेत् तादृक्लेखानाम्, पुस्तकानां च विषये ज्ञानमेकीकृत्य, पुनःपुनः देशसेवायै व्यचारयत् । तथा अरविन्दघोषस्य प्रेरणां प्राप्य धनमोहं, न्यायवादित्वं च त्यक्त्वा देशसेवायै निश्चयम् अकरोत्

नवजीवनमासिकपत्रस्य आरम्भः[सम्पादयतु]

शङ्करलाल बेंकर इत्ययं विदेशात् आगत्य याज्ञिकम् स्वगृहम् आहूय यात्रायाः चर्चया सह स्वशासनप्राप्त्यै सक्रियकार्याणि कर्तुं सङ्कल्पम् अकरोत् । अन्यत् किमपि माध्यमं नासीदतः चर्चान्ते "मोडर्न् रिव्यु" सदृशम् अन्ताराष्ट्रियं सामयिकं प्रकटयितुं विचारितवन्तौ । तदानीम् इटाली-देशस्य कवेः नोवा-चीवा(नवु-जीवन) इत्यस्य शब्दस्य उपरि मोहितौ सन्तौ नव-जीवन इति शब्दं स्वीकृत्य तन्नाम्ना सामयिकम् आरब्धुं निर्णयं कृतवन्तौ । १९१५ तमे वर्षे मई मासे मुम्बई-नगरं गत्वा निर्णयस्य प्रचारम् आरभ्य शुभेच्छकान् पत्राणि प्रेषितवन्तौ । तदानीं "सत्य" नाम्ना मासिकपत्रिका पिहिता (close) भविष्यति वा चालयितुम् अन्यस्मै दास्यति इति मासिकपत्रिकायाः तन्त्री घोषितवान् । तत् ज्ञात्वा "सत्य"-मासिकपत्रिकायाः ग्राहकान् स्वीकृत्य "नवजीवन"-पत्रिकायाः कार्यम् आरभत । १९१५ वर्षस्य जुलाई मासस्य १७ तमे दिनाङ्के शङ्करलाल बेन्कर इत्यनेन "नवजीवन"-मासिकपत्रिकया सह "सत्य" मासिकपत्रिकाऽपि मुद्रिता । अस्य तन्त्री इन्दुलाल याज्ञिकः इत्यपि सूचितम् ।

नवजीवनपत्रे महात्मनः हस्तक्षेपः[सम्पादयतु]

१९१५ तमे वर्षे जुलाई मासे यदा नवजीवन पत्रिकायाः चतुर्वर्षाणि व्यतीतानि, तदा समयपरिवर्तनं जातम् । नवजीवन मासिकापत्रिकायाम् अपि अनियमितता जाता । न्यायवादितां त्यक्त्वा महात्मा सत्याग्रहाय अहमदाबाद-नगरं गतः । आङ्ग्लसाप्ताहिकस्य "यङ्ग इण्डिया" इत्यस्य संचालकेन महात्मना गुर्जरसाप्ताहिकम् प्रकटितुं विचारितम् । तदर्थं महात्मा "नवजीवन-पत्रिकायै" साप्ताहिकं रूपं दत्त्वा प्रकटयितुम् इच्छति इति स्वयं शङ्करलाल बेन्कर, इन्दुलाल याज्ञिक इत्युभाभ्याम् असूचयत् । महात्मनः कथनं श्रुत्वा शङ्करलाल बेन्कर तस्मै तन्त्रिपदं दत्त्वा याज्ञिकाय उपतन्त्रिपदम् अददात् । तथा पत्रप्रकाशकत्वेन नूतनम् आवेदनकार्यं दत्त्वा, नवजीवनसाप्ताहिकम् १९३१ तमस्य वर्षस्य सप्टेम्बर-मासस्य ७ तमे दिनाङ्के प्रकटयितुं निर्णयम् अकरोत् । १९३१ तमे वर्षे अक्टूबर-मासस्य द्वितीयदिनाङ्के महात्मनः जन्मदिने न्हानालाल इति नामककविना एकं काव्यं नवजीवनसाप्ताहिके प्रकटयितुं स्वामी आनन्दाय दत्तम् तद् याज्ञिकेन नवजीवने प्रकटितम् । तच्च काव्यं-

પચાસ પચાસ દેવઘંટાઓ વગડાવો

પચાસ પચાસ આરતી ઉતરાવો,

પચાસ પચાસ દીપમાળાઓ પ્રગટાવો

આજે પચાસ વર્ષનો ઉત્સવ આવ્યો.

अस्य काव्यस्य "गुजरातनो तपस्वी" इति नाम्ना महात्मनः जन्मदिवसनिमित्ते याज्ञिकः सम्पूर्णगुजराते प्रचारम् अकरोत् । याज्ञिकः कोंग्रेस्-पक्षस्य निर्णयस्य प्रतीक्षां न कृतवान् । सः अन्तरात्मनः विचारेण "असहकारी आन्दोलनस्य" निर्णयं कृतवान् । तद्विषये तिलकः "यङ्ग इण्डिया", "नवजीवन" इत्येतयोः साप्ताहिेकयोः लेखम् अलिखत् । गुजरात-राज्यस्य प्रजाः आन्दोलने सहायतां कुर्युः इति महात्मा इच्छति स्म।

नवजीवने महात्मनः शब्दः[सम्पादयतु]

नवजीवन-पत्रिकायां याज्ञिकस्य स्वरः महात्मना न्यूनीकृतः । अस्यां पत्रिकायां महात्मनः लेखेभ्य एव महत्वं दीयते स्म । "यङ्ग इण्डिया" पत्रिकायां प्रकटिताः लेखाः एव "नवजीवन"-पत्रिकायां मुद्रिताः भवन्ति स्म । अतः याज्ञिकस्य मनसि अनेकाः कुशङ्काः उत्पन्नाः भवन्ति स्म । पुनः नवजीवन-पत्रिकायां द्वादशपत्रेषु न्यूनतां कृत्वा अष्टपत्राणि कृतानि । तेन याज्ञिकस्य लेखानां पत्राणाञ्च न्यूनता जाता । महात्मनः आङ्ग्ललेखानाम् अनुवादकार्यम् अपि याज्ञिकेन विधेयम्, अतः तस्य हृदयं खिन्नं जातम् । स्वनिर्दिष्टे पत्रे स्वतन्त्रतायाः अभावः तस्मै असह्यः आसीत् । अन्ते तेन उग्रतया इदं महात्मने सूचितम् । महात्मना प्रेम्णा तस्य मतं श्रुत्वा धैर्यं धारयितुम् उक्तम् । १९२० तमे वर्षे जुलाई मासस्य एकादशे दिनाङ्के नडियाद-नगरे महात्मा यदा गुजरातराजकीयमण्डलस्य औद्योगिकानां सभाम् आयोजितवान्, तदा महात्मना, इन्दुलाल याज्ञिकाय सभायां पठितुम् एकं पत्रं लिखितम् । महात्मना नवजीवनाङ्के गुजरातस्य कार्यकराणां सभायै, असहकार आन्दोलनस्य च अध्यक्षपदे इन्दुलाल महोदयस्य नियुक्तिः कृता । तैस्सह हरिप्रसादः, जीवनलाल अधिवक्ता इत्येतौ मन्त्रिपदे नियुक्तौ । अतः याज्ञिकेन अगस्त-मासस्य २८-२९ दिनद्वयम् कर्णावत्यां सभामायोज्य महात्मनः नेतृत्वे असहकारी आन्दोलनम् करिष्यामः इति प्रजाभ्यः सूचितम् ।

याज्ञिकस्य उत्साहः स्वभावश्च[सम्पादयतु]

इन्दुलाल याज्ञिकस्य गुर्जरभाषायाम् अद्भूतं प्रभुत्वम् आसीत् । अतः प्रसङ्गोचितायां वार्तायाम् उत्साहे सति श्रोतारोऽपि समुत्सुकाः भवन्ति स्म । तस्य भाषाशैल्या आन्दोलने भागग्रहणकर्तॄणाम् उत्साहः अवर्धत । याज्ञिकः भाषणे स्पष्टः कठोरश्च आसीत् । किन्तु हृदयेन नारीकेलान्तर्गतभाग इव् मृदुः, दयालुश्च आसीत्

याज्ञिकस्य जीवनमन्त्रः[सम्पादयतु]

याज्ञिकस्य मते समाजसेवा राजकीयमार्गस्य साधनम् नासीत् । अतः दशवर्षाणां वयसि कर्णावत्याम् कोंग्रस-पक्षस्य अधिवेशनेन तस्य जीवनम् समाजसेवायाः मार्गम् अन्वगच्छत् । महात्मनः अनुयायिषु "मूक्-अकिञ्चन लोकसेवक" इति उपाधिना रविशङ्करयाज्ञिकौ प्रसिद्धौ आस्ताम् । समाजस्य दलितादीनां दारिद्र्ययुक्तानां वर्गाणाम् अधिकारप्राप्तिरेव तयोः जीवनमन्त्रः आसीत् ।

आयर्लेण्ड-देशस्य स्वतन्त्रतायाः प्रणेता[सम्पादयतु]

स्वस्यजीवनमन्त्रानुसारं याज्ञिकेन १९३० तः १९३५ यावत् बर्निल-इत्यत्र आग्फा-स्टुडिओ इत्यस्मिन् कार्यं कृतम् । एतस्मिन् अन्तराले लण्डन-नगरम् गत्वा भारतस्य स्वतन्त्रतायाः आन्दोलने कार्यम् अकरोत् । ततः आयर्लेण्ड-देशस्य मुक्ति-आन्दोलने नेत्रा द वेलेरो-इत्यनेन सह आयर्लेण्ड-देशार्थं स्वतन्त्रतां प्रदातुं विचार्य कार्यम् अकरोत् । तदानीं तस्य जीवनं संघर्षमयम् अभवत् । याज्ञिकस्य स्वभावः निरन्तरचिन्तनस्य आसीत् । प्रत्येकं विषयं सः मूलतः ज्ञातुं प्रयतते । कस्यामपि योजनायां विचारिेतायां सत्यामपि, तस्याः फलविषयेऽपि विचिन्त्य सुव्यवस्थितरीत्या क्रियायाम् अन्वेति । इत्थं विचिन्त्य समर्पितभावेन स्वयोजनायां साफल्यं प्राप्नोति । इत्थम् इन्दुलाल याज्ञिकः आयर्लेण्ड-देशस्य स्वतन्त्रतायै स्वयोगदानम् कृत्वा ब्रिटिश्-सर्वकारं प्रति भारतस्वतन्त्रतायाः स्तम्भारोपणम् अकरोत् ।

लण्डन्-नगरे भारतस्य राष्ट्रियस्य आन्दोलनस्य आरम्भः[सम्पादयतु]

१९३० तमे वर्षे याज्ञिकः लण्डन-लगरं गतः । तत्र सः "शापुरजी सकलातवाळा" इत्येतम् अमिलत् । तेन सह याज्ञिकः साम्यवादीनां तथा तैः सह कार्यकर्तॄणां साहाय्यं कर्तुं याः संस्थाः सन्ति तासां संस्थानां कार्यं दृष्टुं गतवान् । तत्र सः साम्यवादि-पक्षस्य मन्त्रिणं "हेरी पोलिटन्" इत्येतं शाहीवादि-पक्षस्य मन्त्रिणं "ब्रीजमेन्" इत्येतं च अमिलत् । तत्र सः कामदार मासिकस्य व्यवस्थापकस्य "क्लेमन्ट दत्त" महोदयस्य संपादनकार्येण प्रभावितः आसीत् ।

बर्लिन् गमनम्[सम्पादयतु]

तस्य मनः लण्डन-नगरे स्थातुं स्थिरं नाभवत् । अतः सः बर्लिन्-नगरं गन्तुं निश्चयम् अकरोत् । १९३० तमस्य वर्षस्य अक्तूबर-मासे सः हार्विच्-नौकाशयात् जलयानेन होलेण्ड्-देशस्य "हूक् ओफ् होलेण्ड्" इति नामकं नौकाशयं गतः । ततः रेलयानेन बर्लिन्-नगरस्य "चार्लोटन्-बर्ग्" इति रेलस्थानं प्राप्तः । तत्र "हिन्दुस्तान-हाउस्" इति स्थाने निवासं कृत्वा रवीन्द्र-चट्टोपाध्यायस्य साहाय्येन याज्ञिकः वोर्सो महोदयस्य ऐतिहासिक-खण्डे थियोसोफिकल्-सोसैटी इत्यस्मिन् च भाषणम् अकरोत् । तस्य भाषणेन जनाः प्रभाविताः अभूवन् । ततः परं दा.वीटफोगल् इति नामा साम्यवादी अध्यापकः भारतस्य कृषी विषये अभ्यासं कुर्वन् आसीत् । तेन भारतस्य क्षेत्रधारिणां (जमीनदार), कृषकाणां, कृषकाणाम् ऋणस्य, कृषकाणाम् आयस्य असमानतायाः विषये च निश्चितं ज्ञानम् अन्विष्टम् । अतः याज्ञिकः तस्य कार्येण प्रभावितः अभवत् । तस्य कार्यात् प्रेरणां च प्रापत् इति ।

बर्लिन्-नगरे हिन्दस्य राजकीयपरिस्थितिविषये भाषणम्[सम्पादयतु]

जर्मन्-देशस्य अध्यापकस्य दा. शुल्ट्स गेवर्नट्ज महोदयस्य कथनेन बर्लिन्-नगरस्य राजनीतिविषयस्य महाविद्यालये हिन्दस्य राजकीयपरिस्थितिविषये व्याख्यानं प्रदातुम् आमन्त्रणं प्राप्तम् । १९३१ तमस्य वर्षस्य जून-मासस्य १९ तमे दिनाङ्के एकघण्टां यावत् धाराप्रवाहेण भाषणम् अकरोत् । तस्मिन् व्याख्याने तेन आङ्ग्लशासकानाम् अत्याचारस्य, शोषणस्य च टीका कृता । तदनन्तरं महात्मना "आज़ाद हिन्द" इति कार्यस्य, "नमक- सत्याग्रहस्य", ब्रिटिश्-वस्तूनां बहिष्कारस्य, युद्धरतानां यूनां चरित्रस्य च चित्रणं कृतम् । तदानीं विद्यार्थिभिः श्रोतृभिः च तस्य तालिकानादेन बहुमानं कृतम् । याज्ञिकः "गान्धी - इर्वीन्" प्रतिबन्धेन खिन्नः आसीत् अतः तस्यापि निरोधम् अकरोत् । अन्ते तेन स्वतन्त्रताप्राप्त्यै आङ्नानां दमनाय च भरतीयाः किमपि करिष्यन्ति इति उक्तम् । एतान् शब्दान् श्रुत्वा जनैः पुनः तालिकानादेन तस्य बहुमानं कृतम् ।

महात्मनः टीकाकारः, कारणानि च[सम्पादयतु]

१९३१ तमे वर्षे भारते स्वतन्त्रतायाः वायुः प्रचलति स्म । तदानीं याज्ञिकः बर्लिन्-नगरे स्थित्वा तत्रत्येभ्यः हिन्दि-जनेभ्यः महात्मनः नीतीनां बोधं प्रदाय नीतीनां प्रचारं च अकरोत् । किन्तु गान्धी-इर्वीन् प्रतिबन्धेन खिन्नः सः महात्मनः टीकाकारः अभवत् । तदर्थं तेन कोग्रेस्-पक्षस्य प्रमुखं सरदार पटेल् महोदयाय कारणानि अपि दर्शितानि । तानि यथा-

१. अहं बलिदानं दातुं सज्जः अस्मि, किन्तु लवण-सत्याग्रहेण स्वतन्त्रतां प्राप्स्यामः इति अहं न मन्ये ।

२. हिंसया स्वतन्त्रता प्राप्ता तस्य बहूनि उदाहरणानि प्राप्यन्ते, किन्तु अहिंसया अपि स्वतन्त्रता प्राप्तिः भवति इति शङ्कायाः विषयः । ३. समाजवादविषये पठितवान् श्रुतवान् च किन्तु सम्पूर्णं सारं ज्ञात्वा एव मम मनः कार्यान्वितं भविष्यति इति ।

एभिः कारणैः याज्ञिकः सत्याग्रहे आत्मानम् अनियोज्य देशस्य सेवां कर्तुं विदेशं गतः । सः स्वस्य प्रश्नानाम् उत्तराणि अन्येषां देशानां राजकीयेन अभ्यासेन प्राप्स्यति इति मन्यते स्म । अतः १९३० तमस्य वर्षस्य अगस्त-मासस्य १६ तमे दिनाङ्के सः लण्डन्-नगरं गतवान् । तत्र मई-मासस्य प्रथमे दिनाङ्के विश्वश्रमिकदिनस्य उत्सवः आसीत् । तस्मिन् दिवसे लण्डन्-नगरे श्रमिकाणां प्रदर्शनानि आसन् । तेषु प्रदर्शनेषु ये भागं गृहीतवन्तः ते सर्वे लण्डन-नगरस्य "हाइड्-पार्क" इति स्थले सभायाम् एकत्रिताः अभूवन् । तत्र “मे दिन ज़िदाबाद” “कामदार एकता ज़िदाबाद” दुनियाके मज़दूर एक हो इत्यादीनि सूत्राणि अवदन् । तदनन्तरं ते "जागो जगना क्षुधार्त", "जागो दुर्बळ अशक्त" इति अगायन् । लण्डन्-नगरस्य जनानाम् इमानि कार्यक्रमाणि द्रष्ट्वा सः बहुप्रभावितः अभवत् ।

आयर्लेण्ड-देशे भारतस्य स्वतन्त्रतायै नूतनचेतना[सम्पादयतु]

लण्डन्-नगरात् १९३२ तमस्य वर्षस्य सितम्बर-मासस्य २१ तमे दिनाङ्के सः डब्लीन्-नगरं गतः । तस्मिन् दिवसे ब्रिटिश्-सर्वकारस्य परिजनानां मतदानमण्डलस्य योजनायाः विरोधे महात्मा आमरणम् उपवासं करिष्यति इति उद्घोषितवान् । तेन याज्ञिकः खिन्नः आसीत् । तत्र सः "वीर सावरकर" महोदयस्य पुस्तकं पठित्वा तस्य विषये मित्रैः सह चर्चाम् अकरोत् । तस्य भहुमानम् अपि अकरोत् । एकदा विठ्ठलभाई पटेल नामा जनः अमेरिका-देशात् डब्लिन्-नगरं गतः । तत्र सः याज्ञिकम् अमिलत् । याज्ञिकः भारतस्य स्वातंन्त्र्याय साहाय्यं कुर्युः तादृशान् सर्वान् सः अमिलत्, सर्वेषां प्रति समभावं च अधरत् इति तम् असूचयत् । किन्तु याज्ञिकस्य नीतिभिः, तस्य भाषणेन च जनाः तस्य निरोधिनः आसन् ।

भाषाक्लब् स्थापना[सम्पादयतु]

एकदा फाधर ऑडोनल् अवदत् यत् “भवतः देशात् भवान् धनं न प्राप्नोति तर्हि अत्र भवतः निर्वाहः भवितुं न शक्यः। अतः भवान् झटिति स्वदेशं गच्छतु इति ”। एतद् याज्ञिकः सोढुं क्षमः नाभवत् । किन्तु आयर्लेण्ड-देशस्य जनैः स्वतंन्त्रता कथं प्राप्ता? इति ज्ञातुं सः इच्छुकः आसीत् । अतः डब्लीन्-नगरे निवासं कृत्वा स्वस्य निर्वाहार्थं सः भाषाक्लब् इत्यस्य स्थापनां कृतवान् । कतिचित्- मासान् यावत् सः तत्र न्यवसत् । तदनन्तरं सः लण्डन्-नगरं गतः । तत्रापि तेन भाषाक्लब् इत्यस्य स्थापनां कर्तुं विचारः कृतः। किन्तु सः सफलः नाभवत् । तदनुलक्ष्य तेन सखेदम् उक्तं यत् - आयर्लेण्ड-देशस्य जनेषु यादृशी राष्ट्रभक्तिः आसीत् । तादृशी लण्डन्-नगरस्य जनेषु न दृश्यते । तदन्ते सः साम्यवादिनां सभायाम् अपि न गच्छति स्म ।

आयर्लेण्ड-देशस्य स्वतन्त्रता विषये पुस्तकम्[सम्पादयतु]

आयर्लेण्ड-देशे याज्ञिकेन यत् दृष्टं, यत् ज्ञातं, तेन आयर्लेण्ड-देशस्य प्रजाः कया रीत्या स्वतन्त्राः अभूवन् इति सः अजानात् । तदनुलक्ष्य सः एकं पुस्तकं लिखितवान् । तस्मिन् पुस्तके ब्रिटिश्-सर्वकारेण कृतानाम् अन्यायानाम्, अत्याचाराणां च वर्णनेन हृदयं द्रवितम् अभवत् । मनसि रोषः च अभवत् । तथा बहूभिः वर्षैः कृषकैः, सामान्यैः नागरिकैः यत् शौर्यं प्रदर्शितं तस्मात् सः मन्त्रमुग्धः अभवत् । तस्मिन् सः कृषकैः स्वतन्त्रताप्राप्त्यै ये प्रयत्नाः कृताः, तस्य अधिकं वर्णनम् अकरोत् । किन्तु दोर्भाग्यवशात् तत् पुस्तकं प्रकटितं नाभवत् ।

भारते प्रत्यागतः[सम्पादयतु]

भारताद् बहिःस्थित्वा आयर्लेण्ड-देशात् ब्रिटिश्-सर्वकारं प्रति आन्दोलनस्य ये कठोराः प्रयत्नाः कृताः ते अतुल्या आसन् । अन्ते १९३५ तमे वर्षे सः भारतस्य स्वातन्त्र्य सङ्ग्रामे सक्रियः अभवत् । यदा १९३० तः १९३५ यावत् सः आयर्लेण्ड-देशे आसीत्, तदा तत्रत्यानां शोषितवर्गाणां परिस्थितिम् अजानात् । आयर्लेण्ड-देशस्य स्वतन्त्रतायै कार्याणि कृत्वा तस्य विचारेषु अनुभवस्य प्रौढता आगता । अत एव भारतम् आगतः, तदा सः ग्रेट्ब्रिटन् इत्यस्य साम्यवादिनेतारौ भारतदेशस्य परिस्थितीनाम् अभ्यासं कृतवन्तौ ताभ्यां सह उपविष्टः । तदनन्तरं तयोः अभ्यासानुसारं स्वेन आचर्यमाणानां प्रवृत्तीनां कार्यक्रमम् अरचयत् । तस्य स्वदेशे प्रत्यागमनस्य कारणम् अपि गुजरातराज्यस्य साम्यवादिनाम् आमन्त्रणम् एव कर्तव्यम् आसीत् । भारत प्रत्यागतः । तदनन्तरं यावत् वातावरणस्य ज्ञानं न भवेत्, तावत् राजकीयाभिः प्रवृत्तिभिः दूरे एव स्थातव्यम् इति विचार्य सः राष्ट्रभाषाराष्ट्रकीडाराष्ट्रियवस्त्रादिभिः विवादास्पदः न भवेत् तादृशानि आन्दोलनकार्याणि अकरोत् ।

आन्दोलनपुरुष याज्ञिकः[सम्पादयतु]

इन्दुलाल याज्ञिकस्य व्यक्तित्वस्य विषये वयं यत् किमपि कथयामः, यत् किमपि वदामः, तत् अपूर्णम् एव भविष्यति । तस्य सहवासिनः अपि तं पूर्णतया ज्ञातुं नाशकत् । दृढमनसः अकिंचन फकिर् इत्ययं याज्ञिकः महागुजरात आन्दोलनस्य भीष्मपितामहः दिग्गजयुगपुरुषः आसीत् । तस्य विचारशक्तिः कार्यपद्धतिः च बहुभिन्ना आसीत् । सः सत्याचारी दृष्टिमान् च आसीत् । अतः सः असत्यस्य सदैव विरोधम् करोति स्म । सः जनतायै सत्यं मार्गदर्शनं प्रदातुम् अग्रेसरः आसीत् । तेन "कृषी आन्दोलने", "श्रमिकानाम् आन्दोलने", "गुजरात आन्दोलने", "स्वातन्त्र्य आन्दोलने" च जनानां मार्गदर्शनं कृतम् । अतः शोषितानां, वञ्चितानां, पीडीतानां च कृते सः क्रान्तिकारी अभवत् । सः किमपि अविचार्य सर्वकारं प्रति, यन्त्रस्वामिनां च प्रति सत्यं भाषते स्म । तस्य रवेण आबालवृद्धाः जनाः चेतनस्य अनुभवं कुर्वन्ति स्म । सः गुजरातराज्याय, गुजरातराज्यस्य अस्मितायै चिन्तारतः चिन्तनरतश्च भवति स्म । सः स्वभावे निष्पृहिसन्यासिकल्पः आसीत् । किन्तु विचारे प्रगतिशीलराष्ट्रवादी गान्धीवादी गान्धीजनः आसीत् । सः ब्रिटन् -शासकानां नाशाय अल्पम् अभ्यास्तानाम् एव न अपि तु ग्राम्यजनानाम् अपि आवश्यकता अस्ति इति अमन्यत ।

दुष्काले पीडीतानां साहाय्ये[सम्पादयतु]

१९२१ तमे वर्षे गुर्जरप्रान्ते अनावृष्टिः अभवत् । अतः इन्दुलाल-याज्ञिकेन अनावृष्ट्या पीडितजनेभ्यः सहायतां कर्तुम् अभियानम् आरब्धम् । एकत्र स्वराजप्राप्त्यै चिन्ता, अपरत्र अनावृष्टिः, उभयोर्मध्ये किं कर्तव्यम् ? इति विचिन्त्य इन्दुलाल याज्ञिकस्य मनः दुःखम् अनुभवति स्म । प्रजायाम् नवशक्तिः ,नवचेतनाम् आनेतुं महात्मा, सरदार पटेल, विठ्ठलभाई पटेल इत्येते प्रयत्नरताः आसन् । इन्दुलाल-याज्ञिकोऽपि स्वराजप्राप्त्यै ब्रिटिश्-सर्वकारं निःसहाय्यं कर्तुं व्यूहरचनया सह अनावृष्ट्या पीडितान् कथं रक्षामः इति चिन्तयति स्म । तस्य मनसि ग्रामवासिनां पीडितानां जनानां पीडां प्रति दुःखमासीत् । पीडितप्रजायै सहायतां कर्तुं तेन सरदार पटेल, वासुदेव माणवंकरः इत्येतयोः मतं स्वीकृतम् । ताभ्याम् प्रजायाः पीडां प्रति सहानुभावाः प्रकटिताः । किन्तु आर्थिकसहायतां कर्तुं प्रान्तीय कोंग्रेस-पक्षस्य समितेः अनुमतिरावश्यकी । अतः अनुमत्या विना सहायतां कर्तुं न शक्नुमः इति उक्त्वा याज्ञिकस्य कथनं तिरस्कृतवन्तौ । किन्तु इन्दुलाल याज्ञिकः अनुमत्यै मुम्बई-नगरं प्राप्य महात्मानम् प्रार्थयत् । महात्मना लक्षाधिकद्वादशसहस्रं १,१२,००० धनम् अनुदानरूपेण इन्दुलाल याज्ञिकाय प्रदत्तम् । सः आनन्दम् अनुभूतवान् । किन्तु सरदार महोदयस्य मित्रतां नाशितवान् । इत्थम् इन्दुलाल याज्ञिकेन अनावृष्टौ पीडितजनानां सहायता कृता ।

ब्रिटिश्-सर्वकारं प्रति कृषि आन्दोलनम्[सम्पादयतु]

इन्दुलाल-याज्ञिकेन सहस्राधिकाः नग्नबुभुक्षितभिल्लजनाः दृष्टा । तेन दुःखं च अनुभूतम् । ततः परं सः लण्डन-नगरङ्गतः तत्र कृषकाणां दासतायाः, उपबन्धस्य च ध्वंसः भवेत्, धनिकानाम् अधिकारः सर्वकारः नाशयेत् इति सर्वं विचिन्त्य तेन आयर्लेण्डदेशस्य जहाल् इति नाम्नी नीतिः अनुसृता । तत्र बिहार-प्रान्तस्य स्वामिसहजानन्दसरस्वति महाभागस्य , दिल्ली-नगरस्य धारासभायां कृषिप्रवृत्तौ रतस्य रङ्गाजीनाम्नः अध्यापकस्य च सहायतां प्राप्तवान् । रङ्गाजी कृषकाणां दशां तत् संलग्नान् नियमानपि जानाति स्म । अतः सम्पूर्णे देशे कृषिसंघटनं रचयितुं योजना बलवत्तरा अभवत् । कृषकाणाम् अन्यस्य शोषितवर्गस्य च सम्पूर्णराजकीयाम् आर्थिकीं च सत्तां प्राप्तुम् अखिलभारतीयहिन्दकिसानसभायाः स्थापना कृता ।

कृषिकानां सभाः[सम्पादयतु]

ततः परं महाराष्ट्र,उत्तरप्रदेश गुजरातादिषु च राज्येषु कृषकाणां सभाः आयोजिताः । कृषकाणां पीडाः ब्रिटिश्-सर्वकाराय श्राविताः । सः मुम्बई-नगरे ५०००० कृषकाणां यात्रां कृत्वा कृषिसभायाः प्रभाःं जनमनसि अस्थापयत् । अस्य प्रभावः क.मा. मुन्शी महोदयस्य उपरि अभवत् । क.मा. मुन्शी इत्यनेन कृषकान् प्रति सर्वकारः ध्यानं दत्त्वा नियमेषु आमूलपरिवर्तनं कुर्यात् तादृक्परिवर्तनं कृतम् । तस्य नियमस्य आधारेण क्षेत्रधारिणः जनाः कृषकेभ्यः तस्य ऋणम् दातुम् असामर्थ्ये सत्यपि तस्य क्षेत्रं हर्तुं न शक्नुवन्ति । अतः मुम्बई-नगरस्य कृषकाः साहाय्यं प्राप्तवन्तः । ततः परं १९३८ तमे वर्षे गुजरातराज्ये कृषिसभायाः प्रचारः अभवत् । तस्यां सभायां कृषिकाणाम् ऋणस्य न्यूनता भवेत् इति घोषणा कृता । तदर्थं सर्वत्र प्रदर्शनम् अपि कृतम् । अन्ते १९३९ तमे वर्षे तस्याः याचनायाः स्वीकारः अभवत् ।

मृत्युः[सम्पादयतु]

१९७२ तमस्य वर्षस्य अप्रैल-मासस्य २५ तमे दिनाङ्के ८० वर्षस्य याज्ञिकस्य मस्तिस्कस्य एकस्याः नाड्याः नाशः अभवत् । अतः सः मूर्छितः अभवत् । तदनन्तरं तस्यैव वर्षस्य जुलै-मासस्य १७ तमे दिनाङ्के तस्य मृत्युः अभवत् । इत्थम् स्वातन्त्र्यस्य कार्यैः अखिलभारतीयकृषीसंघटनस्य योजकं याज्ञिकं पोनःपुन्येन नितरां स्मरामः इति ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इन्दुलाल_याज्ञिक&oldid=466129" इत्यस्माद् प्रतिप्राप्तम्