किशोर कुमार
किशोर कुमार | |
---|---|
नाम | কিশোর কুমার |
जन्मनाम | अभास् कुमार् गङ्गूलि |
जन्म |
Khandwa, Central Provinces and Berar, British India | ४ १९२९
मरणम् |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। Mumbai, Maharashtra India |
सङ्गीतविद्या | Classical, rock and roll, dance |
वृत्तिः | Singer, lyricist, composer, actor, film producer, director, script writer, screenplay writer, entertainer, record producer |
वाद्यानि | Vocals, Piano |
सक्रियवर्षाणि | 1946-1987 |
जालस्थानम् | https://www.facebook.com/pages/Kishore-Kumar/1449560658653658 |
भारतदेशस्य प्रसिद्धः चलच्चित्रगायकः अभिनेता, गीतरचयिता, चित्रनिर्मापकः,निदेशकः, साहित्यकारः च भूत्वा परगणनीयः यशोवान् जनः । (जीवितकालः क्रि.श.१९२९तमवर्षस्य अगष्ट् मासस्य चतुर्थदिनाङ्कतः क्रि.श. १९८७तमवर्षस्य अक्टोबर् मासस्य त्रयोदशदिनाङ्कः)
यशस्वी नेपथ्यगायकः
[सम्पादयतु]किशोरकुमारः मधुरकण्ठस्य गायकः हिन्दीभाषा, बङ्गालीभाषा, मराठीभाषा, अस्सामीभाषा, गुजरातीभाषा, कन्नडभाषा, भोजपुरीभाषा, मलयाळंभाषा, ओरियाभाषा, इत्यादिभिः भारतीयभाषाभिः सहस्राधिकानि गीतानि गीतवान् । क्रि.श.१९५०तः क्रि.श.१९८०पर्यन्तम् एषः मोहम्मद रफीवर्येण, मूकेशेन च सह प्रधानपुरुषगायकः आसीत् ।
बाल्यं शिक्षा च
[सम्पादयतु]किशोरकुमारः (अस्य पूर्वतनं नम अभास् कुमार गाङ्गूली इति । बङ्गालीभाषया - আভাষ কুমার গাঙ্গুলি) ब्रिटिश् शासनकालस्य भारते अद्यतने मध्यप्रदेशराज्ये खाण्ड्वापत्तनस्य बङ्गालीकुटुम्बे जातः । अस्य पिता कुञ्जलाल गङ्गूलि न्यायवादी आसीत् । अस्य माता गौरीदीवी धनिककुटुम्बतः आगता । अभासकुमाराः एतयोः दम्पत्योः अपत्यचतुष्टकनीयः । प्रथमः अशोककुमारः, द्वितीया सतीदेवी, चतुर्थः अनूपकुमारः । किशोरकुरामरः जीवने चत्वारिवारं विवाहं कृतवान् । अमितकुमारः इति अस्य पुत्रः बालिवुड्चित्रे बङ्गालीचलच्चित्रे च गायकः आसीत् ।
अभियाश्रयगृहवातावरणम्
[सम्पादयतु]आभासः बाल्यकाले तस्य भ्राता अशोककुमारः हिन्दीचलच्चित्रलोके जनप्रियः अभिनेता आसीत् । कालक्रमेण सहोदरस्य सहाय्येन अनूपकुमारः अपि चित्ररङ्गं प्रविष्टवान् । स्वसहोदराभ्यां सह कालं यापयन् क्रमेण चलच्चित्रसङ्गीते आसक्तिं प्राप्तवान् । किशोरकुमारः गायकाभिनेतुः कुन्दनसैगलस्य अभिमानी आसीत् अपि च तं गुरुः इति भावितवान् ।
चलच्चित्रोद्योगस्य आरम्भः
[सम्पादयतु]अग्रजः अशोककुमारः बालिवुड् (हिन्दीचलच्चित्ररङ्गम्) अभिनयक्षेत्रे यदा प्रसिद्धिं प्राप्तवान् तदा गाङ्गूली कुटुम्बः निरन्तरं मुम्बैनगरम् गच्छति स्म । आभसकुमारः स्वस्य नाम किशोरकुमारः इति परिवर्तितवान् । बाम्बे टाकीस् इति संस्थायां वृन्दगायकरूपेण स्वस्य चित्रवृत्तिम् आरब्धवान् यत्र अग्रजः प्रधानभूमिकां निर्वहति स्म । क्रि.श.१९४८तमे वर्षे लोकार्पितं शिकारि इति चलच्चित्रम् अभिनेतृरूपेण अस्य प्रथमं चलच्चित्रम् । सङ्गीतनिदेशकः खेमदन्दः क्रि.श.१९४८तमे वर्षे स्वस्य " जिद्दी " चलच्चित्रे "मर् ने कि दुवायें क्यूं माङ्गु " गीतं गातुम् अवकाशं कल्पितवान् । एतदन्तरं किशोरकुमारः निरन्तरं गानस्य कार्यं प्राप्तवान् । किन्तु एषः तावत्पर्यन्तं चलच्चित्रकार्यं गभीरवृत्तिरूपेण न स्वीकृतवान् ।
निधनम्
[सम्पादयतु]किशोरकुमारः क्रि.श. १९८७तमे वर्षे अक्टोबर मासे हृदयवैफल्येन दिवङ्गतः ।
अस्य प्रमुखचलच्चित्राणि
[सम्पादयतु]वर्षाणि | चलच्चित्रनामानि | भूमिकाः | ठीका |
---|---|---|---|
क्रि.श.१९८८ | कौन जीता कौन हारा | ||
क्रि.श.१९८२ | चलती का नाम गाड़ी | ||
क्रि.श. १९७४ | बढ़ती का नाम दाढ़ी | ||
क्रि.श. १९७१ | दूर का राही | ||
क्रि.श. १९७१ | हंगामा | ||
क्रि.श. १९६८ | साधू और शैतान | ||
क्रि.श. १९६८ | पड़ोसन | गुरु | |
क्रि.श. १९६८ | हाय मेरा दिल | ||
क्रि.श. १९६६ | प्यार किये जा | ||
क्रि.श. १९६६ | लड़का लड़की | ||
क्रि.श. १९६४ | दूर गगन की छाँव में | शंकर | |
क्रि.श. १९६४ | मिस्टर एक्स इन बॉम्बे | ||
क्रि.श. १९६२ | हाफ टिकट | ||
क्रि.श. १९६२ | मनमौजी | ||
क्रि.श. १९६२ | नॉटी बॉय | प्रीतम | |
क्रि.श. १९६ | झुमरू | झुमरू | |
क्रि.श. १९६० | गर्ल फ्रैंड | ||
क्रि.श. १९६० | महलों के ख़्वाब | राजन | |
क्रि.श. १९६० | काला बाज़ार | ||
क्रि.श. १९५९ | चाचा ज़िन्दाबाद | ||
क्रि.श. १९५८ | चलती का नाम गाड़ी | ||
क्रि.श. १९५८ | रागिनी | राजन | |
क्रि.श. १९५७ | आशा | ||
क्रि.श. १९५७ | मिस मैरी | ||
क्रि.श. १९५७ | बंदी | माधव | |
क्रि.श. १९५६ | भाई भाई | ||
क्रि.श. १९५६ | पैसा ही पैसा | ||
क्रि.श. १९५६ | ढाके की मलमल | ||
क्रि.श. १९५६ | मेम साहिब | ||
क्रि.श. १९५५ | भगवत महिमा | ||
क्रि.श. १९५५ | पहली झलक | ||
क्रि.श. १९५५ | बाप रे बाप | ||
क्रि.श. १९५४ | नौकरी | ||
क्रि.श. १९५४ | धोबी डॉक्टर | ||
क्रि.श. १९५३ | लड़्की | ||
क्रि.श. १९५२ | तमाशा | ||
क्रि.श. १९४६ | शिकारी |
निदेशितचित्राणि
[सम्पादयतु]वर्षाणि | चलच्चित्राणि | टीका |
---|---|---|
क्रि.श.१९८२ | चलती का नाम ज़िन्दगी | |
क्रि.श.१९७४ | बढ़ती का नाम दाढ़ी | |
क्रि.श.१९७१ | दूर का राही | |
क्रि.श.१९६४ | दूर गगन की छाँव में |