के जे येशुदास
के.जे.येशुदासः കെ.ജെ. യേശുദാസ് | |
---|---|
Padmabhushan Dr. K.J. Yesudas D.Litt | |
व्यैक्तिकतथ्यानि | |
जन्मनाम | काट्टश्शेरि जोसफ़ येशुदास |
ख्यातनाम | गानगन्धर्वः |
मूलतः | वाराणसी, मध्यप्रदेशराज्यम्, भारतम् |
सङ्गीतविद्या | भारतीयशास्त्रीयसङ्गीतम्, भारतीयचलच्चित्रस्य नेपथ्यगायकः, |
वृत्तिः | गायकः |
सक्रियवर्षाणि | क्रि.श.१९५५ तः... अनुवर्तते । |
डा. कत्तस्सेरि जोसेफ् येशुदासः (जननम् - क्रि.श. १९४०तमवर्षस्य जनवरिमासस्य दशमं दिनम्) भारतस्य अग्रमान्येषु सङ्गीतविद्वत्सु अन्यतमः । अपि च अनेकासु भारतीयभाषासु चलच्चित्रगीतानि गीतवान् । अयं कर्णाटकसङ्गीतस्य मधुरकण्ठः गायकः । केरळराज्यस्य कोच्चिमण्डले अस्य जननम् अभवत् । प्रसिद्धगायकस्य चेम्बै वैद्यनाथ भागवतस्य शिष्याग्रेसरः अभवत् । भारतीयचलच्चित्रस्य नेपथ्यगायकत्वेनापि अस्य ख्यातिः अस्ति । अयं मलयाळंभाषा,तमिळुभाषा, हिन्दीभाषा, कन्नडभाषा, इत्यादिषु भारतीयभाषासु चित्रगीतानि सहस्रशः गीतवान् । अस्य कण्ठश्रिया भारतम्।भारतस्य अग्रश्रेण्याः गायकेषु अन्यतमः अस्ति ।
बाल्यं सङ्गीतशिक्षा च
[सम्पादयतु]येशुदासः केरळराज्यस्य पोर्टकोच्चिप्रदेशे क्रि.श. १९४०तमे वर्षे जनवरिमासस्य दशमे दिने अजायत । अस्य पिता अगस्टैन् जोसेफ् माता अलिजबेत् जोसेफ् इति । अस्य प्रथमः सङ्गीतगुरुः कर्णाटकशास्त्रीयसङ्गीतज्ञः मलयाळं नाटकरङ्गस्य कलावित् अस्य पिता एव । तत्पश्चात् केरळस्य तिरुपुनितुर इति ग्रामे सङ्गीताकादेमीं प्रविश्य स्वस्य सप्तमे वयसि प्रचलिते सङ्गीतप्रतियोगितायां जयाशाली भूत्वा स्वर्णपदकं प्राप्तवान् । सङ्गीतस्य उन्नताध्ययनार्थं चेम्बै वैद्यनाथ भागवतः इति तत्कालीनप्रसिद्धं गुरुम् उपगतवान् । क्रि.श. १९७४तमे वर्षे गुरोः अकालमरणात् अस्य सङ्गीताध्ययनम् अवरुद्धम् ।
वृत्तिजीवनम्
[सम्पादयतु]नेपथ्यगायकत्वेन अस्य प्रथमगीतं क्रि.श. १९६१तमे वर्षे लोकार्पितस्य ' काल्पादुवुकल् ' इति मलयाळभाषायाः चलच्चित्रे अस्ति । एतावत् अनेन ५०सहस्राधिकगानानि अनेन गीतानि । एतेषु अस्य मातृभाषया मलयाळभाषया अधिकानि गीतवान् । एतदतिरिच्य कन्नडभाषया, हिन्दीभाषया, तमिळुभाषया, तेलुगुभाषया, बङ्गालीभाषया, गुजरातीभाषया, ओडिशाभाषया, मराठीभाषया, संस्कृतभाषया, तुळुभाषया, पञ्जाबीभाषया, अपि च रष्यन्, अरेबिक्, ल्याटिन्, इङ्ग्लिष् इत्यादिभिः वैदेशिकभाषाभिः गीतानि गीतवान् । अस्य सङ्गीतवृत्तेः सुवर्णमहोत्सवे सङ्गीतस्य विषये एवम् उक्तवान् । सङ्गीते विज्ञानम् अस्ति । तज्ज्ञात्वा युवानः अत्र अध्ययननिरताः भवेयुः । प्रत्येकं रागे विज्ञानस्य पृष्ठभूमिः अस्ति । तदविज्ञाय अभ्यासं करोति चेत् प्रयोजनं नास्ति । अस्य सांस्कृतिकपामुख्यं ज्ञातव्यम् । संस्कृतभाषा सर्वभाषाणां जननी अतः मलयाळभाषविदः मया अन्यभाषासु अपि गातुं शक्तवान् । कर्णाटकसङ्गीतं तु समुद्रस्य तरङ्गः इव अहम् अत्र प्रथमतरङ्गे अस्मि । सङ्गीतस्य पूर्णपरिभाषां ज्ञातुम् एकं जन्म पर्याप्तं न भवति । नाहं विद्वान् अहं विद्यार्थी एव इति अवदत् ।
वैयक्तिकजीवनम्
[सम्पादयतु]येसुदासस्य पत्न्याः नाम प्रभा । एतयोः दम्पत्योः विनोदः विजयः विशालः इति त्रयः पुत्रा सन्ति । तमिळुनाडुराज्यस्य राजधान्यां चेन्नैनगरे अस्य वासः भवति ।
प्रशस्तिपुरस्काराः
[सम्पादयतु]- अत्युत्तमनेपथ्यगायकः इति सप्तवारं राष्ट्रप्रशस्तिः ।
- अत्युत्तमः मलयाळंनेपथ्यगायकः इति १६वारं केरळराज्यस्य प्रशस्तिः ।
- क्रि.श. १९७२तमे वर्षे भारतसर्वकारस्य सर्वोच्चाप्रशस्तिः पद्मश्रीप्रशस्तिः
- क्रि.श. १९७४तमे वर्षे सङ्गीतराजः इति उपाधिः। चेम्बै
- अत्युत्तमः तमिळुभाषानेपथ्यगायकः इति क्रि.श. १९८८तमे वर्षे तमिळुनाडुराज्यसर्वकारस्य आन्ध्रप्रदेशराज्य सर्वकारस्य प्रशस्तिः ।
- क्रि.श. १९८९तमे वर्षे अण्णामलैविश्वविद्यालयात् सादरडाक्टरेट्पदवी ।
- क्रि.श. १९६५ तमे वर्षे तदानीन्तनसोवियत् गणराज्येन तस्मिन् देशे विविधस्थानेषु सङ्गीतगोष्ठीः आयोजयितुम् आमन्त्रणं प्राप्तवान् ।
अभिनेता अपि
[सम्पादयतु]कालः | चलच्चित्रनाम | अभिनेता | नेदेशकः | भूमिका |
---|---|---|---|---|
क्रि.श.१९६५ | अनार्कली | प्रेम नाज़िर् | कुञ्चक्को | तानसेनः |
क्रि.श. २००२ | नन्दनम् | पृथ्वीराज सुकुमरन् | रणजीतः | स्वभूमिका |
क्रि.श. २००५ | बाय् फ्रेण्ड् | मनिकुट्टन् | विनयन् | स्वभूमिका |
क्रि.श. १९७३ | अचानि | प्रेम नाज़िर् | पि.भास्करन् | स्वभूमिका |
कानिचन प्रसिद्धचलच्चित्रगीतानि
[सम्पादयतु]- टु टु टु बेडप्प.... (प्रेममयी) कन्नडचलच्चित्रस्य प्रथमनेपथ्यगानम् । अपि च डा.राजकुमरस्य अभिनये गीतस्य एकैकं चित्रम् ।
- हेण्ने निन्न कण्ण नोट मिञ्चु... (प्रेममयी)
- हूवन्ते हेण्णु नगुतिरबेकु... (किलाडि किट्टु)
- मनेये मन्त्रालय मनसे देवालय.... (मनेये मन्त्रालय)
- आ कर्णनन्ते नी त्यागियादे... (कर्ण)
- नटन विशारद नटशेखर...(मलयमारुत)
- नगुमो मुगलेनि.. (रायरुबन्दरु मावन मनेगे)
- मातु तप्पिदळु... (हुच्च)
- तायि एन्दल्लि.... (नञ्जुण्डि)
- नम्मूर युवराणि.....(रामाचारी)
- लालि लालि मलगिरुव (स्वाति मुत्तु)
- मधुर बलु मधुर बाळु जेनादाग... (बाळु जेनु)
- ओहो वसन्त हृदय अरळो काल... (गोपिकृष्ण)
- तामसमेन्ते वरुवान्... (भार्गवी निलयम्, क्रि.श. १९६४)
- इन्नले मयन्गुम्बोल्.. ( अन्वेशिचु कन्देथियिल्ला, क्रि.श. १९६७)
- स्वप्नङ्गळे... ( कव्यमेला, क्र्.श. १९६५)
- हृदयसरस्सिले... (पाडुन्न पूज़ा कि.श. १९६८)
- पोन्वेयिल्... (निर्तसाले, क्रि.श. १९७२)
- अष्टमुडि... (मनवत्ती, क्रि.श. १९६४)
- आयिरुम् पदसरम् (नाडि, क्रि.श. १९६९)
- मनुष्यन्.... ( अचनुम् बप्पयुम् क्रि.श. १९६९)
- श्याम मेघमे....(समयमयिल्ल पोलुम्, क्रि.श १९७८)
- एळुस्वरङ्गळु... (चिरियो चिरि, क्रि.श. १९८२)
- काय्योळिनिज तारकम्...(जिजगन्दर्वन्, क्रि.श. १९९१)
- आदियुश सन्ध्या... (पळसि राजा, क्रि.श. २०१०)
- ओ गोरियारे... (नैया)
- सुनयना.... (सुनयन)
- चान्द जैसे मुकडे पे...(सावन को आने दे)
- कहाँ से आये बदरा (चसमे बद्दूर्)
- नि स गम पा... (आनन्द महल्)
- गोरि तेरा गांव... (चित्तचोर्)
- का करू सजनि आये न बालम् (स्वामी)
- दिल् के टुकडे टुकडे करके (दादा)
- देवुडे इच्चुडु विधि ओकटि... (अन्तुलेनि कथा, क्रि.श. १९७६)
- चुक्कल्ले तोचवे एन्नेल्ले कचवे... (नेरीक्षण, क्रि.श. १९८१)
- नवरस सुम मालिका.... (मेघसन्देशम्, क्रि.श.१९८३)
- तेलवरदेमो स्वमी... (श्रुतिलयलु, क्रि.श. १९८७)
- तुलसि दलमुलचे सन्तोशमुगा... (रुद्रवीणा, क्रि.श. १९८८)
- आ पूल रङ्गु.... (दोङ्ग पोलीस्, क्रि.श १९९२)
- अन्दमैन वेन्नेललोन... (अस्सेम्ली रौडी, क्रि.श. १९९१)
- मुद्दबन्ति नव्वुलो... (अल्लुडुगारु, क्रि.श. १९९१)
- मुद्दुतो ओनमालु.... (मेजर् चन्द्रकान्त, क्रि.श. १९९२)
- बृन्दावनमाली....(तप्पु चेसि पप्पु कूडु, क्रि.श. २००३)