ताक्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


तक्रेण निर्मितं ताक्रम् इति उच्यते । एतत् ताक्रं सामान्यतया पत्रैः निर्मीयते । अतः एतत् ताक्रम् अपि सस्यजन्यः आहारपदार्थः । पत्राणि विहाय शुण्ठ्या, आम्रशुण्ठ्या, पलाण्डुना, लशुनेन चापि ताक्रं निर्मातुं शक्यते । दक्षिणभारते तु इदं ताक्रम् अत्यन्तं जनप्रियम् अस्ति । एतत् ताक्रम् अन्नेन सह क्वथितम् इव अपि सेव्यते । कदाचित् एवमेव पातुम् अपि शक्यते । अमृतलता, काकमाची, ब्राह्मी, नागवल्लीपत्रम् इत्यादीनि पत्राणि ताक्रार्थम् उपयुज्यते ।

ताक्रस्य निर्माणम्[सम्पादयतु]

अस्य ताक्रस्य निर्माणम अपि अत्यन्तं सुलभम् । पत्राणि (अन्यः कोऽपि कन्दः वा) सम्यक् प्रक्षाल्य हरिन्मरीचिकां, मरीचं वा योजयित्वा पेषणीयानि । पेषणावसरे अपेक्षितं चेत् नारिकेलम् अपि योजयितुं शक्यते । तदनन्तरं तत्र आम्लं तक्रं लवणं चापि योजनीयम् । अपेक्षिता चेत् किञ्चित् प्रमाणेन शर्कराम् अपि योजयितुं शक्यते । अन्ते जीरिका-सर्षप-युक्तं व्याघरणं करणीयम् ।

"https://sa.wikipedia.org/w/index.php?title=ताक्रम्&oldid=371479" इत्यस्माद् प्रतिप्राप्तम्