पण्डिततारानाथः
पण्डितःतारानाथः कर्णाटकस्य प्रसिद्धः दार्शनिकः विचारवादी चिन्तकः च। समाजस्य न्यूनतानां निवारणाय एव स्वजीवनं समर्प्य समाजस्य पुरतः आदर्शम् उपस्थापितवान्|
जन्म बल्यं च
[सम्पादयतु]तरानाथः जून् ६, १७९१ तमे वर्षे दक्षिणकन्नडमण्डलस्य मङ्गलूरुनगरे जन्म प्राप्तवान् । पिता रङ्गनाथः । माता राजीवम्मा । तारानाथस्य बाल्ये एव पितरौ कालरारोगेन मृतौ। तारानाथः अनाथः जातः । हैद्राबाद्नगरे निवसन्त्याः मातृभगिन्याः नेत्रावतीबाय्याः रक्षणे सः वर्धितवान्। तत्र एव तस्य शिक्षणं समापितवान्। १९१० तमे वर्षे बीदरनगरस्य कस्मिंश्चित् विद्यालये शिक्षकः अभवत् ।
सामाजिकपरिवर्तनार्थं प्रयर्नाः
[सम्पादयतु]तदानीन्तनां पुरातनशिक्षणपद्धतिं जडमयशासनक्रमं च दृष्ट्वा सः कुपितः जातः । अधिकारिणाम् अवकृपाकारणतः रायचूरुनगरं प्रति तस्य स्थानान्तरणम् अभवत्म् । सामान्यजनेभ्यः दूरे भूत्वा शिक्षणव्यवस्थातः वेदनाम् अनुभूय सर्वकारीयम् उद्योगं परित्यक्तवान् । उपेक्षितजनानां साक्षरतायै युगादिपर्वदिने(२३-३-१९२०)रायचुरुनगरे एव पाठशालामेकाम् आरब्धवान्। सा एव 'हमदर्द’शाला। 'हमदर्द' नाम अन्येषां वेदनायै स्पन्दनकर्ता इति अर्थः, अथवा करुणामयी इति वा अर्थः भवति। राष्ट्रियजीवनाय समानतायै च आरब्धः एषः विद्यालयः अज्ञानस्य अन्धकारे ज्ञानदीपः इव आसीत्। दरिद्रान् धनिकान् सर्वान् स्वीकुर्वन्तम् एतं विद्यालयं जनाः 'दरिद्राणां विद्यालयः’ 'अल्पमूल्यस्य विद्यालयः’ इति रूपेण उपहसन्ति स्म। किन्तु अद्यत्वे एषः 'तारानाथस्य विद्यालयः इति प्रख्यातः अस्ति।
प्रेमायतनम्
[सम्पादयतु]तारानाथः १९२२ तमे वर्षे अक्टोबरमासस्य २५ तमे दिनाङ्के निज़ामप्रभुत्वस्य विरुद्धं मद्रास् नगरस्य हिन्दुपत्रिकायां लेखनं लिखितवान्।तत्र जनानाम् अहितं चिन्तयन्तं निज़ामं भारतस्य डयर् इति उल्लिखितवान् अस्ति। सर्वकारेण तस्य लेखनं गभीरतया स्वीकृतम्। तारानाथं राज्यात् बहिः प्रेषितवन्तः। हितैषिणां साहाय्येन तारानाथः तुङ्गभद्रायाः तीरे कञ्चित् आश्रमं निर्मितवान्। 'प्रेमायतनम्’ इति तस्य नामकरणं कृतवान्। मनुष्येषु विद्यमानस्य जातिभित्तेः पातनं मानवीयमूल्यानां वर्धनं च आश्रमस्य लक्ष्यम् आसीत्। भेदभावनां विना सर्ववर्गीयाः तत्र आसन् । सः भगवद्गीताप्रवचने प्रबुद्धः आसीत्।सर्ववर्गीयाणां कृते गीताबोधनं कृतम् इति कारणतः तारानाथेन सामाजिकबहिष्कारः प्राप्तः। सः सर्वम् अपि सोढवान्। १९२४ तमे वर्षे प्रेमा नामिकां कन्नडाङ्ग्लपत्रिकाम् आरब्धवान्. तत्र सामाजिकसमस्यानां विषये, आरोग्यविषये च लेखनानि लिखति स्म। महिलानाम् अधिकारविषये आरोग्यविषये च विशिष्टं स्तम्भम् आरब्धवान्। तस्मिन् आश्रमे आरोग्यकेन्द्रम् अपि आसीत्। अत्र आयुर्वेदपद्धतिम् अनुसृत्य चिकित्सा भवति स्म। आश्रमे औषधसस्यानां वाटिका एव आसीत्। १९२७ तमे वर्षे महात्मा गान्धिः विश्रान्तिं स्वीकर्तुं बेङ्गलुरुसमीपस्थं नन्दीपर्वतं आगतवान् आसीत्। तदा तारानाथः बल्लार्यां ताडपत्रि-माधवदम्पतीभ्यां सह 'महात्मा कबीर' नामके नाटके अभिनयं कृतवान्। कलाकाराणां खादिवस्त्रधारणं, हिन्दिभाषा, हिन्दु-मुस्लिम्सामरस्यं च दृष्ट्वा गान्धिजी आनन्देन अभिनन्दनं कृतवान् आसीत्। ख्यातलेखकाः अ.न.कृष्णरावः, कैलासम्, ति.ता.शर्मा,जोळदराशिदोड्डनगौडः, मधुरचेन्नः, सिम्पिलिङ्गण्णः, पदकोशस्य डि.के.भारद्वाजः, हासनस्य राजारावः, आद्यरङ्गः, सोमाचार्यः इत्यादयः तस्य मित्राणि आसन्। कन्नडमातृभाषाम् अतिरिच्य संस्कृत-आङ्ग्ल-हिन्दि-मराठी-तेलुगु-फ्रेञ्च-इत्यादिचतुर्दशभाषाः जानाति स्म। 'धर्मसम्भव', 'देवरमग' 'मोहनास्त्र', 'जगळ', 'प्रार्थनागीते’ इत्यादयः तस्य कृतयः। स्वपत्रिकानिमित्तं तु बहूनि लेखनानि सः लिखितवान्। यथा तस्य लेखनी तीक्ष्णा तथा तस्य भाषणानि अपि तीक्ष्णानि एव। कैलासं महोदयस्य 'पर्पस्’ तथा आद्यरङ्गमहोदयस्य 'हरिजन्वार्’ नाटके तारानाथस्य साहाय्येन एव रूपितौ। अ.न.कृष्णरायस्य 'महायात्रे’ नामिका कादम्बरी तारानाथस्य जीवनचरितम् एव। द्विपञ्चाशत् वसन्तान् दृष्टवान् तारानाथः कणाटकराज्यस्य उन्नत्यै विशेषपरिश्रमं कृतवान्। तत्कालीनः क्रान्तिकारः कडपा राघवेन्द्ररावः प्रतिभाशालिनः तारानाथस्य विषये "तिलकमहोदयस्य राजकीयप्रज्ञा, अरविन्दस्य योगः, रवीन्द्रनाथट्यागोरवर्यस्य कलाप्रज्ञा च अस्मिन् अस्ति" इति प्रशंसां कृतवान् अस्ति। स्वजीवनस्य आदर्शम् एव उदाहरणरूपेण संस्थाप्य तारानाथः कर्णाटकजनानां नेत्रदीप्तिः इव आसीत्। 'प्रीतिम् अतिरिच्य सर्वं विषमयम्’ इति लोकोक्तिं रचितवान्। दार्शनिकः पण्डितः तारानाथः ३१-१०-१९४२ तमे दिनाङ्के इहलोकयात्रां समापितवान्।
""