यवतमाळमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(यवतमाळ मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
यवतमाळमण्डलम्

Yavatmal district

यवतमाळ जिल्हा
मण्डलम्
महाराष्ट्रराज्ये यवतमाळमण्डलम्
महाराष्ट्रराज्ये यवतमाळमण्डलम्
देशः  India
जिल्हा यवतमाळमण्डलम्
उपमण्डलानि यवतमाळ, आर्णी, कळम्ब, बाभूळगाव, दारव्हा, दिग्रस, नेर, पुसद, उमरखेड, महागाव, केळापूर, राळेगाव, घाटञ्जी, वाणी, मारेगाव, झरी जामणी
विस्तारः १३,५८४ च.कि.मी.
जनसङ्ख्या(२०११) २७,७२,३४८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://yavatmal.nic.in
चिन्तामणीगणपति-मन्दिरम्
सहस्रकुण्ड जलप्रपात:

यवतमाळमण्डलं (मराठी: यवतमाळ जिल्हा, आङ्ग्ल: Yavatmal District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं यवतमाळ इत्येतन्नगरम् । मण्डलमिदं कार्पासनिर्माणे अग्रगण्यम् ।

भौगोलिकम्[सम्पादयतु]

यवतमाळमण्डलस्य विस्तारः १३,५८४ चतुरस्रकिलोमीटर-मित:। अस्य मण्डलस्य पूर्वदिशि चन्द्रपुरमण्डलं, पश्चिमदिशि परभणीमण्डलम्, अकोलामण्डलं च, उत्तरदिशि वर्धामण्डलम्, अमरावतीमण्डलं च, दक्षिणदिशि आन्ध्रप्रदेशराज्यं, नान्देडमण्डलं च अस्ति । अस्मिन् मण्डले २५७६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र वर्धा, वैनगङ्गा, पैनगङ्गा च प्रमुखनद्यः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं यवतमाळमण्डलस्य जनसङ्ख्या २७,७२,३४८ अस्ति । अस्मिन् १४,१९,९६५ पुरुषाः, १३,५२,३८३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २०४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.७८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ८२.८२% अस्ति ।

कृषिः उद्यमाश्च[सम्पादयतु]

यवनालः, कार्पासः, कलायः, तण्डुलः, गोधूमः, चणकः, इक्षुः, कदलीफलं, नारङ्गफलं, द्राक्षाफलम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि । कार्पासः, वस्त्रं, 'नायलोन' (Nylon), कर्करं (limestone) इत्येतेषां विदेशविक्रयणं भवति । एतेषां निर्माणाय, विक्रयणाय च उद्यमाः प्रचलन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

मण्डलपरिसरोऽयं 'बेरार'प्रान्तस्य भागः आसीत् । शुङ्ग-मौर्य-चालुक्य-वाकाटक-राष्ट्रकूट-देवगिरियादव-मराठाराजानाम् आधिपत्यमासीत् । अनन्तरm आङ्ग्लाधिपत्ये आसीत् एषः परिसरः । निजामशासकस्य अपि आधिपत्यमासीत् अत्र । १९५६ तमवर्षपर्यन्तम् परिसरोऽयं मध्यप्रदेशराज्ये समाविष्टः आसीत् । १९५६ तमे वर्षे भाषानुसारेण प्रान्तनिर्मितिः जाता तदा मुम्बईप्रान्ते समाविष्टः कृतः ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षोडश-उपमण्डलानि सन्ति । तानि-

  • यवतमाळ
  • आर्णी
  • कळम्ब
  • बाभूळगाव
  • दारव्हा
  • दिग्रस
  • नेर
  • पुसद
  • उमरखेड
  • महागाव
  • केळापूर
  • राळेगाव
  • घाटञ्जी
  • वाणी
  • मारेगाव
  • झरी जामणी

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् 'माळी', 'लमाणी', 'आन्ध', 'गोण्ड', 'प्रधान', 'कोलाम' इत्येताः जनजातयः निवसन्ति । तेषां परम्परासु अपि इदानीं नगरसम्पर्केण परिवर्तनं दृश्यते । मण्डलेऽस्मिन् प्रमुखतया मराठीभाषा व्यवहारे प्रचलिता । तया सह गोण्डीभाषा, कोलम, उर्दू, तेलुगु, हिन्दी इत्येताः भाषाः प्रचलन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. घण्टीबाबा 'जत्रा'- मेला
  2. रङ्गनाथस्वामि-मेला
  3. कळम्ब इत्यत्र चिन्तामणिगणपतिमन्दिरम्
  4. रङ्गनाथमन्दिरम्
  5. सहस्रकुण्ड-जलप्रपातः
  6. चौसलेश्वर-मन्दिरम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यवतमाळमण्डलम्&oldid=471017" इत्यस्माद् प्रतिप्राप्तम्