राजा राममोहन राय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
राजा राममोहन राय
Raja Ram Mohan Roy.jpg
"आधुनिकभारतस्य जनकः"
जन्म (१७७२-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-२२)२२ १७७२
राधानगर, (हुगलिमण्डलम्),
पश्चिमवङ्गराज्यम्, भारतम्
मृत्युः २७ १८३३(१८३३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-२७) (आयुः ५९)
स्टेपलेटन्, ब्रिस्टल्
मृत्योः कारणम् Meningitis
शान्तिस्थानम् कोलकाता, भारतम्
देशीयता भारतीय
अन्यानि नामानि Herald Of New Age
कृते प्रसिद्धः ब्रह्मसमाज
शीर्षकम् राजा
वंशजाः द्वारकानाथ टागोर
धर्मः हिन्दुः
पितरकौ(s) रमाकान्त राय, तारिणी देवी


राजा राममोहन राय ( /ˈrɑːɑː rɑːməmhənə rɑːj/) (हिन्दी: राजा राममोहन राय, आङ्ग्ल: Raja Ram Mohan Roy, वङ्ग: রাজা রাম মোহন রায়) इत्ययम् “आधुनिकभारतस्य जनकः” इति कथ्यते । सः समाजसेवकः आसीत् । राममोहन राय इत्यस्य वैचारिकदृष्टिकोणः आधुनिकः आसीत् । अतः तेन आधुनिकतया सह परम्परां सञ्योजितुं प्रयासाः कृताः । तेन धर्मनिरपेक्षता-आध्यात्मिकता इत्येतयोः समन्वयः प्रस्थापितः [१]

अन्तर्विषयाः

जन्म, परिवारश्च[सम्पादयतु]

राममोहन राय इत्यस्य जन्म १७७२ तमस्य वर्षस्य मई-मासस्य २२ तमे दिनाङ्के पश्चिमबङ्गाल-राज्यस्य हुगलि-मण्डलस्य राधानगरे अभवत्[२] । तस्य माता तारिणीदेवी, पिता रमाकान्तः च आसीत् । राममोहनस्य माता ‘फूल ठकुरानी’ इति नाम्ना ख्याता आसीत् ।

रमाकान्तेन त्रिवारं विवाहः कृतः । तस्य प्रथमा पत्नी सुभद्रादेवी, द्वितीया तारिणीदेवी, तृतीया रमणीदेवी च आसीत् । १७७२ तमे वर्षे ‘ईस्ट् इण्डिया कम्पनी’ इत्यस्याः संस्थायाः भारतस्य बृहत्तमेषु भागेषु आधिपत्यम् आसीत् [३]। समाजे अपि कुरीतयः आसन् । शिक्षणस्य अभावः अपि आसीत् । यः कोऽपि जनः तासां कुरीतीनां विरोधं करोति, तस्मै दण्डः प्रदीयते स्म । तेन कारणेन कोऽपि जनः विरोधं न करोति स्म ।

रमाकान्तस्य पितुः नाम विनोदराय आसीत् । रमाकान्तस्य षड्भ्रातरः आसन् । अतः विनोदराय इत्यस्य मृत्योः अनन्तरं तस्य सम्पूर्णसम्पत्तिः सप्तभ्रातृसु विभक्ता जाता । रमाकान्तः स्वस्य भागं गृहीतवान् । रमाकान्तेन १७९२ तमे वर्षे लङ्गूरपारा-नामके ग्रामे नूतनगृहं निर्मापितम् [४]। तत्रैव कुटुम्बिजनैः सह निवसति स्म ।

राममोहनस्य अग्रजः जगमोहनः आसीत् । तयोः द्वयोः माता तारिणीदेवी आसीत् । किन्तु रामलोचन अपि एकः भ्राता आसीत् । तस्य माता रमणीदेवी आसीत् । त्रयाणां भ्रातॄणाम् एका एव भगिनी आसीत् ।

राममोहनस्य प्रपितामहस्य नाम कृष्णचन्द्रः बन्द्योपाध्यायः आसीत् । सः तत्रस्यस्य राज्ञः सेवां करोति स्म । राज्ञा तस्मै ‘राय’ इति उपाधिः प्रदत्तः आसीत्[५] । तावतैव सर्वेऽपि कौटुम्बिकाः ’राय’ इति उपाधिं तन्नाम्ना सह संयोज्य ते सम्बोधयन्ति स्म । सः मूर्शिदाबाद-मण्डलस्य शांफसा-ग्रामे निवसति स्म । सः अत्यन्तः मेधावी आसीत् । शांफसा-नगरं त्यक्त्वा सः राधानगरं निवासाय गतवान् आसीत् । कृष्णचन्द्रस्य त्रयः पुत्राः आसन् । अमरचन्द्र, हरिप्रसाद, ब्रजविनोद च । तेषु ब्रजविनोदः धनिकः, धार्मिकः, परोपकारी च आसीत् । सिराजुदौला-राज्ञा मुर्शिदाबाद-नगरे ब्रजविनोदाय उच्चपदं प्रदत्तम् । किन्तु ब्रजविनोदः तस्मिन् पदे सानुकूलं न अनुभवति स्म । तस्य प्रति सर्वेषां व्यवहारः अन्यायपूर्णः आसीत् । अतः सः वृत्तिम् अत्यजत्[६]

ब्रजविनोदस्य सप्त पुत्राः आसन् । तेषु पञ्चमः पुत्रः रमाकान्तः आसीत् । श्याम भट्टाचार्यस्य पुत्र्या तारिण्या सह रमाकान्तस्य विवाहः अभवत् । तयोः एका पुत्री, द्वौ पुत्रौ च आस्ताम् । पुत्र्याः नाम अज्ञातम् अस्ति[७] । प्रथमपुत्रः जगमोहनः, अपरः राममोहनः च आसीत् । पुत्र्याः विवाहः श्रीधरमुखोपध्यायनामकेन केनचित् विदुषा सह अभवत् ।

शिक्षणम्[सम्पादयतु]

राममोहनः बाल्यकालादेव मेधावी आसीत् । तस्य प्रारम्भिकं शिक्षणं स्वगृहे एव अभवत् । ततः परं ग्रामस्य कस्याँञ्चित् शालायां राममोहनः अधीतवान् । पाठशालायां तस्य आदर्शं चरित्रम् आसीत् ।

नववर्षदेशीये लघुवयसि एव तेन बङ्गला-भाषा, फारसी-भाषा च अधीता [८]। ततः परं सः संस्कृत-भाषां, अरबी-भाषां च अपि अधीतवान् । तस्य पिता रमाकान्तः सैद्धान्तिकः आसीत् । राममोहनः पटना-नगरे अध्येतुम् इच्छति स्म । अतः तस्य पिता रमाकान्तः राममोहनम् उच्चशिक्षणार्थं पटना-नगरं प्रेषितवान् । पटना-नगरे राममोहनेन अरबी-फारसी-भाषयोः अध्ययनं कृतम् ।

राममोहनेन पटना-नगरे अरस्तू, यूक्लिड् इत्येतयोः विश्वविख्यातयोः दार्शनिकयोः पुस्तकानां गहनाध्ययनं कृतम् आसीत् । राममोहनः ताभ्यां प्रभावितः जातः । विवाहानन्तरं सः वाराणसी-नगरीं गतः । तत्र गत्वा राममोहनेन वेदस्य, उपनिषदाम् इत्यादीनां हिन्दुग्रन्थानाम् अध्ययनं कृतम् [९]

विवाहः[सम्पादयतु]

पटना-नगरात् राममोहनः पुनः स्वग्रामम् आगतवान् । तदा तस्य स्वभावः विकसितः जातः । राममोहनेन पटना-नगरे यदध्ययनं कृतम् आसीत्, तेन कारणेन सः मूर्तिपूजां न स्वीकरोति स्म । सः दृष्टवान् यत् – “भारतस्य जनाः मूर्तेः पूजां कुर्वन्तः सन्ति” । किन्तु राममोहनः तन्न स्वीकरोति स्म । तेन उक्तं यत् – “ईश्वरस्य न किमपि स्वरूपम् । स तु निराकारः एव” । सः मूर्तिपूजायां, धर्मानुष्ठानेषु विश्वासं न करोति स्म । तस्य पिता चिन्तामग्नः आसीत् यत् – “तस्य पुत्रस्य विचारधारा भिन्ना” इति नोचितम्[१०] । अतः रमाकान्तेन राममोहनस्य विवाहः कारितः । उमादेवी इत्याख्यया सह तस्य विवाहः जातः । रमाकान्तः विचारयति स्म यत् – “विवाहानन्तरं तस्य पुत्रः धर्मस्य विरोधं न करिष्यति । सः धर्माय कार्याणि करिष्यति” इति । किन्तु विवाहानन्तरम् अपि तस्य विचाराः न परिवर्तिताः । विवाहानन्तरं सः वाराणसीं गतः । तत्र तेन शास्त्राणां गहनतया अध्ययनं कृतम् [११]

राममोहनस्य त्रिवारं विवाहः अभवत् । तस्य प्रथमा पत्नी लघुवयसि एव मृता । तस्मिन् समये राममोहनः नववर्षदेशीयः एव आसीत् । अनन्तरं पुनः तस्य द्वौ विवाहौ जातौ । तस्य लघुपत्न्याः नाम उमादेवी आसीत्[१२] । उमादेव्याः पितृगृहं कोलकाता-मण्डलस्य भवानीपुर-ग्रामे आसीत् । सा मदनमोहन चट्टोपध्याय इत्याख्यस्य अग्रजा भगिनी आसीत् ।

वृत्तिः[सम्पादयतु]

ई. स. १८०३ तमे वर्षे राममोहनः ईस्ट् ईण्डिया कम्पनी इत्यस्यां संस्थायाम् एकम् अधिकारिपदम् अलङ्कृतवान् [१३]

टॉमस् वुडफॉर्ड् इत्याख्यः ईस्ट् इण्डिया कम्पनी इत्यस्याः संस्थायाः एकः अधिकारी आसीत् । टॉमस् वुडफॉर्ड् इत्यस्मात् परिचयकारणादेव राममोहनः तत्र वृत्तिं प्रापत् । राममोहनः टॉमस् वुडफॉर्ड् इत्यस्य अधीनस्थः अधिकारी आसीत् । प्रथममेलने एव टॉमस् वुडफॉर्ड् इत्याख्यः राममोहनाय वृत्तिम् अददात् । किञ्चित् समयान्तरे एव राममोहनस्य पितुः मृत्युः अभवत्[१४] । तेन सः बहुसमयं यावत् दुःखी आसीत् । एकवर्षानन्तरं वुडफॉर्ड् इत्याख्यस्य कार्यस्थानं परिवर्तितं जातम् । सः मुर्शिदाबाद-नगरे पञ्जिकाधिकारीपदे कार्यं कुर्वन् आसीत् । राममोहनस्य अपि तेन सह एव कार्यस्थानं परिवर्तितं जातम् । मुर्शिदाबाद-नगरे अपि तेन एकवर्षं यावदेव कार्यं कृतम्[१५]

राममोहनः भारतस्य विभिन्नभाषाः ज्ञातुम् इच्छति स्म । सः आधुनिकभारतस्य निर्माणाय प्रयासरतः आसीत् । स्वस्य मातृभूम्यै उच्चस्थाने नेतुम् उपयुक्तानां विचारधाराणाम् आवश्यकता वर्तते । अतः राममोहनेन आङ्ग्लसंस्कृतौ प्रवेशः कृतः । यतः तस्मिन् समये आङ्ग्लसंस्कृतिः भारतीयसंस्कृतेः अपेक्षया उन्नतिशीला आसीत्[१६]

ई.स. १८०५ तमस्य वर्षस्य अगस्त-मासस्य वुडफॉर्ड् इत्ययं स्वस्य पदस्य त्यागपत्रम् अददात् । अतः राममोहनेन अपि त्यागपत्रं प्रदत्तम् । ताभ्यां द्वाभ्यां मुर्शिदाबाद-नगरं त्यक्तुं विचारः कृतः । तदैव सर्वकारेण राममोहनः सूचितः यत् – सर्वकारेण राममोहनाय लिपिकपदं दातुं निर्णयः कृतः[१७]

किञ्चित् दिवसानन्तरं राममोहनस्य स्थानान्तरणम् अभवत् । रामगढ-ग्रामे तस्य स्थानान्तरणं जातम् । राममोहनः स्वाभिमानी, न्यायप्रियः च आसीत् । जॉन् डिगबी-इत्याख्यः तस्य अधिकारी आसीत् । वृत्तेः निश्चित्यानन्तरं राममोहनः डिगबी-इत्यस्मात् एकं शपथम् अकारयत् । शपथे डिगबी-इत्यनेन लिखितं यत् – “यदि राममोहनः कस्मैचित् अपि कार्याय आमन्त्रितः भविष्यति, तर्हि तस्मै आसन्दाय निवेदनं कुर्यात् । एवं च राममोहनं प्रति अपमानजनकः व्यवहारः न भवेत्” इति[१८] । ततः परं सः निष्ठया स्वस्य कार्यं कुर्वन् आसीत् । डिगबी-इत्याख्यः राममोहनात् प्रभावितः जातः । केषुचित् दिनेषु एव डिगबी राममोहनस्य कार्यक्षमताम्, उत्साहं च ज्ञातवान् । समयान्तरे द्वयोः गाढमित्रता अपि अभवत्[१९] । आजीवनं तयोः मित्रता आसीत् ।

राममोहनः डिगबी इत्यस्य अधीनस्थे लिपिकपदे कार्यं कुर्वन् आसीत् । तदा सः आङ्ग्लभाषां ज्ञातुम् अवसरं प्रापत् । यतः तस्य कार्यालयस्य अधिकारिणः सम्यक्तया आङ्ग्लभाषां जानन्ति स्म ।

राममोहनस्य आङ्ग्लभाषायां प्रभुत्वम्[सम्पादयतु]

ई.स. १८०९ तमे वर्षे डिगबी इत्ययं रङ्गपुर-ग्रामं गच्छन् आसीत् । तदा राममोहनः अपि तेन सह गन्तुं सज्जः अभवत् । सः डिगबी इत्यस्य लिपिकः आसीत् । वृत्त्या सह आङ्ग्लभाषायाः अध्ययनम् अपि करोति स्म । यदा डिगबी इत्यनेन राममोहनस्य आङ्ग्लभाषायाः शुद्धोच्चारणं श्रुतं, तदा डिगबी इत्याख्यः राममोहनात् प्रभावितः अभवत् । डिगबी इत्यस्य मनसि राममोहनाय सम्माननम् अपि वर्धितम्[२०]

डिगबी इत्याख्यः सार्वजनिकपत्राणि पठति स्म । राममोहनः अपि तानि सार्वजनिकपत्राणि पठति स्म । कस्याँञ्चित् सभायामपि राममोहनः आङ्ग्लभाषायाम् एव भाषणं करोति स्म[२१] । वैदेशिकान्, राजनैतिकान् च गतिविधीन् ज्ञातुं राममोहनः उत्सुकः आसीत् । अतः सः आङ्ग्लभाषायाः समाचारपत्राणि जिज्ञासया पठति स्म । यावत् पर्यन्तं सः सम्पूर्णानि समाचारपत्राणि न पठेत्, तावत्पर्यन्तम् अन्यानि कार्याणि न करोति स्म । समाचारपत्राणां माध्यमेन सः युरोपीयदेशानां राजनैतिकम्, आर्थिकं च विवरणं प्राप्नोति स्म[२२]

यदा राममोहनः आङ्ग्लभाषायां वदति स्म, तदा सर्वे जनाः तम् उत्साहेन शृण्वन्ति स्म । आङ्ग्लाधिकारिणः अपि तस्य प्रशंसां कुर्वन्ति स्म । तदा ‘जेरेमी बैन्थम्’ नामकः एकः दार्शनिकः आसीत् । अपरं च ‘सिल्फ् बकिङ्घम्’ कोलकाता-नगरस्य सम्पादकः आसीत् । जेरेमी बैन्थम्, सिल्फ् बकिङ्घम् इत्येतौ द्वौ अपि तस्य प्रशंसकौ आस्ताम्[२३] । बकिङ्घम् इत्यनेन लन्दन्-महानगरस्य एकस्याः पत्रिकायाः सम्पादकं प्रति लेखः प्रेषितः यत् – “अहम् आश्चर्यम् अनुभवामि यत् – राममोहनस्य भाषाशुद्धता अतिविशिष्टा वर्तते । एतादृशी आङ्ग्लभाषायाः शुद्धता मया कस्यापि भारतीयस्य भाषायां न दृष्टा । राममोहनः येषाम् आङ्ग्लशब्दानां प्रयोगं करोति, ते शब्दाः आङ्ग्लजनैः पठितव्याः । अहं निश्चयेन वदामि यत् – राममोहनः सुन्दरतया आङ्ग्लभाषायां भाषणं कर्तुं शक्नोति” [२४]

अन्धश्रद्धायाः, रीतीनां च प्रभावः[सम्पादयतु]

एकस्मिन् दिने राममोहनस्य गृहे एका दुःखदघटना अभवत् । तस्य भ्राता मृतः जातः । तेन कारणेन सम्पूर्णे गृहे जनाः विलापं कुर्वन्तः आसन् । तदा राममोहनस्य वयः लघुः आसीत् । स्वस्य भ्रातुः पार्थिवं शरीरं दृष्ट्वा तस्य मनसि विचाराः प्रस्फुटिताः जाताः । अतः सः पितरम् अपृच्छत् यत् – “किमर्थं भ्राता भूमौ सुप्तः” । तदा पिता अवदत् – “इदानीं भवतः भ्राता अस्माकं समीपे नास्ति । स अस्मद् दूरं गतवान् । पुनः कदापि न आगमिष्यति” इति । पितुः वचनं श्रुत्वा सः अपि रुदन् आसीत् । तेन प्रथमवारं शवः दृष्टः आसीत्[२५] । गृहस्य अन्ततः स्त्रियः भ्रातृपत्न्यै शृङ्गारं कुर्वन्त्यः आसन् । तद्दृष्ट्वा राममोहनः आश्चर्यचकितः जातः । कारणं बहिः भ्रातुः शवः आसीत् । गृहस्य अन्ततः भ्रातृपत्नी शृङ्गारैः सज्जा आसीत् । स न जानाति यत् – समाजः भ्रातुः शवेन सह भ्रातृपत्न्याः अपि दाहनं करिष्यति[२६]

गृहात् शवयात्रा निष्कासिता । शवयात्रायां पुरुषैः सह स्त्रियः अपि आसन् । पुरुषाः तस्य भ्रातुः शवं नयन्ति स्म । स्त्रियः तस्य भ्रातृपत्नीं दाहनार्थं नयन्ति स्म । तस्य भातृपत्नी चितायां दग्धुं नेच्छति स्म । तथापि कोऽपि तस्य इच्छां श्रोतुं नेच्छति स्म । अन्ते बलादेव समाजेन तस्य भ्रात्रा सह भ्रातृपत्न्याः अपि दाहसंस्कारः कृतः । अस्याः कुप्रथायाः प्रभावः राममोहनस्योपरि अभवत्[२७]

अन्यायस्य विरोधसङ्कल्पः[सम्पादयतु]

उपर्युक्तां घटनां दृष्ट्वा राममोहनेन मनसि समाजस्य सतीप्रथाम् अपाकर्तुं सङ्कल्पः कृतः । यथा यथा तस्य वयः वर्धते स्म, तथैव तस्य सङ्कल्पः अपि दृढः भवति स्म । इतः परं सः समाजस्य सर्वाः अन्धश्रद्धाः अपाकर्तुं प्रतिबद्धः जातः । समाजेन जनेषु ये अत्याचाराः भवन्ति स्म, तेन ब्रिटिश्-सर्वकारः बलवान् भवति स्म । ब्रिटिश्-सर्वकारस्य मूलादेव नाशं कर्तुं राममोहनः तासां कुप्रथानां नाशम् इच्छति स्म[२८]

समाजस्य प्रारूपस्य परिवर्तनं कठिनम् आसीत् । तथापि सङ्कल्पानुसारं तेन कार्यस्य आरम्भः कृतः । सः समाजस्य बालविवाहप्रथायाः, बहुविवाहप्रथायाः, सतीप्रथायाः च विरोधं कृतवान् । अज्ञानता एव अन्धविश्वासस्य प्रमुखं कारणम् अस्ति इति मन्यते । “यदि समाजः शिक्षितः भवेत् तर्हि अन्धविश्वासस्य स्वयमेव नाशः भविष्यति” इति राममोहनेन उक्तम्[२९]

सर्वकारेण शिक्षणार्थं किमपि न कृतम् । पाठशालायां यज्ज्ञानं दीयते स्म, तज्ज्ञानं भविष्यत्संरक्षणाय पर्याप्तं नासीत् । अतः राममोहनेन एकां पाठशालां स्थापयितुं विचारः कृतः[३०]

राममोहनः सर्वधर्मान् समानदृष्ट्या एव पश्यति स्म । अतः तेन सर्वेषां धर्माणां शास्त्राणाम् अध्ययनं कृतम् आसीत् । तेन एकस्मिन् भाषणे उक्तम् आसीत् यत् – “भारतवासिभिः हिन्दीभाषा तु ज्ञातव्या किन्तु अन्याः भाषाः अपि ज्ञातव्याः इति आवश्यकम् अस्ति । तेन वयं देशविदेशयोः समाचारान् ज्ञातुं शक्नुमः । यदि वयम् इच्छेम तर्हि आङ्ग्लानां पुस्तकैः अपि पठितुं शक्नुमः । किन्तु यदा वयं निष्ठया पठामः, तदैव शक्यम् अस्ति[३१]

राममोहनस्य विज्ञाने अपि अभिरूचिः आसीत् । सः भारते वैज्ञानिकशिक्षणपद्धतिं स्थापयितुम् इच्छति स्म । अतः सः प्रयासरतः आसीत् । “भारतस्य शिक्षणक्षेत्रे प्रगतिः भवेत्” इति आङ्ग्लसर्वकारः नेच्छति स्म । बहवः आङ्ग्लाः राममोहनस्य विशिष्टविचारैः प्रभाविताः जाताः । तेषु डेविड् हेयर् इत्ययम् आसीत् । डेविड् इत्यनेन सह राममोहनः गोष्ठीं चकार । गोष्ठ्यां नूतनविद्यालयस्य स्थापनाय विचारविमर्शाः अभवन् । तदनन्तरं राममोहनेन कोलकाता-नगरे एकः विद्यालयः प्रस्थापितः[३२]

तस्मिन् विद्यालये छात्राः पठनार्थं गच्छन्ति स्म । विद्यालयस्य शिक्षणकार्यं श्रेष्ठतया प्रचलत् आसीत् । किञ्चित् समयान्तरे कैश्चित् विरोधिभिः तस्य विद्यालस्य विरोधः कृतः । किन्तु विरोधाय सर्वाः योजनाः विफलाः जाताः । अस्मात् विरोधात् बहव्यः समस्याः समुद्भूताः । महत्त्वपूर्णाः व्यक्तयः विद्यालयस्य समितेः निर्गतवन्तः । तदा राममोहनः स्वयमेव समितेः निर्गतवान् । तेन विरोधिनः शान्ताः जाताः । विद्यालस्य सञ्चालनम् अन्ये सदस्याः कुर्वन्तः आसन् । गुप्तरीत्या एव राममोहनः विद्यालयाय साहाय्यं कुर्वन् आसीत्[३३]

जनाः तस्य बहुविरोधं कुर्वन्तः आसन् । तथापि राममोहनः निर्धारिताय लक्ष्याय एव कार्यं कुर्वन् आसीत् । सः इच्छति स्म यत् – “भारतवासिभ्यः उच्चशिक्षायाः व्यवस्था भवेत्” । अतः तेन एकः अन्यः विद्यालयः प्रस्थापितः । तस्य नाम “एङ्ग्लो-हिन्दु-स्कूल” इति आसीत्[३४]

मूर्तिपूजायाः विरोधः[सम्पादयतु]

राममोहनः मूर्तिपूजायां विश्वासं न करोति स्म । जनाः गृहे मूर्तिपूजां कुर्वन्ति स्म । किन्तु राममोहनः तस्य विरोधं करोति स्म । यतः सः विचारयति स्म यत् – “मूर्तिपूजायाः धर्मस्य च मध्ये कः सम्बन्धः”? अतः सः मूर्तिपूजां न मन्यते । राममोहनस्य एतादृशं व्यवहारं दृष्ट्वा तस्य पिता आश्चर्यचकितः जातः । सः दुःखी आसीत् । किञ्चिद्दिवसानन्तरं पितृपुत्रयोः मध्ये मतभेदाः समुदभवन् [३५]

राममोहनस्य विचाराः आधुनिकाः आसन् । अतः तेन कारणेन सः मूर्तिपूजायाः विरोधं करोति स्म । तदा सर्वत्र राममोहनस्य प्रचारः अभवत् । जनानां दृष्ट्या सः एकः विवादकः आसीत् । यदा तेन सतीप्रथायाः, विधवासु अत्याचारस्य च विरोधः कृतः, तदा जनाः राममोहनस्य अधिकं विरोधं कुर्वन्तः आसन् [३६]

रमाकान्तेन अपि राममोहनस्य विरोधः कृतः । किन्तु सः तस्य पिता आसीत् । अतः स्वस्य पितुः कर्त्तव्यं स्मृत्वा राममोहनाय आर्थिकं साहाय्यम् अकरोत् । रमाकान्तः राममोहनाय कुप्यति स्म । तथापि राममोहनस्य उपरि पितुः कोपस्य कोऽपि प्रभावः न जातः । सर्वे जनाः राममोहनस्य विरोधं कुर्वन्तः आसन् । तथापि राममोहनेन अन्यायं प्रति निरन्तरं सङ्घर्षः कृतः । राममोहनेन धर्मशास्त्रस्य, राजनीतेः, विज्ञानस्य, अर्थशास्त्रस्य इत्यादीनां महत्त्वपूर्णविषयाणाम् गहनाध्ययनं कृतम् आसीत् । सः प्रत्येकं विषयं जिज्ञासया पठति स्म । सः समाजस्य बहूनां क्षेत्राणां स्थितिं समीकर्तुं प्रयासान् अकरोत् [३७]

ई. स. १८०० तमे वर्षे कोलकाता-महानगरे फॉर्ट् विलियम् महाविद्यालस्य स्थापना अभवत् । तदा सः हर्षम् अनुभवति स्म । विलियम् कैरी इत्याख्यः प्रसिद्धः शिक्षाशास्त्री आसीत् । विलियम् कैरी इत्याख्यः एव तस्य महाविद्यालस्य प्रधानाचार्यत्वेन कार्यरतः आसीत् [३८]

तस्मिन् विद्यालये ‘ईस्ट् इण्डिया कम्पनी’ इति संस्थायाः कर्मचारिभ्यः प्रमुखाणां भाषाणां शिक्षा प्रदीयते स्म । समयान्तरे तत्र भारतीयविद्वांसः, युरोपीयविद्वांसः च संलग्नाः अभवन् । तत्र द्वयोः संस्कृत्योः समावेशः जातः [३९]

राममोहनेन महाविद्यालयं गत्वा स्वस्य व्यवहारकुशलतायाः परिचयः प्रदत्तः । तस्य कुशाग्रमतेः अनुभवं कृत्वा सर्वे शिक्षकाः तस्मात् प्रभाविताः अभवन् । सर्वे राममोहनेन सह मित्रवत् आचरन्ति स्म । राममोहनेन एकेश्वरवादविषये ग्रन्थः रचितः [४०]

राममोहनेन स्वस्य प्रथमः ग्रन्थः फारसी-भाषायां लिखितः । तस्य ग्रन्थस्य नाम – “तुह फातूल मुवाहिदीन” इति आसीत् । तस्य हिन्दीभाषायाम् अर्थः भवति यत् – “एकेश्वरवादियों के लिए उपहार” इति [४१]

ये जनाः धर्मं गतानुगतिकतया आचरन्, ते सर्वे तस्य ग्रन्थस्य विरोधम् अकुर्वन् । किन्तु राममोहनः निश्चिन्तः आसीत् । जनानां विरोधेन क्रान्तिकारिकार्याणां प्रेरणा प्राप्यते[४२]

राममोहनः मूर्तिपूजायाः विरोधं कुर्वन् आसीत् । किन्तु कोऽपि धार्मिकपुरुषः तन्न स्वीकरोति स्म । राममोहनः कथयति स्म यत् – “मूर्तिपूजया विना अपि ईश्वरप्राप्तिः शक्या” [४३]

राममोहनः सतीप्रथायाः अपि विरोधं करोति स्म । सः कथयति स्म यत् – “पत्युः मृत्योः अनन्तरं पत्न्याः दाहः न करणीयः । यतः तदपि पापं कथ्यते । स्त्रीपुरुषाभ्यां समानाधिकाराणां प्राप्तिर्भवेत् । यतः स्त्री एव पुरुषाणां जननी अस्ति । अस्माभिः स्त्रीणां सन्मानः कर्त्तव्यः” इति[४४]

ये जनाः विरोधं कुर्वन्तः आसन्, तेषां समीपे राममोहनस्य प्रश्नानाम् उत्तराणि नासन् । तथापि ते विरोधं कुर्वन्ति स्म । राममोहनस्य कथनेषु तर्काः आसन्[४५]

एकदा राममोहनः स्वस्य मित्रेण काशीरामेण सह कुत्रचित् उपविष्टः आसीत् । तदा एकः जनः समीपम् आगतः । तस्य हस्ते एकः शङ्खः आसीत् । तयोः समीपं गत्वा सः जनः अवदत् – “अयम् एकः विशिष्टः शङ्खः वर्तते । अहम् इमं शङ्खं विक्रीणामि । अस्य मूल्यं ५०० रूप्यकाणि अस्ति । यः कोऽपि इमं शङ्खं स्वीकरिष्यति, तस्मै सर्वसुखानां प्राप्तिर्भविष्यति” [४६]

काशीरामः तस्मात् जनात् प्रभावितः अभवत् । अतः सः राममोहनं पृष्टवान् – “अहम् इमं शङ्खं क्रेतुम् इच्छामि । भवतः अभिप्रायः कः”?

राममोहनेन स्मितेन उक्तं यत् – “काशीराम ! इमं जनं पश्य । अयं जनः धनिकः नास्ति । यदि अयं शङ्खः इमं जनं धनिकं कर्तुं न शक्नोति, तर्हि भवते सर्वसुखानि कथं दातुं शक्ष्यति ? अयं जनः शङ्खं विक्रेतुं वाण्याः प्रयोगं कुर्वन् अस्ति । तथापि भवतः इच्छा अस्ति चेत् क्रेतुं शक्नोति । किन्तु अनेन शङ्खेन भवतः निर्धनतायाः नाशः न भविष्यति” [४७]

राममोहनस्य कथनं श्रुत्वा सः जनः ततः निर्गतवान् आसीत् । ततः परं द्वे मित्रे हसती आस्ताम् । अनेन प्रसङ्गेन ज्ञायते यत् – राममोहनः आडम्बरं विरुध्य कार्याणि करोति स्म । तेन जनाः जागृताः भवेयु इति राममोहनः इच्छति स्म [४८]

एकेश्वरवादस्य प्रचारः[सम्पादयतु]

हिन्दुसमाजे जनाः विभिन्नदेवतानां पूजां कुर्वन्ति स्म । साम्प्रतम् अपि हिन्दुसमाजे तादृशी स्थितिः एव अस्ति । हिन्दुजनः एकस्मिन् भगवति विश्वासं न करोति । अतः हिन्दुसमाजे बहवः सम्प्रदायाः सन्ति । सर्वे पृथक्-पृथक् देवतानां पूजां कुर्वन्ति । राममोहनः कथयति स्म यत् – “ईश्वरः एकः एव, तदा पृथक्-पृथक् देवतानां पूजा किमर्थम्” [४९] ?

राममोहनेन अयम् अन्धविश्वासः मन्यते । सः अन्धविश्वासः मूलतः एव निष्कासयितुम् इच्छति स्म । अतः सः जनेषु ज्ञानस्य प्रदानाय प्रयासान् करोति स्म[५०]

तस्मिन् समये आङ्ग्ल-भाषायाः महत्त्वम् आसीत् । सा भाषा आधुनिकभाषा इति कथ्यते स्म । अतः राममोहनेन आङ्ग्लभाषायाः अध्ययनं कृतम् आसीत् । सः आङ्ग्लभाषायाः समाचारपत्रम् अपि पठति स्म । यथा आङ्ग्लाः आङ्ग्लभाषायां वार्तालापं कर्तुं शक्नुवन्ति स्म, तथैव राममोहनः अपि व्यवहारं कर्तुं समर्थः आसीत् । समाचारपत्रस्य पठनेन राममोहनः विदेशस्य समाचारान् अपि प्राप्नोति स्म । आङ्लानाम् अपेक्षया भारतीयानां प्रगति मन्दा आसीत् इति राममोहनः अनुभवति स्म । भारतीयाः विदेशे प्रचलितानि कार्याणि ज्ञातुम् असमर्थाः आसन् । यतः अज्ञानतायाः कारणेन भारतीयाः पठितुं न शक्नुवन्ति स्म [५१]

कुरीतीनां विरोधः[सम्पादयतु]

राममोहनः देशस्य जनानां मनसि नूतनविचारधारां स्थापयितुम् इच्छति स्म । सः जानाति स्म यत् – “भारतीयाः अन्धविश्वासे मग्नाः, लीनाः च सन्ति” । ये जनाः कथयन्ति यत् – नदीषु स्नानेन सर्वाणि पापानि नश्यन्ति, ते सर्वे मूर्खाः सन्ति । नदीषु स्नानेन कदापि मुक्तिः न प्राप्यते । ते गतानुगतिकतया जीवन्ति । ते धार्मिकतायाः कारणेन स्वेषां हिताहितयोः अपि विचारं न कुर्वन्ति [५२]

“यस्याः परम्परायाः कोऽपि वैज्ञानिकाधारः न स्यात् । सा परम्परा निकृष्टा कथ्यते” इति राममोहनः कथयति स्म । काश्चित् परम्पराः एतादृश्यः आसन्, याभिः मनुष्यजीवनम् अन्धकारमयं जायमानम् आसीत् । राममोहनः तादृशीनां परम्पराणां विरोधं करोति स्म । सः अन्येभ्यः जनेभ्यः अपि तासां परम्पराणां विरोधं कर्तुं प्रेरयति स्म[५३]

यदि कोऽपि जनः कस्मिंश्चित् धर्मे संलग्नः भवति, तर्हि तेन तस्य धर्मस्य परम्परायाः पालनम् आवश्यकं भवति । अस्याः प्रथायाः अपि राममोहनः विरोधं करोति स्म । ये जनाः आडम्बरं न मन्यन्ते, ते एव राममोहनस्य आधुनिकविचारधारां ज्ञातुं शक्नुवन्ति स्म [५४]

सतीप्रथायाः विरोधः[सम्पादयतु]

ई.स. १८१५ तमे वर्षे राममोहनः अन्यैः मित्रैः सह मिलित्वा कोलकाता-महानगरे “आत्मीय सभा” नामिकायाः संस्थायाः स्थापनां चकार । तस्यां सभायां सतीप्रथाम् अवरोद्धुं चर्चा क्रियते स्म । सतीप्रथायाः एकं निकृष्टं कर्म आसीत् यत् – “विधवाः स्वयमेव पत्युः शवेन सह दग्धुं नेच्छन्ति स्म । किन्तु समाजः बलात् ताः विधवाः दाहयति स्म” इति । याः विधवाः विरोधं कुर्वन्ति स्म, ताः ताडयन्ते स्म । मद्यपानं कारयित्वा पत्युः शवेन सह बद्ध्वा दाहयन्ते स्म । यतः काश्चिदपि विधवाः पत्युः सम्पत्तीनां विभागं न कुर्युः [५५]

अतः राममोहनेन एतस्याः प्रथायाः विरोधाय आन्दोलनानि आरब्धानि । सः सतीप्रथायाः नाशं कृत्वा विधवाभ्यः स्वस्याः अधिकारान् प्रदातुम् इच्छति स्म । अस्मिन् सङ्कल्पे प्रगतिशीलजनाः राममोहनस्य साहाय्यं कर्तुं सज्जाः आसन् । तैः राममोहनस्य सम्पूर्णसाहाय्यं कृतम् । प्रारम्भे अल्पजनाः एव आसन् । किन्तु समयान्तरे जनानां सङ्ख्यायां वृद्धिः जाता [५६]

बहवः जनाः गुप्तरीत्या अपि राममोहनस्य समर्थनं कुर्वन्ति स्म । तेषु केचन धार्मिकाः नेतारः अपि आसन् । ते नेतारः सम्पूर्णतया राममोहनस्य समर्थनं कुर्वन्ति स्म । केचन विचारयन्ति स्म यत् – “राममोहनः धर्मस्य विरोधं कुर्वन् अस्ति” । किन्तु ते न जानन्ति स्म यत् – “राममोहनः धर्मस्य न, अपि तु धर्मे निहितानाम् आडम्बराणां विरोधं करोति स्म” । सः धर्मस्य विरोधं कर्तुं नेच्छति स्म [५७]

आत्मीय सभायां नियमितरूपेण वेदपाठः भवति स्म, तस्य व्याख्या अपि क्रियते स्म । सभायाः प्रमुखोद्देश्यम् आसीत् यत् – “जनेभ्यः उचितज्ञानस्य प्राप्तिर्भवेत् । राममोहनः कदापि कस्यापि सम्प्रदायस्य सहयोगं न करोति स्म । येषां धर्माणां नियमाः योग्याः आसन्, ते नियमाः एव स्वीकृताः । अतः बहूनां धर्माणाम् अनुयायिनः आत्मीय-सभायाः सदस्यतां प्राप्तवन्तः [५८]

केचन जनाः धर्मात् भीताः आसन् । अतः धर्मभयादपि सभायां संलग्नाः भवितुं न शक्नुवन्ति स्म । अतः इमां स्थितिं दृष्ट्वा राममोहनेन नूतना परम्परा आरब्धा । तस्यां परम्परायां कोऽपि जनः सामाजिकस्य, धार्मिकस्य च विषयेषु स्वस्य प्रश्नान् लिखित्वा दातुं शक्नोति स्म । तेषां प्रश्नानाम् उत्तराणि राममोहनः स्वयमेव ददाति स्म । अनेन कारणेन सार्वजनिकवादविवादस्य स्थितिः उद्भूता । तथापि सः नूतनान् विचारान् जनेषु सम्प्रेषयति स्म[५९]

अस्यां पत्रपरम्परायां ‘उत्सवानन्द विद्या वागीश’ इत्याख्येन एव राममोहनाय पत्रम् अलिख्यत् । तस्मिन् पत्रे ‘उत्सवानन्द विद्या वागीश’ इत्यनेन बहवः गहनप्रश्नाः पृष्टाः । तदा राममोहनेन तेषां प्रश्नानां योग्यानि उत्तराणि प्रदत्तानि । तावदेव पत्रव्यवहारस्य व्यवस्था प्रचलिता जाता । बहुदिनानि यावत् इयं प्रथा प्रचलिता । तदा चतसॄणां लघुपुस्तिकानां प्रकाशनं कृतम् । तासु पुस्तिकासु उत्सवानन्दस्य प्रश्नाः, राममोहनस्य उत्तराणि च लिखितानि आसन् । सर्वप्रथमं येन लेखकेन राममोहनस्य जीवनचरित्रं लिखितम् । तेन लेखकेन तस्मिन् जीवनचरित्रे स्पष्टं लिखितम् आसीत् यत् – “राममोहनस्य उत्तराणि प्राप्य उत्सवानन्देन अद्वैतवादः स्वीकृतः आसीत्” [६०]

ये राममोहनस्य विचारान् श्रुण्वन्ति, ते सर्वे तस्य प्रशंसां कुर्वन्ति स्म । उत्सवानन्दः अपि तस्य विचाराणां प्रशंसां करोति स्म । राममोहनस्य सङ्कल्पः जनान् प्रेरयति स्म [६१]

ब्रह्मसमाजस्य स्थापना[सम्पादयतु]

भारतीयसमाजे अनेकाः कुप्रथाः प्रचलिताः आसन् । तासां प्रथानां निवारणार्थम् बहूनि आन्दोलनानि जातानि । तैः आन्दोलनैः बह्वीनां संस्थानां स्थापना अभवत् । तासु “ब्रह्म समाज” नामिका अपि एका संस्था आसीत् । १८१८ तमे वर्षे राममोहनः तां संस्थां स्थापितवान् । ब्रह्मसमाजस्य अनुयायिनः वेदानाम्, उपनिषदां च प्रचारं कुर्वन्ति स्म [६२]

ब्रह्मसमाजः बहुविवाह, बालविवाह, सतीप्रथादीनां विरोधं करोति स्म । अयं समाजः विधवाविवाहस्य, स्त्रीणां शिक्षणस्य च समर्थनं करोति स्म । धार्मिकपक्षपातस्य, अन्धविश्वासस्य च निवारणार्थं संकीर्तनसमूहानां रचना कृता । समूहस्य सदस्याः नगरे भ्रमन्तः ईश्वरस्य प्रार्थनां कुर्वन्ति स्म । ते जनाः ब्रह्मसमाजस्य प्रचारं कुर्वन्ति स्म । तैः पत्रिकाणां, पुस्तकानां च माध्यमेन प्रचारः कृतः[६३]

ई. स. १८२१ तमे वर्षे राममोहनस्य साहाय्येन “यूनिटेरियन्-संस्थाया” स्थापना जाता । एकदा राममोहनः सहयोगिभिः सह संस्थातः गृहं गच्छन् आसीत्, तदा मार्गे ‘चन्द्रशेखर देव’, ‘ताराचन्द चक्रवर्ती’ इत्याख्यौ अमिलिताम् । द्वाभ्याम् उक्तं यत् – अस्माभिः आङ्ग्लानां प्रार्थनाभवनं न गन्तव्यम् । अस्माकं पृथक् प्रार्थनाभवनं भवेत् इति आवश्यकम् [६४]

राममोहनेन द्वे युक्ती स्वीकृते । राममोहनः गृहं गत्वा सहयोगिभिः सह चर्चा कृतवान् । तदा निश्चयं कृतवान् यत् – “भाटकेन एकं भवनं स्वीकुर्यात् । तस्मिन् भवने एव प्रार्थनासभा भवेत्” इति । त्रयोदशवर्षाणि यावत् तस्मिन् भवने एव प्रार्थनासभा प्रचलन्ती आसीत् । तस्मिन् भवने एव १८१८ तमे वर्षे ब्रह्मसमाजस्य नामकरणम् अभवत् । ब्रह्मसमाजस्य सदस्येभ्यः एकं पुस्तकं प्रकाशितम् । तस्य नाम “ब्रह्मोपासना” इति [६५]

तस्मिन् काले “युनिटेरियन्-संस्थायाः” सञ्चालनम् एडम् नामकः अधिकारी करोति स्म । तस्यां संस्थायां भारतीयाः, आङ्ग्लाः च सम्मिलिताः आसन् । एडम् इत्ययं राममोहनस्य सहयोगी मन्यते स्म [६६]

राममोहनः ब्रह्मसमाजस्य स्थापनां चकार । अत एव सः आधुनिकभारतस्य जनकः कथ्यते । ब्रह्मसमाजः भारतस्य सर्वासां कुप्रथानां विरोधाय आन्दोलनानि कुर्वन् आसीत् । तेन कारणेन एव ई. स. १८२९ तमे वर्षे सतीप्रथाम् अवरोद्धुं नियमाः निर्मिताः । ब्रह्मसमाजेन हिन्दुसमाजस्य स्पर्शास्पर्शस्य भावनां दूरीकर्तुं प्रयासाः कृताः [६७]

“समाज-सुधार-आन्दोलनस्य” प्रमुखेण नेत्रा राजनारायण बोस् इत्याख्येन “राष्ट्रीय-भावना-उन्नति-समाजस्य” स्थापना कृता । तस्य समाजस्य उद्देश्यम् आसीत् यत् – “व्यायाममाध्यमेन भारतीययुवकानां स्वास्थ्यं समीचिनं भवेत्” इति [६८]

वेदाः, उपनिषदः हिन्दुधर्मस्य मूलाधारः मन्यन्ते । वेदः केवलं भारतस्य न, अपितु सम्पूर्णविश्वस्य मानवजातेः प्रथमः ग्रन्थः अस्ति । हिन्दुधर्मस्य अपरः ग्रन्थः उपनिषद् अपि अस्ति[६९]

राममोहनेन वेदेषु अपि पुस्तकानि लिखितानि आसन् । तेषां पुस्तकानां प्रकाशनम् अपि अभवत् । तेषां पुस्तकानां माध्यमेन कुरीतीनां विरोधः कृतः । राममोहनेन वेदानां, शास्त्राणां च सरलभाषायाम् अनुवादः कृतः । राममोहनः पुस्तकमाध्यमेन वेदज्ञानं जनेभ्यः प्रेषितवान् । राममोहनः वेदानां बङ्ग्लाभाषायाम् अपि अनुवादं कृतवान् आसीत् । तेन जनेषु मह्त्वपूर्णः प्रभावः अभवत् । ब्राह्मणवर्गः तस्य विरोधं करोति स्म । यतः राममोहनः सर्वेभ्यः वर्गेभ्यः प्रचारं कुर्वन् आसीत् [७०]

१८१८ तमे वर्षे राममोहनः वेदान्तस्य हिन्दीभाषायां, बङ्ग्लाभाषायां संक्षिप्तानुवादं कृतवान् । तत्पुस्तकं वेदान्तसारः इति नाम्ना प्रकाशितं जातम् । अस्य ग्रन्थस्य प्रकाशनेन पण्डिताः, ब्राह्मणाः राममोहनस्य विरोधं कुर्वन्तः आसन् [७१]

वेदान्तसारस्य भाषा सरला आसीत् । अतः जनाः सरलतया ज्ञानं प्राप्तुं शक्नुवन्ति स्म । तेन कारणेन राममोहनस्य ख्यातिः अपि वर्धिता जाता । जनानां मनसि राममोहनाय सम्माननम् वर्धितम् [७२]

युरोपीयजनाः वेदान् न जानन्ति स्म । अतः ते राममोहनस्य आलोचनां कुर्वन्ति स्म । पुनः राममोहनेन वेदस्य आङ्ग्लभाषायाम् अनुवादः कृतः । तदनन्तरं राममोहनः वेदानुवादस्य प्रकाशनं विदेशेषु अपि कृतवान् । अनुवादं पठित्वा युरोपीयजनाः अपि प्रभाविताः अभवन् । ये युरोपीयजनाः प्राचीनप्रथाः मन्यन्ते स्म । तेऽपि तासां कुरीतीनां विरोधं कृतवन्तः [७३]

समाजे आडम्बरस्य विरोधे एका नूतना परम्परा उद्भभूता । तेन कारणेन पाषण्डाः ताः परम्पराः अवरोद्धुम् असमर्थाः अभवन् । ये जनाः धर्मपूजायाम् अन्धाः अभवन्, तेभ्यः राममोहनेन वेदान्तसारे लिखितम् आसीत् यत् – “ अहं वेदान्तसारस्य आङ्ग्लभाषायाम् अनुवादं कृतवान् । अहं मे युरोपीयमित्राणि बोधयितुम् इच्छामि यत् याभिः कुप्रथाभिः हिन्दुधर्मः विकृतः अभवत्, ताभिः कुप्रथाभिः सह वेदान्तसारस्य कोऽपि सम्बन्धः नास्ति । अहं ब्राह्मणोऽस्मि । अतः सर्वे ब्राह्मणाः मम विरोधं कुर्वन्तः सन्ति । मे ईष्टजनाः अपि विरोधं कुर्वन्त सन्ति । ये जनाः मम विरोधं कुर्वन्ति, ते मम विचाराणाम् अनर्थं कुर्वन्ति । ते इच्छन्ति यत् मम इतोऽपि अधिकः विरोधः भवेत् । मम विरोधिभिः मयि आक्रमाणि अपि कृताणि । समाजे अन्धविश्वासस्य महत्त्वं न्यूनीकर्तुम् एव मया वेदान्तसारस्य महत्त्वम् आङ्ग्लभाषायां परिवर्तितम् । तेन समाज-सुधार-आन्दोलनस्य महत्त्वं वर्धिष्यति” [७४]

राममोहनः नास्तिकः अस्ति इति विरोधिनः वदन्ति स्म । तदा राममोहनेन एकम् एव उत्तरम् उक्तं यत् – “मया केवलम् अन्धविश्वासस्य, धर्मान्धतायाः एव विरोधः कृतः, न तु हिन्दुधर्मस्य । अतः ये जनाः मम विरोधं कुर्वन्ति, ते प्रमाणानि यच्छन्तु” [७५]

जनाः विरोधं कुर्वन्तः आसन् । तथापि राममोहनः समाज-सुधार-आन्दोलनं न त्यक्तवान् । तस्य विचारेभ्यः देशविदेशानां विद्वज्जनाः प्रभाविताः अभवन् । वेदान्तसारं पठित्वा जनानां भावनाः परिवर्तिताः जाताः ।

१८१६ तमस्य वर्षस्य फरवरी-मासस्य १ दिनाङ्के एकं वार्तापत्रस्य प्रकाशनम् अभवत् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “वेदान्तसारनामकं पुस्तकम् अत्यन्तं रोचकं वर्तते । इदं केनचित् निर्भीकजनेन लिखितम् अस्ति इति निष्कर्षः भवति” [७६]

वेदान्तसारस्य प्रकाशनेन युरोपीयजनाः राममोहनाय विश्वासं कृतवन्तः । राममोहनस्य मौलिकविचारैः अमेरिकादेशस्य निवासिनः अपि प्रभाविताः अभवन् । बहवः विद्वांसः वेदान्तसारे विचारविमर्शं कृतवन्तः । अन्ते निष्कर्षः जातः यत् – “विशुद्धाद्वैतवादः ब्रह्मवादे निहितः अस्ति” । अमेरिका-देशस्य थोरो, इमर्सन् च इत्येतौ विद्वांसौ अपि वेदान्तसारस्य प्रशंसां चक्रतुः [७७]

वेदान्तसारस्य माध्यमेन पाश्चात्त्यदेशेभ्यः ज्ञानस्य सन्देशः प्रेषितः आसीत् । तस्मिन् सन्देशे भारतस्य वास्तविकतायाः वर्णनं कृतम् । तत्पूर्वं वैदेशिकाः भारतं सर्पाणां, सर्पविदां च देशः इति मन्यन्ते स्म । किन्तु वेदान्तसारं पठित्वा तेषां विचाराः अपि परिवर्तिताः [७८]

मुद्रणालयाय (Press) याचना[सम्पादयतु]

समाचारपत्राणां माध्यमेन राममोहनः जनेषु ज्ञानस्य प्रचारं कर्तुं प्रयासाः करोति स्म । राममोहनः “संवाद कौमुदी” इत्याख्यं साप्ताहिकं समाचारपत्रं प्रकाशितं करोति स्म । तत्पत्रं बङ्ग्ला-भाषायां प्रकाशितं भवति स्म । किन्तु “मिरातुल अखबार” फारसी-भाषायां प्रकाशितं भवति स्म[७९]

एकदा राममोहनेन समाचारपत्रे इङ्ग्लैण्ड्-देशस्य आलोचनां चकार । यदा राममोहनः आयरलैण्ड्-देशस्य अकालात् पीडितेभ्यः साहाय्यधनराशिं प्रेषितवान्, तदा आङ्ग्लसर्वकारः तस्मात् खिन्नः जातः ।

१८२३ तमे वर्षे राममोहनेन एकं मुद्रणालयं सर्वकारं ययाच । तस्मिन् समये केवलं शासनस्य निष्ठावद्भ्यः जनेभ्यः एव मुद्रणालयाय अधिकारः प्राप्तः आसीत् । राममोहनस्य मुख्योद्देश्यम् आसीत् यत् – “समाचारपत्रं समाजस्य प्रत्येकस्मिन् स्थाने प्रेषणीयम् । तेन समाजाय देशविदेशाणां ज्ञानं भवेत्” [८०]

महाविद्यालयस्य स्थापना[सम्पादयतु]

राममोहनः भारतस्य प्रगतिम् इच्छति स्म । तस्मै प्रयासाय जनानां साहाय्यम् आवश्यकम् आसीत् । शिक्षणमाध्यमेन राममोहनः जनानां विचारधाराः परिवर्तयितुम् इच्छति स्म । तस्मिन् समये हिन्दुजनानां कृते पठन-पाठनाय संस्कृतपाठशालाः आसन् । तासु पाठशालासु प्राचीनपरम्पराणाम् आधारेण शिक्षणं प्रदीयते स्म[८१]

इदं शिक्षणं संस्कृतभाषायै एव परिमितम् आसीत् । अतः देशस्य प्रगतिः भवितुं न शक्नोति स्म । तासु पाठशालासु संस्कृतभाषायाः एव अध्ययनं भवति स्म । केचित् जनाः विज्ञानस्य पठन-पाठनं पापं मन्यते स्म । किन्तु विज्ञानेन देशस्य प्रगतिः भवितुं शक्नोति स्म ।

राममोहनेन निर्णयः कृतः यत् – “येन विषयेण समाजस्य कल्याणं भवेत्, तस्य विषयस्य एव शिक्षणं दातव्यम् । अस्मिन् कार्ये अपि जनाः राममोहनस्य विरोधं कुर्वन्तः आसन् । तेन कारणेन राममोहनः आङ्ग्लविदुषः, हिन्दुविदुषः च आकृष्टवान्[८२]

तेषां साहाय्येन राममोहनः कोलकाता-नगरे एकं सङ्घटनं स्थापितवान् । अनेन सङ्घटनेन तत्र एकस्य महाविद्यालस्य स्थापना कृता । तस्मिन् विद्यालये विज्ञानस्य, गणितस्य, राजनीतेः च शिक्षणं प्रदीयते स्म ।

मातृभूमेः गरिमाणं मनसि निधाय एव राममोहनः प्रत्येकं कार्यं करोति स्म । तस्मिन् विद्यालये आङ्ग्लभाषायाः, संस्कृतभाषायाः, बङ्ग्लाभाषायाः च अपि शिक्षणं प्रदीयते स्म । यः कोऽपि जनः शिक्षणविषये तर्कं करोति स्म । तदा राममोहनः उत्तरं ददाति स्म यत् – “युरोपीयजनाः ग्रीक-भाषया, लैटिन-भाषया च सह गणित-विज्ञानयोः अपि सन्मानं कुर्वन्ति स्म । यदि गणित-विज्ञानयोः शिक्षणं तेभ्यः आवश्यकं भवेत्, तर्हि अस्मभ्यं किमर्थम् आवश्यकं नास्ति” [८३] ?

राममोहनस्य प्रश्नानाम् उत्तराणि कोऽपि दातुं न शक्नोति स्म । राममोहनस्य अगाधज्ञानेन विद्वांसः प्रभाविताः भवन्ति स्म । राममोहनस्य हिन्दुधर्मः आसीत् । तथापि मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च अपि ज्ञानम् आसीत् । तस्य अनेकासु भाषासु प्रभुत्वम् आसीत् । धर्मविषयिणीनां शङ्कानां शीघ्रतया समाधानं करोति स्म[८४]

राममोहनस्य ईसाई-धर्मेण सह सम्पर्कः[सम्पादयतु]

राममोहनेन बाइबिल-इत्यस्य सम्यक्तया अध्ययनं कृतम् आसीत् । सः ज्ञातुम् इच्छति यत् – “बाइबिल-इत्यस्मिन् ये नियमाः लिखिताः अस्ति, तेषां नियमाणां पालनम् ईसाई-धर्मानुयायिनः कुर्वन्ति वा न ? इति” । अनेन विचारेण राममोहनः ईसाई-धर्मस्य सम्पर्कं कृतवान् । तेन सः ईसाई-धर्मस्य विचारान् निकटतया ज्ञातुम् अवसरं प्राप्तवान् । श्रीरामपुर-नगरं गत्वा राममोहनेन ईसाई-धर्मानुयायिभिः चर्चा कृता । तदा तयोः घनिष्ठसम्बन्धः अभवत् । सः सम्बन्धः द्वाभ्यां लाभकरः अभवत् [८५]

तत्रत्यानाम् ईसाई-जनानां सामूहिकप्रार्थनायां राममोहनः अधिकतरः सम्मिलितः भवति स्म । प्रार्थनासभायां भगवतः ईसामसीह इत्याख्यस्य उपदेशानां व्याख्या क्रियते स्म । तया व्याख्यया राममोहनः मुग्धः भवति स्म । अतः ईसामसीह इत्याख्यस्य उपदेशानाम् आधारेण राममोहनः “दि परसेप्ट्स् ऑफ् जीसस्” इति नामकं पुस्तकं रचितवान्[८६]

ईसाई-धर्माय राममोहनस्य गहनरूचिं दृष्ट्वा ईसाई-जनाः प्रसन्ना अभवन् । अतः ईसाई-जनाः राममोहनाय ईसाई-धर्मं स्वीकर्तुम् उक्तवन्तः । ईसाई-जनाः मन्यन्ते यत् – “राममोहनः सरलतया ईसाई-धर्मं स्वीकरिष्यति” इति । किन्तु ते न जानन्ति यत् – “राममोहनस्य हिन्दुधर्मे सम्पूर्णनिष्ठा आसीत्” । राममोहनः उक्तवान् – “अहं हिन्दुः अस्मि । भवन्तः कथं वक्तुं शक्नुवन्ति यत् अहं हिन्दुधर्मं त्यक्त्वा ईसाई-धर्मं स्वीकरिष्यामि ? ईसाई-धर्माय मे मनसि सम्माननं वर्तते । किन्तु तं स्वीकर्तुं न शक्नोमि । अतः क्षमां याचे । श्रेष्ठधर्मे ये गुणाः भवन्ति, ते गुणाः मे धर्मे अपि सन्ति” इति [८७]

राममोहनस्य उत्तरं श्रुत्वा ईसाई-जनाः कुपिताः अभवन् । अतः ते राममोहनस्य विरोधं कृतवन्तः । तदा राममोहनेन उक्तं यत् – भवन्तः मे विरोधं मा कुरुत । यदि इच्छन्ति, चेत् समाजस्य अन्धश्रद्धानां, कुरीतीनां विरोधं कुर्वन्तु । तेन विरोधेन जनानां हितं भवति । यदि ईसाई-धर्मे अपि कुप्रथा भवेत्, तर्हि तस्याः प्रथायाः अपि अहं विरोधं करिष्यामि । अहं कदापि कस्यापि धर्मस्य विरोधं न करिष्यामि । धर्मे निहितानाम् अन्धश्रद्धानाम् एव विरोधं करिष्यामि” इति [८८]

राममोहनस्य विचारान् ईसाई-जनाः ज्ञातुम् असमर्थाः आसन् । अतः ते अपि राममोहनस्य विरोधं कृतवन्तः । किन्तु राममोहनः विरोधस्य चिन्तां न करोति स्म । ईसाई-जनाः राममोहनस्य विचारैः सन्तुष्टाः नासन् । यदि हिन्दु-जनाः एव राममोहनं ज्ञातुम् असमर्थाः आसन्, तर्हि ईसाई-जनाः कथं ज्ञातुं शक्नुवन्ति स्म । तदा ईसाई-जनैः ‘फ्रेण्ड् ऑफ् इण्डिया’ नामकं साप्ताहिकं पत्रं प्रकाशितम् । तस्मिन् पत्रे ईसाई-जनैः राममोहनं ‘लक्ष्य का दुश्मन’ इति नाम्ना सम्बोधितः आसीत् । तैः राममोहनाय नास्तिकतायाः दोषः प्रस्थापितः[८९]

अस्य दोषस्य आरोपणानन्तरं राममोहनेन पुनः “एन् अपील् टू द क्रिश्चियन् पब्लिक्” इति नामकम् एकं पुस्तकं प्रकाशितम् । तस्मिन् पुस्तके राममोहनेन आरोपितनां दोषाणां प्रत्युत्तराणि प्रदत्तानि आसन् । तेन ईसाई-जनाः मौनम् अभजन् [९०]

तदनन्तरं राममोहनः ईसाई-धर्माधन्तायाः अपि विरोधं कुर्वन् आसीत् । डॉ. लैण्ट् कारपेण्टर् इत्याख्यः राममोहनेन रचितम् ईसाई-धर्मस्य पुस्तकद्वयं पठितवान् । पुस्तके पठित्वा डॉ. लैण्ट् इत्यनेन उक्तम् – “राममोहनेन गभीरतया ग्रन्थानाम् अध्ययनं कृत्वैव तयोः पुस्तकयोः रचना कृता अस्ति । तेन कुशाग्रबुद्ध्या धर्मांधजनानाम् आलोचना कृता अस्ति । राममोहनेन एतयोः पुस्तकयोः माध्यमेन विरोधिनां स्थितिः शिथिला कृता” [९१] । राममोहनः प्रायः सर्वान् विषयान् जानाति स्म । अतः कस्मिँश्चित् अपि विषये सः वक्तुं लेखितुं वा सक्षमः आसीत् ।

राममोहनेन पुस्तकमाध्यमेन यः विरोधः कृतः, ईसाई-जनैः तस्य पुनर्विरोधः कृतः । किन्तु ईसाई-धर्मे ये विद्वांसः आसन्, तैः राममोहनस्य विचाराणां समर्थनं कृतम् आसीत् । तेन कारणेन राममोहनस्य उत्साहः वर्धितः जातः[९२]

प्रभावितैः ईसाई-जनैः राममोहनाय पत्राणि प्रेषितानि । तेषु पत्रेषु सर्वैः समर्थनं कृतम् । १८२१ तमस्य वर्षस्य जुलाई-मासे राममोहनः एकं पत्रं प्राप्तवान् । तत्पत्रं ‘कोलकाता जनरल’ इत्यस्मिन् समाचारपत्रे प्रकाशितम् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “राममोहनेन ‘दी सेकण्ड् अपील् टू क्रिश्चियन् पब्लिक्’ इति नामकं यत् द्वितीयं पुस्तकं रचितं, तस्य यावती प्रशंसा भवेत्, तावती अल्पा एव । राममोहनस्य विषये वयं यावदधिकं ज्ञास्यामः, तावदधिकम् अस्माकं मनसि राममोहनाय सम्माननं वर्धिष्यते । राममोहनस्य विचाराः सत्याधारिताः भवन्ति । अतः जनाः तस्मै श्रद्धां प्रकटयन्ति । राममोहनस्य कस्मिँश्चिदपि कथने दम्भः न दृश्यते । तस्य व्यक्तित्त्वं दर्पणः इव स्वच्छम् अस्ति” इति[९३]

यूनिटेरियन्-मुद्रणालयस्य स्थापना[सम्पादयतु]

राममोहनः यदा हिन्दु-धर्मस्य कुरीतीनां विरोधार्थं लेखाः लिखति स्म, तदा सः मिशन्-मुद्रणालये पुस्तकानां मुद्रणं कारयति स्म । किन्तु यावत् सः ईसाई-धर्मस्य कुरीतीनां विरोधं कुर्वन् आसीत्, तावत् मिशन्-मुद्रणालयस्य अधिकारिणा राममोहनस्य साहाय्यं न कृतम् । यतः मिशन्-मुद्रणालयः ईसाई-जनानाम् आसीत् । तदनन्तरं राममोहनेन स्वस्य मुद्रणालयाय योजना कृता[९४]

पुरा राममोहनः मिशन्-मुद्रणालयस्य सम्पूर्णसाहाय्यं प्राप्तवान् आसीत् । मिशन्-मुद्रणालयस्य साहाय्यं विना राममोहनः अल्पे समये एव स्वस्य विचारान् प्रसारयितुं न शक्नोति स्म । ईसाई-जनानां व्यवहारे अपि परिवर्तनं जातम् । किन्तु राममोहनः तेभ्यः याचनां न कृतवान् । तस्य निर्णयः दृढः आसीत् । ई. स. १८२३ तमे वर्षे राममोहनेन ‘यूनिटेरियन्-मुद्रणालयस्य’ स्थापना कृता । प्रारम्भे तेन स्वस्य पुस्तकस्य प्रकाशनं कृतम् । तेन राममोहनस्य आत्मविश्वासः वर्धते स्म । यदा ईसाई-जनाः यूनिटेरियन्-मुद्रणालस्य सन्देशं प्राप्तवन्तः, तदा ते अधिकाः कुपिताः जाताः[९५]

ईसाई-धर्मस्य एकः युवा अधिवक्ता राममोहनस्य विचारैः प्रभावितः अभवत् । प्रभावितेन अधिवक्त्रा धर्मः परिवर्तितः । सः अद्वैतवादस्य धर्मं स्वीकृतवान् । तेन प्रसङ्गेन राममोहनस्य सार्थकता दृश्यते स्म । राममोहनः ईसाई-धर्मानुयायिनाम् अपेक्षया बाइबिल्-इत्यस्य माहात्म्यम् अधिकं जानाति स्म । अतः एव ईसाई-जनानां मनसि राममोहनाय ईर्ष्या आसीत्[९६]

ईसाई-जनाः राममोहनस्य विरोधे अविवेकिनः अभवन् । ते हिन्दुधर्मः असत्यः इति जल्पन्ति स्म । किन्तु राममोहनः तैः आरोपितानां दोषाणां खण्डनं कृतवान् । राममोहनेन ‘फाईनल् अपील्’ नामकस्य पुस्तकस्य भूमिकायां लिखितं यत् – “वयं तेभ्यः रक्षिताः भवेम, ये अस्मासु दोषाणाम् आरोपणं कुर्वन्तः सन्ति । तेषां विषये अस्माभिः सत्यम् अनाच्छादितं करणीयम् एव” [९७]

यासां परम्पराणां कोऽपि आधारः नास्ति, यासु परम्परासु धर्मान्धता एव अस्ति, तासां परम्पराणां राममोहनः विरोधं करोति स्म । सः एकः निर्भीकः सामाजिककार्यकर्ता आसीत् ।

राममोहनेन यथा हिन्दुधर्मे निहितायाः मूर्तिपूजायाः विरोधः कृतः, तथैव मुसलिम्-धर्मे निहितानां धर्मजाड्यस्य अपि विरोधः कृतः आसीत्[९८]

वेदान्त-महाविद्यालस्य स्थापना[सम्पादयतु]

तस्मिन् समये हिन्दुधर्मे बहवः मतभेदाः आसन् । तावन्तः मतभेदाः अन्येषु केषुचिदपि धर्मेषु नासन् । हिन्दुधर्मे प्रत्येकं जनः पृथक्-पृथक् देवतानाम् उपासकः आसीत् । ते सर्वे देवतानां शक्तयः अपि भिन्नाः एव इति मन्यन्ते । राममोहनः हिन्दुधर्मे अद्वैतवादस्य प्रचारं कर्तुम् इच्छति स्म । निर्णितं लक्ष्यं प्राप्तुं राममोहनेन १८२५ तमे वर्षे वेदान्त-महाविद्यालस्य स्थापना कृता । महाविद्यालस्य स्थापनाविषयकं सन्देशं प्राप्य राममोहनस्य मित्रम् एडम् इत्याख्यः प्रसन्नः अभवत् । एडम् इत्याख्येन राममोहनस्य प्रशंसा कृता[९९]

राममोहनेन निष्ठापूर्वकम् अस्य अद्वैतवादिनः संस्थानस्य साहाय्यं कृतम् । राममोहनः इच्छति यत् – “तस्मिन् महाविद्यालये यूरोपीयविज्ञानस्य, ईसाई-अद्वैतवादस्य च अपि शिक्षणं दद्यात्” इति [१००]

राममोहनस्य साहाय्येन संस्थायाः प्रतिदिनं विकासः जायमानः आसीत् । समयान्तरे अस्याः संस्थायाः आधारेण एव ‘ब्रह्मसमाजस्य’ स्थापना जाता । ब्रह्मसमाजस्य प्रमुखम् उद्देश्यम् आसीत् यत् – “ईश्वरः एकः एव अस्ति” ।

ब्रह्मसमाजस्य उत्कृष्टविचारेभ्यः बहवः नूतनाः जनाः आकृष्टाः अभवन् । नूतनैः जनैः ब्रह्मसमाजस्य सदस्यता अपि प्राप्ता । १८२८ तमे वर्षे राममोहनेन एकं नूतनं गृहं क्रीतम् । तस्मिन् गृहे अद्वैतवादिनः उपासनां कुर्वन्ति स्म । तद्गृहं धर्मकार्यार्थमेव समर्पितम् आसीत् [१०१]

किञ्चिद्दिवसानन्तरं हिन्दुधर्मस्य नेतृभिः “धर्मसभा” नामिका एका संस्था स्थापिता । राममोहनस्य विरोधः एव तस्याः संस्थायाः मुख्योद्देश्यम् आसीत् । धर्मसभायां धार्मिककार्याणि अल्पानि भवन्ति स्म । किन्तु दोषाणाम् आरोपणम् अधिकं भवति स्म । तस्याः सभायाः सदस्यान् दृष्ट्वा राममोहनः दुःखी अभवत् । यतः ते सदस्याः धर्मस्य अपप्रचारं कुर्वन्तः आसन् ।

विश्वस्य बहूनां देशानां विद्वांसः राममोहनस्य विचारधाराणां समर्थनं कुर्वन्ति स्म । किन्तु भारतीयाः राममोहनस्य विचाराणां विरोधं कुर्वन्ति स्म । सः जनान् बोधयति स्म यत् – “ईश्वरः एकः अस्ति, अतः ईश्वरस्य विभागाः न कर्त्तव्याः । एकस्य ईश्वरस्य एव उपासनां कुर्युः” [१०२]

ब्रह्मसमाजेन भारतीयसमाजस्य परिवर्तने साहाय्यं कृतम् आसीत् । अनेन समाजेन बालविवाहस्य विरोधः, विधवा-विवाहस्य समर्थनं च कृतम् । यदा ब्रह्मसमाजस्य स्थापना अभवत्, तदा कन्यानां विक्रयणं भवति स्म । केचन जनाः कन्यानां हननम् अपि कुर्वन्ति स्म । एतादृशीनां कुरीतीनां विरोधे ब्रह्मसमाजेन एकम् आन्दोलनं प्रचालितम् [१०३]

ब्रह्मसमाजः जनान् उद्बोधयति स्म । सः कथयति यत् – “आत्मा एकः अस्ति । अतः केनापि सह भेदभावः न करणीयः” । अन्येषां धर्माणां स्वस्य प्रार्थनागृहं भवति किन्तु हिन्दु धर्मस्य प्रार्थना-गृहम् एव नास्ति । ईसाईधर्मस्य प्रार्थनागृहं दृष्ट्वा राममोहनस्य मनसि विचारः आगतः यत् – “हिन्दुधर्मस्य जनाः अपि एकस्मिन् प्रार्थनागृहे प्रार्थनां कुर्युः” [१०४]

स्वतन्त्रतायाः पाक्षिकः[सम्पादयतु]

स्वतन्त्रता सर्वेषां जीवानां मौलिकः अधिकारः वर्तते इति राममोहनः मन्यते स्म । यः स्वतन्त्रः भवेत्, सः एव सन्तुष्टः भवति । यदि कस्यापि जनस्य स्वतन्त्रताम् उपलभते, तर्हि अत्याचारः कथ्यते ।

आङ्ग्लशासनेन भारतदेशस्य स्वतन्त्रता नाशिता । तस्मिन् समये राममोहनः किशोरः आसीत् । तावदेव तस्य मनसि देशाय प्रेम आसीत् । राममोहनः गहनाध्ययनानन्तरम् अन्वभवत् यत् – “आङ्ग्लाः स्वस्य उच्चशैलिभिः भारतस्य विकासं कर्तुं शक्नुवन्ति । अतः भारतस्य हिताय राममोहनेन आङ्ग्लानां विचारधाराः ज्ञातुं प्रयासाः कृताः [१०५]

राममोहनेन यूरोप-देशस्य, अमेरिका-देशस्य च राजनैतिकघटनानाम् अपि अध्ययनं कृतम् आसीत् । अतः सः ज्ञातवान् यत् – “ब्रिटिश्-शासनेन भारते आधुनिकविश्वसंस्कृतेः विकासः भवितुं शक्यते” [१०६]

राममोहनः इच्छति स्म यत् – “आङ्ग्लानां साहाय्येन भारते आधुनिकता भवेत् । किन्तु स कदापि नेच्छति स्म यत् – “आङ्ग्लाः भारते अधिकं कालं यावत् न स्युः । भारतीयविषयिक्यः आलोचनाः राममोहनः कदापि न स्वीकरोति स्म [१०७]

‘राजा’ इति उपाधिः[सम्पादयतु]

बहव्यः परम्पराः मनुष्याणां प्रगतिषु बाधायै कल्पन्ते स्म । तादृशीनां परम्पराणां राममोहनः विरोधं कृतवान् । तस्मिन् समये धार्मिकग्रन्थानुसारं समुद्रः ब्राह्मणः इति मन्यते स्म । अतः जनाः समुद्रस्य पूजां कुर्वन्ति स्म । यदि कोऽपि जनः समुद्रम् उल्लङ्घ्य विदेशं गच्छति स्म, तर्हि सः पापी इति कथ्यते स्म[१०८]

१५० वर्षपूर्वं यदि कोऽपि हिन्दुजनः समुद्रम् उल्लङ्घयति, तर्हि तस्मै दण्डः दीयते स्म । यतः समुद्रोल्लङ्घनं समुद्रदेवस्य अपमानः मन्यते स्म । किन्तु राममोहनेन तादृशानाम् अन्धविश्वासानां खण्डनं कृतम् । राममोहनः समुद्रम् उल्लङ्घ्य इङ्ग्लैण्ड्-देशं गतवान्[१०९]

राममोहनः इङ्ग्लैण्ड्-देशस्य राजानं मेलितुं गतवान् आसीत् । सः राज्ञे एकं पत्रं दातुम् इच्छति स्म । तस्य पत्रस्य माध्यमेन राममोहनः आङ्ग्लात् मुगल-शासकाय धनवृद्ध्यर्थं याचनां चकार । यतः इङ्ग्लैण्ड्-देशस्य राजा मुगलशासकाय अल्पधनं ददाति स्म ।

मुगल-शासकेन एव राममोहनः इङ्ग्लैण्ड्-देशं प्रेषितः । तदैव मुगल-शासकेन राममोहनाय ‘राजा’ इति उपाधिः प्रदत्तः[११०]

सतीप्रथायै प्रतिबन्धः[सम्पादयतु]

यदा राममोहनस्य इङ्ग्लैण्ड्-देशे गमनस्य प्रयोजनद्वयम् आसीत् । प्रथमं तु मुगलशासकाय धनवृद्धिः, अपरं सतीप्रथायाः प्रतिबन्धः च ।

यदा राममोहनः इङ्ग्लैण्ड्-देशं प्राप्तवान्, तदा तत्रत्यैः जनैः तस्य विरोधः कृतः । सः लिवरपुल्-महानगरं प्राप्तवान् । तत्र कैश्चित् मुख्यजनैः राममोहनस्य स्वागतं कृतम् । तत्र ‘विलियम् राथबोन्’ इत्याख्यः एकः इतिहासकारः आसीत् । ‘विलियम् राथबोन्’ इत्याख्यः राममोहनं दृष्ट्वा प्रसन्नः जातः । राममोहनस्य विश्रामः विलियम् राथबोन्-इत्याख्यस्य गृहे एव आसीत्[१११]

राममोहनेन बह्वीनां समस्यानां साक्षात्कारः कृतः । तत्र तस्य उच्चविचाराणाम् अपि स्वागतम् अभवत् । इङ्ग्लैण्ड्-देशस्य निवासिनः राममोहनस्य भाषणं श्रुत्वा आश्चर्यचकिताः जाताः । यतः राममोहनेन स्वस्य भाषणे इङ्ग्लैण्ड्-देशस्य संस्कृतेः, सभ्यतायाः च वर्णनं कृतम् आसीत् । यद्यपि राममोहनः भारतीयः आसीत् । तथापि राममोहनः तेषां संस्कृतिविषये यावत् उक्तवान्, तावत् तत्रत्याः निवासिनः अपि न जानन्ति स्म [११२]

तत्पश्चात् राममोहनः इङ्ग्लैण्ड्-देशतः फ्रान्स्-देशं गतः । यदा राममोहनः “प्रिवी-मन्त्रणालये (Counsel)” सतीप्रथायाः प्रतिबन्धाय प्रस्तावं प्रस्थापितवान्, तदैव अधिकारिणा राममोहनाय स्वीकृतिः प्रदत्ता । यतः सतीप्रथायाः विरोधे राममोहनेन ये तर्काः प्रस्तुताः, तेषां कोऽपि प्रत्युत्तरं दातुं न समर्थः [११३]

धर्मस्य उद्धाराय प्रयासाः[सम्पादयतु]

राममोहनः धर्मस्य विश्लेषणं, संशोधनं च कर्तुम् इच्छति स्म । “धर्मस्य क्षेत्रे आधुनिकतायाः उपयोगः भवेत्” इति तस्य अभिप्रायः आसीत् । सामाजिकमान्यतानां, व्यवहाराणां परिवर्तनेन एव देशस्य सामाजिकः, राजनैतिकः च विकासः भवितुं शक्यते । सः हिन्दुधर्मस्य कुरीतिभिः सह विश्वस्य अन्येषां धर्माणां कुरीतीनाम् अपि नाशं कर्तुम् इच्छति स्म । तेन विभिन्नधर्माणां गहनतया तुलनात्मकमध्ययनं कृतम् आसीत् । तदा एव तेन ज्ञातं यत् – “सर्वेषां धर्माणाम् ईश्वरः एकः एव वर्तते । सः जनेषु भेदभावान् निष्कासयितुम् इच्छति स्म[११४]

धर्मं ज्ञातुं पथनिर्माणम्[सम्पादयतु]

राममोहनः बङ्ग्लाभाषां, संस्कृतभाषां च जानाति स्म । तदनन्तरं सः विश्वस्य अन्याः सप्तदश भाषाः पठितवान् । तेन इस्लाम्-धर्मस्य गहनतया अध्ययनं कृतम् आसीत् । अरबी-साहित्यस्य एकरूपतायाः सः प्रभावितः अभवत् । सः सूफी-रचनाः अपि पठितवान् । कुरान्-ग्रन्थे तौहीद् इत्यस्य अवधारणया प्रभावितः जातः ।

तदनन्तरं यदा राममोहनेन हिन्दुधर्मस्य धार्मिकग्रन्थानां, अनुष्ठानानां च अध्ययनं कृतं, तदा सः विचलितो जातः । तेन दृष्टं यत् – “हिन्दुधर्मे मूर्तिपूजा, सतीप्रथा, अन्धविश्वासः इत्यादयः कुरीतयः प्रचलिताः सन्ति । तेन जनाः धर्मान्धतायां लीनाः सन्ति” इति । अतः सः धार्मिककुरीतीनां नाशार्थं सङ्कल्पं कृतवान् [११५]

राममोहनेन संस्कृतस्य अध्येतृत्वेन हिन्दुधर्मस्य ग्रन्थानाम् अध्ययनं कृतम् आसीत् । तेन बौद्धधर्मस्य अपि अध्ययनं कृतम् । बौद्धधर्मस्य विषये ज्ञातुं सः तिब्बत-देशं गतवान् । तत्र तेन बौद्धधर्मस्य मूलसिद्धान्तानाम् अध्ययनं कृतम् । बौद्धधर्मे मूर्तिपूजायाः निषेधः अस्ति । तथापि तत्रत्याः केचित् जनाः मूर्तिपूजां कुर्वन्ति स्म । अतः राममोहनः तस्यापि विरोधं कृतवान् ।

यथा राममोहनः वेदान्तस्य, कुरान्-इत्यस्य सम्मानः करोति स्म, तथैव बाइबिल्-इत्यस्य अपि करोति स्म । यैः राममोहनस्य जीवनचरित्रं लिखितम् आसीत्, ते वदन्ति स्म यत् – “राममोहनः मूर्तिपूजायाः विरोधाय, सामूहिकप्रार्थनायै च प्रेरणाम् ईसाई-धर्मग्रन्थेभ्यः प्राप्तवान्” । ये ईसाई-धर्मानुयायिनः धर्मान्तरणं कारयन्ति स्म, राममोहनः तेषाम् अपि विरोधं करोति स्म[११६]

हिन्दुधर्मस्य व्याख्याता[सम्पादयतु]

राममोहनेन हिन्दुधर्मे निहितानां कुरीतीनां, सतीप्रथायाः, मूर्तिपूजायाः च नाशयितुं निरन्तरं प्रयासाः कृताः आसन् । सः अद्वैतदर्शनस्य समर्थकः आसीत् । सः अन्यस्मिन् कस्मिंश्चिदपि पाषण्डे विश्वासं न करोति स्म ।

राममोहनः जानाति स्म यत् – “यावत् पर्यन्तं हिन्दुधर्मे, समाजे च परिवर्तनं न भविष्यति, तावत् पर्यन्तं भारतदेशस्य राजनैतिकप्रगतिः न शक्या । सः मन्यते यत् – “ हिन्दुसमाजस्य कुरीतीनां कारणेन एव हिन्दुजनानां राजनैतिकदृष्ट्या प्रगतिः न भवन्ती आसीत् । अतः सः हिन्दुधर्मस्य सर्वेषां कुरीतीनाम्, अन्धविश्वासानां च तीव्रतया विरोधं करोति स्म । धर्मस्य कुरीतिभिः सह कोऽपि सम्बन्धः नास्ति इति राममोहनः जानाति स्म[११७]

हिन्दुधर्मे अन्धविश्वासानां, कुप्रथानां, पाषण्डानां च स्थानमेव नास्ति । अतः राममोहनेन उपनिषदाम् आङ्ग्ल-भाषायां, बङ्ग्ला-भाषायां च अनुवादकार्यम् आरब्धम् । तेषु पुस्तकेषु राममोहनेन व्याख्यासहितं, टीकासहितं च अनुवादकार्यं कृतम् आसीत् । पुस्तकस्य प्रकाशनानन्तरं राममोहनः तानि पुस्तकानि जनेभ्यः निशुल्कं वितीर्णवान् ।

षोडशवर्षणां लघुवयसि एव राममोहनः एकं पुस्तकं लिखितवान् । तस्मिन् पुस्तके सः मूर्तिपूजायाः विरोधम् अपि कृतवान् । मूर्तिपूजा एव धार्मिककुरीतीनां मूलम् अस्ति इति राममोहनः मन्यते स्म । समाजे अपि बह्व्यः जातयः, बहवश्च समूहाः च निर्मिताः, ते सर्वे पृथक्-पृथक् देवतानाम् उपासनां कुर्वन्ति स्म [११८]

तेन कारणेन समाजस्य विभाजनं जायमानम् आसीत् । राममोहनः एकेश्वरवादस्य समर्थनं करोति स्म । अतः ब्रह्मसमाजस्य माध्यमेन राममोहनः प्रचारं कुर्वन् आसीत् । एकस्य ईश्वरस्य एव उपासनां कुर्यात् इति सः उक्तवान् ।

राममोहनः यत्किमपि जनान् उपदिशति स्म, तस्य आचरणं स्वयमपि करोति स्म । समुद्रोल्लघनं पापं मन्यते स्म । किन्तु राममोहनः हिन्दुजनेषु प्रथमः आसीत्, यः समुद्रम् उल्लङ्घ्य इङ्ग्लैण्ड्-देशं गतवान् । तेन कारणेन समाजः प्रभावितः अभवत्[११९]

जातिप्रथायाः विरोधः[सम्पादयतु]

राममोहनः जातिप्रथायाः तीव्रविरोधं करोति स्म । यतः जातिप्रथायाः कारणेन समाजः अनेकेषु भागेषु विभक्तः भवति । जातिप्रथायाः कारणेन सामाजिकसौहार्द्रतायाः अपि नाशः अभवत् । सामूहिकतायाः भावना अपि नष्टा ।

अतः समाजः राजनैतिकदृष्ट्या शिथिलः अभवत् । ये जनाः पक्षपातं कुर्वन्ति स्म, तेषाम् अपि विरोधं करोति स्म । तेन समाजस्य उच्चनीचपरम्परायाः विरोधः कृतः । सः कथयति स्म यत् – “व्यक्तेः वैशिष्ट्यं तस्य प्रतिभायाः आधारेण ज्ञातव्यं, न तु वंशाधारेण” [१२०]

सः अन्तर्जातीयस्य विवाहस्य अपि समर्थनं करोति स्म । अनेन प्रकारेण जातिभेदं नाशयितुं शक्यते[१२१]

नारीणाम् अधिकाराणां समर्थनम्[सम्पादयतु]

नारीणाम् अधिकारेभ्यः राममोहनेन सङ्घर्षः कृतः आसीत् । राममोहनः सङ्घर्षे अग्रेसरः आसीत् । सः नारीणां स्वतन्त्रताम् इच्छति स्म । अतः तेन नारीणां स्वतन्त्रतायै आन्दोलनानि कृतानि । तस्मिन् समये समाजे नारीणां दशा चिन्तनीया आसीत् । नारीभिः सह अन्यायपूर्णः, अमानवीयः च व्यवहारः क्रियते स्म । पैतृकसम्पत्तौ नारीणाम् अधिकारः न भवति स्म । अतः पत्युः मृत्योः अनन्तरं सतीप्रथानुसारं पत्नीं दह्यते स्म ।

१८२२ तमे वर्षे राममोहनः स्त्र्यधिकारविषये एकं पुस्तकम् अलिखत् । तस्य शीर्षकम् अस्ति – “ब्रीफ् रिमार्क्स् रिगार्डिङ्ग् मॉडर्न् इनक्रोचमेण्ट्स् ऑन् दि एनसिएण्ट् राइट् ऑफ् फीमेल्स्” इति । प्राचीनकाले हिन्दुस्त्रीणां स्थितिः कीदृशी आसीत् ? इति राममोहनेन तस्मिन् पुस्तके वर्णितम् असीत् [१२२]

हिन्दुसमाजे स्त्रियः सम्पत्तेः अधिकारात् वञ्चिताः भवन्ति स्म । हिन्दुसमाजस्य मुख्यजनाः प्राचीनकालस्य ऋषीणाम् अपमानं कुर्वन्तः आसन् ।

सम्पत्तेः अधिकारात् वञ्चितानां स्त्रीणां स्वतन्त्रता नष्टा अभवत् । समाजे ताभिः सह दासी इव व्यवहारः क्रियते स्म । पुरुषाणां तुलनायां ताः अज्ञानिन्यः मन्यन्ते स्म । तस्मिन् समये स्त्रियः भोगस्य साधनानि एव आसन् ।

पुरुषाः अनेकाभिः स्त्रीभिः सह विवाहं कर्तुं समर्थाः आसन् । किन्तु नार्यः द्वितीयं विवाहम् अपि कर्तुं न शक्नुवन्ति स्म । राममोहनः तत्पक्षपातं नाशयितुम् इच्छति स्म । सः मन्यते यत् – “केषुचित् विषयेषु नार्यः पुरुषाणां तुलनायां श्रेष्ठाः भवन्ति” [१२३]

राममोहनः बहुविवाहस्य अपि विरोधं कृतवान् । राममोहनेन एकस्य नूतनस्य नियमस्य याचना कृता । तस्मिन् नियमे कोऽपि हिन्दुपुरुषः न्यायाधीशस्य अनुमतिं विना द्वितीयं विवाहं कर्तुं न शक्नुयात् । अपरे पक्षे राममोहनः नारीणां पुनर्विवाहस्य समर्थकः आसीत् । राममोहनेन ब्रह्मसमाजस्य स्थापनां कृत्वा स्त्रीणां शिक्षणार्थं महत्प्रयासाः अनुष्ठिताः [१२४]

सतीप्रथायाः अन्तः[सम्पादयतु]

सामाजिकपरिवर्तनक्षेत्रे राममोहनस्य महती उपलब्धिः आसीत् – “सतीप्रथायाः अन्तः” । अनया उपलब्ध्या राममोहनस्य नाम्नः इतिहासे स्मरणं क्रियते । राममोहनेन अस्याः प्रथायाः नाशाय बहवः प्रयासाः कृताः आसन् ।

१८१८ तमे वर्षे राममोहनेन सतीप्रथायाः विषये प्रथमः निबन्धः लिखितः । तस्मिन् निबन्धे सः लिखितवान् यत् – “नारीणां स्वस्याः पृथक् अस्तित्त्वं वर्तते । अतः सतीप्रथा निष्कारणम् अस्ति । नारीणां जीवने समाजस्य कोऽपि अधिकारः नास्ति । स्त्रीपुरुषेभ्यः जीवितुम् अधिकाराः प्राप्ताः सन्ति । सतीप्रथा अस्माकं समाजस्य पुरातनी दुष्टा परम्परा अस्ति इति उक्त्वा अस्याः प्रथायाः समर्थनं मा भवेत् । हननस्य अपरं नाम सतीप्रथा इति राममोहनस्य विचारः आसीत् । अतः दोषिणः सन्ति, तेभ्यः दण्डः दातव्यः[१२५]

राममोहनेन सतीप्रथायाः विरोधे त्रीणि आन्दोलनानि प्रचालितानि आसन् । सर्वप्रथमस्य आन्दोलनस्य उद्देश्यम् अस्ति – “ कुरीतीनां विरोधनिमित्तं जनानां साहाय्यं प्राप्येत” । राममोहनेन स्वस्य लेखनानां, भाषणानां, विरोधानां, तर्काणां च माध्यमेन जनानां मानसं परिवर्तितम्” । राममोहनः जनान् अवाबोधयत् यत् – “धर्मग्रन्थेषु अपि सतीप्रथायाः समर्थनं न कृतम् । अतः यदि सर्वकारः इमां प्रथां समापयेत् चेत् इमं विषयं कश्चित् धार्मिकः न जानीयात् इति” [१२६]

तदनन्तरं राममोहनेन ब्रिटिश्-शासकेभ्यः आग्रहः कृतं यत् – “यदि ते सभ्यशासकाः सन्ति चेत् इमां प्रथां समापयन्तु” इति ।

ततः परं कैः कारणैः विधवाः अनुगृहीताः भवन्ति ? राममोहनेन तानि कारणानि अन्विष्टानि । तानि कारणानि दूरीकर्तुं सः प्रयासरतः आसीत् । तस्मिन् समये सतीप्रथायाः माध्यमेन विधवानां हत्या जानमाना आसीत् । अतः राममोहनेन नारीणां शिक्षणार्थं, सम्पत्तौ अधिकारार्थं च प्रचारः कृतः[१२७]

राजनैतिकस्य स्वतन्त्रतायाः समर्थनम्[सम्पादयतु]

राममोहनः राजनैतिकस्वतन्त्रतावादस्य अग्रेसरः आसीत् । सः एव स्वतन्त्रतायै आन्दोलनस्य आधारः आसीत् । १९ तमायाः शताब्द्याः श्रेष्ठचिन्तकैः राममोहनस्य विचारः स्वीकृतः । भारतस्य धार्मिकस्य, सामाजिकस्य च परिवर्तनस्य प्रथमचरणे अस्याः विचारधारायाः प्रभावः आसीत् । व्यक्तीनां मर्यादाभिः सह स्वतन्त्रतावादस्य सम्बन्धः वर्तते ।

स्वाभाविकतया स्वतन्त्रवादेन व्यक्तेः अधिकाराणां चिन्तनं क्रियते । तेन विना समाजस्य विकासः भवितुं न शक्नोति । यथा शासनं स्वस्य इच्छानुसारं कार्यं करोति । अतः स्वतन्त्रतावादः तस्य विरोधं करोति[१२८]

राममोहनेन सर्वत्र स्वतन्त्रतावादं स्वीकारयितुं प्रचारः कृतः । सः सर्वदा असाम्प्रदायिकव्यवहाराय कथयति स्म । सः इच्छति स्म यत् “मनुष्यः स्वचेतनायाः अनुसारं कार्यं कुर्यात्” । राममोहनः न्यायप्रियः आसीत् । अतः तस्य व्यवहारः अपि न्यायपूर्णः भवति स्म । राममोहनेन उक्तं यत् – “संवैधानिकसर्वकारस्य अस्तित्त्वं मानवीयस्वतन्त्रतायै आवश्यकं भवति । यतः मानवीयसुरक्षायै संवैधानिकसाधनानि आवश्यकानि भवन्ति” । सः इच्छति स्म यत् – “ देशस्य उन्नतिः क्रमशः भवेत् । तेन परिवर्तनस्य प्रभावः भविष्यति” [१२९]

तदनन्तरं राममोहनेन आर्थिकक्षेत्रे अपि स्वतन्त्रतायाः चिन्तनं कृतम् आसीत् । अतः तेन सम्पत्तेः अधिकाराय चर्चा कृता । ये भूमिपतयः आसन्, ते कृषकाणां शोषणं कुर्वन्ति स्म । सः भारतीयग्रामीणपरम्परायाः संरक्षणं कर्तुम् इच्छति स्म ।

स्वतन्त्रतायाः विचारः[सम्पादयतु]

राममोहनः स्वतन्त्रतायै निरन्तरं संघर्षं कुर्वन् आसीत् । मूर्तिपूजायाः, सतीप्रथायाः च विरोधेन, आधुनिकपाश्चात्यशिक्षणस्य समर्थनेन, मुद्रणालस्य स्वतन्त्रतायाः विचारेण, नारीणाम् अधिकाराणां समर्थनेन च स्पष्टं भवति यत् राममोहनः स्वतन्त्रतायैः सततं प्रयासान् कुर्वन् आसीत् । राममोहनस्य कथनानुसारं स्वतन्त्रता मनुष्याणां सम्पत्तिः वर्तते ।

राममोहनेन एव भारतस्य राजनैतिकस्वतन्त्रतायै प्रथमवारं चर्चा कृता आसीत् । ब्रिटिश्-शासकेभ्यः भारताय लाभः भवितुं शक्यते इति सः जानाति स्म । किन्तु सः दीर्घकालपर्यन्तं ब्रिटिश्-शासनं नेच्छति स्म । सामाजिकपरिवर्तनाय ब्रिटिश्-शासनम् उपयोगाय कल्पते स्म ।

स्वतन्त्रतायाः विचारः कस्मैचित् एकस्मै देशाय एव नास्ति । अपितु सः निखिलविश्वाय स्वतन्त्रतायाः विचारं करोति स्म । यत्र कुत्रापि मानवानां स्वतन्त्रायै सङ्घर्षः भवति स्म । राममोहनः तस्मै सङ्घर्षाय समर्थनं ददाति स्म । यदा पुर्तगाल्-देशे, स्पेन्-देशे च संवैधानिकसर्वकारस्य सङ्घटनम् अभवत्, तदा सः प्रसन्नः अभवत् । किन्तु यदा १८२१ तमे वर्षे नेपल्स्-देशे संवैधानिकसर्वकारस्य पतनम् अभवत्, तदा सः दुःखी जातः[१३०]

व्यक्तिगतस्वतन्त्रतायाः पाक्षिकः राममोहनः[सम्पादयतु]

सर्वप्रथमं राममोहनेन भारतीयजनेषु नागरीकाधिकारविषयिणी चर्चा कृता आसीत् । ये अधिकाराः ब्रिटेन्-देशस्य नागरिकेभ्यः प्रदत्ताः आसन्, ते सर्वे अधिकाराः भारतदेशे अपि प्रदत्ताः । यद्यपि आङ्ग्लैः प्रदत्तानाम् अधिकाराणां सूचिका न निर्मिता आसीत्, तथापि तेषु अधिकारेषु स्वतन्त्रतायाः अधिकारः, अभिव्यक्तेः स्वतन्त्रतायाः अधिकारः, सम्पत्तेः अधिकारः, धर्मस्य अधिकारः इत्यादयः अधिकाराः आसन् [१३१]

राममोहनेन विचारस्य, अभिव्यक्तेः च स्वतन्त्रतायै अधिकं महत्त्वं प्रदत्तम् आसीत् । तस्य आशयः आसीत् यत् – “ जनाः मुक्तकण्ठेन विचारान् वक्तुं शक्नुयुः” ।

शासननियमेषु, न्यायिकप्रशासने च परिवर्तनस्य समर्थकः[सम्पादयतु]

राममोहनः जानाति स्म यत् – “वास्तविकतायाः ज्ञानं विना एव नियमाः रच्यन्ते स्म । ईस्ट्-इण्डिया कम्पनी इत्यस्याः सर्वोच्चाधिकारी अपि भारतस्य शासननियमेषु परिवर्तनं कर्तुं न शक्नोति स्म ।

परिवर्तनविषये राममोहनस्य तर्कः आसीत् यत् – “भारतीयशासननियमेषु परिवर्तनात् पूर्वं भारतस्य अर्थशास्त्रिणां, विदुषां च विचाराः पृष्टव्याः” इति[१३२]

राजस्वसम्बन्धिभ्यः नियमेभ्यः राममोहनः उक्तवान् यत् – “ ये नियमाः राजस्वसम्बन्धिनः सन्ति, ते शासकाय, जनेभ्यः च हितकराः भवेयुः” इति । येषु नियमेषु समाजस्य सर्वेषां वर्गाणां, समूहानां च समर्थनं भवेत्, ते नियमाः एव निर्मातव्याः । यदा नियमानां रचना भवेत्, तदा देशस्य प्रचलितानां परम्पराणाम् आधारेण नियमाः निर्मातव्याः [१३३]

राममोहनेन “एन् एक्सपोजीशन् ऑफ् रेवेन्यू एण्ड् ज्यूडिशियल् सिस्टम् इन् इण्डिया” नामकं पुस्तकं रचितम् । तस्मिन् पुस्तके राममोहनेन प्रशासनिकविषयेषु, न्यायिकविषयेषु च परिवर्तनाय स्वस्य विचाराः लिखिताः आसन् [१३४]

यावत् अधिकारिणः सामान्यजनः इव व्यवहारं न करिष्यन्ति, तावत् प्रशासनं प्रभावकं भवितुं न शक्ष्यति । इतः परं प्रशासनं, सामान्यजनः इत्येतयोः मध्ये सामञ्जस्य आवश्यकता वर्तते ।

न्यायिकक्षेत्रे परिवर्तनाय राममोहनेन बहवः विचाराः प्रदत्ताः आसन् । यः दक्षः, निष्पक्षः, स्वतन्त्रः भवति, सः एव स्वतन्त्रतायाः रक्षणं कर्तुं शक्नोति । सः कथयति स्म यत् – “न्यायप्रशासने भारतीयाधिकारिणां नियुक्तिः भवेत्” । तेन पञ्चायतप्रणाल्याः अपि समर्थनं कृतम् आसीत् ।

शिक्षणसम्बन्धिनः विचाराः[सम्पादयतु]

राममोहनः जानाति स्म यत् – यावत् पर्यन्तं देशस्य शिक्षणव्यवस्थायां विशिष्टपरिवर्तनं न भविष्यति, तावत्पर्यन्तं देशः अज्ञानतायाः मुक्तं न प्राप्स्यति । सः शिक्षणव्यवस्थां सम्पूर्णतया परिवर्तयितुम् इच्छति स्म । तस्य अभिप्रायः आसीत् यत् – “ आधुनिकविज्ञानशिक्षणेन एव भारतस्य निवासिनः सक्षमाः भविष्यन्ति” । शिक्षणं विना समाजे परिवर्तनं न भविष्यति । भारतदेशः अपि अविकसितः, अशिक्षितः एव प्रभवति[१३५]

राममोहनः स्वयम् अपि संस्कृतस्य प्रकाण्डविद्वान् आसीत् । किन्तु सः मन्यते यत् – “आधुनिकभारते संस्कृतशिक्षणम् अप्रासङ्गिकं वर्तते । सः सर्वदा रसायणशास्त्रस्य, गणितशास्त्रस्य इत्यादीनाम् आधुनिकानां शास्त्राणां समर्थनं करोति स्म ।

सर्वप्रथमं राममोहनेन एव भारते आधुनिकशिक्षणस्य अग्रेसरत्वेन कार्यं कृतम् आसीत् । स्त्रीभिः स्त्रीशिक्षणस्य व्यवस्थायै राममोहनेन एव याचना कृता आसीत् ।

धार्मिककर्मकाण्डस्य विरोधः[सम्पादयतु]

यदा पटना-नगरे फारसीभाषायाः, अरबी-भाषायाः शिक्षणं समाप्तम् अभवत्, तदा तस्य पिता संस्कृतभाषायाः अध्ययनेन राममोहनं वाराणसी-नगरं प्रेषितवान् । तत्र गत्वा राममोहनः अल्पे काले एव संस्कृतसाहित्यम् अधीतवान् । अध्ययनं समाप्य सः पुनः गृहं प्राप्तवान् ।

सर्वप्रथमं सः इसलाम-धर्मस्य एकेश्वरवादेन प्रभावितः अभवत् । ततः परं हिन्दुधर्मस्य ब्रहमज्ञानेन प्रभावितः अभवत् । तेन कारणेन धर्मं प्रति तस्य विचारधारा परिवर्तिता जाता । तदनन्तरं पित्रा सह मतभेदाः भवन्ति स्म । तयोः मध्ये विवादाः अपि भवन्तः आसन् ।

ततः परं षोडशवर्षाणां लघुवयसि राममोहनेन धार्मिककर्मकाण्डस्य विरोधे बङ्ग्ला-भाषायाम् एकं पुस्तकं रचितम् । तस्य नाम “हिन्दु दिगेर पौत्तलिक” इति आसीत् । तस्मिन् समये भारतदेशः कर्मकाण्डात्मकधर्मान्धतायां निमग्नः आसीत् । तदा एकस्यापि आङ्ग्लविद्यालस्य स्थापना न अभवत्[१३६]

तस्मिन् समये पुस्तकस्य मुद्रणार्थं काऽपि व्यवस्था नासीत् । किन्तु तस्य पुस्तकस्य कारणेन पिता कुपितः अभवत् । अतः तयोः मध्ये संवादहीनता अपि वर्धमाना आसीत् । राममोहनः गृहत्यागस्य अपि विचारं कृतवान् आसीत् ।

यदा राममोहनेन गृहत्यागः कृतः, तदा सः षोडशवर्षदेशीयः एव आसीत् । गृहत्यागनन्तरं सः भारतस्य विभिन्नप्रदेशेषु भ्रमणं कुर्वन् आसीत् । भ्रमणे सति तेन विभिन्नक्षेत्राणां धर्मग्रन्थानाम् अध्ययनं कर्तुं बह्व्यः भाषाः पठिताः । अन्ते सः बौद्धधर्मं ज्ञातुं तिब्बत-देशम् अपि गतवान् आसीत् [१३७]

नारीषु श्रद्धा[सम्पादयतु]

तिब्बत-देशस्य यात्रायां सत्यां बौद्धधर्मे प्रचलितेन अवतारवादेन सह राममोहनस्य परिचयः अभवत् । तत्रत्याः जनाः ‘लामा’ इति उपाधिधारिणीं जीवितव्यक्तिम् एव ब्रह्माण्डस्य सर्जकत्वेन मन्यते स्म । यदा लामा इत्यस्य मृत्युः भवेत्, तदा विशिष्टलक्षणयुतं बालकं ‘लामा’ इति चिन्वन्ति स्म । बौद्धाः मन्यन्ते स्म यत् – “ ‘लामा’ इत्यस्य आत्मा केवल शरीरं परिवर्तते” [१३८]

तादृशीं स्थितिं दृष्ट्वा राममोहनः कष्टम् अन्वभवत् । बौद्धधर्मे अपि पाषण्डः प्रचलति स्म । ततः परं सः तत्रैव बौद्धधर्मस्य पाषण्डानां विरोधं कुर्वन् आसीत् । राममोहनात् बौद्धजनाः खिन्नाः अभवन् । खिन्ने सति बौद्धजनाः राममोहनाय दण्डं दातुं निर्णयं कृतवन्तः । तस्मिन् समये तिब्बत-देशस्य स्त्रीभिः राममोहनस्य रक्षणं कृतम् ।

अनेन प्रसङ्गेन तावदेव राममोहनस्य मनसि महिलाभ्यः श्रद्धा आसीत् । स्वस्य पुस्तकेषु, भाषणेषु च तेन नारीणां महत्त्वम् एव प्रदर्शितम् आसीत् । कॉर्पेट्-नामिकया लेखिकया राममोहनस्य जीवनचरित्रं लिखितम् आसीत् । कॉर्पेट्-इत्याख्यया जीवनचरित्रे लिखितं यत् – “यदा राममोहनः चतुर्विंशतिवर्षदेशीयः आसीत्, तदा अपि तिब्बत्-देशस्य नारीणां स्मरणं कृतज्ञतया अकरोत् । इतः परं सः ताभ्यः नारीभ्यः प्रभावितः जातः । अतः आजीवनं राममोहनस्य मनसि नारीभ्यः श्रद्धा आसीत्” [१३९]

रङ्गपुरे ब्रह्मज्ञानस्य प्रचारः[सम्पादयतु]

राममोहनः रामगढ-ग्रामे, भागलपुर-ग्रामे, रङ्गपुर-ग्रामे च वृत्तिम् अकरोत् । तदा तस्य अधिकारी डिगबी इत्याख्यः आसीत् । डिगबी-इत्याख्यः रामगढ-ग्रामे १८०५ तः १८०८ पर्यन्तं, भागलपुर-ग्रामे १८०८ तः १८०९ पर्यन्तं, रङ्गपुरग्रामे १८०९ तः १८१४ पर्यन्तं कार्यरतः आसीत् [१४०]

रङ्गपुरे वृत्तौ सत्यां राममोहनः जीवनस्य मुख्यलक्ष्यं साधयितुं प्रयासरतः आसीत् । सांयकाले स्वस्य निवासस्थले धर्मस्य चर्चां कर्तुं गोष्ठीनाम् आयोजनं करोति स्म । तासु गोष्ठीसु सः जनेभ्यः कर्मकाण्डस्य निरर्थकतायाः, ब्रह्मज्ञानस्य आवश्यकतायाः च विषये ज्ञानं प्रददाति स्म [१४१]

बहवः मारवाडी-व्यवसायिनः नियमितरूपेण गोष्ठ्यां सम्मिलिताः भवन्ति स्म । मारवाडी-व्यवसायिनां सम्पर्केण राममोहनः जैनधर्मस्य ‘कल्पसूत्र’ इत्यादयः बहवः ग्रन्थान् अधीतवान् [१४२]

बहवः जनाः राममोहनात् ईर्ष्यन्ति स्म । तथैव ‘गौरीकान्त भट्टाचार्य’ नामकः व्यक्तिः अपि राममोहनात् ईर्ष्यति स्म । अतः तेन राममोहनस्य विरोधे बङ्ग्ला-भाषायां “ज्ञानाञ्जन” नामकं पुस्तकं रचितम् आसीत् । अनेन पुस्तकेन ज्ञायते यत् – “राममोहनेन रङ्गपुरे वृत्तौ सत्यां फारसी-भाषायां बहूनि लघुपुस्तकानि लिखितानि आसन् । राममोहनेन वेदान्तस्य केचित् अंशानाम् अपि अनुवादः कृतः आसीत् । अतः अनेन ज्ञायते यत् – “राममोहनः एकेश्वरवादस्य, ब्रह्मज्ञानस्य आजीवनं प्रचारम् करोति स्म [१४३]

मातुः कोपः, मातुः गृहस्य त्यागः च[सम्पादयतु]

यदा राममोहनस्य ज्येष्ठपुत्रः राधाप्रसाद इत्याख्यः विवाहः योग्यः अभवत्, तदा तस्य विवाहम् अकारयत् । किन्तु विवाहे हिन्दुसमाजस्य केचन जनाः बाधां कर्तुं प्रयत्नरताः आसन् । तथापि सः विवाहम् अवरोद्धम् असमर्थाः । राधाप्रसादस्य विवाहः हुगडी-मण्डलस्य इडपाडा-ग्रामे अभवत् [१४४]

विवाहानन्तरं राममोहनस्य विरोधिनः वर्धन्तः आसन् । तदा कृष्णनगरस्य समीपस्थे रामनगरे रामजय बटवाल इत्याख्यः नेता आसीत् । तस्य समूहे पञ्चसहस्रः ग्रामीणाः सम्मिलिताः आसन् ।

राममोहनः कर्मकाण्डस्य विरोधं, ब्रह्मज्ञानस्य प्रचारं च कुर्वन् आसीत् । अतः तेन कारणेन रामजय इत्याख्यः राममोहनं पीडयति स्म । रामजयस्य समूहस्य सदस्याः राममोहनस्य गृहे पशूनाम् अस्थीनि क्षिपन्ति स्म । तेन कारणेन राममोहनस्य कौटुम्बिकाः त्रस्ताः अभवन् । तथापि राममोहनः प्रतिक्रियां न कृतवान् । राममोहनस्य धैर्यं दृष्ट्वा रामजयः अधिकं पीडयति स्म । किन्तु किञ्चिद्दिवसानन्तरं सर्वः उपद्रवः स्वतः शान्तः जातः [१४५]

बाह्यजनानाम् उपद्रवः अल्पः अभवत् । किन्तु गृहे मातुः कोपः प्रतिदिनं वर्धमानः आसीत् । राममोहनः जनेषु कर्मकाण्डस्य, मूर्तिपूजायाः विरोधं, ब्रह्मज्ञानस्य प्रचारं करोति स्म । अतः राममोहनस्य मात्रा एकः निर्णयः कृतः । माता राममोहनं परिवारेण सह अन्यत्र निवासाय गन्तुम् उक्तवती आसीत् ।

राममोहनेन मातुः गृहस्य समीपस्थे गृहे एव निवसितुं निर्णयः कृतः आसीत् । किन्तु कृष्णनगरे प्रतिष्ठायाः कारणेन माता तस्य निर्णयं न स्वीकृतवती । अन्ततो गत्वा राममोहनेन लांगुलपाडा-ग्रामस्य समीपस्थे रघुनाथपुरे श्मशानभूमौ एकं गृहं निर्मापितम् । गृहस्य बहिः राममोहनेन एकः मञ्चकः (Stage) निर्मापितः । अयं मञ्चकः (Stage) एव तस्य साधनास्थलम् आसीत् । यदा राममोहनः कोलकाता-नगरं गच्छति स्म, आगच्छति स्म च, तदा तस्य मञ्चकस्य प्रदक्षिणां करोति स्म[१४६]

कोलकाता-नगरे निवासः[सम्पादयतु]

ई. स. १८१४ तमे वर्षे राममोहनः द्विचत्वारिंशद्वर्षदेशीयः आसीत् । तस्मिन् वर्षे सः कोलकाता-नगरे निवासार्थं गतः । कोलकाता-नगरे एव तस्य जीवनस्य वास्तविकं कार्यं प्रारब्धम् । राममोहनः सङ्कल्पं कृतवान् आसीत् यत् – “यावज्जीवनम् अस्ति, तत् सम्पूर्णं जीवनं समाजाय समर्पयिष्यामि” [१४७]

धर्मे परिवर्तनं, समाजे परिवर्तनं, राजनैतिकक्षेत्रे परिवर्तनं, साहित्यसर्जनम् इत्यादिषु क्षेत्रेषु सः प्रयासरतः आसीत् ।

तत्कालीनः हिन्दुसमाजः[सम्पादयतु]

यदा राममोहनः कोलकाता-नगरम् आगतवान्, तस्मिन् समये हिन्दुसमाजस्य स्थितिः गभीरा आसीत् । अतः राममोहनस्य शिष्येण “तत्त्वबोधिनी पत्रिकायां” लिखितम् आसीत् यत् – “यदा राजा राममोहन राय इत्याख्यः कोलकाता-नगरम् आगतवान्, तस्मिन् समये सम्पूर्णस्य बङ्गालराज्यस्य निवासिनः अज्ञाने मग्नाः आसन्” [१४८]

सर्वत्र धार्मिककर्मकाण्डस्य प्रभुत्वम् आसीत् । वेदे, उपनिषदि यद् ब्रह्मज्ञानम् अस्ति, तस्मिन् विषये कस्यापि जनस्य आसक्तिः नासीत् । गङ्गास्नानेन, ब्राह्मणाय दानेन, तीर्थयात्राभिः, उपवासैः इत्यादिभिः प्रयोगैः एव पापानां निवारणं भवितुं शक्यते इति सर्वेषां जनानां धारणा आसीत् [१४९]

राममोहनस्य वैशिष्ट्यम्[सम्पादयतु]

राममोहनस्य व्यक्तित्वं सम्मोहकम् आसीत् । तस्य व्यक्तित्वेन जनाः राममोहनं प्रति आकुष्टाः भवन्ति स्म । तस्य व्यक्तित्वे सद्गुणाः दृश्यन्ते स्म । राममोहनस्य वैशिष्ट्यस्य विषये तस्य शिष्येण लिखितम् आसीत् यत् – “राममोहनस्य शरीरं बलशालि आसीत् । तदैव मनसि अपि अपरिमिता शक्तिः आसीत् । स्वप्रतिभया तेन यज्ज्ञानं प्राप्तं, तज्ज्ञानं जनेषु काव्यमाध्यमेन उद्बोधितम् ।

तस्य गाम्भीर्यं, विद्वत्तां च दृष्ट्वा जनाः सन्मानं कुर्वन्ति स्म । स्वस्य शालीनतायाः, विनम्रतायाः प्रभावेण जनाः आकृष्टाः भवन्ति । तस्य व्यक्तित्वे शक्तेः, ज्ञानस्य, विनयस्य इत्यादीनां गुणानां समन्वयः आसीत् । सः एकेश्वरवादस्य प्रचारं कुर्वन् आसीत् । तथैव सः परोपकारम् अपि करोति स्म” [१५०]

राममोहनस्य सहयोगिनः, अनुयायिनः च[सम्पादयतु]

राममोहनस्य प्रतिभया, ज्ञानेन, मधुरव्यवहारेण च बहवः जनाः प्रभाविताः अभवन् । तेषु केषाञ्चित् जनानां नामानि अधोलिखितनि सन्ति [१५१]

  • गोपीमोहन ठाकुर – अयं दर्पनारायणस्य पुत्रः, प्रसन्नकुमार ठाकुर इत्याख्यस्य पिता, यतीन्द्रमोहन ठाकुर इत्याख्यस्य पितामहश्चासीत् ।
  • वैद्यनाथ मुखोपाध्याय – अयम् अनुकूल मुखोपाध्याय इत्याख्यस्य पिता आसीत् । अनुकूल मुखोपाध्यायः न्यायाधीशः आसीत् । वैद्यनाथः हिन्दु-महाविद्यालस्य संस्थापकेषु अन्यतमः संस्थापकः, सचिवः च आसीत् । स्वस्य भाषणे वैद्यनाथेन उक्तं यत् – “यथा एकः लघुबीजः समयान्तरे बृहद्वृक्षः भवति, तथैव हिन्दु-महाविद्यालयः अपि विशालं शैक्षणिकं संस्थानं भविष्यति” इति ।
  • जयकृष्ण सिंहः – अयं कोलकाता-महानगरस्य राजार-उद्यानस्य स्वामी आसीत् ।
  • काशीनाथ मल्लिक – अयं मल्लिक-वंशस्य प्रतिष्ठितपुरुषः आसीत् ।
  • वृन्दावन मित्र – अयं राज्ञः पिताम्बर मित्र इत्याख्यस्य पुत्रः, डॉ. राजेन्द्रलाल मिश्र इत्याख्यस्य पितामहश्च आसीत् ।
  • गोपीनाथ मुन्शी – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् ।
  • राजा वदनचन्द्र राय – अयं राज्ञः नरसिंहस्य सम्बन्धी आसीत् ।
  • रघुराम शिरोमणि – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् ।
  • हरनाथ तर्कभूषन – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् ।
  • द्वारकानाथ मुन्शी – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् ।

प्रचारे उद्भविताः समस्याः[सम्पादयतु]

कोलकाता-महानगरे गते सति १८१५ तमे वर्षे राममोहनेन स्वस्मिन् निवासे “आत्मीय सभा” नामिकायाः संस्थायाः स्थापना कृता आसीत् । अग्रिमे वर्षे सभायाः स्थलपरिवर्तनं कृतम् । किन्तु समयान्तरे सभा पुनः स्वनिवासे परिवर्तिता । प्रतिसप्ताहं सभायाः गोष्ठी भवन्ती आसीत् [१५२]

शिवप्रसाद मिश्र इत्याख्यः सभायां वेदपाठं करोति स्म । गोविन्द इत्याख्यः ब्रह्मसङ्गीतं प्रस्तौति स्म । किन्तु किञ्चिद्दिवसानन्तरे जनानां विरोधेन सभायाः सदस्याः त्रस्ताः अभवन् । जनाः सभायाः सदस्यानां तिरस्कारं, निन्दां च कुर्वन्ति स्म । अतः कैश्चित् सदस्यैः सभा त्यक्ता आसीत् [१५३]

जयकृष्णसिंह इत्याख्यः मूर्तिपूजायाः समर्थनं कुर्वन् आसीत् । जयकृष्णसिंहः सर्वत्र सभायाः दुष्प्रचारं कुर्वन् आसीत् यत् – “आत्मीय-सभायां गवां हननं भवति” इति । तथापि राममोहनः विचलितः न अभवत् ।

द्वारकानाथ ठाकुर, ब्रजमोहन मजमूदार, हलधर बसु, नन्दकिशोर बसु, राजनारायण सेन, हरिहरानन्द तीर्थ स्वामी इत्यादयः नियमितरूपेण आत्मीय सभायाः गोष्ठ्याम् उपस्थिताः भवन्ति स्म । अन्ये अपि बहवः सदस्याः राममोहनस्य समर्थनं कुर्वन्ति स्म । किन्तु बहवः जनाः राममोहनं ‘नास्तिकः’ इति कथयन्ति स्म ।

राममोहनस्य गृहे आत्मीय-सभायाः कार्यक्रमाः आयोज्यन्ते स्म । किन्तु राममोहनस्य भ्रात्रा पैतृकसम्पत्तये अभियोगः कृतः । अतः सभायाः कार्यक्रमाः कदाचित् वृन्दावन मित्र इत्याख्यस्य गृहे भवन्ति स्म ।

महासभायाः आयोजनम्[सम्पादयतु]

१८१९ तमस्य वर्षस्य दिसम्बर-मासे बिहारीलाल चौबे इत्याख्यस्य गृहे एकस्याः महासभायाः आयोजनं कृतम् आसीत् । तस्यां सभायां कोलकाता-महानगरस्य पण्डिताः, धनिकाः, सम्भ्रान्ताः जनाः सम्मिलिताः अभवन् ।

राजा राधाकान्त देव इत्याख्यः कोलकाता-महानगरस्य प्रधानसमाजपतिः आसीत् । सः अपि तस्यां गोष्ठ्याम् गतवान् आसीत् । तेन सह बहवः पण्डिताः अपि शास्त्रार्थं कर्तुं गतवन्तः आसन् । सर्वे पण्डिताः राममोहनं पराजेतुं गताः आसन् । किन्तु राममोहनस्य तर्काणां प्रत्युत्तराणि कोऽपि दातुं न समर्थः । किन्तु पण्डितेषु सुब्रह्मण्य शास्त्री इत्याख्यस्य तर्का महत्त्वपूर्णाः आसन् [१५४]

राममोहनस्य गभीरैः विचारैः सर्वे पण्डिताः परास्ताः । किन्तु अनेन पराजयेन पण्डिताः तिरस्कारम् अन्वभवन् । अतः पुनः राममोहनस्य विरोधं कुर्वन्तः आसन् ।

सभायाः स्थापना[सम्पादयतु]

एडम् इत्याख्यः बुद्धिमान्, सरलव्यवहारिकश्चासीत् । राममोहनस्य विचारान् ज्ञात्वा सः एकेश्वरवादस्य हृदयपूर्वकं प्रचारं कुर्वन् आसीत् । तदनन्तरं राममोहनेन “हरा-फरा” नामकस्य समाचार-पत्रस्य कार्यालयस्य समीपे “यूनिटेरियन् संस्था” नामिकायाः संस्थायाः स्थापना कृता । तस्यां संस्थायाम् एकेश्वरवादिनाम् ईसाई-धर्मानुयायिनां मतानुसारम् ईश्वरस्य उपासना क्रियते स्म [१५५]

तस्यां सभायां राममोहनस्य पुत्राः, सम्बन्धिनः च सदस्याः आसन् । ततः परं ताराचन्द चक्रवर्ती, चन्द्रशेखर देव इत्याख्यौ अपि सदस्यौ आस्ताम् ।

एकस्मिन् दिवसे सभायाः समाप्तौ सत्यां सर्वे गृहं गच्छन्तः आसन् । तदा मार्गे हिन्दुधर्माय पृथक् उपासनास्थलाय चर्चा अभवत् । तदनन्तरं निर्णयः जातः यत् – “हिन्दुधर्मस्य अपि पृथक् उपासनास्थलं भवेत्” इति ।

अन्ते कमललोचन बसु इत्याख्यस्य गृहं भाटके स्वीकृतम् । १८२८ तमे वर्षे उपासना-सभायाः स्थापनां चकार । प्रत्येकं शनिवासरे सांयकाले सप्तवादनतः नववादनपर्यन्तं सभा प्रचलति स्म । तत्र द्वौ ब्राह्मणौ वेदपाठं कुरुतः स्म । उत्सवानन्द विद्यावागीश इत्याख्यः उपनिषदः पाठं करोति स्म [१५६]

विद्यावागीशः येषां श्लोकानां पाठं करोति स्म, राममोहनः तेषां श्लोकानां व्याख्यां करोति स्म । अन्ते सङ्गीतेन कार्यक्रमस्य समापनं क्रियते स्म । ताराचन्द चक्रवर्ती इत्याख्याय तस्याः सभायाः सचिवपदं प्रदत्तम् आसीत् । कोलकाता-महानगरस्य बहवः हिन्दुजनाः तस्यां सभायां भागं गृह्णन्ति स्म [१५७]

सभायाः स्थापनानन्तरं धनसञ्चयं कृत्वा कुत्रचित् सभागृहस्य निर्माणं कृतम् । अतः १८२९ तमे वर्षे नूतने भवने सभायाः कार्याणि कृतानि ।

मोण्टगुमरी मार्टिन् इत्याख्यः ब्रह्मसमाजस्य स्थापनायाः कार्यक्रमे सम्मिलितः आसीत् । तेन “हिस्टरी ऑफ् दि ब्रिटिश् कॉलोनीज्” नामके पुस्तके ब्रह्मसमाजस्य स्थापनायाः विषये लिखितम् आसीत् यत् – “ राममोहन राय इत्याख्येन १८३० तमे वर्षे ब्रह्मसमाजस्य स्थापना कृता । तस्मिन् कार्यक्रमे अहम् एकः एव यूरोपीयः आसम् । तत्र प्रायः पञ्चविंशतिः हिन्दुजनाः सम्मिलिताः आसन् । तत्र ब्राह्मणेभ्यः पर्याप्तं धनं प्रदत्तम् आसीत् [१५८]

राममोहनः ईसाईधर्मस्य एकेश्वरवादस्य प्रचारं करोति स्म । किन्तु समयान्तरे सः त्यक्त्वा ब्रह्मसमाजस्य स्थापनां चकार । तेन ईसाई-धर्मानुयायिनः खिन्नाः जाताः ।

राममोहनस्य आलोचनायाः विरोधे एडम् इत्याख्येन लिखितं यत् – “ राममोहनः वेदस्य भ्रामकविषयेषु विश्वासं न करोति । मूर्तिपूजाम् अवरोद्धुम् एव राममोहनेन ब्रह्मसमाजः स्थापितः [१५९]

ब्रह्मसमाजस्य उद्देश्यम्[सम्पादयतु]

यः ब्रह्माण्डस्य सर्जकः अस्ति, यः अनादी-अनन्तः च अस्ति, यः अगम्यः, अपरिवर्तनीयः च अस्ति, सः एव पूजनीयः । अतः राममोहनः तस्य एव आराधनां करोति स्म । ये श्रद्धया उपासनां कर्तुम् इच्छन्ति, ते उपासनास्थलं गन्तुं शक्नुवन्ति । केनापि सह जातिः, सम्प्रदायः, धर्मः इत्यादीनाम् आधारेण पक्षपातः न भविष्यति [१६०]

राममोहनस्य विरोधे धर्मसभायाः स्थापना[सम्पादयतु]

तस्मिन् समये केवलं ब्रह्मज्ञानस्य, मूर्तिपूजायाः च एव विरोधः नासीत् । अपितु सतीप्रथायाः विरोधे अपि विवादाः अभवन् । यथा राममोहनः मूर्तिपूजां, सतीप्रथां च दूरीकर्तुं सङ्कल्पं कृतवान्, तद्दृष्ट्वा धर्माधिकारिणः चिन्तिताः अभवन् ।

तदा धर्माधिकारिभिः “धर्मसभा” नामिका संस्था स्थापिता । तस्मिन् समये एव राममोहनेन स्वस्य विचारान् प्रसारयितुं बङ्ग्ला-भाषायां “संवाद कौमुदी” नामिकस्य साप्ताहिकस्य, फारसी-भाषायाम् एकस्य समाचार-पत्रस्य च प्रकाशनं कृतम् । राममोहनस्य विरोधे धर्मसभया चन्द्रिका-नामकं पत्रं प्रकाशितम्[१६१]

ब्रह्मसमाजः, धर्मसभा च[सम्पादयतु]

धर्मसभायाः सदस्याः विभिन्नप्रकारैः ब्रह्मसमाजं पीडितुं प्रयासरताः आसन् । ब्रह्मसमाजः सतीप्रथायाः विरोधं करोति स्म । किन्तु धर्मसभा सतीप्रथायाः समर्थनं करोति स्म । राजा राधाकान्त देव इत्याख्यः धर्मसभायः अध्यक्षत्वेन आसीत् । कोलकाता-महानगरस्य बहवः धनिकाः धर्मसभायाः सदस्यतां प्राप्तवन्तः ।

राममोहनः ब्रह्मसमाजस्य सदस्यैः सह मिलित्वा भविष्यत्कालस्य कार्यक्रमाणाम् आयोजनं करोति स्म । समाजः ब्रह्मसमाजस्य सदस्यान् नास्तिकाः इति कथयति स्म । किन्तु राममोहनस्य श्रेष्ठव्यक्तित्वेन एव धर्मसभायाः धनबलस्य, जनबलस्य च प्रभावः अल्पः अभवत् [१६२]

ब्रह्मसमाजः, धर्मसभा इत्येतयोः विषये राममोहनस्य एकः शिष्यः अलिखत् यत् – “ भवानीचरण बन्द्योपाध्याय इत्ययं राजा राधाकान्त देव इत्याख्यस्य अनुचरः आसीत् । सः धर्मसभायाः सचिवः आसीत् ।

सः प्रतिगृहं गच्छन् राममोहनस्य, ब्रह्मसमाजस्य च निन्दां कुर्वन् आसीत् । ये जनाः ब्रह्मसमाजे गच्छन्ति स्म, सः तान् जातेः बहिः निष्कासयति स्म ।

ये ब्रह्मसमाजस्य निन्दां कुर्वन्ति स्म, ते कथयन्ति स्म यत् – “ब्रह्मसमाजे नृत्यानि, गीतानि इत्यादीनि कार्याणि भवन्ति । तत्र सर्वे मिलित्वा एव भोजनं कुर्वन्ति” इति । समाजस्य भागद्वयम् अभवत् । किन्तु अन्ते राममोहनस्य विजयः अभवत् । तदा जनैः राममोहनस्य, ब्रह्मसमाजस्य च भर्त्सना कृता आसीत् । तथापि राममोहनः कदापि चिन्तां न करोति स्म[१६३]

राममोहनस्य इङ्ग्लैण्ड्-देशाय प्रवासः[सम्पादयतु]

१८३० तमस्य वर्षस्य नवम्बर-मासस्य १५ तमे दिनाङ्के राममोहनः इङ्ग्लैण्ड्-देशाय अलबियन्-नामकेन जलयानेन निर्गतः । तेन सह राजाराम, रामरतन मुखोपाध्याय, रामहरिदास च अपि गतवन्तः आसन् । हुगली-महाविद्यालस्य पूर्वप्राचार्येण सदरलैण्ड् इत्याख्येन जलयाने राममोहनस्य दिनचर्यायाः वर्णन कृतं यत् –“ जलयाने राममोहनः स्वस्मै व्यक्तिगतं भोजनं पचति स्म । जलयाने व्यक्तिगतभोजनालस्य व्यवस्था नासीत् । अतः ते प्रारम्भे कष्टम् अनुभवन्ति स्म” [१६४]

राममोहनः तत्रापि संस्कृतग्रन्थानां, हिन्दीग्रन्थानां च अध्ययनं कुर्वन् आसीत् । अतिरिक्तसमये सः सहयात्रिभिः सह उत्साहपूर्वकं वार्तालापम् अपि करोति स्म । जलयानस्य सर्वे यात्रिणः तस्य सम्मानं कुर्वन्ति स्म । सर्वे तस्य सेवां कर्तुम् इच्छन्ति स्म । राममोहनः मुग्धतापूर्वकं समुद्रं पश्यति स्म । सः द्वे गावौ अपि नीतवान् आसीत् [१६५]

तस्य स्वभावः शान्तः आसीत् । जलयाने सर्वेषां वैयक्तिकः प्रकोष्ठः भवति । तत्र राममोहनस्य प्रकोष्ठे तस्य वस्तूनि अपि आसन् । यात्रायां जलप्रवाहेण जलयानं क्षुनति स्म । तेन तस्य वस्तूनि पतन्ति स्म । तथापि सः धैर्येण यात्रां कुर्वन् आसीत् ।

तस्य मनसि एका एव चिन्ता आसीत् यत् – “ जलयानं निश्चितसमये इङ्ग्लैण्ड्-देशं प्राप्नुयात् । स ईस्ट् इण्डिया कम्पनी इत्यास्याः निर्णयात् पूर्वम् इङ्ग्लैण्ड्-देशं प्राप्तुम् इच्छति स्म[१६६]

यदा जलयानम् एकस्मिन् पुलिने समातिष्ठत्, तदा कश्चित्कालं राममोहनः जलयानात् बहिः गत्वा पुलिने भ्रमणं कुर्वन् आसीत् । यदा भ्रमणानन्तरं राममोहनः पुनः जलयाने आरोपणं कुर्वन् आसीत् तदा आरोपणे सति सः अधः पतितवान् । तेन कारणेन तस्य पादे क्षतिः जाता [१६७]

शारीरिकपीडया अपि तस्य सङ्कल्पः अचलः आसीत् । तस्मिन् समये द्वे फ्रान्सीसी-जलयाने स्वतन्त्रतायाः ध्वजेन सह तत्र आगते । सः फ्रान्सीसी-जलयानेन इङ्ग्लैण्ड्-देशं गन्तुम् ऐच्छत् [१६८]

फ्रान्सीसी-जनैः तस्य विशिष्टस्वागतं कृतम् । स्वतन्त्रतायाः ध्वजं दृष्ट्वा सः बहु प्रसन्नः अभवत् [१६९]

सदरलैण्ड् इत्याख्येन लिखितं यत् – “ यदा जलयानम् इङ्ग्लैण्ड्-देशस्य समीपं गच्छत् आसीत्, तदा राममोहनस्य मनसि इङ्ग्लैण्ड्-देशस्य ‘प्रिवी काउन्सिल्’ इत्यस्मिन् विषये चिन्ता आसीत् । राममोहनेन इङ्ग्लैण्ड्-देशस्य वर्तमानस्थितिं ज्ञातुं जलयानस्य चालकः उक्तः यत् – “यत् किमपि जलयानम् इङ्ग्लैण्ड्-देशतः आगच्छेत्, तस्य जलयानस्य यात्रिणम् इङ्ग्लैण्ड्-देशस्य मन्त्रणालस्य कार्यस्थितिविषये पृच्छतु” इति [१७०]

किञ्चित्कालानन्तरम् एकं जलयानम् आगच्छत् । तदा राममोहनः तस्य जलयानस्य यात्रिभिः समाचारपत्राणि प्राप्तवान् । तेन राममोहनः ज्ञानवान् यत् – “इङ्ग्लैण्ड्-देशस्य राजमन्त्री परिवर्तितः” । अर्थात् १८३० तमस्य वर्षस्य नवम्बर-मासे लॉर्ड् ग्रे इत्याख्यः इङ्ग्लैण्ड्-देशस्य प्रधानमन्त्री अभवत् । अनेन सन्देशेन राममोहनः अत्यन्तः प्रसन्नः जातः । लॉर्ड् ग्रे इत्ययं भारताय हितकरः भविष्यति इति राममोहनः जानाति स्म ।

किञ्चिद्दिवसानन्तरं पुनः एकं जलयानं प्राप्तम् । तस्य जलयानस्य जलयात्रिभिः अपि राममोहनः इङ्ग्लैण्ड्-देशस्य सन्देशान् प्राप्तवान् यत् – “ प्रिवी मन्त्रणालये द्वितीयवारं परिवर्तनाय प्रस्तावः प्रस्थापितः । सन्देशं प्राप्य राममोहनः प्रसन्नः अभवत् [१७१]

लिवरपुल-नगरे गमनम्[सम्पादयतु]

अलबियन-जलयानेन १८३१ तमस्य वर्षस्य अप्रैल-मासस्य ८ दिनाङ्के लिवरपुल्-नगरं प्राप्तम् । भारततः इङ्ग्लैण्ड्-देशं प्राप्तुं चत्वारः मासाः त्रयोविंशतिः दिवसाश्च अतिक्रान्त्ताः[१७२] । राममोहनस्य आगमनसन्देशं प्राप्य ‘विलियम् बेथवोन्’ इत्याख्येन राममोहनः स्वगृहे निवासाय आवाहितः । किन्तु राममोहनः स्वतन्त्ररीत्या निवसितुम् इच्छति स्म ।

सः लिवरपुल्-नगरस्य प्रसिद्धे पथिकावासे आतिष्ठत् । तत्र बहवः जनाः राममोहनं मेलितुं गतवन्तः आसन् । तत्रत्यः जलयानकर्मचारी अपि राममोहनाय मेलितुं गतवान् आसीत् । यतः सः यदा कस्मैचित् कार्याय कोलकाता-महानगरं गतवान्, तदा राममोहनस्य ख्यातिं ज्ञात्वा राममोहनस्य निवासस्थानं दृष्टुं गतवान् आसीत् । अतः राममोहनस्य आगमनस्य सन्देशं प्राप्य मेलितुं पथिकावासं गतवान् आसीत् [१७३]

विलियम् रोस्को इत्याख्येन सह मेलनम्[सम्पादयतु]

लिवरपुल्-नगरे विलियम् रोस्को-नामकः प्रसिद्धः इतिहासकारः आसीत् । तेन सह राममोहनस्य मेलनम् अभवत् । विलियम् रोस्को इत्ययं लघुवयसि एव ईसामसीह इत्यस्य उपदेशानाम् सङ्ग्रहं कृतवान् [१७४]। यदा विलियम् रोस्को इत्यनेन राममोहनस्य “द परसेप्ट्स् ऑफ् जीसस्” इति पुस्तकं पठितं, तदा स्वस्य पुस्तकस्य स्मरणम् अभवत् ।

विलियम् रोस्को इत्याख्यः राममोहनस्य कार्येभ्यः प्रभावितः अभवत् । तस्य मनसि राममोहनाय सन्मानः आसीत् । राममोहनेन स्वस्य मेधया ज्ञानस्य, दर्शनस्य च क्षेत्रे बहूनि कार्याणि कृतानि आसन् । तानि कार्याणि विकसितदेशानां विद्वांसः अपि कर्तुम् असमर्थाः आसन् ।

लिवरपुल्-नगरे यः कोऽपि राममोहनं प्राप्यते, सः तस्य विद्वत्तायाः प्रभावितः भवति स्म । यदा विलियम् रोस्को इत्याख्येन सह राममोहनस्य मेलनम् अभवत्, तदा विलियम् रोस्को इत्ययम् अष्टसप्ततिवर्षदेशीयः (७८) आसीत् । तस्मिन्नेव वर्षे विलियम् रोस्को इत्याख्यस्य मृत्युः अभवत् [१७५]

संसदि परिवर्तनस्य प्रस्तावं, भारतविषयकं विवादं च श्रुत्वा राममोहनः लिवरपुल्-नगरतः लण्डन्-नगरं गतवान् । तत्र मन्त्रणालये राममोहनाय विशिष्टासन्द्ः प्रदत्तः ।

उपासनागृहं गमनम्[सम्पादयतु]

राममोहनः प्रतिदिनं प्रायः षड्जनान् मेलितुं बहिर्गच्छति स्म । सः जनैः सह मिलित्वा राजनीतेः, धर्मस्य च चर्चां करोति स्म । सः लिवरपुल्-नगरस्य यूनिटेरियन्-उपासनागृहं गतवान् । तत्र एकः जनः विभिन्नधर्माणां मान्यताविषयकं भाषणं कुर्वन् आसीत् । तस्य उपदेशं श्रुत्वा राममोहनः प्रभावितः जातः [१७६]

कोलकाता-महानगरे टेट्-नामकेन आङ्ग्लजनेन सह राममोहनस्य मित्रता अभवत् । उपासनागृहस्य बहिः टेट् इत्याख्यस्य समाधिः आसीत् । समाधिं दृष्ट्वा राममोहनः दुःखितः जातः । अनन्तरं सः उपासनागृहे उपस्थितैः जनैः सह वार्तालापं कुर्वन् आसीत् ।

राममोहनः धाराप्रवाहेण आङ्ग्लभाषां वदति स्म । अतः राममोहनं दृष्ट्वा सर्वे चकिताः अभवन् । एकहोरानन्तरं राममोहनः ततः गतवान् । सांयकाले राममोहनः त्रितत्त्ववादिनाम् उपासनागृहं गतवान् । रेवरेण्ड् स्कॉरसबी उपासनागृहस्य धर्माचार्यः आसीत् । रेवरेण्ड् स्कॉरसबी इत्याख्यः पुरा जलयाने कर्माचारी आसीत् । अनन्तरं विद्यार्जनेन सः प्रसिद्धः वैज्ञानिकः, धर्माधिकारी च अभवत् । रेवरेण्ड् स्कॉरसबी इत्याख्यस्य भाषणं श्रुत्वा राममोहनः प्रभावितः अभवत् ।

लिवरपुल्-नगरस्य धनिककुटुम्बस्य सम्भ्रान्ताः जनाः एकाग्रतया राममोहनस्य भाषणं श्रुण्वन्ति स्म । लिवरपुल्-नगरस्य जनाः स्वाभाविकतया राममोहनस्य व्यक्तित्वेन प्रभाविताः अभवन् । राममोहनः ईसाई-धर्मम् अपि जानाति स्म । अतः तज्ज्ञानेन अपि जनाः अत्यन्तं प्रभाविताः जाताः [१७७]

लण्डन्-नगरभ्रमणम्[सम्पादयतु]

अप्रैल-मासस्य अन्ते राममोहनः लिवरपुल्-नगरात् लण्डन्-नगरं गन्तुं निर्गतः । सः रेलयानेन गतवान् आसीत् । यात्रायां सः इङ्ग्लैण्ड्-देशं पश्यन् आसीत् । इङ्ग्लैण्ड्-देशस्य समृद्धिं, व्यवसायं, सभ्यतां च दृष्ट्वा राममोहनः आश्चर्यचकितः अभवत् [१७८]। तत्र उच्चभवनानि, विशिष्टमार्गाः, कुल्याः, सेतवः (Bridge) इत्यादयः आसन् । इङ्ग्लैण्ड्-देशं दृष्ट्वा सः भारतस्य दुर्दशां चिन्तयति स्म ।

मानचेस्टर्-नगरभ्रमणम्[सम्पादयतु]

लण्डन्-नगरं गमनसमये राममोहनेन मानचेस्टर्-नगरस्य भ्रमणं कृतम् आसीत् । तत्र बहवः यन्त्रागाराः आसन् । यन्त्रागारान् दृष्ट्वा सः आश्चर्यचकितः जातः । यन्त्रागारेषु कार्यकर्तारः अपि राममोहनस्य आगमनसन्देशं प्राप्तवन्तः ।

भारतदेशस्य राजा आगतवान्” इति ज्ञात्वा सर्वे कार्यकर्तारः राममोहनं मेलितुं समागताः । राममोहनः अपि कार्यकर्तॄन् मिलितवान् । राममोहनेन कार्यकर्तारः उक्ताः यत् – “भवद्भिः अपि परिवर्तनप्रस्तावस्य समर्थनं करणीयम्” इति [१७९]

लण्डन्-नगरे राममोहनः[सम्पादयतु]

रात्रिसमये राममोहनः लण्डन्-नगरं प्राप्तवान् । तत्र एकस्मिन् पथिकावासम् आतिष्ठत् । तस्मिन् पथिकावासे मालिन्यम् आसीत् । अतः तस्मिन् समये एव तेन पथिकावासः त्यक्तः । अनन्तरम् एडेल्फी-नामके पथिकावासे आतिष्ठत् [१८०]

जेटेमी बेनथम् इत्याख्येन सह मेलनम्[सम्पादयतु]

यदा रात्रौ राममोहनः सुप्तः, तदा जेटेमी बेनथम् इत्याख्यः राममोहनं मेलितुं तत्र गतः । जेटेमी बेनथम् इत्याख्यः एकः प्रसिद्धः दार्शनिकः आसीत् । बहुवर्षाणि यावत् सः गृहात् बहिः अपि न गतवान् आसीत् । केवलं गृहस्य उद्याने एव भ्रमणं करोति स्म । किन्तु राममोहनस्य आगमनसन्देशं प्राप्य एव जेटेमी बेनथम् इत्याख्यः पथिकावासं गतः ।

रात्रौ पथिकावासे राममोहनेन सह मेलनं न अभवत् । अतः एकस्मिन् पत्रे स्वस्य नाम लिखित्वा ततः गतवान् आसीत् । तदनन्तरं जेटेमी बेनथम् इत्याख्यस्य राममोहनेन सह मेलनं जातम् [१८१]

पथिकावासे अव्यवस्था आसीत् । अतः राममोहनः अव्यवस्थायाः कारणेन संसदं न प्राप्तवान् । तथापि परिवर्तनप्रस्तावस्य निर्णयः विधेयात्मकः आसीत् । तेन निर्णयेन राममोहनः प्रसन्नः अभवत् [१८२]

प्रसन्ने सति राममोहनः विलियम् बोथबोन् इत्यस्मै एकं पत्रम् अलिखत् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “मया सङ्कल्पः कृतः यत् – यदि अयं प्रस्तावः विधेयात्मकः न भवेत् चेत् अहम् इङ्ग्लैण्ड्-देशात् निर्गमिष्यामि । अनेन प्रस्तावेन इङ्ग्लैण्ड्-देशाय, इङ्ग्लैण्ड्-देशस्य अधीन्ये स्थितेभ्यः देशेभ्यः च लाभः भविष्यति” इति ।

मुख्यैः व्यक्तिभिः सह मेलनम्[सम्पादयतु]

राममोहनः काँश्चन मासान् यावत् लण्डन्-नगरे एव निवासम् अकरोत् । राममोहनस्य आगमनस्य सन्देशं प्राप्य अनेकाः मुख्याः जनाः राममोहनं मेलितुं गतवन्तः । मध्याह्ने ११ वादनतः सांयकाले ४ वादनपर्यन्तं तस्य निवासस्थाने जनानां सम्मर्दः भवति स्म [१८३]

राममोहनस्य उचितव्यवहारेण जनाः आकृष्टाः अभवन् । तस्य ख्यातिः सर्वत्र विस्तृता जाता । किन्तु व्यस्ततायाः कारणेन राममोहनस्य स्वास्थयं प्रभावितं जातम् । चिकित्सकेन अपि उक्तं यत् – “ राममोहनस्य समीपे जनसम्मर्दः मा भवेत् ।

राममोहनस्य राज्ञा सह मेलनम्[सम्पादयतु]

देहली-राज्यस्य राज्ञा राममोहनाय “राजा” इति उपाधिः प्रदत्तः आसीत् । सः उपाधिः इङ्ग्लैण्ड्-सर्वकारेण स्वीकृतः । यदा इङ्ग्लैण्ड्-देशस्य राज्ञः पदाभिषेकनिमित्तं समारोहस्य आयोजनम् अभवत्, तदा अन्यदेशानां दूतैः सह राममोहनः अपि आमन्त्रितः आसीत् [१८४]

यदा लण्डन्-नगरस्य सेतुनिर्माणस्य कार्ये पूर्णे सति इङ्ग्लैण्ड्-देशस्य राज्ञा भोजनसमारोहः कारितः । तस्मिन् भोजनसमारोहे अपि राममोहनः आमन्त्रितः आसीत् ।

ईस्ट् इण्डिया कम्पनी इत्यनया संस्थया राममोहनस्य “राजा” उपाधिः न स्वीकृतः । तथापि तया संस्थया राममोहनाय सम्माननं प्रदर्शितम् । सर् जे. सी हरहाउस् इत्ययं बोर्ड् ऑफ् कण्ट्रोलर् इत्यस्य अध्यक्षः आसीत् । जे. सी हरहाउस् इत्याख्येन एव राममोहनस्य इङ्ग्लैण्ड्-देशस्य राज्ञा सह मेलनं कारितम् आसीत् [१८५]

राममोहनस्य सम्माने भोजनस्य आयोजनम्[सम्पादयतु]

१८३१ तमस्य वर्षस्य जुलाई-मासस्य ६ दिनाङ्के ईस्ट् इण्डिया कम्पनी इत्यनया संस्थया राममोहनं सभाजयितुम् एकः भोजनसमारोहः आयोजितः । तस्याः संस्थायाः अध्यक्षः, उपाध्यक्षश्च समारोहस्य यजमानौ आस्ताम् । विभिन्नक्षेत्राणां मुख्याः जनाः समारोहे आमन्त्रिताः आसन् [१८६]

संस्थायाः अध्यक्षेन स्वस्य भाषणे राममोहनस्य प्रशंसा कृता । भाषणान्ते सः उक्तवान् यत् – “यथा इङ्ग्लैण्ड्-देशे राममोहनस्य स्वागतम् अभवत्, तेन कारणेन अन्ये भारतीयाः अपि इङ्ग्लैण्ड्-देशस्य यात्रायै उत्साहिताः भवेयुः” इति ।

राममोहनः उक्तवान् यत् – “अहं तस्य दिवसस्य प्रतीक्षां करिष्यामि, यदा भारतीयाः इङ्ग्लैण्ड्-देशस्य यात्रां करिष्यन्ति ।

१८३३ तमस्य वर्षस्य नवम्बर-मासे प्रकाशितायाम् एशियाटिक-नामिकायां पत्रिकायाम् उल्लेखः आसीत् यत् – “इङ्ग्लैण्ड्-देशस्य शासकस्य मन्त्रिभिः राममोहनस्य “राजा” इत्युपाधये मान्यता प्रदत्ता आसीत् । अनन्तरं राममोहनः दिल्ली-राज्यस्य राज्ञः प्रतिनिधित्वेन स्वीकृतः [१८७]

सदरलैण्ड् इत्याख्येन लिखितं यत् – “यथा इङ्ग्लैण्ड्-देशे जनैः राममोहनस्य स्वागतं कृतम्, तस्य प्रभावः एङ्ग्लो-इण्डियन्-जनेषु अभवत् । ये जनाः भारत-देशे राममोहनस्य विरोधं कुर्वन्ति स्म, ते अपि राममोहनं मेलितुं व्याकुलाः आसन्” [१८८]

डेविड् हेयर्-राममोहनयोः मित्रता[सम्पादयतु]

डेविड् हेयर्-इत्याख्येन सह राममोहनस्य मित्रता गहना आसीत् । लण्डन्-नगरस्य ‘बेडफोर्ड् स्क्वायर्’ इति क्षेत्रे हेयर् इत्याख्यस्य भ्राता निवसति स्म । डेविड् हेयर्-इत्याख्यस्य सर्वे भ्रातरः राममोहनस्य सेवायां संलग्नाः आसन् । यदा राममोहनः फ्रांस्-देशं गतवान् आसीत्, तदा हेयर् इत्याख्यस्य एकः भ्राता राममोहनस्य सहायकत्वेन सहैव गतः [१८९]

स्वागतसमारोहः[सम्पादयतु]

१८३१ तमस्य वर्षस्य लण्डन्-नगरस्य यूनिटेरियन्-ईसाइजनैः राममोहनस्य सम्माने स्वागतसमारोहस्य आयोजनं कृतम् आसीत् । १८३१ तमस्य वर्षस्य जूनमासे “मन्थली रिपोजिटरी” नामिकायां पत्रिकायां स्वागतसमारोहस्य लेखः प्रकाशितः ।

समारोहस्य अध्यक्षेन उक्तं यत् – “राममोहनस्य व्यक्तित्वेन सम्पूर्णस्य भारतदेशस्य स्थितिः दृश्यते [१९०]

“वेस्ट् मिंस्टर् रिव्यू” इत्यस्य समाचारपत्रस्य सम्पादकः सर् जॉन् बाउटिङ्ग् आसीत् । तेन तस्य समारोहस्य वर्णनं कृतं यत् – “राममोहनेन इङ्ग्लैण्ड्-देशस्य यात्रां कृत्वा साहसं प्रदर्शितम् । यथा रूस्-देशस्य पीटर् नामकः राजा शिक्षणार्थं दक्षिण-यूरोप्-खण्डं गतवान् आसीत्, तथैव राममोहनेन अपि इङ्ग्लैण्ड् आगत्य महत्त्वपूर्णं कार्यं कृतम्” [१९१]

राममोहनेन भारतवासिनां पीडायाः मुक्त्यर्थं, तेषाम् उन्नत्यै च स्वस्य जीवनं समर्पितम् । अमेरिका-देशस्य जनाः अपि राममोहनस्य कार्याणि ज्ञातवन्तः । अमेरिका-वासिनः अपि व्याकुलतया राममोहनस्य आगमनस्य प्रतीक्षां कुर्वन्तः आसन ।

रॉबर्ट् वेन् इत्यनेन सह विवादः[सम्पादयतु]

इङ्ग्लैण्ड्-प्रवासे राममोहनस्य बहुभिः विद्वद्भिः सह चर्चा अभवत् । सर्वे तस्य विचारधारया, मेधयाः च प्रभाविताः अभवन् । एकस्मिन् दिवसे अनैट् इत्याख्येन स्वगृहे भोजनसमारोहस्य आयोजनं कृतम् । तस्मिन् समारोहे अनैट् इत्याख्यः राममोहनं, रॉबर्ट् इत्ययं च आमन्त्रितवान् । रॉबर्ट् इत्याख्यः साम्यवादस्य विचारकः आसीत् । रॉबर्ट् इत्ययम् इङ्ग्लैण्ड्-देशे साम्यवादस्य प्रथमः विचारकः मन्यते स्म ।

रॉबर्ट् इत्याख्यः स्वस्य दर्शनविषये राममोहनम् उद्बोधयितुं प्रयासान् कुर्वन् आसीत् । राममोहनेन शान्तस्वरेण तस्य विचारधारायाः दोषाः उक्ताः । पराजयेण रॉबर्ट् वेन् इत्याख्यः उत्तेजितः अभवत् । किन्तु राममोहनः शान्तः एव आसीत् । अनेन प्रकारेण तयोः विवादः जातः [१९२]

फ्रान्स्-देशस्य यात्रा[सम्पादयतु]

१८३२ तमस्य वर्षस्य शीतर्तौ राममोहनः फ्रांस्-देशस्य यात्रायै गतवान् । हेयर् इत्याख्यस्य भ्राता राममोहनस्य सहायकत्वेन सहैव आसीत् । फ्रान्स्-देशस्य निवासिभिः राममोहनस्य हार्दिकं स्वागतं कृतम् ।

तदा फ्रान्स्-देशस्य राजा लुई फिलिप् इत्याख्यः आसीत् । लुई फिलिप् इत्याख्येन राममोहनः भोजनाय आमन्त्रितः । राममोहनेन भोजने फलानि एव भुक्तानि ।

फ्रान्स्-देशस्य विद्वद्भिः अपि राममोहनस्य विशिष्टं स्वागतं कृतम् । एकस्मिन् पथिकावासे सर् टॉमस् मूर् इत्याख्येन सह राममोहनस्य मेलनम् अभवत् । सर् टॉमस् मूर् फ्रान्स्-देशस्य प्रसिद्धः कविः आसीत् । अतः तेन स्वस्य दैनन्दिन्यां राममोहनस्य मेलनप्रसङ्गस्य विवरणं लिखितम् [१९३]

फ्रान्स्-देशे राममोहनः फ्रान्सीसी-भाषां ज्ञातुं प्रयतमानः आसीत् [१९४]

राममोहनः, इङ्ग्लैण्ड्-देशस्य समाजः च[सम्पादयतु]

१८३३ तमस्य प्रारम्भे राममोहनः इङ्ग्लैण्ड्-देशतः पुनरागतवान्, तदा हेयर् इत्याख्यस्य भ्रातुः गृहे निवसन् आसीत् । राममोहनः इङ्ग्लैण्ड्-देशस्य सम्भ्रान्तजनानं प्रियव्यक्तिः आसीत् । सः सर्वेभ्यः मधुरं व्यवहारं करोति स्म । अतः जनाः तं प्रति आकर्षिताः भवन्ति स्म[१९५]

कुमारी लूसी इत्यनया पत्रे राममोहनस्य गुणानां प्रशन्सा कृता आसीत् यत् – “सर्वैः राममोहनः असाधारणः, प्रतिभासम्पन्नः च मन्यते । तस्य विनम्रव्यवहारः मनोहरः वर्तते । आङ्ग्ल-भाषायाः अपि विशिष्टं ज्ञानं वर्तते । राममोहनः यूरोप्-खण्डस्य राजनैतिकस्थितिम् अपि सम्पूर्णतया जानाति । सः सर्वत्र स्वतन्त्रतायाः, विकासस्य च समर्थनं करोति” इति [१९६]

राममोहनः इङ्ग्लैण्ड्-देशस्य मध्यमवर्गीयेषु जनेषु निवसन् आसीत् । यावत् लण्डन्-नगरे निवसन् आसीत्, तावत् पर्यन्तं सः हेयर् इत्याख्यस्य भ्रातुः गृहे एव निवासं कृतवान् । तस्य एकम् अश्ववाहनम् अपि आसीत् । तस्य सेवायै कर्मचारिद्वयम् आसीत् । राममोहनः मध्यमवर्गीयः इव निवसति स्म । किन्तु तं मेलितुं प्रथमश्रेण्याः जनाः गच्छन्ति स्म ।

राममोहनं मेलितुं ये केचन गच्छन्ति स्म । तेभ्यः राममोहनः उपहारनिमित्तं पुस्तकानि ददाति स्म । एकदा राममोहनेन हिन्दुशास्त्रस्य अनुवादं कृत्वा श्रीमती डब्ल्यू. इत्यस्यै प्रेषितम् । तस्मिन् अनुवादे वेदस्य, उपनिषदः वा केचित् अंशाः आसन् ।

परिवर्तनप्रस्तावस्य विधेयात्मकनिर्णये सति इङ्ग्लैण्ड्-देशस्य विभिन्नाः राजनैतिकसमूहाः राममोहनस्य विरोधं कुर्वन्तः आसन् । अतः राममोहनेन एकस्मिन् पत्रे लिखितं यत् – “अयं विरोधः केवल परिवर्तनसमर्थकस्य नास्ति, अयं तु सम्पूर्णपृथिव्याः जनानां विरोधः वर्तते । अयं न्यायान्याययोः, उचितानुचितयोः च विरोधः वर्तते”[१९७]

ब्रिस्टल्-नगरगमनम्[सम्पादयतु]

तस्मिन् काले इङ्ग्लैण्ड्-देशस्य संसदि भारतस्य राजनीतिविषये चर्चा भवन्ती आसीत् । राममोहनः अपि संसदं गन्तुम् ऐच्छत् । अतः सः १८३३ तमस्य वर्षस्य सितम्बर-मासे ब्रिस्टल्-नगरं प्राप्तवान् आसीत् [१९८]। राममोहनेन सह डेविड् हेयर् इत्याख्यस्य भगिनी अपि गतवती आसीत् । तस्याः नाम कुमारी हेयर् इति ।

अन्ये अपि बहवः सहयोगिनः राममोहनेन सह गतवन्तः आसन् । रामहरिदास, रामरतन मुखोपाध्याय इत्यादयः ।

ब्रिस्टल्-नगरं प्राप्य राममोहनः शान्तिम् अन्वभवत् । यतो हि लण्डन्-नगरे कोलाहलः, जनसम्मर्दस्य आधिक्यं च आसीत् । अतः शान्तवातावरणं प्राप्य सः आनन्दम् अनुभवन् आसीत् । तत्र डॉक्टर् कार्पेण्टर् इत्याख्यः आसीत् । सः उपासनागृहे उपदेशं ददाति स्म । सः राममोहनस्य व्यक्तित्वात् प्रभावितः जातः । राममोहनः अपि प्रतिदिनं कुमारी कार्पेण्टर् इत्याख्यया सह वार्तालापं करोति स्म [१९९]

कुमारी कार्पेण्टर् इत्यनया लिखितं यत् – “ब्रिस्टल्-नगरजनाः राममोहनम् अष्टवर्षेभ्यः प्राक् एव जानन्ति स्म । अष्टवर्षपूर्वं राममोहनः कोलकाता-नगरे एकस्य युनिटेरियन्-उपासनागृहस्य स्थापनां कर्तुं ब्रिस्टल्-नगरस्य उपासनागृहस्य सदस्येभ्यः साहाय्यम् अयाचत । तस्मिन् समये राममोहनस्य सामाजिककार्याणि अपि ब्रिस्टल्-जनाः अजानन् । अतः यदा राममोहनः उपासनागृहं प्राप्तवान् आसीत्, तदा तत्रत्यैः जनैः राममोहनः विशिष्टं स्वागतं कृतम् आसीत् ।

सः कदापि साम्प्रदायिकं बन्धनं न स्वीकरोति स्म । अतः सः अन्येषां चर्चासु अपि गन्तुम् इच्छति स्म ।

तत्र प्रसिद्धः निबन्धलेखकः रेवरेण्ड् जॉन् फोस्टर् आसीत् । सः स्टेपलटन् ग्रोव् इत्यस्य भवनस्य समीपे एव निवसति स्म । राममोहनः अपि स्टेपलटन् ग्रोव् इत्यस्मिन् भवने एव निवसति स्म । पूर्वं फोस्टर् इत्याख्यस्य मनसि राममोहनाय प्रीतिः वा गौरवभावः नासीत् । किन्तु सः अपि राममोहनस्य व्यक्तित्वात् प्रभावितः अभवत् । तदनन्तरं राममोहनं मेलितुं तं भवनं गतवान् ।

सभायाः आयोजनम्[सम्पादयतु]

सितम्बर-मासस्य ११ दिनाङ्के स्टेपलटन् ग्रोव् भवने एकस्याः सभायाः आयोजनं कृतम् आसीत् । तत्र सभायां बहवः विशिष्टाः महानुभावाः सम्मिलिताः अभवन् । सभायां सर्वे राममोहनेन सह वार्तालापं कर्तुं गतवन्तः आसन् । भारतस्य धार्मिकराजनैतिकस्थितीनां, भविष्यत्कालस्य उन्नतेः, भारतीयदर्शनस्य च विषये चर्चा अभवत् । सर्वे विशिष्टमहानुभावाः राममोहनस्य तर्कशक्त्या प्रभाविताः अभवन् । घण्टात्रयं यावत् राममोहनेन जनानां प्रश्नानाम् उत्तराणि प्रदत्तानि आसन् ।

मृत्युः[सम्पादयतु]

१८३३ तमस्य वर्षस्य सितम्बर-मासस्य १९ तमे दिनाङ्के राममोहनः ज्वरेण पीडितः जातः [२००]। समयान्तरे ज्वरः वर्धमानः आसीत् । बहुभिः चिकित्सकैः राममोहनस्य चिकित्सा कृता आसीत् । कुमारी हेयर् इत्याख्यया अहोरात्रं तस्य सेवा कृता । तथापि राममोहनस्य स्वास्थ्ये परिवर्तनं नासीत् ।

१८३३ तमस्य वर्षस्य सितम्बर-मासस्य १९ तमे दिनाङ्के रात्रौ सार्ध-द्विवादने राममोहनस्य मृत्युः अभवत् [२०१]

मृत्योः अनन्तरं १९३३ तमस्य वर्षस्य सितम्बर-मासस्य २८ तमे दिनाङ्के स्टेपलटन् ग्रोव् भवनस्य समीपे एकस्मिन् उद्याने राममोहनस्य अन्त्येष्टिकर्म अभवत् । यतः राममोहनेन उक्तम् आसीत् यत् – “मृत्योः अनन्तरम् ईसाईधर्मानुसारम् अन्तिमसंस्कारः न भवेत्” इति । तस्य पुत्राः पैतृकसम्पत्तेः वञ्चिताः न भवेयुः इति राममोहनस्य इच्छा आसीत् ।

तदनन्तरं राममोहनस्य मित्रं द्वारकानाथ ठाकुर इत्याख्यः यदा इङ्ग्लैण्ड्-देशं गतवान् आसीत्, तदा द्वारकानाथेन आरनोस् वेल् इत्यस्मिन् स्थाने राममोहनस्य समाधिः निर्मापितः आसीत्[२०२]

डॉक्टर् एसलिन् इत्यस्य दैनन्दिनी[सम्पादयतु]

डॉक्टर् एसलिन् इत्याख्यः दैनन्दिनीं लिखति स्म । अतः राममोहनस्य विषये अपि तस्य दैनन्दिन्यां वर्णनम् आसीत् ।

डॉक्टर् एसलिन् इत्याख्येन स्वस्य दैनन्दिन्यां वर्णिताः विषयाः दिनाङ्कानुसारम् अधः लिखिताः सन्ति[२०३]

९ सितम्बर[सम्पादयतु]

स्टेपलटन् ग्रोप्-भवने अहं राममोहनं मिलितवान् । तेन सह वार्तालापं कृतवान् । राममोहनेन स्पष्टतया उक्तं यत् - “ईश्वरेण निर्धारितानि उद्देश्यानि ईसा इत्याख्यस्य जीवने निहितानि आसन्” । राममोहनः ईसा-इत्याख्यस्य दैवत्वं न स्वीकरोति स्म । किन्तु ईसा इत्याख्यस्य जीवनस्य उद्देश्यानि स्वीकरोति स्म ।

११ सितम्बर[सम्पादयतु]

स्टेपलटन्-भवने डॉक्टर् कार्पेण्टर् इत्यनेन सह भोजनं कर्तुं गतवान् आसम् । तत्रैव डॉक्टर् जरार्ड् सिमोन्स्, फोस्टर्, बुस्, पेसवी, स्पेण्ड्ज् इत्यादयः मिलितवन्तः । भोजनसमये राममोहनेन स्वस्य धर्मस्य विषये सर्वे अवबोधिताः ।

१९ सितम्बर[सम्पादयतु]

यदा अहं मम मातरं मेलितुं स्टेपलटन् ग्रोव् भवनं गतवान् आसम्, तदा “राममोहनः ज्वरेण पीडितः आसीत्” इति मया दृष्टम् । तदा मया राममोहनाय ओषधीनां व्यवस्था अपि कृता । तत्र जॉन् हेयर्, कुमारी हेयर् इत्येतौ राममोहनस्य सेवां कुर्वन्तौ आस्ताम् ।

२६ सितम्बर[सम्पादयतु]

कुमारी हेयर् राममोहनस्य सेवायां निरन्तरम् आसीत् । सा रात्रौ त्रिवादने मह्यम् एकं सन्देशं प्रेषितवती आसीत् यत् – “ राममोहनस्य नाडेः गतिः न्यूना भवन्ती अस्ति” इति । अतः सा माम् आवाहितवती | यदा अहं (एसलिन्) भवनं प्राप्तवान्, तदा राममोहनः पक्षाघातेन त्रस्तः आसीत् । तस्य मुखं वक्रं जातम् आसीत् । किञ्चित् समयं यावत् तादृशी स्थितिः एव आसीत् । मध्याह्ने तस्य शरीरम् उष्णम् अभवत् । राममोहनः किमपि खादितुं न शक्नोति स्म । कुमारी, हेयर्, जॉन् हेयर् इत्यादयः अपि राममोहनस्य समीपे एव आसन् [२०४]

२७ सितम्बर[सम्पादयतु]

राममोहनस्य स्थितिः दिनप्रतिदिनं निर्वीर्या भवन्ती आसीत् । राममोहनः श्वासोच्छ्वासे अपि कष्टम् अनुभवन् आसीत् । नाडिगतेः अनुमानम् अपि शक्यं नासीत् । कुमारी हेयर् इत्याख्या दुःखसागरे पतिता आसीत् । राममोहनः तस्याः पितातुल्यः आसीत् । अतः राममोहनस्य स्थितिं दृष्ट्वा सा रुदती आसीत् । रात्रौ सार्धद्विवादने राजा राममोहन राय इत्याख्यः पञ्चत्वम् अवाप[२०५]

अधिकवाचनाय[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 5. ISBN 9789350484098. 
  2. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 5. ISBN 9789350484098. 
  3. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 5. ISBN 9789350484098. 
  4. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 5. ISBN 9789350484098. 
  5. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 62. ISBN 9789350484098. 
  6. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 62. ISBN 9789350484098. 
  7. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 62. ISBN 9789350484098. 
  8. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 5. ISBN 9789350484098. 
  9. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 6. ISBN 9789350484098. 
  10. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 6. ISBN 9789350484098. 
  11. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 6. ISBN 9789350484098. 
  12. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 68. ISBN 9789350484098. 
  13. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  14. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  15. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 20. ISBN 9789350484098. 
  16. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 20. ISBN 9789350484098. 
  17. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 20. ISBN 9789350484098. 
  18. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 72. ISBN 9789350484098. 
  19. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 72. ISBN 9789350484098. 
  20. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 20. ISBN 9789350484098. 
  21. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 21. ISBN 9789350484098. 
  22. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 21. ISBN 9789350484098. 
  23. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 21. ISBN 9789350484098. 
  24. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 21. ISBN 9789350484098. 
  25. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 12. ISBN 9789350484098. 
  26. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 12. ISBN 9789350484098. 
  27. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 13. ISBN 9789350484098. 
  28. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 13. ISBN 9789350484098. 
  29. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 14. ISBN 9789350484098. 
  30. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 14. ISBN 9789350484098. 
  31. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 14. ISBN 9789350484098. 
  32. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 15. ISBN 9789350484098. 
  33. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 14. ISBN 9789350484098. 
  34. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 15. ISBN 9789350484098. 
  35. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 15. ISBN 9789350484098. 
  36. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 15. ISBN 9789350484098. 
  37. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  38. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  39. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  40. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  41. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 16. ISBN 9789350484098. 
  42. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 17. ISBN 9789350484098. 
  43. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 17. ISBN 9789350484098. 
  44. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 17. ISBN 9789350484098. 
  45. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 17. ISBN 9789350484098. 
  46. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 17. ISBN 9789350484098. 
  47. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 18. ISBN 9789350484098. 
  48. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 18. ISBN 9789350484098. 
  49. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 18. ISBN 9789350484098. 
  50. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 18. ISBN 9789350484098. 
  51. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 19. ISBN 9789350484098. 
  52. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 19. ISBN 9789350484098. 
  53. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 20. ISBN 9789350484098. 
  54. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 20. ISBN 9789350484098. 
  55. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 25. ISBN 9789350484098. 
  56. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 25. ISBN 9789350484098. 
  57. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 25. ISBN 9789350484098. 
  58. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 25. ISBN 9789350484098. 
  59. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 26. ISBN 9789350484098. 
  60. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 26. ISBN 9789350484098. 
  61. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 26. ISBN 9789350484098. 
  62. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 26. ISBN 9789350484098. 
  63. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 26. ISBN 9789350484098. 
  64. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 26. ISBN 9789350484098. 
  65. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 27. ISBN 9789350484098. 
  66. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 27. ISBN 9789350484098. 
  67. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 27. ISBN 9789350484098. 
  68. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 27. ISBN 9789350484098. 
  69. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 27. ISBN 9789350484098. 
  70. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 28. ISBN 9789350484098. 
  71. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 28. ISBN 9789350484098. 
  72. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 28. ISBN 9789350484098. 
  73. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 28. ISBN 9789350484098. 
  74. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 29. ISBN 9789350484098. 
  75. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 29. ISBN 9789350484098. 
  76. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 29. ISBN 9789350484098. 
  77. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 30. ISBN 9789350484098. 
  78. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 30. ISBN 9789350484098. 
  79. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 33. ISBN 9789350484098. 
  80. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 33. ISBN 9789350484098. 
  81. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 35. ISBN 9789350484098. 
  82. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 36. ISBN 9789350484098. 
  83. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 36. ISBN 9789350484098. 
  84. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 36. ISBN 9789350484098. 
  85. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 36. ISBN 9789350484098. 
  86. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 37. ISBN 9789350484098. 
  87. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 37. ISBN 9789350484098. 
  88. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 37. ISBN 9789350484098. 
  89. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 38. ISBN 9789350484098. 
  90. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 39. ISBN 9789350484098. 
  91. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 39. ISBN 9789350484098. 
  92. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 40. ISBN 9789350484098. 
  93. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 40. ISBN 9789350484098. 
  94. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 40. ISBN 9789350484098. 
  95. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 41. ISBN 9789350484098. 
  96. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 41. ISBN 9789350484098. 
  97. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 41. ISBN 9789350484098. 
  98. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 42. ISBN 9789350484098. 
  99. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 42. ISBN 9789350484098. 
  100. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 42. ISBN 9789350484098. 
  101. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 43. ISBN 9789350484098. 
  102. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 43. ISBN 9789350484098. 
  103. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 43. ISBN 9789350484098. 
  104. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 43. ISBN 9789350484098. 
  105. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 45. ISBN 9789350484098. 
  106. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 45. ISBN 9789350484098. 
  107. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 46. ISBN 9789350484098. 
  108. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 46. ISBN 9789350484098. 
  109. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 47. ISBN 9789350484098. 
  110. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 47. ISBN 9789350484098. 
  111. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 47. ISBN 9789350484098. 
  112. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 47. ISBN 9789350484098. 
  113. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 48. ISBN 9789350484098. 
  114. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 49. ISBN 9789350484098. 
  115. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 50. ISBN 9789350484098. 
  116. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 50. ISBN 9789350484098. 
  117. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 52. ISBN 9789350484098. 
  118. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 52. ISBN 9789350484098. 
  119. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 53. ISBN 9789350484098. 
  120. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 54. ISBN 9789350484098. 
  121. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 54. ISBN 9789350484098. 
  122. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 55. ISBN 9789350484098. 
  123. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 55. ISBN 9789350484098. 
  124. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 55. ISBN 9789350484098. 
  125. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 56. ISBN 9789350484098. 
  126. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 56. ISBN 9789350484098. 
  127. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 56. ISBN 9789350484098. 
  128. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 57. ISBN 9789350484098. 
  129. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 57. ISBN 9789350484098. 
  130. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 58. ISBN 9789350484098. 
  131. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 58. ISBN 9789350484098. 
  132. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 59. ISBN 9789350484098. 
  133. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 60. ISBN 9789350484098. 
  134. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 60. ISBN 9789350484098. 
  135. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 61. ISBN 9789350484098. 
  136. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 66. ISBN 9789350484098. 
  137. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 67. ISBN 9789350484098. 
  138. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 67. ISBN 9789350484098. 
  139. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 67. ISBN 9789350484098. 
  140. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 72. ISBN 9789350484098. 
  141. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 72. ISBN 9789350484098. 
  142. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 72. ISBN 9789350484098. 
  143. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 72. ISBN 9789350484098. 
  144. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 73. ISBN 9789350484098. 
  145. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 74. ISBN 9789350484098. 
  146. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 74. ISBN 9789350484098. 
  147. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 75. ISBN 9789350484098. 
  148. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 75. ISBN 9789350484098. 
  149. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 75. ISBN 9789350484098. 
  150. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 76. ISBN 9789350484098. 
  151. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 77. ISBN 9789350484098. 
  152. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 93. ISBN 9789350484098. 
  153. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 93. ISBN 9789350484098. 
  154. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 94. ISBN 9789350484098. 
  155. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 95. ISBN 9789350484098. 
  156. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 95. ISBN 9789350484098. 
  157. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 95. ISBN 9789350484098. 
  158. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 95. ISBN 9789350484098. 
  159. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 96. ISBN 9789350484098. 
  160. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 96. ISBN 9789350484098. 
  161. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 96. ISBN 9789350484098. 
  162. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 97. ISBN 9789350484098. 
  163. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 97. ISBN 9789350484098. 
  164. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 98. ISBN 9789350484098. 
  165. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  166. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  167. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  168. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  169. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  170. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  171. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  172. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 99. ISBN 9789350484098. 
  173. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 100. ISBN 9789350484098. 
  174. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 100. ISBN 9789350484098. 
  175. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 100. ISBN 9789350484098. 
  176. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 101. ISBN 9789350484098. 
  177. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 101. ISBN 9789350484098. 
  178. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 101. ISBN 9789350484098. 
  179. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 102. ISBN 9789350484098. 
  180. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 102. ISBN 9789350484098. 
  181. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 102. ISBN 9789350484098. 
  182. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 102. ISBN 9789350484098. 
  183. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 102. ISBN 9789350484098. 
  184. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 103. ISBN 9789350484098. 
  185. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 103. ISBN 9789350484098. 
  186. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 103. ISBN 9789350484098. 
  187. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 104. ISBN 9789350484098. 
  188. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 104. ISBN 9789350484098. 
  189. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 104. ISBN 9789350484098. 
  190. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 105. ISBN 9789350484098. 
  191. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 105. ISBN 9789350484098. 
  192. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 105. ISBN 9789350484098. 
  193. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 106. ISBN 9789350484098. 
  194. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 106. ISBN 9789350484098. 
  195. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 106. ISBN 9789350484098. 
  196. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 107. ISBN 9789350484098. 
  197. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 108. ISBN 9789350484098. 
  198. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 109. ISBN 9789350484098. 
  199. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 111. ISBN 9789350484098. 
  200. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 113. ISBN 9789350484098. 
  201. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 113. ISBN 9789350484098. 
  202. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 118. ISBN 9789350484098. 
  203. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 113. ISBN 9789350484098. 
  204. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 117. ISBN 9789350484098. 
  205. ममता झा (2013). राजा राममोहन राय. प्रभात प्रकाशन. p. 117. ISBN 9789350484098. 
"https://sa.wikipedia.org/w/index.php?title=राजा_राममोहन_राय&oldid=403450" इत्यस्माद् पुनः प्राप्तिः