वसिष्ठस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

वसिष्ठमहर्षिः रघुवंशस्य पट्टपुरोधाऽऽसीत् । ऋषीणां मध्ये तपोनिष्ठत्वेन वसिष्टमहर्षेः वखिस्या महियस्यासीत् । धर्मशास्त्रकारत्वेन च तस्य स्मृतिर्मानवसमाजे सुमहत् पदं लभते । विशेषतः वार्धुषिकाणां (वञ्चकानां) वैश्यानां स्मृतावस्यां भूरिनिन्दा विधीयते । ये वैश्या वाणिज्यम् अन्यायेनोपायेनाचरन्तो जनेभ्यो द्रव्यं गृहणन्ति, तेषां वार्धुषिकाणां हस्ताद् द्रव्यं नादौ क्रीणियादिति वसिष्ठेन भणितम् । तादृशं वञ्चनं भ्रूणहत्यया सह तुल्यं पापमिति च प्रोक्तमस्ति । वसिष्ठप्रणीतायां स्मृतौ धर्मलक्षणम्, धर्माचरणफलम्, आर्यावर्त्तस्य प्रशास्तिः आचारहीनानां निन्दा, तथा गृहस्थानां प्रशंसावर्णनादिकं सर्वं मानवसमाजस्य कृते सर्वथा पालनीयमासीत् । पुनश्च ब्रह्मचारिणां वानप्रस्थिनां यतीनाञ्च जीवनचर्या सुचारुतया निर्णीयते । चिकित्साशास्त्रादारभ्य वेदाध्ययनं यावत् सामाजिक धार्मक-सांस्कुतिकजीवनस्यावश्यकताम् अनुभूय सर्वविधं सदाचरणं तेन साङ्गोपाङ्गतया वर्णितमस्ति । वशिष्ठमहर्षेः धर्मशास्त्रं काले काले यथा जनसमाजस्य आदरं लभते तथा तस्याश्रमस्य कामधेनोः सुरभेश्च भूरि भूरि प्रशंसा पुराणेषु दृश्यते । सुरभिपुत्र्याः नन्दिन्याः कथाप्रसङ्गेऽपि कालिदासप्रणीते रधुवंशमहाकाव्ये मनोरमरीत्या चित्रीयते ।

वसिष्ठस्मृतौ त्रिंशदध्यायाः सन्ति । तत्र प्रथमाध्याये धर्मलक्षणम्, धर्माचरणस्य फलम्, पञ्चमहापातकानि उपपातकविचारः, ब्राह्मादिविवाहाः, ब्राह्मणादिवर्णानामाचाराः, निरुपिताः । ततो द्वितीयाध्याये ब्राह्माणादीनां कर्माणि, पातित्यहेतवः कृषिधर्मनिरुपणम्, वार्घुषिकान्नभक्षणप्रायश्चित्तम् वर्णितम् । ततः तृतीयाध्याये शूद्रधर्माः, आततायिवधविचारः, आचार्यादि लक्षणम् भूमिशुद्धिः, शुद्रसंस्काराश्च प्रतिपादिताः । चतुर्थाध्याये मधुपर्कादिषु पशुहिंसनविचारः शौचाशौशविचारश्च प्रतिपादिताः । पञ्चामाध्याये आत्रेयीधर्माः, षष्ठाध्याये आचारप्राशंसा हीनाचारनिन्दा नद्यादिषु मूत्रपुरीषोत्सर्गनिषेधा दिकं विचारितम् । सप्तमाध्याये ब्रह्मचारिधर्माः, अष्टमे गृहस्थधर्माः नवमे वानप्रस्थधर्माः, दशमे पतिधर्माः, एकादशाध्यायं वैश्वदेवातिथि-सत्कार-श्रद्धादीनां विचारः श्राद्धे भोजनविचारश्च प्रतिपादितः । ततः द्वादशाध्याये स्नातकवतविधिः वस्त्रादिधारणविधिश्च प्रतिपादितः । त्रयोदशाध्याये उपाकर्म, वेदाध्ययनविचारः, अनध्यायविचारः, उपाध्यायाचार्याणां गुरुत्वनिरुपणम्, चतुर्दशाध्याये चिकित्सकादीनाम् अन्नभोजननिषेधविचारः, काकादिस्पृष्टान्न-पर्युषितान्न-शुद्धिविचारः, पञ्चदशाध्याये दत्तकविधिः, षोड्शाध्याये व्यवहारविधिः, साक्षिव्यवस्था सप्तदशेऽध्याये पुत्रीणां प्रशंसा औरसादीनां पुत्राणं लक्षणम्, भ्रातृणां दायविभाग्, प्रकारः, अपुत्र -धनाधिकारिणां क्रयविचारादिकञ्च समुपस्थापितम् । ततोऽष्टादशाध्याये चाण्डालादि प्रतिलोमजाति निरुपणम् । एकोनविंशतितमे राजधर्मः, अदण्डद्ण्डने प्रायश्चित्त- ञ्चोक्तम् ।

प्रच्छन्नपापानाञ्च प्रायश्चित्तम् प्रतिपादितम् ? एकविंशतितमेऽध्याये ब्राह्मणीगमने शूद्रवैश्यक्षत्रीयाणां प्रायश्चित्त्तम्| गोवदाद्यनेक प्रायश्चित्तंच प्रतिपादितम् । द्वर्विशतितमेऽध्याये अयाज्यजाजप्रायश्चित्तम्, त्रयोविंशतितमे ब्रह्मचारिणः स्त्रीगमन प्रायश्चित्त्तम, भ्रुणहत्याप्रयश्चित्तम् कृच्छविधिश्च प्रतिपादिताः । ततः चतुर्विंशानितमे कुच्छ्रातिकुच्छ्रविधिः, पञ्चविंशाध्याये रहस्यप्रयश्चित्तम्, षडविंशाध्याये साधारणपापक्षयोपायविधिश्च सप्तविंशाध्याये वेदाध्ययनप्रशंसा, आहार-शुद्धिश्च प्रतिपादिता । अष्टार्विशंतितमे दूषितस्त्रीणां त्यागः एकोनविंशतितमे दानादिफलम्, त्रिंशत्तमेऽध्याये प्राणाग्निहोत्र विधिश्च प्रतिपादितः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वसिष्ठस्मृतिः&oldid=423204" इत्यस्माद् पुनः प्राप्तिः