सामग्री पर जाएँ

वेङ्कटरामराघवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वेङ्कटरामराघवः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः कामशुद्धिः, प्रतापविजयः, अनार्कली

वेङ्कटरामराघवो विंशतिशतकस्य विश्वविख्यातेषु संस्कृतसाहित्यकारेष्वनन्यो विद्यते । मीनाक्षी-वेङ्कटरामाययरावस्य पितरावास्ताम् । अस्य जन्म २२-८-१९०८ ख्रिष्टाब्दे तञ्जौरजनपदस्य तिरुवायूरनगरे संवृत्तम् । मद्रासस्य प्रेसीडेन्सी-महाविद्यालये महामहोपाध्याय-कुप्पुशास्त्रिणः अनेन सर्वोच्चमध्ययनं कृतम् । ततः १९३५ ईसवीयाब्दे शृङ्गारप्रकाशमधिकृत्य वाचस्पत्युपाधिं (पी-एच० डी०) लब्धवान् । एतदतिरिक्तं 'कविकोकिलः', 'सकलकलाकलापः', 'विद्वत्कवीन्द्रः', 'पद्मभूषणश्च' राघवस्य सामाजिकोपाधयो विलसन्ति । अस्यायुषोऽधिकांशो मद्रासविश्वविद्यालयेऽध्यापने व्यतीतः। अस्य कृतयो यद्यपि संख्यायां न बहव्यस्तथापि तासां काव्यात्मः स्तर उच्चतां भजते।

विभुक्ति-रासलीला-कामशुद्धि प्रेक्षणकत्रयः (विज्जिका, विकटनितम्बा, अवन्तिसुन्दरी च) लक्ष्मीस्वयंवर-पुनरुन्मेष-आषाढस्य प्रथमदिवसेमहाश्वेता-प्रतापरुद्रविजय-अनार्कली-प्रभृतीनि तस्य रूपकाणि वर्तन्ते । श्रीरवीन्द्रनाथठक्कुरस्य वाल्मीकिप्रतिभा-नटी-पूजाभिधानयोः कृत्योरनुवादोऽप्यनेन व्यधायि।

देववन्दी वरदराजः, महीपो मनुनीति चोलः, सर्वधारी, फाल्गुनः, कावेरी, पोडशीस्तुतिः, किं प्रियं कालिदासस्य, श्लिष्टप्रकीर्णम् , कालः कविः, संक्रान्तिमहः, नरेन्द्रो विवेकानन्दः, कविः, ज्ञानी ऋषिः, किमिदं तव कार्मणम्, विश्वभिक्षुस्तवः, शब्दः (नृत्यगीतम्), कामकोटिकार्मणगृहीतमिवान्तरङ्गम् , ब्रह्मपत्रवैवर्तपुराणम् , दम्भविभूतिः, गोपहम्पन्नः स्वराज्यकेतुः, महात्मा इत्येतस्य लघूनि काव्यानि राजन्ते ।

डा० राघवस्य कृतिः ‘‘मुत्तुस्वामिदीक्षितचरितम्’’ उच्चकोटिकं महाकाव्यमस्ति यद् दृष्ट्वा काञ्चीपीठस्य शङ्कराचार्यस्तं कविकोकिल इत्युपाधिना भूषयाञ्चकार । एतदतिरिक्तम् अस्य अनेकाष्टीका निबन्धाश्च सन्ति।

कामशुद्धिः

[सम्पादयतु]

कामशुद्धिरिति कृतिरेकाङ्कं रूपकमस्ति। अस्यां रचनायां भारतीयपरम्पराया योरोपीयनाट्यशास्त्रीयपद्धत्या सह सम्मिश्रणस्य प्रयासो विहितः। अस्य प्रथमोऽभिनयः कालिदासमहोत्सवे सम्पन्नः ।

मानं कुर्वाणा रतिर्जवनिकासविधे तिष्ठति । कामस्तां मिलितुमायाति । रतिस्तमुपालभते - भवतः कार्यजातं दोषसंकुलमस्ति येन भवान् मन्मथ-दर्पक-मदनादीनि दुरभिधानान्यवाप्तवान् । कामोऽब्रवीत्मम प्रसादादेष संसार आनन्दमवाप्नोति । रतिरवोचत् - न खलु स आनन्दः, अपि तु आनन्दाभासः । भवाँस्तु लोकानां कृते उन्मादरूपः। एतस्मिन्नेव समये तत्र मधुस्समायातः । कामस्तमब्रवीत् मया तु देवराजादेशात् विश्वामित्रो रम्भादासोऽस्ति करणीयः । रतिरियं मम दयिता नास्मिन् कर्मणि मत्साहाय्यमाचरिष्यति । त्वमेव तावदिमाःमनुनय । रतिर्मधुमपि भर्त्सयति । तर्हि किं करिष्यति भवतीत्येवं दृष्टा सोवाच अतः परमहं तपस्तप्स्यामीति।

प्रद्युम्नस्य प्रासादे तपोलग्नां रतिमवलोक्य शिवगण इमं वृत्तान्तं शिवाय निवेदयति । रत्यास्तपःप्रभावान् सकलो लोको मन्दकाम आसीत् । शिवस्तस्याः समीपं गत्वा तपस्यन्तीं तां विलोक्य कथयति स्म -

इयं सा, यस्याः तपो मदीयमपि तपो दूरमधःकृत्य मामप्यत्र आचकर्ष इति। रतिः परमज्योतिःस्वरूपं शिवं दृष्ट्वा समाधिं समाप्य तं तुष्टाव -

धर्मेणार्थेन मोक्षेण सामरस्यं दधाति यः।

तादृक्कामस्वरूपाय नमो योगेश्वराय ते।।

ततो रतिः शिवमुवाच - मम पतिरधर्ममार्गमाश्रयते । तस्य सविधे वसान्युताहो तं परित्यजानि ? शिवोऽवदत् - कामस्य सत्पथे समानयनमुचितः पन्थाः । यतो हि लोहान्तरैर्धातुभिश्च दूषितमिति न हेम परित्यक्तव्यम् । किन्तु पाकेन शोधयितव्यम् । यस्मिन् पापे जनः प्रवृत्तः, तत्रैव परां काष्ठां नीत्वां तत्पापं विनाशयितव्यम् । एवमभिधाय शिवः। स्वकीयां योजनामुक्तवान् - अहँस्तावत् तथा चक्रं चालयामि यथा स सद्यो मद्विषमलोचनज्वालादग्धः पूतश्च त्वद्योग्यः सम्पद्येत | अथ च तदानीमेव स मदनुकूलसेवको भविष्यति । तदैव युवयोः सन्तती शमः तुष्टिश्च भविष्यतः। रतिः शिवस्येदृश्या योजनया प्रसन्ना शिवं प्रशशंस ।

प्रतापरुद्रविजयः

[सम्पादयतु]

मुख्यलेखः : प्रतापरुद्रविजयः

प्रतापरुद्रविजयस्यापरं नाम विद्यानाथविडम्बनं वर्तते । विद्यानाथः चतुर्दशशतके ‘प्रतापरुद्रयशोभूषणं' लिलेख । पुस्तकमिदं डा० राघवस्य स्नातकोत्तरपाठ्यक्रमे निर्धारितमासीत् । विद्यानाथस्याहृद्याभिः प्रौढोक्तिभिरुद्विग्नो राघवमहोदयः प्रस्तुतं नाटकं प्रणिनाय ।

प्रतापरुद्रो दिग्विजयाय प्रतिष्ठते । सेनासञ्चाररजसा सूर्य आवृतः । सूर्यस्यावृतत्वाद् मध्याह्नस्य किञ्चिदनन्तरमेव सन्ध्या समापन्ना । ब्राह्मणाः सन्ध्यामुपासितुं, स्त्रियः सायन्तनमण्डनार्थं, पक्षिणो नीडान् उलूकाश्च विहर्तुं युगपदेवाचलन् । मन्दिरस्य बुभुक्षुरुपासकः शीघ्रमेव प्रसादोपलब्धये सायन्तनीं पूजां समापयितुं शिवायतनं प्रातिष्ठत ।

विमुक्तिः

[सम्पादयतु]

मुख्यलेखः : विमुक्तिः

विमुक्तिः प्रहसनकोटिकं रूपकं विद्यते । प्रहसनस्यास्य प्रणयनं १९३१ ईसवीयेऽभवत् । मूलकथायां १९६३ ईसवीयेऽभिनयोचितः परिष्कारः कृतः । अस्य विमुक्तिरिति नाभ प्रकृतिपाशात् पुरुषविमोक्षणस्य द्योतकं वर्तते । अस्य प्रथमाभिनयः १९६३ ईसवीयेऽभूत् ।

रासलीला

[सम्पादयतु]

रासलीला प्रेक्षणककोटिका कृतिरस्ति । प्रेक्षणकस्य तात्पर्यं संगीतिकेति विद्यते यथा आंग्लभाषायाम् “आपेरा” इति । अस्याः प्रणयनं मद्रासस्य आकाशवाण्यर्थं विहितम् । श्रीमद्भागवतस्य दशमस्कन्धीयायां कथायाम् उपजीविता । कविना यथास्थानं साङ्गीतिकगद्यांशेषु स्वरचितैः पद्यैः सह भागवतस्य श्लोका ग्रथिताः । अस्यां चत्वारि प्रेक्षणकानि सन्ति । रासलीलायाः प्रकाशनं १९४५ ईसवीयाब्दे अमृतावाणीपत्रिकायामभूत्।

कथावस्तु

[सम्पादयतु]

शरदृतुचन्द्रिकायां नन्दनन्दनो वनविहारमैच्छत् । तदर्थं स कामवर्धनरागमाश्रित्य वेणुं वादयामास । श्रुत्वैव गोपिकाः समापतन् । उत्सुकास्ताः कृष्णेनाभिहिताः किं वः प्रियं करवाणीति ? प्रथमा गोपिकाब्रवीत् -

भक्ता भजस्व दुरवग्रहं मा त्यजास्मान्।

देवो यथादिपुरुषो भजते मुमुक्षन्।।

तासां मतमास्थाय कृष्णो यमुनातटे ताभिर्विहारमकरोत्। द्वितीये प्रेक्षणके कयाचिद् गोपिकयोक्तम् - भवान् वेणुं वादयतु । वयं भवन्तं वनमालयालंकुर्मः । कृष्णो यमुनाकल्याणीरागम् आश्रित्य वेणुमवादयत् । अथ स वनमालया गोपीभिः समलंकृतः । कृष्णेनोक्तं - भवतीनां सर्वासाम् आत्ममालाम् अहं हृदयेन धारयामि । ततो रासमण्डले स सर्वाभिः सह ननर्त ।

तृतीये प्रेक्षणके कृष्णस्तासामहङ्कारस्य निरासायान्तर्दधे । गोप्यः साल-तमालादीन् कृष्णप्रवृत्तिं पृष्टवत्यः । काचित् कृष्णमयी भूत्वा कालियदहनलीलामभिनिनाय । कृष्णो मया विहृत्यैकाकिन्या मामिह विहाय क्वचिद् गत इत्यपरा जगाद। चतुर्थे प्रेक्षणके यमुनातटे गोपिकाः तम् अन्वेष्टुम् अगच्छन् । कृष्णलीलां गायन्त्यस्ताः तमन्विष्यन्ति स्म । कृष्णमनुपलभ्य सुस्वरं रुरुदुः। अन्ततो भगवान् कृष्णः पुनः प्रादुरभूत् । ततस्तु -

अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना।

इत्थमाकल्पिते गोपिकामण्डले सज्जगौ वेणुना देवकीनन्दनः।।

विजयाङ्का

[सम्पादयतु]

विजयाङ्कापि प्रेक्षणकमस्ति । अस्या अभिनयो मद्रासस्य "क्वीन्स । मेरी-कालेज-संस्कृत-एकेडेमी"-द्वारा मद्रासस्याकाशवाण्या च सम्पन्नः।

विजयाङ्का नाम कवयित्री बभूव । राजशेखरानुसारं सा कालिदासः समकक्षासीत् । विजयाङ्का दक्षिणभारतस्य कर्णाटकराज्यस्य प्रशास्तुः महाराजचन्द्रादित्यस्य पत्नी, पुल्केशि-द्वितीयस्य च वधूरासीत् । अस्याः जन्म सप्तमशतकस्योत्तरार्धेऽभवत् ।

कथावस्तु

[सम्पादयतु]

चन्द्रादित्यप्रासादस्य सरस्वतीमन्दिरे राजकविः किमपि पठन्नासीत् । सम्राट् चन्द्रादित्यस्तं कविसम्राडिति सम्बोध्य प्रणनाम । कविरवोचत् - काञ्चीराज्यस्य पल्लवेश्वरस्य राजकविः दण्डी काव्यादर्शं विरचय्य समीक्षार्थं स्वकीयं ग्रन्थमस्माकं समीपे प्रैषयत् । तं साम्राज्ञ्या सह द्रष्टुमिच्छामि। तदानीमेव विजयाङ्का समागच्छत् । तस्याः पुरतः काव्यादर्शस्य मङ्गलश्लोको निपठितः -

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम

मानसे रमतां नित्यं सर्वशुक्ला सरस्वती इति।।

श्लोकं श्रुत्वा विजयाङ्का अब्रवीत् - अस्मिंस्तु प्रत्यक्षः दोषः । यथा -

नीलोत्पलदलश्यामां विज्जकां मामजानता।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती।।

अथ च धान्यकण्डनं विदधतीनां स्त्रीणामुपरि पूर्वेद्युरचितां स्वां रचनां श्रावयमास -

विलासमसृणोल्लसन्मुसललोलदोः कन्दली-

परस्परपरिस्खलद्वलयनिःस्वनोद्दन्तुराः।

लसन्ति कलहुङ्कृतिप्रसभ कम्पितोरःस्थलः

त्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः।।

आचार्य-कवेः दण्डिनः प्रशंसामुपश्रुत्य विजयाङ्का सविनयम् ब्रवीत् -

कवेरभिप्रायमशब्दगोचरं स्फुरन्तमाद्रेषु पदेषु केवलम्।

वहद्भिरङ्गैः कृतरोमविक्रियैर्जनस्य तूष्णीं भवतोऽयमञ्जलिः।।

विकटनितम्बा

[सम्पादयतु]

डा० राघवविरचितायां प्रेक्षणकत्रय्यां विकटनितम्बाप्यस्ति । विकटनितम्बा स्वयं तु उच्चकोटिका कवयित्री आसीत् । परं तु तस्याः पतिर्निरक्षर आसीत् । कवयित्र्या गुरुः सुप्रसिद्ध आचार्यो गोविन्द-स्वामी बभूव । विकटनितम्बायाः कोऽपि ग्रन्थो नोपलभ्यते । सूक्ति-संग्रहेषु, अलद्वारशास्त्रसम्बद्धग्रन्थेषु च तस्याः कतिपयानि पद्यान्युपलभ्यन्ते ।

कथावस्तु

[सम्पादयतु]

विकटनितम्बा किमपि तस्या लेखकं लेखयन्ती आसीत् । तदानीमेव तस्याः आचार्यस्तत्रागतः । आचार्यः सद्यः कृतं तस्याः श्लोकं श्रोतुमैच्छत् । तस्याः सखी वाचयामास -

क्व प्रस्थितासि करभोरु ! घने निशीथे ?

प्राणाधिको वसति यत्र मनःप्रियो मे ।

एकाकिनी वद कथं न बिभेषि बाले !

नन्वस्ति पुंखितशरो मदनः सहायः ।।

विकटनितम्बायाः प्राकृतभाषाभाषिणं पतिं तस्याः सख्यः उपहसन्ति स्म । कवयित्र्याः पतिः संस्कृतोच्चारणं सायासमपि कर्तुं नाशक्नोत् । तदा तस्याः काचन सखी वक्ति स्म -

काले माषं सस्ये मासं वदति एकाशं यश्च शकाशम्।

उष्ट्रे लुम्पति रं वा षं वा तस्मै दत्ता विकटनितम्बा।।

अवन्तिसुन्दरी

[सम्पादयतु]

अवन्तिसुन्दरी नाम प्रेक्षणकं महाकविराजशेखरपत्नीविरचितान् श्लोकान् समाश्रित्य कृतं वर्तते ।

कथावस्तु

[सम्पादयतु]

एकदा राजशेखरः अवन्तिसुन्दरीमेकस्य पुस्तकस्याध्ययने निमग्नां ददर्श । कस्येयं कृतिरिति पृष्टौ अन्तिसुन्दरी कविरत्नाकरस्य इत्युवाच । कोऽसौ कविरत्नाकरः ? इति राजशेखरेण पृष्टोत्तरं ददौ – "बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः।" ततो राजशेखरः स्वकीयामभिनवां कृतिम् अवन्तिसुन्दर्यं प्रदर्शयन्नुवाच - कर्पूरमञ्जरीनामधेयं सट्टकमस्माभिस्त्वदर्थमेव प्रणीतम् । अवन्तिसुन्दर्युवाच - तर्हि सट्टकस्यास्याभिनयोऽपि भवेत् । महाकविः भरताचार्यं संदिदेश -

चाहमानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी।

भर्तुः कृतिमवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति।।

अथ राजशेखरम् अवन्तिसुन्दरी पृष्टवती - इतश्च किं लिखितम् ? महाकविरवोचत्-काव्यमीमांसेयमलङ्कारशास्त्रग्रन्थः । अस्यां कृतौ विविधानामलङ्कारशास्त्रिणां मतानां पर्यालोचनं कृतम् । अत्र तव सूक्ष्मदृष्ट्या कतिपयस्थलेषु विवेचनमिच्छामि । कवयित्री जगाद - जनाः कथयिष्यन्ति यद्, राजशेखरेण प्रेमावेशवशात् स्वपत्न्याः मतमत्र निक्षिप्तम् । राजशेखरोऽब्रवीत्तव मतानां सारगर्भितया अपवादोऽयं प्रक्षालितो भविष्यति । त्वया तावदुच्यतां यत् काव्ये कविवाणी-विषयकः पाकः कतमो नाम ? अवन्तिसुन्दरी उत्तरं ददौ -

गुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः।

स्वदते सुधियां येन वाक्यपाकः स मां प्रति।।

सति वक्तरि सत्यर्थे शब्दे सति रसे सति

अस्ति तन्न विना येन परिस्रवति वाङ्मधु ।।

लक्ष्मीस्वयंवरम्

[सम्पादयतु]

लक्ष्मीस्वयंवरप्रेक्षणके लक्ष्याः सुप्रसिद्ध पौराणिकमाख्यानं चर्चितम् । १९५९ ईसवीये लक्ष्मीव्रतस्यावसरे मद्रासस्याकाशवाणीकेन्द्रादस्य प्रसारणमभूत् ।

कथावस्तु

[सम्पादयतु]

दानवैः पराभूताः देवाः विष्णोः परामर्शानुसारं दानवैः सह सन्धिं विधाय समुद्रम् अमथ्नन् । तत्र प्रथमं विषमुदतिष्ठत् , यच्छिवो जग्राह । ततश्चन्द्रोऽलभत, यो विषग्रहणनिष्कृतिरूपेण शिवाय समर्पितः । अथ कामधेनुं ऋषयोऽगृह्णन् । गजेन्द्रम् ऐरावतम् इन्द्रोऽग्रहीत । कौस्तुभमणिदितिजैः कमठीभूय मन्दरधारिणे विष्णवे समर्पितः । ततो लक्ष्मीं दृष्ट्वा दैत्येन्द्र उवाच - एतवधि न किमपि गृहीतमस्माभिः । इयमस्माभिः ग्रहणीया । तदानीमेव वारुणी दृष्टा, यामसुराः श्रान्तिविगमनाय गृहीत्वा, लक्ष्मीं विहाय गतवन्तः । ततो देवैर्लक्ष्म्या अभिषेकः कृतः । अथ च तस्यै अवसरः प्रदत्तो यत् सा यं कमपि देवं स्वयं वृणोतु । लक्ष्मीः समेषां गुण-दोषाणां समीक्षणं कृतवती । अन्ततो देवर्षीणां सङ्केतेन सा विष्णुमवृणोत् । यथा -

तस्यांसदेश आधाय स्वयंवरणमालिकाम्।

कौस्तुभोद्भासि तद्वक्षश्चकार स्वं निवेशनम्॥

अन्ते धन्वन्तरिः कलशं दधानो निःसरति स्म । दैत्यास्तं जह्रुः। तदा लक्ष्मीर्मोहिनीरूपं गृहीतवती । सा दैत्यान् लोलुपदृशावलोकयतो वीक्ष्याब्रवीत - भवदर्थमेवागतास्मि दैत्यास्तस्या विश्वासभाजनं भवितममृतकलशं तद्धस्ते ददुः । सामृतं देवेभ्यो व्यतरत्।

विशेषम्

[सम्पादयतु]

प्रेक्षणकेषु नान्दी-प्रस्तावनयोः प्रयोगो न विहितः । भरतवाक्यं सर्वेषु प्रेक्षणकेषु विलसति । निवेदकरूपेण पौराणिक-गाथिकोरुपयोगो राघवमहोदयेन कृतः । रासलीलायां गाथिकोऽस्ति । लक्ष्मीस्वयंवरे च पौराणिको विद्यते ।

पुनरुन्मेषः

[सम्पादयतु]

पुनरुन्मेषाभिधाने प्रेक्षणके अभिनवविधायाः प्रयोगो विद्यते । अस्याभिनयः १९६० ख्रिष्टाब्दे नवदेहल्यां ग्रीष्मनाटकोत्सवे मालविकाग्निमित्रस्य प्रयोगानन्तरमभवत्।

कथावस्तु

[सम्पादयतु]

भारतीयसंस्कृतेः अतीतगौरवस्य चोपासकः कश्चिद् अनुसन्धाता दक्षिणभारतस्य विद्यारामाभिधानं ग्राममगच्छत् । ग्रामस्य गलितश्रीकामवस्थाम् अवलोक्य स सन्देहशीलोऽभवत् । तेन चिन्तितं किमसावेव स ग्रामो यस्यान्वेषणेऽहमागतः । ग्रामस्य कोऽपि जनस्तेन दृष्टः । स पृष्टः सन्नुवाच-ग्रामेऽस्मिन् वेदघोषः, शास्त्रचर्चा, काव्यव्यापारश्च स्वप्नायिताः । अत्राहमेक एव साक्षरः । मदन्यो यदि साक्षरः कश्चन भविष्यति, तर्हि स जीविकार्थं नगरं गतो भवेत् । भवानपि विचित्र एवं योऽनुसन्धानमधिकृत्य ग्राममागतः । अस्मिन् ग्रामे ममावसाने कोऽपि शास्त्राभ्यासी नावशिष्टो भविष्यति । मम पुत्रो नगरनिवासी सञ्जातः । तस्मै पत्रं लिखामि यन्मम गेहे ये तालपत्रलिखिताः असंख्याः ग्रन्थाः सन्ति, तान् विदेशान् प्रति प्राचीनवस्तु क्रीत्वा प्रेषकेभ्यो विक्रीणीहि। ये च जीर्णाः ग्रन्थाः अवशिष्यन्ते तान् नद्यां प्रक्षेप्तुं यामि, अन्यथा पत्नी मे इन्धनाभावे तान् ज्वालयिष्यति । आगन्तुकस्तान् जीर्णग्रन्थान् द्रष्टुमैच्छत् । अथ तान् अमूल्यान् अवलोक्य अध्ययनाय गृहीतवान् ।

अथ स अनुसन्धाता कंचन संगीतज्ञमपश्यत्, यो लेखपाल-कर्मनिरतोऽविद्यत । स आत्मनः कौलिककथां कथयामास - अस्माकं पूर्वजास्तु राजभिः प्राप्तसम्मानाः संगीताचार्याः अभवन् । राजभिः समं तद्विद्यायाः सम्मानोऽपि गतः । अहमपि वीणां विहाय हस्ते लेखनीमगृहम् । ततः स धूलधूसरितां वीणामदर्शयत् । अहं संगीतसम्प्रदायस्य अन्तिमः प्ररोहोऽस्मीति चाकथयत् । कलासाधनायाः महतीयं क्षतिरिति आगन्तुकेन समर्थितम् । स्वतन्त्रे भारते संगीतविद्यायाः अभ्युत्थानं भवितेति समाश्वासयाम्बभूव | अहं भवतः सर्वविधं साहाय्यम् आचरिष्यामि । भवान् वंशपरम्परागतां स्वकीयां कौलिकविद्याम् अजराममराञ्च विदधातु। तदनन्तरमागन्तुको देवालयम् अपश्यत्, यस्य कुड्येषु गव्योपलनिर्माणाच्चोलवंश्या उत्कीर्णलेखाः विनष्टप्रायाः अभवन् । यदा स यथाकथञ्चिल्लेखं पठन्नासीत्तदैव तेन कश्चिचौरोऽवलोकितः । चौरो प्राचीनां मूर्तिम् उत्पाट्य विदेशप्रेषणव्यापारं करोति स्म । आगन्तुकस्तं घर्षयामास, तस्य च जीविकायै कस्यचित् स्वच्छव्यापारस्य व्यवस्थां कृतवान्। ततोऽग्रे देवालयस्य नातिदूरे काचिज्जरती स्वां सुन्दरीं कन्यां क्रोशन्तींदृष्टा । तयोर्वार्तालापं श्रुत्वा स ज्ञातवान् यत्साभिरामा कन्या भोजनाभावात् दुःखितासीत् । तस्या जरती जननी तां नगरे नीत्वा विलासिनामङ्कशायिनीं विधाय समृद्धं जीवनं यापयितुमिच्छति स्म । कन्या च तस्मिन्नेव ग्रामे उषित्वा कौलिकनृत्याभिनयं शिक्षितुं वाञ्छति स्म । आगन्तुकोऽब्रवीत् - कन्यायाः समुचितशिक्षायै योग्याचार्यस्यात्रैव व्यवस्थां करोति । अन्ते सर्वे मिलित्वागायन् -

देवि भारतजननि जगति पुराण्यथापि च नूतना।

देवि भारतजननि मङ्गलदायिकेऽम्ब नमोऽस्तु ते।।

आषाढस्य प्रथमदिवसे

[सम्पादयतु]

प्रस्तुते प्रेक्षणके यक्ष-कालिदासयोः रामगिरी सङ्गतेः काल्पनिकी कथा पल्लवितास्ति । अस्य प्रसारणं मद्रासस्याकाशवाणीकेन्द्रतोऽभवत् ।

कथावस्तु

[सम्पादयतु]

कालिदास एकस्मिन् पर्वते भ्रमन् यक्षमपश्यत् । यक्षेण सह वार्तालापे जायमाने महाकविना ज्ञातं यदयं पर्वतो रामगिरिनामा वर्तते । कालिदासेन चिन्तितं - तर्हि गिरावस्मिन् रामचरणचिह्नानि दृष्ट्वा जीवनं कृतार्थयामि । ततो यक्षः कालिदासश्च परस्परं प्रवासस्य कथां कथयामासतु कथमिवेमां वर्षां गमयिष्यामीति स्वचिन्तामधीरो यक्षः प्रकटयाचक्रे । तदानीमेव कालिदासः करिकलभोपमं मेधं तस्मै गिरिसानौ दर्शयाम्बभूव । यक्षस्तमवलोक्य उन्मत्तः इव बभाषे - “अयि मेघ, एष कोऽपि दूरबन्धुरर्थी प्रणमति |...... तत्र मत्कुशलमयी प्रवृत्तिमन्तरा नोपायमन्यं प्रेक्षे, न च भवतोऽन्यं तत्सन्देशहारकम् तच्छुत्वा । कालिदासोऽब्रवीत्।

कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ।।

महाश्वेता

[सम्पादयतु]

महाश्वेताप्रेक्षणकस्य प्रसारणं मद्रासस्याकाशवाणीकेन्द्रदभूत् ।

कथावस्तु

[सम्पादयतु]

महाश्वेता शिवं स्तौति स्म | आराधनाकाले तस्याः वीणावादनं श्रुत्वा चन्द्रापीडः परां निवृतिमुपलभ्य विस्मयसागरे निममज्ज | स महाश्वेतायाः प्रत्येकाम् प्रवृत्तिमनन्यां व्यलोकयत् । अथ महाश्वेता चन्द्रापीडस्य महानुभावतां वीक्ष्य तस्यातिथ्यं चकार । ततो राजकुमारस्याग्रहवशंवदा स्वकीयं कारुणिकं वृत्तांतं श्रावयामास ।

अनार्कली

[सम्पादयतु]
मुख्यलेखः : अनार्कली

अनार्कली-प्रकरणं डा० राघवस्य प्रारम्भिकरचनासु विद्यते । अस्य रूपकस्य प्रणयनं १९३९ ईसवीयेऽभिनयश्च १९६९ ईसवीये १९७३ ईसवीये च संवृत्तः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

महाराणा प्रताप

अकबरः

उद्धरणम्

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=वेङ्कटरामराघवः&oldid=436314" इत्यस्माद् प्रतिप्राप्तम्