शातातपस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अस्यां शातातपस्मृतावादितोऽन्तं यावत् प्रायश्चित्त-विषये वर्णना जायते । शातातपेन प्रमाणीक्रियते यत् मनुष्यस्य पूर्वजन्मनि कृतानां कर्मणां फलरुपेण व्याधय उत्पद्यन्ते । तेषां रोगाणां निराकरणायोपायस्वरुपं प्रायश्चित्तमवश्यं करणीयम्, तेनैव रोगाणामुपशमो भवतीति शातातपः प्राह । कृष्ठम्, राजयक्ष्मा, प्रमेहः, संग्रहणी, कासः, अतिसारः, भगन्धरः, दुष्टव्ररम्, पक्षाधातः, तथा नेत्रहीनतादयो रोगाः पूर्वजन्मनि कृतानां महापातकानां फलरुपा भवन्ति । तथा जलोदरम्, यकृत्, शूलरोगः, श्वासः, अजीर्णम्, ज्वरः, भ्रमः, रक्तार्वुदः तथा मोहप्रभृतयो व्याधय उपपापानां फलस्वरुपा भवन्ति । अत एवैतेषां रोगाणां निराकरणाय प्रायश्चित्तविधानेनावश्यम्, उपशाम्यन्तीनि शातातपेन विस्तरेण वर्णितमस्ति ।

अत एवैतेन स्पष्टं कथ्यते यत् मनुष्यस्य रोगास्त्रिविधा भवन्ति । यथा शारीरिका, मानसिकाः, जन्मजाश्च् । आद्यौ द्वौ वैद्यचिकित्सया साध्यौ भवतः, किन्तु अन्तिमः प्रायश्चित्तम् अपेक्षते । मनुष्यस्य कृत्येन (कर्मणा) सुफलं कुफलं च प्रमाणीभवतः । अतः प्रायश्चित्तव्यवस्थाद्वारा जन्मजाः व्याधयस्तथा कतिशो व्याधय इहजन्मकृतानां कर्मणां फलरुपा व्याधयः पीडाश्च नूनम् उपशाम्यन्तीति सविस्तरं वर्णितं शाततपेनेति बोध्यम्। शातातपस्मृतौ षडध्यायाः सन्ति । तत्र प्रथमाध्याये पूर्वजन्मकृत-प्रायश्चित्तानां चिहनानि वर्णितानि । द्वितीयाध्याये कुष्ठनिवारणप्रयोगाः, ब्राह्मणस्य महत्त्वम्, सामवेदस्य पारायणेन सर्वपापप्रायश्चित्तम्, गोवध-प्रायश्चित्तादिकं ह्न्तृकफलनाशोपायाश्च प्रतिपादिताः । ततस्तृतीयाध्याये प्रकीर्णरोगाणां प्रायश्चित्तम्, चतुर्थाध्याये कुलध्वंसकस्य स्तेयस्य च प्रायश्चित्तं प्रतिपादितम् । ततः पञ्चमाध्यायेऽगम्यागमन-प्रायश्चित्तं, षष्ठाध्याये चानुचितव्यवहाराणां फलानि प्रतिपादितानि । अंते च शातातपेन प्रायश्चितस्य महत्त्व्-विषये लिखितम् यत् -

प्रायश्चित्तविहीनानां महापातकिनां नृणाम् ।
नरकान्ते भवेज्जन्म चिह्नाङ्कित-शरीरिणाम् ॥
इति शाततपोक्तोऽवश्यं विपाकः कर्मणामयम् ।
शिष्याय शरभङ्गाय विनयात् परिपृच्छयते ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शातातपस्मृतिः&oldid=423209" इत्यस्माद् पुनः प्राप्तिः