चाणक्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Chanakya इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
चाणक्यः
पूर्णनाम आचार्यविष्णुगुप्तः
जन्म 370 BC
जन्मस्थलम् पाटलीपुत्रम् (पाट्ना)
मरणम् 283 BC (aged 87)

चाणक्यः(Chanakya) (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।

जीवनचरितम्[सम्पादयतु]

चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

इतिहासः[सम्पादयतु]

प्राचीनकाले भारतवर्षे मगधजनपदे नन्दवंशमिति एकं साम्राज्यम् आसीत् । मगधसाम्राज्यस्य राजधानी पाटलिपुत्रम् आसीत् । अस्मिन् साम्राज्ये बुद्धिमन्तः मन्त्रिण:, कर्तव्यनिष्ठा: कर्मचारिण:, गुणवन्त: पन्डिता:, शक्तिमन्त: सैनिका: च आसन्। नगरस्य वैभवम् अत्युत्कृष्टम् आसीत् । राज्ये उत्तमं कृषिकार्यं प्रचलति स्म । अन्त: नागरिका: धनिका: आसन् । शिक्षणव्यवस्था अपि अत्युत्क्रष्टा आसीत् । अस्मिन् एव राज्ये विश्वप्रसिद्ध: नलन्दाविश्वविद्यालय: आसीत् । राज्ये बहूनि वर्षाणि यावत् शासन्व्यवस्था उत्तमरीत्या प्राचलत् । अनन्तरं नन्दवंशे समुत्पन्न: धननन्द: राजा अभवत् । स: परमस्वार्थी इन्द्रियासक्तः च आसीत् । राज्यकार्ये तस्य रुचि: न आसीत् । अतः एव मगधराज्यं समस्याग्रस्तं जातम् । तस्मात् सर्वे नागरिका: चिन्ताग्रस्तः अभवन् ।

पाटलिपुत्रे बुद्धिमान् सदगुणसम्पन्न: राष्ट्रभक्त: सर्वशास्त्रपारङ्गत: चाणक्य: अपि वसति स्म। सर्वे राष्ट्रभक्ता: चाणक्येन सह परामर्शं कृतवन्त:। चाणक्य: धननन्दं बोधयितुं तस्य सकाशं गतवान्, किन्तु धननन्द: कुपितः जात:, स: चाणक्यस्य कृते अपमानमपि कृतवान् । तदानीं परमसात्विक: चाणक्य: नन्दसाम्राज्यं विनाशायितुं प्रति कृतवान् । स: एकं धीरं शास्त्रनिपुणं वीरं युवानं दृष्टवान् । तस्य नाम 'चन्द्रगुप्त:' इति । चाणक्य: चन्द्रगुप्ते अद्भुतं सामर्थ्यं दृष्टवान्। अतः एव चाण्क्य: स्वबुद्धिकौशल्येन दुष्टात् धननन्दात् राज्याधिकारं हित्त्वा नन्दवशं समूलं विनाश्य चन्द्रगुप्ताय मगधरज्यं दत्तवान् । स्वयं चाणक्य: तस्य महामात्य: अभवत् । चन्द्रगुप्तस्य पराक्रमेण चाणक्यस्य बुद्धिकौशलेन च मगधराज्यं पुनरपि सुखसमृद्धियुक्तम् अभवत् । चाण्क्यस्य मूलनाम "विष्णुगुप्तः" इति आसीत् । स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम 'कौटिल्य:' इत्यपि आसीत् । चाणक्यस्य जन्म ख्रीस्तपूर्वतृतीयशताब्दे अभवत् । स: स्वयं राजनीतिज्ञ: आसीत् । अतः एव राजनीतिशास्त्रं, धर्मशास्त्रं, विधिशास्त्रम्, अर्थशास्त्रं च अधिकृत्य 'अर्थशास्त्रम्' इति ग्रन्थस्य रचनां कृतवान् । अर्थशास्त्रे राजनीतिविषयकानि सूत्राणि सन्ति। चाणक्येन अर्थशास्त्रे पराशर-बृहस्पति-भारद्वाज-मनु-पिशुन-विशालक्ष-आदीनां स्वपूर्ववर्तिनाम् अर्थशास्त्रविदुषाम् अपि उल्लेख: कृत: चाणक्यात् अर्थशास्त्रपरम्परायां ’कामन्दकीय-नीतिसार:’ महत्वपूर्ण: ग्रन्थ: अस्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चाणक्यः&oldid=433943" इत्यस्माद् पुनः प्राप्तिः