मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Main Page इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
संस्कृतविकिपीडिया
स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,२०४ लेखाः सन्ति ।

गुरुवासरः, जनवरी १९, २०१७; समयः- ००:२७ UTC


विषयसर्वस्वम् * स्वशिक्षा * लेखनसाहाय्यम्


वसुधा

तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥
समग्रं ब्रह्माण्डं तस्मिन् विद्यते । -यजुर्वेदः ३१-१९



शास्त्रीयलेखः

भगवान् बुद्धः

भारतीयदर्शनशास्त्रम्
दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति । भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम् । ते भारतीया मनीषिणः ऋषयो बभूवुः । ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः । अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म । मन्त्रद्रष्टृणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते स्म । तेषामन्तःकरणे भौतिकानाम् आध्यात्मिकानाञ्च तत्त्वानां चिन्तनाय पर्याप्तम् अवसरोऽविद्यत । ते मनीषिणो विचारितवन्तः –एषा दृश्यमाणा चराचराणां महती सृष्टिः कथं सञ्जातेति । कोऽस्याः कर्त्ता रचयिता वा ? किं सः जगत्कर्त्ता द्रुष्टं शक्यते इति चेत् कथं सम्भवेत् तदीयः साक्षात्कारः ? कथं प्राणिनो जायन्ते म्रियन्ते च ? सांसारिकः प्राणी सुखदुःखमोहादिभिः ग्रस्तोऽस्ति, अतः कथं स मुक्तो भवेत् ? चिन्तनस्यैषा अजस्रं प्रवहमाना विचारधारा दर्शनस्य क्षेत्रं भारतीयमानवस्य दृष्टिकोणेन सह विकासपथे विस्तृतं कृतवती ।

(अधिकवाचनाय »)



वार्ताः

Map of India with mark showing location of accident
Map of India with mark showing location of accident
अकस्मातस्थलम्

अद्यतनं चित्रम्

ज्वालामुखिना निर्मिता भित्तिः


आधुनिकलेखः

ब्रह्मगुप्तः

ब्रह्मगुप्तः(५९८-६६८) महान् गणितज्ञः, ज्योतिषी च आसीत् । तस्य जन्म भिल्लमलपुरे अभवत् । सः हर्षमहाराजस्य राज्ये वसति स्म । अयं गणितविषये ज्योतिष्यविषये च बहूनि पुस्तकानि अलिखत् । तदीयं सुप्रसिद्धः ग्रन्थः नाम 'ब्रह्मस्फुटसिद्धान्तः' । एतं ग्रन्थं सः ६२८ तमे वर्षे अलिखत् । अस्मिन् ग्रन्थे २५ अध्यायाः सन्ति । ब्रह्मगुप्तः ५९८ तमे वर्षे भारतस्य राजस्थनमण्डले स्थिते भिन्माल्-नगरे जन्म प्राप्नोत् । अस्य पिता जिष्णुगुप्तः । जिष्णुगुप्तः स्वस्य जीवनस्य महान्तं भागं भिल्लमलपुरे (अद्यत्वे अयं प्रदेशः भिन्माल् इति कथ्यते) एव अयापयत् । तस्मिन् समये राज्ञः व्याघ्रमुखस्य शासनम् आसीत् । अतः एव जनाः ब्रह्मगुप्तं भिल्लमलाचार्यः इति कथयन्ति स्म । ब्रह्मगुप्तः उज्जयिन्यां विद्यमानस्य खगोलवीक्षणकेन्द्रस्य प्रमुखः आसीत् । अस्मिन् समये तेन गणित-ज्योतिष्यविषययोः चत्वारः ग्रन्थाः लिखिताः - चण्डमेखला (६२४ तमे वर्षे), ब्रह्मस्फुटसिद्धान्तः (६२८ तमे वर्षे), खण्डखाद्यकम् (६६५ तमे वर्षे) । तेषु ब्रह्मफुटसिद्धान्तः अत्यन्तं प्रसिद्धः जातः । अस्य ग्रन्थस्य अराबिक्-भाषया अनुवादः अपि कृतः ।

(अधिकवाचनाय »)




ज्ञायते किं भवता...

सुभाषितम्

दूरीकरोति दुरितं विमलीकरोति

चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ।

सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)

लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव । तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव । यतः स्वार्थपराः एव अधिकाः सन्ति लोके । तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति । मनः शुद्धं भवति । पुरा कृतं पापमपि भस्म भवति । अपि च प्राणिनां विषये दया अधिका भवति । अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति ।




भारतविषये विशेषपरियोजना



अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=394449" इत्यस्माद् पुनः प्राप्तिः