सदस्यः:Vibhijain/main

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतम्!

संस्कृतविकिपीडियायां सम्प्रति १२,१८२ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१८२ लेखाः लिखिताः सन्ति।
२०२४ मे ३
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
प्रमुखः लेखः
सांख्यदर्शनम् प्राचीनतमं दर्शनमस्ति। अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः। वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति। यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति। कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान्। शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम्। (अधिकवाचनाय »)
सुभाषितम्
मनसि वचसि काये पुण्यपीयूषपूर्णा:

त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्त:

नीतिशतकम् (५३/२२१)

सज्जनानां स्वभावं वर्णयति कविः। सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति। तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति। अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति। किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?


ज्ञायते किं भवता ?

अष्टादश पुराणानि -

म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम् ।
अ-ना-प-लि-ङ्ग-कू-स्कानि पुराणानि प्रचक्षते ॥
प्रमुखं चित्रम्
इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
विश्वविज्ञानकोशः
भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

विकि वर्तमानम्

प्रकल्प-तथ्या:

विकिपीडिया ज्ञप्ति - विकिमीडिया - सम्पर्कः (Contact us (link to English Wikipedia)) - विचारमण्डपम् - वार्ता - Utilities (आंग्लभाशा: आवृत्ति)- मिडियाविकि सोफ्टवेर - स्थितिगणितम्


अक्षरमाला अनुक्रमणिका
फलकम्:अक्षरमाला अनुक्रमणिका
भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः



"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibhijain/main&oldid=435728" इत्यस्माद् प्रतिप्राप्तम्