सामग्री पर जाएँ

विश्ववारा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अत्रिः ब्रह्ममानसपुत्रेषु अन्यतमः । एषः एतस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः । एषः किञ्चित्कालं यावत् ब्रह्मणः अधिकारस्य मन्त्रदृष्टा महर्षिः आसीत् । एतस्य वंशे एव विश्ववारा जन्म प्राप्तवती । एतस्याः विषये अधिकविषयाः न ज्ञाताः । चेदपि एषा काचित् असामान्यतपस्विनी इति ज्ञायते । अनेकवर्षपर्यन्तम् एकरीत्या तपः कृत्वा उत्तमां ऋषिपदवीं प्राप्तवती । एषा श्रेष्ठा विदुषी अपि आसीत् । तस्याः मन्त्राणां श्रेष्ठतां ज्ञात्वा महर्षिणः तान् मन्त्रान् ऋग्वेदे योजितवन्तः । ऋग्वेदस्य पञ्चममण्डलस्य द्वितीयानुवाकस्य २८ तमस्य सूत्रस्य षट् ऋचां मन्त्रद्रष्ट्री विश्ववारा । पूर्वं प्रतिद्विजं गृहे हवनकुण्डः भवति स्म । तस्मिन् सर्वदा अग्निः भवति स्म । एतस्य अग्नेः रक्षणं ब्राह्मणस्य, तस्य गृहजनानां च कर्तव्यमासीत् । अग्नेः रक्षणार्थम् आत्मार्पणं कर्तुमपि ते सिद्धाः भवेयुः । अकस्मात् हवनकुण्डे अग्निः गच्छति चेत् तद् अमङ्गलं, दुश्शकुनम् इति चिन्तयन्ति स्म । एवम् अग्नेः प्रामुख्यतामेव विश्ववारा स्वस्य मन्त्रेषु आग्रहेण उक्तवती।

अग्निमन्त्राणां सारः

[सम्पादयतु]

विवश्वरया दर्शितानां मन्त्राणां भावार्थः एवम् अस्ति । प्रज्वलितः अग्निः स्वस्य तेजसं सर्वत्र विस्तार्य, द्युलोकपर्यन्तं सर्वेषां वस्तूनाम् उपरि प्रकाशं प्रसरति । प्रातःकालस्य, सायङ्कालस्य हवनसमयेषु अग्निः अत्यन्तः सुशोभितः भवति । एतादृशेषु पूजासमयेषु हविष्यान्नं बहुश्रेष्ठं भवति । देवपूजायां निमग्नां वृद्धपुरुषान्, विदुषः अतिथीन् च गृहस्य स्त्रियः एतादृशेन हविष्यान्नेन एव स्वागतं करणीयम् । एतद् तासां प्रथमकर्तव्यम् । एवं कुर्वन्ति चेत् ताः स्त्रियः अग्नेः समानाः सुशोभिताः भवन्ति । हे अग्ने भवान् प्रकाशमानः अस्ति इत्यनेन जलपदार्थानां स्वामी अस्ति । भवान् यस्य यजमानस्य समीपं गच्छति सा व्यक्तिः पश्वादिसमस्तधनं प्राप्नोति । भवते योग्यम् आतिथ्यसूचकं हविः अर्पयितुं सज्जीकृत्य तं भवतः हवनकुण्डस्य पार्श्वे स्थापयामः । श्रद्धाविश्वासेन या स्त्री भवते नमस्करोति सा महदैश्वर्यस्य स्वामिनी भवति । तस्याः अन्तःकरणः भवतः पूजया पवित्रः भवति । तस्याः स्थिरचित्तः भवति । पञ्चेन्द्रियाः तस्याः वशे भवति । हे अग्ने भवान् प्रज्वलितः भवतु । तेन भवान् बलवान् भूत्वा ये भवतः प्रार्थनां कुर्वन्ति तेभ्यः महासौभाग्यं दयपालयतु । भवता प्राप्तं धनं परोपकाराय उपयोक्तव्यम् । अस्मद्सदृशस्त्रीषु दाम्पत्यभावं दृढं करोतु । अस्मद्सदृशस्रीभ्यः शत्रवः इत्युक्ते दुष्कर्म, दुष्टाचारः, लोभः च । एतेषाम् उपरि भवतः आक्रमणं भवतु । हे दीप्तिमान् भवान् अस्मभ्यं प्रकाशं ददाति इत्यनेन भवते नमस्कुर्मः । अस्माभिः यज्ञः करणीयः इत्यनेन भवान् प्रज्वलितः भवतु । हे प्रकाश भवतः भक्तवृन्दः भवतः आह्वानं करोति । यज्ञक्षेत्रे भवान् सर्वेषां देवानां प्रसन्नतां कारयतु । यज्ञे हव्यवाहकं अग्निं रक्षतु । अग्नेः सेवां कृत्वा देवेभ्यः हव्यप्राप्त्यर्थं तं पूजयतु अत्रत्य मुख्यभावार्थः इत्युक्ते स्त्रीभिः श्रद्धाभक्त्या अतिथिसेवा करणीया । पत्युः यज्ञकार्ये सहकारं दातव्यम् । अग्नेः स्तुतिः करणीया । पतिः यम् अग्निं पूजयति तस्य अग्नेः रक्षणं जागरूकतया करणीयम् । एवं गृहे (आश्रमे) पत्या सह अग्निकार्ये अन्यकार्ये च सहकारं दत्त्वा विश्ववारा ऋषिभिः मान्या जाता । स्त्रियाः कर्तव्यानां स्पष्टीकरणद्वारा समाजे तस्याः प्रामुख्यताम् एतेषां मन्त्राणां द्वारा सूचितवती अस्ति ।


""

"https://sa.wikipedia.org/w/index.php?title=विश्ववारा&oldid=369196" इत्यस्माद् प्रतिप्राप्तम्