सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

शङ्कराचार्यः

अद्वैतवेदान्तः दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम्। ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते। शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत्। परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम्। अस्य मतस्य प्रवर्तकः शङ्कराचार्यः। अद्वैतदर्शनं शङ्कराचार्यः प्रस्थानत्रयेण श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादितमस्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकं पुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति। चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति। अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति। (अधिकवाचनाय)



आधुनिकलेखः

भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः। सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति। अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत्। सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत्। सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपर्णं योगदानम् आसीत्। भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम्। स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति। एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत्। भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रमे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत्। कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः। भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति। वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनपतिः वायुसेनायाः नेता भवति। भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति। अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति। सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति। इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत्। (अधिकवाचनाय »)




ज्ञायते किं भवता?

नास्तिकदर्शनानि एतानि -
(यानि वेदप्रामाण्यं न अङ्गीकुर्वन्ति तानि)

चार्वाकदर्शनम्
जैनदर्शनम्
बौद्धदर्शनम् च इति ।
बौद्धदर्शने चत्वारः भेदाः - माध्यमिकं, वैभाषिकं, सौत्रान्तिकं, योगाचारं च ।
आहत्य नास्तिकदर्शनानि अपि षट् ।



वार्ताः

मुम्बई
मुम्बई
  • पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
  • मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
  • बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
  • मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।

अद्यतनं सुभाषितम्

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम्।
आयुः परिस्रवति भिन्नघटादिवाम्भः
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥

वैराग्यशतकम् ३८

वार्धक्यं व्याघ्री इव मनुष्यं भाययन्ती अस्ति। रोगाः शत्रवः इव शरीरं घातयन्तः सन्ति। भग्नात् घटात् जलं यथा स्रवति तथा अस्माकम् आयुः परिस्रवन्ती अस्ति। तथापि जनाः अन्यान् अपकुर्वन्ति। वयम् अशाश्वताः इति न अवगच्छन्ति एव इत्येतत् विचित्रमेव।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्