मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,२१६ लेखाः सन्ति।
आ नो भद्राः क्रतवो यन्तु विश्वतः ॥
|
श्रीमद्भागवतमहापुराणम् हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः। श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति।(अधिकवाचनाय »)
संसद् लोकतन्त्रस्य अभिन्नाङ्गम् अस्ति। संसदः कार्यपालिका, विधायिका इत्येते नामान्तरे स्तः। लोकतन्त्रव्यवस्थायाः वर्गीकरणं त्रिषु अङ्गेषु भवति - व्यवस्थापिका, कार्यपालिका, न्यायपालिका च। एतेषु व्यवस्थापिकायाः महत्त्वम् अधिकम् अस्ति। यतो हि कार्यपालिकायाः, न्यायपालिकायाः च नियमनस्य दायित्वं व्यवस्थापिकाप्रणाल्याः पार्श्वे भवति। केचन बुद्धिजीविनः कथयन्ति यत्, “भारतीयसंविधानम् आङ्ग्लानाम् अनुसरणं कृत्वा निर्मितम्। अतः वयम् अद्यापि वैचारिकपरतन्त्रतायाः पाशे बद्धाः स्मः” इति। परन्तु अत्र श्माम लाल शकधर इत्यस्य कथनं स्मरणीयम् – ब्रिटिश्-सर्वकारात् यद् वयं प्राप्तवन्तः, अस्माकं भारतीयसंस्कृत्यानुसारं यत् आवश्यकम् आसीत् च, तत्सर्वं मेलयित्वा वयं भारतीयसंविधानस्य निर्माणम् अकुर्म। संविधाननिर्माणे वयम् अन्यदेशानाम् अनुभवस्य लाभं स्व्यकुर्म। अस्माकं संसदीयशासनव्यवस्था अस्माकं विचाराणां फलम् अस्ति। कोऽपि विदेशी एतां व्यवस्थाम् अस्मत्सु न आरोपयत्। (अधिकवाचनाय »)
- पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
- मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
- बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
- मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
जीवने औन्नत्यं प्राप्तुं यः इच्छति तेन एते षड् दोषाः परित्यक्तव्याः – निद्रा, तन्द्रा (श्रान्तता), भीतिः, कोपः, आलस्यं, दिर्घसूत्रता (करणीयस्य कार्यस्य अग्रे सारणम्) च। एते दुर्गुणाः यदि स्युः तर्हि तादृशः निरन्तरं प्रयासं कर्तुं न अर्हति। परिश्रमेण विना फलप्राप्तिः नैव शक्यम्। |