गान्धारी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गान्धारीधृतराष्ट्रौ वानप्रस्थाश्रमार्थं वनं नयन्ती कुन्ती

प्रपञ्चे विद्यमानेषु पतिव्रतास्त्रीषु गान्धार्या: स्थानं बहुश्रेष्टम् अस्ति । एषा गान्धारस्य राज्ञ: सुबलस्य पुत्री, शकुने: सहोदरी च आसीत् । कन्यावस्थायामेव एषा भगवत: शङ्करस्य आराधानां कृत्वा तेन शतपुत्राणां वरदानं प्राप्तवती आसीत् । यदा स्वस्य विवाह: नेत्रहीनेन धृतराष्ट्रेण सह भवति इति ज्ञातवती तदारभ्य एषा स्वस्य नेत्रे वस्त्रेण बद्धवती । यं प्रपञ्चं पति: न पश्यति तं प्रपञ्चं द्रष्टुं पत्न्या: अपि अधिकार: नास्ति इति चिन्तयित्वा जीवनपूर्णं दृढनिश्चयेन अन्धा इव जीवितवती । पत्ये एतादृशस्य इन्द्रियसुखस्य त्याग: प्रपञ्चस्य इतिहासे एव कुत्रापि न लभ्यते । एतस्या: अनुपम: त्याग:, तप: च अद्भुतमेव । सर्वदा पतिम् अनुसरति स्म । श्वशुरस्य गृहागमनानन्तरम् एषा स्वस्य चारित्र्येण, सद्गुणेन पतिं परिवारं च आकृष्टवती ।

पतिव्रता गान्धारी निर्भीता, न्यायप्रिया च आसीत् । सर्वदा सत्यं, नीतिं, धर्मं च आचरति स्म । द्रौपद्या: अपमानेन स्वस्य पुत्राणां विषये एषा दु:खिता आसीत् । यदा दुर्योधनस्य वचनात् धृतराष्ट्र: द्वितीयवारं पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् तदा एषा द्यूतस्य विरोधं कुर्वती पतिम् उक्तवती –‘जन्मानुक्षणमेव दुर्योधन: शृगाल: इव चीत्कारं कुर्वन् आसीत् । तदा एव परमज्ञानी विदुर: तं पुत्रं त्यजन्तु, अन्यथा कुरुवंशस्य नाश: भविष्यति इति उक्तवान् आसीत् । आर्यपुत्र: ! एष: तु कुरुवंशस्य नाशं करोति इति ज्ञायते । भवत: दोषेन सर्वेषां कष्टं न ददातु । मूर्खस्य पुत्रस्य प्रोत्साहनं न करोतु । वंशनाशनं न करोतु । वैरत्वेन मुक्ता: पाण्डवा: शान्ता: सन्ति । पुन: तेषां कोपं न जनयतु । भवान् एतद् सर्वं जानाति चेदपि अहं पुन: स्मारयामि । वृद्ध: चेदपि बाल: इव न आचरतु । पाण्डवै: सह आत्मीय: भवतु । कुलस्य कलङ्कं दुर्योधनं त्यजतु । मोहेन अहं तदा विदुरस्य वचनं तिरस्कृतवती । तस्य फलमेव एतत् । अजागरूक: न भवतु । विचारशक्तिं रक्षतु । राज्यलक्ष्मीः निश्चयेन दुष्टान् नाशयति’ इति । एतै: वचनै: तस्या: धर्म:, निष्पक्षपातता च दृश्यते । एषा सर्वदा दुर्योधनस्य अनुचितस्य कार्यस्य विरोधं करोति स्म । दुर्नीते: कारणेन जायमानस्य भविष्यस्य भयङ्करं चित्रणं पुत्रस्य पुरत: स्थापयति स्म । किन्तु दुर्योधन: हितवचने ध्यानं न ददाति स्म ।

पाण्डवानां सन्धे: सन्देशं स्वीकृत्य स्वयं श्रीकृष्णपरमात्मा हस्तिनापुरं गत्वा दुर्योधनाय बुद्धिवादम् उक्तवान् । किन्तु तस्य वचनमपि व्यर्थमभवत् । तदा धृतराष्ट्र: गान्धारीं वदति यत् – ‘भवती एव पुत्राय बुद्धिवादं वदतु । अस्माकं वचनं तु स: न शृणोति’ इति । तदा गान्धारी वदति – महाराज ! दुर्योधनस्य दोषान् ज्ञात्वा अपि पुत्रव्यामोहेन भवान् तं न निवारयति । मूर्खपुत्राय अविचिन्त्य राज्यं दत्त्वा इदानीं तस्य फलम् अनुभवन् अस्ति । सामेन भेदेन एव विपद: गच्छन्ति चेत् को वा बुद्धिमान् स्वजनेभ्य: दण्डप्रयोगं करोति ?” इति । एतेन वचनेन तस्या: निर्भीतं सत्यं, निष्पक्षा नीति: च दृश्यते ।

अनन्तरं गान्धारी दुर्योधनम् आहूय हितवचनं वक्तुम् आरब्धवती – ‘पुत्र ! मम वचनं शृणोतु । भवत: पिता, भीष्म:, द्रोण:, कृपाचार्य:, विदुरः एतेषां वचनं भवान् शृणोतु । यदि भवान् पाण्डवै: सह सन्धिं करोति तर्हि अस्माकं सर्वेषां महदुपकार: इव भविष्यति । य: जितेन्द्रिय: भवति स: एव राज्यं रक्षति । कामक्रोधयो: उपरि य: जयं प्राप्नोति स: पूर्णपृथिव्यां जयं प्राप्नोति । यथा उद्धता: अश्वा: मूर्खं सारथिं मार्गे एव मारयन्ति तथैव इन्द्रियाणां निग्रहणं नास्ति चेत् ते मनुष्यस्य सर्वनाशं कुर्वन्ति । य: इन्द्रियाणां निग्रहणं कर्तुं शक्नोति, य: कार्यं चिन्तयित्वा करोति तस्मिन् लक्ष्मीः चिरकालं तिष्ठति ।

“पितामहस्य भीष्मस्य, गुरो: द्रोणाचार्यस्य वचनं नितरां सत्यम् अस्ति । श्रीकृष्णार्जुनयो: विरुद्धं कोऽपि जयं न प्राप्नोति । अत: भवान् श्रीकृष्णं शरणं गच्छतु । स: प्रसन्न: चेत् उभयत्रापि हितं भवति । युद्धेन उत्तमं न भवति । धर्मेण,अर्थेन विना सुखं कुत: आगच्छति ? भवान् राज्यसुखम् इच्छति चेत् न्यायोचितं भागं पाण्डवेभ्य: ददातु । तान् त्रयोदशवर्षाणि यावत् वनवासं प्रति यत् प्रेषितं सः एव महान् अपराध: अस्ति भवत: । इदानीं सन्धिव्याजेन वा कृतस्य दोषस्य किञ्चित् परिष्करणं करोतु । प्रपञ्चे लोभेन कस्यापि सम्पद: न लभ्यते । लोभं त्यक्त्वा सन्धिं करोतु’ इति । कृष्णार्जुनयो: ज्ञानं यस्याः सम्पूर्णमासीत् तादृश्याः विदुष्याः गान्धार्या: उपदेश: कियान् हितकरः अस्ति !!

किन्तु दुष्टस्य दुर्योधनस्य उपरि गान्धार्या: हितवचनेन किमपि प्रयोजनं न अभवत् । स: स्वस्य मूर्खतां न त्यक्तवान् । तेन कारणेन उभयत्र अपि युद्धाय सज्जतां कृतवन्त: । युद्धस्य आरम्भ: अभवत् । अष्टादशदिनपर्यन्तं कुरुक्षेत्रस्य रणाङ्गणे युद्धम् अभवत् । तेषु दिनेषु दुर्योधन: प्रतिदिनमपि मातरं गान्धारीं प्रार्थयति स्म यत् – ‘मात: ! शतृभि: सह युद्धाय गच्छन् अस्मि । मम यश: भवतु इति आशीर्वादं करोतु’ इति । गान्धार्या: पातिव्रत्यस्य शक्ति: अधिका आसीत् । यदि सा पुत्राय विजयस्य आशीर्वादं ददाति तर्हि तस्य विजयः तु निश्चयेन भवति स्म । किन्तु दुर्जनस्य दुर्योधनस्य हस्ते राज्यलक्ष्मीः न तिष्ठति इति ज्ञात्वा सा प्रतिवारम् एवम् उत्तरं ददाति स्म ‘हे पुत्र ! यत्र धर्म: अस्ति तत्र विजय: भविष्यति । भवान् यदि विजयम् इच्छति तर्हि धर्मस्य आश्रयं प्राप्नोतु । अधर्मस्य परित्यागं करोतु’ इति । सा कदापि दुर्योधनस्य पक्षं न गृहीतवती । किन्तु स्वपुत्रा: सर्वे मारिता: इति यदा श्रुतवती तदा असहनीयदु:खेन तस्या: कोपस्य उद्रेक: जात: । पाण्डवेभ्य: शापं ददामि इति चिन्तयन्ती आसीत् । भगवान् वेदव्यास: अन्येषां मनसि जातमानं चिन्तनमपि ज्ञातुं शक्नोति स्म । अत: स: आगत्य तस्या: समाधानं कारयित्वा तस्या: सङ्कल्पं निवारितवान् । तस्मिन् समये पाण्डवा: अपि तत्रैव आसन् । मातु: गान्धार्या: मानसिकं क्षोभं दृष्ट्वा युधिष्टिरः स्वस्य धिक्कारं कुर्वन् तस्या: पादयोः नमस्कृतवान् । तदा गान्धार्या: क्रोधयुक्ता दृष्टिः तस्या: नेत्रत: प्रस्थाय युधिष्ठिरस्य नखस्य उपरि पतिता । अनुक्षणं तस्य सुन्दरा: नखा: कृष्णवर्णाः जाताः । एतद् दृष्ट्वा तस्य सहोदरा: भयेन इतस्तत: आत्मानं गोपयितुं धावनम् आरब्धवन्त: । तेषां भयं दृष्ट्वा तस्या: कोप: शान्तः अभवत् । अनन्तरं मातृवत् पाण्डवेभ्य: धैर्यं दत्तवती । एतया घटनया तस्या: अनुपमपातिव्रत्यस्य शक्ति: ज्ञायते । अनन्तरं गान्धारी स्वस्य कोपं श्रीकृष्णस्य उपरि प्रदर्शितवती । अथवा एवं वक्तुं शक्येत यत् – अन्तर्यामी श्रीकृष्ण: पाण्डवान् तस्या: कोपत: रक्षयित्वा तस्या: बुद्धिं परिवर्त्य शापं स्वस्य उपरि एव स्वीकृतवान् । देवी गान्धारी यदा कुरुक्षेत्रं गत्वा तत्रत्यं हृदयविद्रावकं दृश्यं दृष्टवती तदा सा दु:खं सोढुं न शक्तवती । कुपिता सा श्रीकृष्णं वदति ‘कृष्ण ! पाण्डवा: कौरवा: स्वेशां कलहकारणेन जर्झरिता: सन्ति । भवत: समीपे अनेकसेवका: सन्ति । बृहत् सैन्यमस्ति । द्वयो: निग्रहणं कर्तुं भवान् शक्नोति स्म । भवत: वाक्चातुर्येण एतेषां बुद्धिवादं वक्तुं शक्नोति स्म । ज्ञात्वा अपि भवान् कौरावाणां संहारस्य उपेक्षां कृतवान् । तस्य फलं भवान् अनुभवतु । मम पतिसेवया प्राप्तेन तपोबलेन भवते अहं शापं ददामि । ‘यथा परस्परं युद्धं कुर्वन्तं कौरवान् पाण्डवान् भवान् उपेक्षितवान् तथा भवान् भवत: बन्धुबान्धवानाम् अपि हत्यायाः कारणः भविष्यति । भवान् अपि अनाथ: इव मारित: भवति । अद्य यथा भरतवंशस्य स्त्रीणाम् आर्तनाद: श्रूयते तथा एव भवत: कुटुम्बस्य स्त्रीणामपि रोदनं श्रूयते’ इति ।

गान्धार्या: कठोराणि वाक्यानि श्रुत्वा उदारमनस्क: श्रीकृष्ण: मन्दहासेन वदति ‘एवमेव भवति इति अहं जानामि स्म । शापं दत्त्वा भवती अग्रे यद् भविष्यति तदेव उक्तवती अस्ति । वृश्णिवंशस्य नाश: देव्या: कोपेन एव भविष्यति इत्यत्र नास्ति सन्देह: । एतस्य नाशमपि माम् विहाय अन्ये केऽपि कर्तुं न अशक्ष्यन् । मानवा: किं ? देवा: असुरा: अपि एतस्य वंशस्य नाशं कर्तुं न शक्नुवन्ति । अत: एते यदुवंशिन: परस्परेण कलहेन एव नश्यन्ति’ इति ।

युधिष्ठिरस्य राज्याभिषेकस्य अनन्तरं देवी गान्धारी किञ्चितकालपर्यन्तं तस्य पार्श्वे स्थित्वा अन्ते स्वस्य पत्या सह वनं गतवती । तत्र तपस्विनी इव जीवनं कृत्वा पत्या सह एव स्वस्य शरीरं प्रदह्य कुबेरस्य लोकं गतवती । अस्मिन् लोके पतिसेवां कृत्वा परलोकेऽपि पत्यु: सानिध्यं, सेवाभाग्यं च प्राप्तवती । एतदेव पतिव्रतानां नारीणाम् अभीष्टलक्ष्यं भवति ।

"http://sa.wikipedia.org/w/index.php?title=गान्धारी&oldid=253573" इत्यस्माद् पुनः प्राप्तिः