पाण्डुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पाण्डुः

पत्य्ना सह पाण्डुः
Devanagari पाण्‍डुः
Affiliation हस्तिनापुरस्य राजा
Abode हस्तिनापुरम्
Consort कुन्ती, माद्री

पाण्डुः महाभारतस्य किञ्चित् प्रमुखं पात्रम् अस्ति । अयं पाण्डुः चन्द्रवंशस्य राजा । अस्य पिता विचित्रवीर्यः, माता च अम्बालिका । वस्तुतः विचित्रवीर्यस्य मरणसमये अम्बालिका पुत्रवती एव न आसीत् । तस्य मरणानन्तरं सत्यवत्याः प्रार्थनानुसारं मुनिः व्यासः अम्बालिकायाः कृते पुत्रदानं करोति । अतः मुनिः व्यासः एव पाण्डोः वास्तविकः पिता । अयं पाण्डुमहाराजः पाण्डुरोगेण पीडितः आसीत् जन्मना एव । अस्य द्वे पत्न्यौ कुन्ती, माद्री च । सुप्रसिद्धानां पञ्चपाण्डवानं पिता एषः पाण्डुमहाराजः । मृगयावसरे शब्दवेधीप्रयोगेण व्याघ्रं मारयितुम् उद्युक्तः सपत्नीकम् ऋषिकुमारं मारयति । तदा सः ऋषिकुमारः "यस्मिन् क्षणे भवान् स्त्रीसङ्गं करोति सः एव भवतः अन्तिमः क्षणः भवति" इति पाण्डुं शप्तवान् । तदनन्तरं कुन्त्या विवाहात् पूर्वं दूर्वासेभ्यः प्राप्तस्य वरस्य बलेन पुत्रमान् सञ्जातः पाण्डुमहाराजः ।

"http://sa.wikipedia.org/w/index.php?title=पाण्डुः&oldid=192458" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु