ध्रुपद्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

ध्रुपद् (Dhrupad) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग,भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः ध्रुपद् भवति । १५ शतकात् अस्य प्रकारस्य आविर्भावः जातः । ग्वालियरप्रान्तस्य भूपालकेन 'मानसिंहेन' अस्य प्रकारस्य आविष्कारः कृतः इति । अस्य प्रकारस्य गायकः अपि आसीत् । तेनैव प्रचारोपि प्राप्तः । अस्य अस्थानस्य गायकौ चरजनायकः तथा भगवान् थोण्डश्च मिलित्वा अस्य प्रकारस्य परिष्कारादिकं कृतवन्तौ इति श्रूयते ।

श्लोकाः[सम्पादयतु]

"भावभट्टकृत अनूपसङ्गीतरत्नाकरे" ध्रुपद् प्रकारस्य निरूपणश्लोकाः एवं सन्ति।
गीर्वाणवाद्यदेशीयभाषासाहित्यराजतम्।
द्विचतुर्वाक्यसम्पन्नं नरनारीकथाश्रयम्॥
शृङ्गाररसभावाद्यं रागालापपदात्मकम्।
पादान्तानुप्रासयुक्तं पादानां युगलञ्च वा॥
प्रतिपादं यत्र बद्धमेवं पादचतुष्टयम्।
उद्ग्राहध्रुवकाभोगान्तरं ध्रुवपदं स्मृतम्॥

गायकाः[सम्पादयतु]

अस्य प्रकारस्य पुरातनगायकाः, अकबरस्य संस्थाने विद्यमानः स्वामि हरिदासः तथा अस्य शिष्यौ तानसेनः, मञ्जुनाथश्च प्रसिद्धाः भवन्ति ।

स्वरूपम्[सम्पादयतु]

ध्रुपद् प्रकारस्य गानानि साधरणतया प्रौढभाषासहितानि भवन्ति । तत्त तत्त रागाणां स्वर, ताळ, लयादयः सीमिताः निश्चिताः भवन्ति । अस्मिन् प्रकारे अलङ्कारवैखरिविन्यासादीनां तथा विशेषतान्-वितानादीनाम् अवकाशः नभवति । बोल् तान्, दुप्पट्टु, तिप्पट्टु, चौपट्टु, गमकादीनां सङ्गतयः अस्मिन् प्रकारे अन्तर्भूताः भवन्ति । अस्मिन् प्रकारे गानं कर्तुं पुरुषयुक्तः कण्ठः अपेक्षितः भवति । अस्मिन् प्रकारे स्थायी, अन्तरा, सञ्चारी तथा आभोगादयः सोपानानि सन्ति । वीररसस्य, शृङ्गाररसस्य, शान्तरसस्य तथा भक्तिरसस्यच प्रतिपादकः भवति । ध्रुपद गीतस्य प्रमुखशब्दान् विभिन् लयादिषु पदच्छेदादिकं कृत्वा रागस्य रसभावं प्रकटीकुर्वन्ति ।

"http://sa.wikipedia.org/w/index.php?title=ध्रुपद्&oldid=236812" इत्यस्माद् पुनः प्राप्तिः