भैरवीरागः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भैरवीरागः

भैरवीरागः (Bhairavi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागःसङ्गीतसमयसारग्रन्थे “देवादि प्रार्थनायाम्” इति स्पष्टं लिखितम् अस्ति । अयं रागः करुणरसः, भक्तिरसयुक्तश्च भवति । कर्णाटकशास्त्रीयसङ्गीते सिन्धुभैरवीरागः इति व्यवहरन्ति । सम्पूर्णजात्यासहितः भवति । षड्ज, पञ्चम स्वरौ विहाय अन्ये कोमलस्वराः भवन्ति । वादिमध्यमः तथा संवादि षड्जः स्वरः भवति । प्रायः प्रातः कालीनः रागः भवति, तथापि सार्वकालिकः भवति । सङ्गीतसम्प्रदायरीत्या सङ्गीतसभायाः अन्तिमे एनं रागं प्रस्तुवन्ति । शास्त्रीयसङ्गीतस्यापेक्षया अधिकतया गझल्, ठुमरि, भजन्,टप्पादिषु अस्य रागस्य उपयोगः भवति ।

स्फटिकरचितपीठे रम्येकैलासशृङ्गे,
विकच-कमलपत्रैः अर्चयन्ती महेशम्।

करतलधृतवीणा पीतवर्णायताक्षी,

सुकविभिरियमुक्ता भैरवी भैरवस्त्रीः॥
  • आरोहः- स रे ग म प ध नि स
  • अवरोहणः- स नि ध प म ग रे स
  • पक्कड- ग म प ग म, रे, स ग रे स नि ध स

सम्बद्धरागाः[सम्पादयतु]

समयः[सम्पादयतु]

प्रातः १० तः १२ वादनपर्यन्तं प्रशस्तः कालः । किन्तु सङ्गीतसम्प्रदायरीत्या सङ्गीतसभायाः अन्तिमे एनं रागं प्रस्तुवन्ति ।

थाट्[सम्पादयतु]

  • भैरव

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भैरवीरागः&oldid=236510" इत्यस्माद् पुनः प्राप्तिः