स्वामी विवेकानन्दः
विकिपीडिया इत्यस्मात्
सन्ति बहवो भारतस्य वरद-पुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बंगप्रान्तस्य कोलकाता नगरे श्री विश्वनाथदत्त महोदयस्य गृहे त्रिषष्ठ्यधिकाष्टादश शततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तदा तस्य नाम नरेन्द्रनाथ दत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः, नरेन्द्रः बाल्ये कपीन् ,मयूरान् ,कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीय संगीतं व्यायामं च आचरति स्म। ध्यानसिद्धः अयं ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्य दर्शनस्य भारतीय दर्शनस्य च गंभीरं अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीं अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसं रामकृष्णदेवं पृष्टवान् यत् किं भवान् ईश्वरं दृष्टवान् ? इति। आम्। त्वामिव ईश्वरमपि पश्यामि इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः अस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्द इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादश (१८९३) तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः अन्योन्योपरि स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेभ्यः अधस्तात् आसीत् । एकः अमेरिकावासी उपहासेन अवदत्--स्वामिन्। भवतां गीता सर्वेभ्यः धर्मग्रन्थेभ्यः अधः वर्तते । प्रत्युत्पन्नमतिः भारतीयसंस्कृतिं प्रति हृदयानुरागी स्वामी विवेकानन्दः प्रहसन्नेव प्रत्यवदत्--आम् । सत्यं ।आधारशिला तु अधः एव भवति ।एतस्यां बहिराकृष्टायां सर्वाणि भूमौ पतिष्यन्ति। विदेशेषु वेदान्त धर्मस्य प्रचारं कुर्वन् स्वदेशं आगत्य देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा ,स्वास्थ्यरक्षा,स्त्रीशिक्षा ,आधुनिकप्रौद्योगिकी प्रभृति क्षेत्रेषु असाधारणं कार्यं कर्तुं रामकृष्णमिशन इति संस्थां स्थापयित्वा जनेषु चेतनाजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं संदेशः अद्यापि भारतीयान् प्रेरयति यत् -- "उत्तिष्ठत , जाग्रत ,प्राप्य वरान्निबोधत।"
