सैमन् कमिशन्
सैमन् कमिशन् (सय्मन् आयोगः) नाम भाराते रचयिष्यमानस्य संविधानस्य विषये चर्चां कर्तुम् आगतानां ब्रिटिश् सप्तसदस्यानां गणः । गणस्य नायकः सर् जान् सैमन् इति कश्चन् ब्रिटिष् अधिकारी अतः तस्य नाम्नि एव आयोगः ख्यातः अभवत् । काकतालीयत्वेन अस्य आयोगस्य कश्चन सदस्य क्लेमेण्ट् आट्ली इति ब्रिटिष् दास्यात् भारतस्य विमोचनानन्तरं ब्रिट्न् देशस्य प्रधानमन्त्री अभवत् ।
विवादः
[सम्पादयतु]सैमन् कमिशन् इत्यस्मिन् आयोगे कोऽपि भारतीयः नास्ति इति भारतीयानायकाः कोपाविष्टाः अभवन् । अतः भारतीयराष्ट्रियकाङ्ग्रेस्पक्षः आयोगस्य बहिष्कारं कर्तुम् ऐच्छत् । मुस्लीम् लीग् पक्षस्य मोहम्मद् अलि जिन्नागणः समालम्बनम् असूचयत् । क्रि.श.१९२८तमे वर्षे फेब्रवरि तृतीये दिने मुम्बयीनगरं प्राप्तः आयोगः धिग्घोषणम् अशृणोत् । समग्रदेशः कर्मन्यासे अस्तीति भासते स्म ।
परिणामः
[सम्पादयतु]सैमन् आयोगः स्वस्य १७पुटात्मकं वृत्तं क्रि.श.१९२०तमे वर्षे प्राकाशयत् । तस्मिन् प्रादेशिकं प्रातिनिधित्वं, हिन्दुमुसल्मानयोः प्रत्येकं जात्याधारेण निर्वाचनप्रक्रियां समादिशत् । सैमन् आयोगस्य परिणामेन क्रि.श.१९३५तमे वर्षे भारतसर्वकारस्य शासनं कृत्वा क्रि.श.१९३७तमे वर्षे प्रचालितस्यः क्रान्तेः परिणामवशात् प्रान्तीयनिर्वाचनेषु काङ्ग्रेस् पक्षः बहुशः सर्वप्रान्तेषु बहुमतं प्राप्य विजयी अभवत् । स्वातन्त्र्योत्तरमपि भारतस्य संविधाने अस्य आयोगस्य प्रभावः आस्तीत् ।