सुषमा स्वराज
सुषमा स्वराज MP | |
---|---|
विदेशीयमन्त्री | |
Assumed office 26 May 2014 | |
Prime Minister | नरेन्द्र मोदी |
Preceded by | सल्मान् खुर्षिद् |
In office 21 December 2009 – 26 May 2014 | |
Preceded by | लाल कृष्ण आडवाणी |
Succeeded by | TBD |
देहल्याः मुख्यमन्त्री | |
In office 13 October 1998 – 3 December 1998 | |
Governor | विजय कपूर् |
Preceded by | साहिब् सिङ्ग् वर्मा |
Succeeded by | शीला दीक्षित |
विदिशा लोकसभाक्षेत्रस्य संसत्सदस्या | |
Assumed office 13 May 2009 | |
Preceded by | रामपाल सिङ्ग् (मध्यप्रदेशस्य राजनेता) |
व्यैय्यक्तिकसूचना | |
Born |
नवदेहली, भारतम् | १४ १९५२
Political party | भारतीयजनतापक्षः |
Spouse(s) | स्वराज कौशल |
Alma mater |
सनातनधर्म विद्यालय,[१] अम्बाल काण्ट्, हरियाण पञ्जाबविश्वविद्यालयः, चण्डीगढ |
सुषमा स्वराज (१४ फेब्रवरी १९५२- ६ आगस्ट् २०१९) भारतीयराजनेतृषु अन्यतमा विद्यते । सा भारतीय विदेशमन्त्रिणी आसीत् । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा इन्दिरा गान्धी )२२ आगस्ट् १९६७ तः १४ मार्च् १९६९) । सुषमा सप्तवारं संसत्सदस्यारूपेण चिता, त्रिवारं विधानसभासदस्यत्वेन चिता वर्तते । स्वीये २५ तमे वयसि सा हरियाणराज्यस्य मन्त्रिपदवीं समलङ्करोत् । सा देहल्याः मुख्यमन्त्रिरूपेण अपि उत्तरदायित्वं निरवहत् । [२] २०१४ तमे वर्षे जाते लोकसभानिर्वाचने सा मध्यप्रदेशस्य विदिशाक्षेत्रात् जयं प्राप्नोत् । [३] २०१४ तमस्य वर्षस्य मेमासस्य २६ तमे दिनाङ्के सा विदेशीयमन्त्री जाता । सद्योजाते १६ लोकसभानिर्वाचने सा ४००,००० मतैः जयं प्राप्नोत् ।
बाल्यजीवनम्
[सम्पादयतु]सुषमा स्वराज हरियाणे अम्बालकाण्ट्प्रदेशे ब्राह्मणकुटुम्बे १९५२ तमस्य वर्षस्य फेब्रवरीमासस्य १४ दिनाङ्के जन्म प्राप्नोत् । [४] तस्याः पिता राष्ट्रियस्वयंसेवकसङ्घस्य प्रमुखः कार्यकर्ता आसीत् । सा एस् डि महाविद्यालये (अम्बाल काण्ट्) अपठत् । संस्कृतभाषा राजनीतिश्च तस्याः पदवीवर्गस्य प्रमुखविषयाः आसन् । सा विधिशास्त्रं चण्डीगढस्थे पञ्जाबविश्वविद्यालये अपठत् । १९७३ तमात् वर्षात् भारतीयसर्वोच्चन्यायालये अधिवक्तृरूपेण कार्यम् आरब्धवती । [५]
राजनैतिकक्षेत्रे वृत्तिजीवनम्
[सम्पादयतु]सुषमा स्वराज १९७०दशके एव अखिलभारतीयविद्यार्थिपरिषदि स्वीयराजनैतिकवृत्तिजीवनम् आरब्धवती । सा जनतापक्षे आत्मानं संयोज्य देशस्य आपत्कालपरिस्थितिं विरुद्ध्य कृते आन्दोलने भागम् अवहत् । सा हरियाणविधानसभासदस्यरूपेण १९७७ तः १९८२ वर्षपर्यन्तं कार्यम् अकरोत् । तदा २५ वर्षदेशीया सा अम्बाला केण्ट्प्रदेशात् तदानीन्तनरक्षणामन्त्रिणं-चतुर्वारं हरियाणामुख्यमन्त्रिणं बन्सिलालं ६३% मतैः जितवती, पुनः १९८७ तः १९९० पर्यन्तम् । १९७७ तमस्य वर्षस्य जुलैमासे सा देवीलालस्य नेतृत्वे प्रचाल्यमाने जनतापक्षस्य सर्वकारे केन्द्रीयमन्त्रिरूपेण शपथम् अगृह्णात् । सा २७ तमे वयसि १९७९ तमे वर्षे हरियाणराज्यस्य जनतापक्षस्य राज्याध्यक्षपदं समलङ्करोत् । १९८७ तः १९९० पर्यन्तं सा हरियाणराज्यस्य शिक्षामन्त्रिरूपेण भारतीयजनतापक्ष-लोकदलयोः संयुक्तसर्वकारे कार्यं निरवहत् ।
राज्यसभासदस्यता
[सम्पादयतु]१९९० तमस्य वर्षस्य एप्रिल्मासे सा राज्यसभासदस्यत्वेन चिता जाता । १९९६ तमे वर्षे ११ लोकसभानिर्वाचने दक्षिणदेहलीक्षेत्रात् चिता जाता । तावत् पर्यन्तम् अपि सा राज्यसभासदस्यरूपेण एव कार्यं निर्वहन्ती आसीत् । अटलबिहारिवाजपेयीवर्यस्य १३ दिनात्मके सर्वकारे सा केन्द्रीयतथ्यसम्प्रासारणमन्त्रिरूपेण कार्यम् अकरोत् । तदवधौ एव सा लोकसभाचर्चागोष्ठीनां साक्षात् प्रसारणम् आरब्धवती ।
केन्द्रीयमन्त्री तथ्यप्रसारण-दूरसंवहनविभागः
[सम्पादयतु]सुषमा १९९८ तमे वर्षे १२ लोकसभानिर्वाचने दक्षैणदेहलीलोकसभाक्षेत्रतः पुनः द्वितीयवारं चिता जाता । पुनरागते वाजपेयिसर्वकारे सा तथ्यसम्प्रसारणमन्त्रित्वेन दूरसंवहनविभागमन्त्रित्वेन च शपथग्रहणम् अकरोत् । १९८८ तमस्य वर्षस्य मार्च्-मासस्य १९ दिनाङ्कतः अक्टोबर्-मासस्य १२ दिनाङ्कपर्यन्तम् इदं कार्यं निरवहत् । अस्मिन् अवसरे तया स्वीकृतः अत्यन्तं प्रमुखः निर्णयः आसीत् - चलनचित्रक्षेत्रम् उद्यमत्वेन परिगणितवती । अस्मात् चित्रोद्यमः वित्तकोशतः धनसाहाय्यं प्राप्तुं क्षमः जातः । ततः पूर्वं भूजगतः ऋणाधिक्येन एव धनसाहाय्यं प्राप्नोति स्म । अनेन एकेन निर्णयेन चित्रोद्यमः भूजगतः ग्रहणात् मुक्तः जातः । सा विश्वविद्यालयपक्षतः अन्यशैक्षिकसंस्थाभ्यः च सामाजिक-आकाशवाणीम् आरब्धवती ।
सा १९९८ तमस्य वर्षस्य अक्टोबर्मासे देहल्याः प्रथममहिलामुख्यमन्त्रिस्थानम् अलङ्कर्तुं केन्द्रमन्त्रिस्थानाय त्यागपत्रम् अयच्छत् । किन्तु मूल्यवृद्धिकारणादिभिः भारतीयजनतापक्षेण विधानसभानिर्वाचने पराजयः प्राप्तः इत्यतः सा त्यागपत्रं समर्प्य राष्ट्रियराजनीतिक्षेत्रं प्रत्यागता ।
सोनिया गान्धिविरुद्धं स्पर्धा
[सम्पादयतु]१९९९ तमे वर्षे काङ्ग्रेस्पक्षस्य अध्यक्षायाः सोनियागान्धिविरुद्धं स्पर्धितुं भारतीयजनतापक्षः एतां न्ययोजयत् । क्षेत्रम् आसीत् कर्णाटकस्य बेळ्ळारी यत्र भारतस्वातन्त्र्यकालतः अपि काङ्ग्रेस्पक्षेण एव जयः प्राप्तः आसीत् । तत्र तया कन्नडभाषया एव सार्वजनिकप्रचारभाषणानि कृतानि । तया कृतेन १२ दिनानां प्रचारकार्येण एव ३,५८,००० मतानि तया प्राप्तानि । किन्तु ७% मतैः सा निर्वाचने पराजिता । [६]
संसद्प्रति प्रत्यागमनम्
[सम्पादयतु]२००० तमे वर्षे सा उत्तरप्रदेशतः राज्यसभासदस्यतां प्राप्य संसद्प्रति प्रत्यागता । उत्तरप्रदेशात् उत्तरखण्डराज्यं नूतनतया रचितं यदा जातं तदा सा तत्र प्रेषिता ।[७] सा तथ्यसम्प्रसारणमन्त्रिरूपेण नियुक्ता जाता यस्मिन् पदे सा २००० तमवर्षस्य सेप्टेम्बर्मासतः २००३ तमवर्षस्य जनवरीमासपर्यन्तम् आसीत् ।
केन्द्रस्वास्थ्यमन्त्री
[सम्पादयतु]सा स्वास्थ्य-परिवारनिगममन्त्रित्वेन २००३ तमस्य वर्षस्य जनवरीमासतः २००४ तमस्य वर्षस्य मेमासपर्यन्तं दायित्वं निरूढवती । केन्द्रमन्त्रिरूपेण कार्यकरणावसरे तया भूपाल् (मध्यप्रदेशः), भुवनेश्वर् (ओडिशाराज्यम्), जोधपुरम् (राजस्थानम्), पाटना (बिहारराज्यम्), रायपुर (छत्तिस्गढ्), हृषीकेशः (उत्तराखण्ड) इत्येतेषु षट्सु स्थलेषु अखिलभारतीयवैद्यशिक्षणकेन्द्राणि (All India Institute of Medical Sciences) संस्थापितवती ।
प्रतिपक्षोपनायिका, राज्यसभा
[सम्पादयतु]२००६ तमे वर्षे एप्रिल्मासे सुषमा मध्यप्रदेशतः राज्यसभासदस्यत्वेन पुनः चिता जाता । २००९ तमस्य वर्षस्य एप्रिल्मासपर्यन्तं सा राज्यसभायाः भारतीयजनतापक्षस्य उपनायिकारूपेण कार्यम् अकरोत् ।
प्रतिपक्षनायिका, लोकसभा
[सम्पादयतु]२००९ तमे वर्षे जाते १५ लोकसभानिर्वाचने सा मध्यप्रदेशस्य विदिशालोकसभाक्षेत्रतः ४,००,००० अधिकमतैः जिता जाता । २००९ तमस्य वर्षस्य डिसेम्बर्मासे २१ तमे दिनाङ्के सा प्रतिपक्षनायिकारूपेण लाल कृष्ण आडवाणीवर्यस्य स्थाने नियुक्ता जाता । २०१४ तमस्य वर्षस्य मेमासे जाते निर्वाचने तस्याः पक्षेण महान् विजयः प्राप्तः । तावत्पर्यन्तमपि तया तस्मिन् पदे एव कार्यं निरूढम् । [८][९][१०] [११]
वैशिष्ट्यानि
[सम्पादयतु]१९७७ तमे वर्षे स्वीये २५ तमे वयसि कनिष्ठवयस्क-केन्द्रमन्त्रिरूपेण नियुक्ता जाता । १९७९ तमे वर्षे स्वीये २७ तमे वयसि सा हरियाणराज्यस्य जनतापक्षस्य अध्यक्षा जा । भारतीयराष्ट्रियपक्षस्य वक्तृरूपेण नियुक्ता प्रथममहिला सुषमा स्वराज । सा भारतीयजनतापक्षस्य अधोनिर्दिष्टेषु सर्वेषु अपि उत्तरदायित्वेषु प्रथममहिलारूपेण नियुक्ता - मुख्यमन्त्री, केन्द्रमन्त्री, कार्यदर्शी, वक्ता, प्रतिपक्षनायकः च । अतिविशिष्टसांसदिकप्रशस्तिं प्राप्तवती एषा आदिमा अद्वितीया च वर्तते । तया एकादशसु निर्वाचनेषु चतुर्भ्यः राज्येभ्यः स्पर्धितवती । सा गतेभ्यः त्रिंशद्भ्यः वर्षेभ्यः संसत्सदस्या वर्तते ।
वैयक्तिकजीवनम्
[सम्पादयतु]सुषमायाः पतिः स्वराज कौशल, भारतीयसर्वोच्चन्यायालयस्य अनुभवी अधिवक्ता वर्तते । अयं १९९० तः १९९३ वर्षपर्यन्तं मिझोरम्राज्यस्य राज्यपालत्वेन कार्यम् अकरोत् । अयं १९९८ तः २००४ वर्षपर्यन्तं संसत्सदस्यः आसीत् । तयोः पुत्री बान्सुरी आक्स्फर्ड्-विश्वविद्यालयात् पदवीधरा वर्तते । युनैटेड् किङ्ग्ड्म्देशस्थेन इन्नर् टेम्पल्-महाविद्यालयतः विधिशास्त्रे प्राप्तपदवीका इयम् अधिवक्त्री विद्यते । [१२][१३]
निरूढानि उत्तरदायित्वानि
[सम्पादयतु]- १९७७-८२, १९८७-९०, हरियाणा विधानसभासदस्या
- १९७७-७९ केन्द्रमन्त्री, श्रम-उद्योगमन्त्रालयः, हरियाणासर्वकारः
- १९८७-९० केन्द्रमन्त्री, शिक्षणम्, आहारमन्त्रालयः, हरियाणासर्वकारः
- १९९० तमवर्षस्य एप्रिल्मासे राज्यसभासदस्यत्वेन चिता (प्रथमः पर्यायः)
- १९९६ सदस्या, ११ लोकसभा (द्वितीयः पर्यायः)
- १६ मे - १ जून् १९९६ केन्द्रीयमन्त्री, तथ्यसम्प्रसारणमन्त्रालयः
- १९९८ सदस्या, १२ लोकसभा (तृतीयः पर्यायः)
- १९ मार्च् - १२ अक्टोबर् १९९८ केन्द्रीयमन्त्री, तथ्यसम्प्रसारणमन्त्रालयः
- नवेम्बर् १९९८ - देहलीविधानसभाक्षेत्रात् चिता, त्यागपत्रं समर्प्य लोकसभास्थानं रक्षितवती ।
- एप्रिल् २००० राज्यसभां प्रति चिता (चतुर्थः पर्यायः)[१४]
- ३० सेप्टेम्बर् २००० - २९ जनवरी २००३ तथ्य-सम्प्रसारणमन्त्री
- २९ जनवरी २००३ - २२ मे २००४ स्वास्थ्य-कुटुम्बनिगम-मन्त्री
- एप्रिल् २००६ राज्यसभां प्रति पुनः चिता (पञ्चमः पर्यायः) [१५]
- १६ मे २००९ १५ लोकसभां प्रति चिता (षष्ठः पर्यायः) [५]
- ३ जून् २००९ लोकसभायाः उपनायकत्वेन चिता
- २१ डिसेम्बर् २००९ प्रतिपक्षनायिका जाता - लाल कृष्ण आडवाणिस्थाने
- २६ मे २०१४ विदेशीयमन्त्री, भारतसर्वकारः
टिप्पणी
[सम्पादयतु]- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2014-04-27. आह्रियत 2014-06-27.
- ↑ "At a glance: Sushma Swaraj, from India's 'youngest minister' to 'aspiring PM'". India TV. 15 June 2013. आह्रियत 6 August 2013.
- ↑ BJP's Sushma Swaraj to contest Lok Sabha polls from Vidisha constituency. NDTV.com (13 March 2014). Retrieved on 21 May 2014.
- ↑ "The push for a Swaraj party". Tehelka. आह्रियत 19 December 2013.
- ↑ ५.० ५.१ "Detailed Profile – Smt. Sushma Swaraj – Members of Parliament (Lok Sabha) – Who's Who – Government: National Portal of India". India.gov.in. Archived from the original on 27 April 2014. आह्रियत 27 April 2014.
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2012-09-29. आह्रियत 2014-06-27.
- ↑ "SUSHMA SWARAJ (1952--)". Archived from the original on 2009-06-19. आह्रियत 2009-06-19.
- ↑ "Advani quits as Leader of Opposition". आह्रियत 18 December 2009.
- ↑ "New India opposition leader named". BBC News. 18 December 2009. आह्रियत 27 April 2014.
- ↑ "Lok Sabha". NIC. आह्रियत 27 April 2014.
- ↑ "षोडशलोकसभा-निर्वाचनस्य फलम्- भारतीयजनतापक्षस्य विजयः". saharasamay. 16 May 2014. Archived from the original on 19 May 2014. आह्रियत 20 May 2014.
- ↑ "A sneak peek into Sushma Swaraj's life". Dainik Bhaskar. 28 March 2013. आह्रियत 27 April 2014.
- ↑ "Sushma Swaraj re-invents herself in a party dominated by Narendra Modi". The Economic Times. 25 February 2014. Archived from the original on 27 April 2014. आह्रियत 27 April 2014.
- ↑ "Brief Bio-data. Member of Rajya Sabha. Sushma, Shrimati". Archived from the original on 2006-05-28. आह्रियत 2006-05-28.
- ↑ Detailed Profile – – Members of Parliament (Rajya Sabha) – Who's Who – Government: National Portal of India. India.gov.in. Retrieved on 30 July 2011.