कर्कटी (राक्षसी)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
  1. REDIRECT साँचा:ज्ञानसन्दूक म्रिथ जिव


ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभावेण ब्रह्मवादिनी अभवत् । एताम् अथर्ववेदमन्त्रदृष्ट्री इति सङ्केतितमस्ति । सामान्यतः भूतप्रेतसंहारार्थम् उच्यमानान् मन्त्रान् एषा एव रचितवती । अतः एव..

हिमालयस्योत्तरे देशे
कर्कटीनाम राक्षसी ।
तस्याः स्मरणमात्रेण
दुःस्वप्नः शम नं व्रजेत् ॥

इति एतं श्लोकं रात्रौ शयनस्मये उक्त्वा शयनं करोति चेत् दुःस्वप्नाः नागच्छन्ति इति वदन्ति । बृहदाकारस्य दन्ताः, गाढरक्तवर्णस्य नेत्राणि, कपिलवर्णस्य, शुष्करूक्षाः केशाः, भयानकं मुखं, विशालं शरीरं, खनिजाङ्गारम् इव कृष्णवर्णः एवं तस्याः रूपं बहुकरालः आसीत् । शाल्मलिवृक्षवत् दीर्घाः हस्तपादाः च आसन् इत्यनेन एतस्याः नाम कर्कटी इति अभवत् ।

क्रूरा घोरा राक्षसी[सम्पादयतु]

एतस्याः निवासः हिमालयपर्वतानाम् उत्तरभागे आसीत् । एतस्याः बृहत् उदरम् । सर्वदा महती बुभुक्षा । अतः कियत् खादति चेदपि पर्याप्तमिति न भासते स्म । अतः एषा दिनरातौ अटन्ती बहुप्राणिनः खादति स्म । तथापि तस्याः क्षुधायाः तृप्तिः न भवति स्म । बुभुक्षा तु दिनेदिने वर्धिता । एतेन कष्टेन सा दुःखिता जाता । जम्बूद्वीपस्य समस्तप्राणिनः जीविनः च एकश्वासेन, एककवलेन मम उदरं गच्छन्ति चेत् मम बुभुक्षा निवारणा स्यात् इति सा चिन्तितवती । किन्तु एतद् कथं सम्भवति ? जम्बूद्वीपस्य अधिकसङ्ख्यायाः मानवाः धर्मात्माः सन्ति । एषा राक्षसी कथं तान् स्पृशति ? तेषाम् अङ्गुलीस्पर्षमपि कर्तुम् एषा न शक्नोति । तथा कर्तुम् एषा असमर्था । एतेषां मानवानां सम्बन्धितान्, एतेषाम् आश्रये, रक्षणे विद्यमानान् पशुपक्षिणः स्पर्शमपि कर्तुम् एषा न शक्नोति । अतः सा अभीष्टसिद्ध्यर्थं ब्रह्माणम् उद्दिश्य कठोरतपः आरब्धवती ।

ब्रह्मणः वरम्[सम्पादयतु]

बहुवर्षाणाम् अनन्तरम् एतस्याः तपसा सन्तुष्टः प्रत्यक्षः ब्रह्मदेवः वरं याचताम् इति अवदत् । अश्राम्यं सुदृढं सूचीसदृशं शरीरं मे अनुगृह्णातु । एतेन अहं यत्रकुत्रापि यदाकदापि वा गत्वा सर्वान् प्राणिनः खादितुं शक्नोमि इति वरम् अयाचत । तथास्तु भवती मारिरोगः इव भवतु । अपरिमितभोजनकर्तॄन्, कुत्सितस्थाने वसन्तान्, मलिनवस्त्रधरान्, अपवित्रद्रव्यपानजनान्, दुष्क्रियान्वितान्, शास्त्रवर्जितकर्मेषु निरतान् जनान् सम्भक्ष्य आनन्देन वसतु । किन्तु ये स्वच्छाः, सदाचारिणः, मन्त्रपठिताराः सन्ति ते भवतः आक्रमणेन रक्षिताः भवन्तु । अतः तान् भवती न स्पृशतु एव । इत्युक्त्वा ब्रह्मदेवः एतेन सम्बद्धं मन्त्रम् उक्त्वा अदृश्यः अभवत् । राक्षसी शुष्कत्वेन सूक्ष्मरूपशरीरं प्राप्तवती । सा सूच्याः अपेक्षया लघु जाता । सा बृहत् मारीरोगरूपेण प्राणिनः संहारं कर्तुम् आरब्धवती । सूक्ष्मशरीरेण सा मलिनस्थानानां, कीटैः युक्तस्थानानां, धर्मशालानां, मांसमद्यविक्रयणस्य च स्थानानां च आक्रान्तवती । बहुनरमांसभक्षणं कृतवती ।

पुनः तपः[सम्पादयतु]

किन्तु मानसिकी तृप्तिः प्राप्ता चेदपि शारीरिकतृप्तिः न प्राप्तः । सूक्ष्मशरीरस्य सूक्ष्मभोगः स्थूलशरीरस्य न भवति । अतः तस्यै स्थूलशरीरस्य वाञ्छा समुत्पन्ना । अतः सा पूर्ववत् स्थूलरूपं प्राप्तुं कठोरतपः आरब्धवती । सप्तसहस्रवर्षपर्यन्तं सा तपः आचरितवती । एतेन तस्याः अन्तःकरणस्य शुद्धीकरणं जातम् । इन्द्रियवासनायाः नाशः अभवत् । तस्याः आत्मशुद्धिः अभवत् । विशुद्धान्तःकरणे तत्त्वज्ञानस्य उदयः अभवत् । एतम् आत्मानन्दं प्राप्य राक्षसी तृप्ता जाता । तस्याः तपस्समाधिः अखण्डा आसीत् । इदानीमपि ब्रह्मा प्रत्यक्षः अभवत् । तस्याः वचनात् पूर्वमेव सः एवं वरं दत्तवान् । पुत्रि भवत्याः देहः पूर्ववत् बृहत् भवतु । विना प्रयासेन भवती आहारं प्राप्स्यति । इतः परम् अपि भवती तपः एव कुर्वती भवतु । यदा तस्समाधितः उत्तिष्ठति तदा भवत्याः आहारः लभ्यते । सत्सङ्गार्थं यत्नं कुर्वती अग्रे गच्छतु । इति वरं दत्त्वा ब्रह्मा अदृश्यः अभवत् । राक्षस्याः शरीरं पुनः पूर्ववत् अभवत् । सा बृहदाकारं प्राप्तवती । किन्तु ध्यानेन तस्या तृप्तिः न जातमासीत् । अतः सा पुनः षण्मासपर्यन्तं तपः आचरितवती ।

जीवनमार्गपरिवर्तनम्[सम्पादयतु]

तपसा उत्थानानन्तरं तस्याः बहुबुभुक्षा आरब्धा । आहारम् अन्वष्यन्ती प्रस्थितवती सा । तदानीम् आहारसम्पादनार्थम् अन्यायमार्गं प्राणिहिंसां वा सा न इच्छति स्म । न्यायपूर्णाहारान्वेषणे पर्वतप्रदेशस्य कञ्चित् किरातराज्यं प्रविष्टवती । तस्य समीपस्थवने सा अटन्तौ द्वौ गुप्तवेषधारिणौ दृष्टवती । एते मम भोजनं भवेयुः । यदि एते पापिनः, चोराः, दस्यवः तर्हि एतान् अहं खादितुं शक्नोमि । किन्तु रात्रौ महात्मनः अपि अटन्ति । अतः एतेषां परीक्षां करोमि । एते यदि महात्मनः तर्हि एतेषां सत्सङ्गं प्राप्य अहं कृतार्था भवामि। एवं चिन्तयित्वा सा तेषां पुरतः अगच्छत् । एवम् अवदत् च.. हे क्षुद्रकीटाः भवन्तः केऽपि वा भवन्तु, इदानीं मम आहारः इव सन्ति । रात्रेः अन्धकारे अरण्ये तादृशं विकाररूपं पुरतः दृष्ट्वा तस्य गर्जनं श्रुत्वा द्वयोर्मध्ये एकः अपि भयं न अनुभूतवान् । इतः ततः धावनमपि न कृतवान् । हे मातः का अस्ति भवती ? स्वतः भयेन चीत्कारं तु न कुर्वती अस्ति किल ? एवं कोपं किमर्थं कुर्वती अस्ति ? किमपि पृष्टव्यं चेत् पृच्छतु अहम् अत्रत्यः राजा अस्मि । एषः मम मन्त्री अस्ति । अस्माकं भायनस्य यत्नं त्यजतु । यतः प्रयत्नः तु व्यर्थः भवति । इति तयोः कश्चित् धीरस्वरेण अवदत् । सः एव राजा आसीत् । अहं काचित् राक्षसी । इदानीं मह्यम् महती बुभुक्षा अस्ति । भवन्तौ द्वौ अपि एतादृशरात्रेः अन्धकारे अटन्तौ मृत्युमुखं प्राप्तवन्तौ स्तः । मम प्रश्नेभ्यः सम्यक् उत्तरं यच्छति चेत् भवन्तौ त्यजामि । अन्यथा भवन्तौ खादामि । इत्युक्त्वा राक्षसी पुरतः स्थितौ सामान्यौ न इति ज्ञातवती ।

अध्यात्मसंवादः[सम्पादयतु]

खादनस्य वा मृत्योः भयोत्पादनप्रयत्नः वा व्यर्थः । विना परमात्मनः इच्छया, मम कर्मफलसमाप्तिं विना च कोऽपि मां मारयितुं न शक्नोति । भवती किं प्रष्टुम् इच्छति पृच्छतु मम शक्तिः यावत् अस्ति तावत् उत्तरं दातुं, भवत्याः समधानं कारयितुं च यत्नं करोमि । इति अधिकारवाण्यां प्रत्युत्तरं दत्तवान् राजा । एवं राक्षसी अपृच्छत् । राजा प्रत्यवदत् ।

प्रश्नः - एकानेकरूपाणि प्राप्यापि परमाणौ लक्षाधिकब्रह्माण्डानि कः स्थितवान् अस्ति ?
उत्तरम् - अहो भवत्याः जिज्ञासा तु परमात्मसम्बद्धा । नामरूपः इन्द्रियातीतः परमसूक्ष्मः चिन्मात्रपरमात्मा एव परमाणौ विद्यमाना शक्तिः । सः एव स्वयम् परमाणुः । बीजे यथा वृक्षः भवति तथा सः जगतः रूपे सत् भूत्वा, प्रलयसमये अविद्यमानरूपस्य अस्त् भूत्वा तिष्ठति । तथापि सः एतेभ्यः सर्वेभ्यः बहिः भवति । सः एव परमाणौ प्रविश्य, कोटिकोटिब्रह्माण्डान् स्वस्मिन् अन्तर्गतं करोति ।
प्रश्नः - अहं का ? भवन्तः के ?
(कस्याश्चित् राक्षस्याः मुखात् ब्रह्मज्ञानसम्बद्धः एतादृशाः प्रश्नाः बहिः आगच्छति इत्युक्ते आश्चर्यमेव ) अहं, भवान् इति भेदः अज्ञानजन्यः अस्ति । पार्थक्यज्ञानं (पृथक् पृथक् इति मन्यमाना) सत्यं न
प्रशनः - किम् चलति ? किम् स्थिरतया तिष्ठति ? (कः चलन् अस्ति ? कः स्थिरतया स्थितवान् अस्ति ?)
उत्तरम् - देशकालव्याप्तिम् अतिक्रम्य सर्वत्र प्रसृतस्य चलनं कुत्र अस्ति ? एषा कल्पना एव भ्रान्तियुक्ता अस्ति
प्रश्नः - चैतन्ययुक्तः चेदपि शिला इव जडत्वेन कः तिष्ठति ?
उत्तरम् - मिथ्याजगतः बहिः आगत्य तादात्म्यतां प्राप्य चैतन्यघनं स्वं जडः इति विश्वसिति ।
प्रश्नः - परमसूक्ष्मः कः अस्ति ?
उत्तरम् - ज्ञातुं कष्टम्, अशक्यः सः सर्वेश्वरः एव परमसूक्ष्मः ।
प्रश्नः - दीपः, अन्धकारः, प्रकाशः, तमः इत्युक्ते किम् ? के ते ?
उत्तरम् - ज्ञातुम् अशक्यः सः एव तमः । यं ज्ञातुं न शक्यते सः एव अन्धकारः । तस्य ज्ञानानन्तरं सः प्रकाशः भवति । परमात्मनः ज्ञानप्राप्तिः एव दीपः । अविनाशी, ज्ञानस्वरूपः अपि च सः एव । इन्द्रियद्वारा तं ज्ञातुं न शक्यते । एतद् वर्णनं सर्वं तस्मै परमात्मने एव अन्वयः भवति ।
प्रश्नः - निमेषः (पक्ष्मणः निमीलनोन्मीलनकालः) चेदपि कल्पः भूत्वा, कल्पः चेदपि निमेषः भूत्वा स्थितवान् कः अस्ति ?
उत्तरम् - मनसि (स्वप्ने) कञ्चित् विस्तारं नगरं द्रष्टुं शक्यते । एवमेव कल्पः इव विस्तारस्य जगतः वाणिज्यं निमेषे एव दृष्टुं शक्यते । कल्पः निमेषः विस्तारः सूक्ष्मः च एते सर्वेऽपि तस्मिन् चैतन्यघने समाविष्टाः सन्ति । एतद् सर्वं प्रकाशे सम्मिलितं भवति । भावनानुगुणम् असत्यं सत्यं भवति । सत्यम् असत्यं भवति ।
प्रश्नः - प्रत्यक्षः चेदपि नास्ति इत्युक्ते किम् ? चैतन्यं चेदपि जडः एतस्य अर्थः कः ? वायुः चेदपि अवायुः कः ? शब्दः चेदपि निःशब्दस्थितिः इत्युक्ते किम् ? अहं चेदपि तद् नास्ति इत्युक्ते किम् ? सर्वरूपी चेदपि निराकारः इत्युक्ते किम् ?
उत्तरम् - दृश्यस्य यथार्थता इन्द्रियानुभवस्य आधारेण भवति । एतद् परिवर्तनशीलम्, अविनाशी, आद्यन्तरहितः च । अतः प्रत्यक्षः चेदपि नास्ति इव अस्ति । सः एव चेतनातत्त्वरूपेण प्रतिभासितः अस्ति । अतः चेतनं चेदपि जडः इव अस्ति । वायोः, शब्दस्य, अहङ्कारस्य च सर्वस्वरूपाणि, भावाः च तस्मिन् एव अनुष्ठितम् अस्ति । सः एतेषु सर्वरूपेषु दृश्यते । एवं चेदपि सः एतेन सर्वेण बहिः भवति । अतः सः एकरसः, समानस्वाभावः, निर्विकारः च अस्ति । (योगवासिष्ठस्य उत्तरकाण्डे एषा कथा अस्ति । ) राक्षस्याः केभ्यश्चित् प्रश्नेभ्यः राजा, इतोऽपि केभ्यश्चित् प्रश्नेभ्यः मन्त्री च उत्तरं दत्तवन्तौ । एतेषां मननम् अत्यगत्यम् ।

प्रसन्नाराक्षस्याः उपकारः[सम्पादयतु]

एतैः उत्तरैः प्रसन्ना राक्षसी एवम् अवदत् । धीरौ अहं सन्तुष्ठा अस्मि । साधुसन्तानां सङ्घस्य अपेक्षया अधिकं सुखकरम् । अस्मिन् जगति अन्यद् किमपि नास्ति । भवन्तौ मां कृतार्थां कृतवन्तौ सतः । भवद्भ्यां सेवाकरणं मम कर्तव्यम् । अहं कां सेवां करोमि सूच्यताम् । मम राज्ये प्रजाः मारीरोगात् वान्यरोगात् पीडिताः सन्ति । एतस्य कष्टस्य निवारणार्थं, तस्य परिहारस्य मार्गम् अन्वष्यन्तौ आवाम् एतस्मिन् अन्धकाररात्रौ प्रस्थितवन्तौ आस्ताम् । भवती लब्धा । एतस्य परिहारमार्गाः सन्ति चेत् कृपया सूचयतु । इति राजा राक्षसीम् अपृच्छत् । सा गत्वा भूर्जपत्रसस्यस्य पर्णम् आनीतवती । तं तस्मै दत्त्वा अवदत् । चन्द्रमण्डलस्य मन्त्रम् अस्मिन् पर्णे लिखित्वा, तायके स्थापयित्वा अथवा एवमेव रुग्णः दक्षिणभुजे बद्नतु । अनन्तरं दक्षिणहस्तं वामहस्ते स्थापयित्वा रोगीं स्नानैः शुद्धं कृत्वा, मन्त्रयुक्तं जलं तस्मै प्रोक्ष्यति चेत् सः रोगः तस्मात् बहुदूरं धावति । एवं मन्त्रेण बद्धं मारीरोगः किमपि न करोति । रोगेण सः विमुक्तः भवति । इति राक्षसी तस्य विधिविधानानि च विवृतवती । एवं मन्त्रिणा सह राजा नदीतीरं प्राप्तवान् । स्नानम्, आचमनं च कृत्वा राजा सज्जः जातः । राक्षसी तं रक्षामन्त्रम् उपदिष्टवती ।

ॐ ह्रीं ह्रां रीं रां विष्णुसक्तये नमः ।
ओं मनोभगवति विष्णुशक्तिमेनां ॥
ओं हरिहर नय नय पच पच मथ मथ उत्सादय दूरे कुरु स्वाहा ।
हिमवन्तं गच्छ जीव सः सः चन्द्रण्डलगतो असि स्वाहा ॥

मन्त्रोपदेशानन्तरं राजा म्रतापूर्वकेन प्रार्थनां करोति, हे मातः एतस्य मन्त्रस्य उपदेशं कृत्वा भवती मम गुरुः अभवत् । कृपया भवती सुन्दरस्त्रीरूपं धृत्वा मम प्रासादम् आगच्छतु । मम सत्कारं स्वीकरोतु । राजन् मानवस्तरस्य भोगैः मतसदृश्याः । राक्षस्याः तृप्तिः भवती वा ? मह्यं भवान् कीदृशम् आहारं ददाति ? वदतु भवती षड्दिनपर्यन्तं मानवभोगादरे एव तृप्तिं प्राप्नोतु । एतेषु षड्दिनेषु मम राज्ये येभ्यः चोरेभ्यः, दस्युभ्यः प्राणदण्डना दण्डः दीयते तान् आनीय भवत्यै अर्पयामि । तान् स्वीकृत्य भवती हिमालयपर्वतं गच्छतु । पुनः तपः कृत्वा जागरणानन्तरं पुनरागच्छतु । भवत्यै भवत्याः भक्ष्यानि सङ्गृह्य एकत्र स्थापयामि । एतया व्यवस्थया तृप्ता राक्षसी ततः प्रस्थितवती । एवं प्रतिवारं तपसा उत्थाय कर्कटी, तस्य राज्ञः राजधानीम् आगच्छति स्म । राजा प्राणदण्डम्, आमरणान्तदण्डं प्राप्तवन्तान् अपराधीन् तस्यै ददाति स्म । सा तान् अपराधिजनान् नीत्वा स्वस्य बुभुक्षां निवारयति स्म । राजा कस्याञ्चित् गुहायां राक्षस्याः प्रतिमां स्थापयित्वा, तस्याः पूजाव्यवस्थां कृतवान् । एवं तस्य राज्यस्य प्रजाः अपि प्रतिमायाः पूजां कृत्वा रोगबाधया मुक्ताः भवन्ति स्म ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्कटी_(राक्षसी)&oldid=400180" इत्यस्माद् प्रतिप्राप्तम्