कुमार गन्धर्व
कुमार गन्धर्वः | |
---|---|
मूलतः | भारतीयः |
सङ्गीतविद्या | हिन्दुस्तानीशास्त्रीयसङ्गीतम् |
वृत्तिः | गायकः |
सक्रियवर्षाणि | क्रि.श १९३७ तः १९९२ । |
कुमार गन्धर्वः (Kumar Gandharva) (क्रि.श. १९२४ तः १९९२) ख्यातः हिन्दुस्तानीसङ्गीतस्य गायकः । अस्य मूलं नाम शिवपुत्रः सिद्धरामय्य कोङ्काळी इति । एषः क्रि.श. १९२४ तमवर्षस्य एप्रिल् मासस्य अष्टमे दिने धारवाडप्रदेशे अजायत । बाल्ये क्षयरोगेन पीडितः एकः पुप्फुसः निष्क्रियः अभवत् । अतः एकेन पुप्फुसबलेन सङ्गीताभ्यासः अनिवार्यः अभवत् । अतः स्वगानशैलीं दौर्बल्येन सह समञ्जनं कृतवान् । एवं सत्यपि बाल्ये एव अनुपमां प्रतिभां प्रदर्शितवान् । तदानीन्तने काले प्रसिद्धहिन्दुस्तानीसङ्गीतज्ञौ बालगन्धर्वः, सवायी गन्धर्वः च अस्य प्रतिभाम् अनुलक्ष्य अस्य नाम "कुमारगन्धर्वः" इति कृतवन्तौ ।
घराणा निबद्धः न
[सम्पादयतु]कुमारगन्धर्वः यस्याः कास्याश्चिदपि घराणायाः विषये निबद्धः न । एषः शास्त्रीयं सङ्गीतम् अतिरिच्य मराठीनाट्यसङ्गीतं भजनानि, मध्यप्रदेशराज्यस्य मालवा जानपदगीतानि अपि गीतवान् । जानपदीयं सङ्गीतम् एव शास्त्रीयसङ्गीतस्य जननी इति कुमारगन्धर्वस्य अभिप्रायः । एषः काञ्चन रागान् सृष्टवान् अस्ति । यथा मधुसूर्जः, अहिमिहिनी, सहेलितोडी, बिहादभैरवः, लगनगान्धारः, सञ्जारी, मालवती इति ।
कुटुम्बः
[सम्पादयतु]कुमारगन्धर्वस्य पुत्री कलापिनि कोङ्काळी, पुत्रः मुकुल शिवपुत्र च हिन्दुस्तानीगायकौ । सत्यशीला देशपाण्डे अस्य प्रमुखा शिष्या ।
प्रशस्तिः
[सम्पादयतु]क्रि.श. १९९० तमे वर्षे पद्मविभूषणप्रशस्तिः
मरणम्
[सम्पादयतु]क्रि.श. १९९२ तमवर्षस्य जनवरिमासः।
बाह्यानुबन्धाः
[सम्पादयतु]- ಕುಮಾರ ಗಂಧರ್ವ
- ಮ್ಯೂಸಿಕ್ ಇಂಡಿಯ ಆನ್ಲೈನ್ನಲ್ಲಿ ಕುಮಾರ ಗಂಧರ್ವ Archived २००५-१२-३० at the Wayback Machine