सामग्री पर जाएँ

पटनामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पाटनामण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
पटनामण्डलम्

𑂣𑂗𑂢𑂰⸱𑂧𑂝𑂹𑂙𑂪 / पटना मण्डल
पटना ज़िला
गोलघर इत्यस्य दृश्यम्
गोलघर इत्यस्य दृश्यम्
Location of पटनामण्डलम्
Coordinates (पटना): २५°२५′ उत्तरदिक् ८५°१०′ पूर्वदिक् / 25.417°उत्तरदिक् 85.167°पूर्वदिक् / २५.४१७; ८५.१६७निर्देशाङ्कः : २५°२५′ उत्तरदिक् ८५°१०′ पूर्वदिक् / 25.417°उत्तरदिक् 85.167°पूर्वदिक् / २५.४१७; ८५.१६७
देशः भारतम् भारतम्
राज्यम् बिहार
विभागः पटना
मुख्यालयः पटनानगरम्
Government
  लोकसभा निर्वाचनक्षेत्राणि १. पाटलिपुत्र,
२. पटना साहिब,
३. मुङ्गेर (मुङ्गेरमण्डलेन सह आप्नोति)
  विधानसभा निर्वाचनक्षेत्राणि १४
Area
  योगः ३,२०२ km
Population
 (२०११)
  योगः ५८,३८,४६५
  Rank (भारतदेशे- १५तम)[]
  Density १,८००/km
  Urban
२५,१४,५९०
जनसङ्ख्याशास्त्रम्
  साक्षरता (२०११) ७०.६८%
  लिङ्गानुपात १.८९७ /
Time zone UTC+५:३० (भा॰मा॰स॰)
मुख्यराजमार्गः रा॰रा॰ ३०, रा॰रा॰ ८३
Website patna.nic.in

पटनामण्डलं (मगही: 𑂣𑂗𑂢𑂰⸱𑂧𑂝𑂹𑂙𑂪/पटना मण्डल, हिन्दी: पटना ज़िला, आङ्ग्ल: Patna district) भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलमस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पटनानगरं यत् बिहारराज्यस्य राजधानी अपि अस्ति । पटनामण्डलं पटनाविभागस्य भागः अस्ति ।

२०११ तमे वर्षे इदं बिहारराज्यस्य सर्वाधिकजनसङ्ख्यायुक्तमण्डलं भारतस्य पञ्चदशं जनसङ्ख्यायुक्तमण्डलं च अस्ति ।

इतिहासः

[सम्पादयतु]

पटना विश्वस्य प्राचीनतमेषु निरन्तरनिवासस्थानेषु अन्यतमम् अस्ति । मगधराजेन ४९० ई॰पू॰ तमे वर्षे अस्य स्थापना कृता । पाटलिपुत्रम् इति नाम्ना प्रसिद्धा प्राचीनपटना हर्यक-नन्द-मौर्य-शुङ्ग-गुप्त-पालसाम्राज्येषु मगधसाम्राज्यस्य राजधानी आसीत् । पाटलिपुत्रं विद्या-ललितकला-योः पीठम् आसीत् ।

आधुनिक-इतिहासः

[सम्पादयतु]

आधुनिकपटनामण्डलस्य निर्माणं १७७० तमस्य वर्षस्य सितम्बर्-मासे बिहारस्य राजस्व-विषयेषु निरीक्षणार्थं ब्रिटानीयैः प्रदेशीयपरिषद्-रूपेण कृतम् । १७९३ तमे वर्षे पटना पृथक् न्यायिकमण्डलम् अभवत् । अनेन आधुनिकमण्डलस्य आधारः अभवत् ।

राज्ये मण्डलानां पुनर्गठनं १९७२ तमे वर्षे अभवत् । ९ नवम्बर १९७२ तमे वर्षे पटनामण्डलस्य बिहारशरीफ अनुमण्डलम् उत्कीर्णं कृत्वा नालन्दामण्डलस्य निर्माणं कृतम् ।

भूगोलः

[सम्पादयतु]

पटनामण्डलस्य क्षेत्रफलं ३,२०२ वर्गकिलोमीटर् अस्ति, पश्चिमदिशि सोननदी, उत्तरदिशि गङ्गानदी च स्तः । दक्षिणे नालन्दा-अरवल-जहानाबादमण्डलैः, पूर्वदिशि बेगूसरायमण्डलेन, आग्नेयदिशि लखीसरायमण्डलेन च सीमान्तम् अस्ति ।

अनुमण्डलानि

[सम्पादयतु]

पटनामण्डले षट् अनुमण्डलानि सन्ति —

  1. पटना सदर
  2. पटना साहिब
  3. बाढ (बाढ़)
  4. दानापुरम्
  5. मसौढी (मसौढ़ी)
  6. पालीगञ्ज

विधानसभानिर्वाचनक्षेत्राणि

[सम्पादयतु]

इदं मण्डलं चतुर्दशसु विधानसभानिर्वाचनक्षेत्रेषु विभक्तम् अस्ति —

  • १७८ मौकामा
  • १७९ बाढ (बाढ़)
  • १८० बख्तियारपुरम्
  • १८१ दीघा
  • १८२ बाँकीपुरम्
  • १८३ कुम्हरार
  • १८४ पटना साहिब
  • १८५ फतुहा (फ़तुहा)
  • १८६ दानापुरम्)
  • १८७ मनेर
  • १८८ फुलवारी (अ॰जा॰)
  • १८९ मसौढी (मसौढ़ी) (अ॰जा॰)
  • १९० पालीगञ्ज
  • १९१ बिक्रम्

लोकसभानिर्वाचनक्षेत्राणि

[सम्पादयतु]

अस्मिन् मण्डले त्रीणि लोकसभानिर्वाचनक्षेत्राणि सन्ति —

  • ३० पटना साहिब इति बख्तियारपुरं, दीघा, बाँकीपुरं, कुम्हरार, पटना साहिब, फतुहा च एतेभ्यः छादयति ।
  • ३१ पाटलिपुत्र इति दानापुरं, मनेर, फुलवारी, मसौढी, पालीगञ्ज, बिक्रं च एतेभ्यः छादयति ।
  • २८ मुङ्गेर इति बाढ, मोकामा च एताभ्यां छादयति, मुङ्गेरमण्डलेन सह आप्नोति च ।

-सङ्ख्याः निर्वाचनक्षेत्रसङ्ख्यां सूचयन्ति ।

जनसङ्ख्याशास्त्रम्

[सम्पादयतु]

२०११ जनगणनानुसारं पटनामण्डलं बिहारराज्यस्य १५तमं जनसङ्ख्यायुक्तं मण्डलम् अस्ति, यस्य जनसङ्ख्या ५८,३८,४६५ अस्ति, निकारगुवादेशस्य अथवा अमेरिकीराज्यस्य मेरिलैण्ड-राज्यस्य तुल्यम् अस्ति । एतस्य मण्डलस्य जनसङ्ख्यासान्द्रता अस्ति १,८२३ प्रति वर्गकिलोमीटर् । २००१–२०११ दशके अस्य जनसङ्ख्यावृद्धिः २२.३४% आसीत् । पटनामण्डलस्य लिङ्गानुपातः अस्ति प्रत्येकं १,००० पुरुषाणां कृते ८९७ महिलानां, साक्षरतादरः अस्ति ७०.६८% । अनुसूचितजातिः अनुसूचितजनजातिः च क्रमशः जनसङ्ख्यायाः १५.७७%, ०.१५% च स्तः ।

पटनामण्डले धर्मः/मतम् (२०११)
धर्मः/मतम् प्रतिशतम्
हिन्दुधर्मः
 
91.74%
इस्लाम्-मतम्
 
7.54%
अन्यो वा नोक्तः
 
0.72%



पटनामण्डले भाषाः (२०११)

  मगही (46.34%)
  हिन्दी (43.77%)
  उर्दू (5.19%)
  मैथिली (1.24%)
  अन्ये (0.78%)

भारतस्य २०११ जनगणनासमये अस्मिन् मण्डले ४६.३५% जनसङ्ख्या मगहीं, ४३.७७% हिन्दीं, ५.१९% उर्दूं, २.६७% भोजपुरीं, १.२४% मैथिलीं च प्रथमाभाषारूपेण उक्तवन्तः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. "District wise population in India as of 2011 census" [२०११ जनगणनानुसारं भारतदेशे मण्डलेन जनसङ्ख्या]. updateOX. २४-०५-२०११. Archived from the original on २९-१२-२०१७. आह्रियत २८-१२-२०१७.
"https://sa.wikipedia.org/w/index.php?title=पटनामण्डलम्&oldid=469588" इत्यस्माद् प्रतिप्राप्तम्