सामग्री पर जाएँ

भोपाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भोपालनगरम् इत्यस्मात् पुनर्निर्दिष्टम्)
भोपाल
राजधानी, महानगरम्
भोपाल-नगरस्य कानिचन प्रसिद्धानि वीक्षणीयस्थलानि
भोपाल-नगरस्य कानिचन प्रसिद्धानि वीक्षणीयस्थलानि
Nickname(s): 
सरोवराणां नगरम्
मध्यप्रदेश राज्यस्य मानचित्रे भोपाल नगर मण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे भोपाल नगर मण्डलम्
देशः भारतम्
राज्यम् मध्यप्रदेशः
मण्डलम् भोपाल
Government
  Body Bhopal Municipal Corporation
  Mayor Krishna Gaur (बिजेपी)
  Municipal Commissioner Rajnish Shrivastava
Area
  Total ६९७.२४ km
Population
 (2011)
  Total १७,९५,६४८
  Density २,५७५/km
Demonym(s) Bhopali
भाषा:
  अधिकृताः हिन्दी
  Other उर्दु
Time zone UTC+5:30 (IST)
Pincode
462001 to 462050
Telephone +91755
Vehicle registration MP-04-
Website bhopalmunicipal.com

भोपाल ( /ˈbhpɑːlə/) (हिन्दी: भोपाल, आङ्ग्ल: Bhopal) इत्येतन्नगरं भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य दशविभागेषु अन्यतमस्य भोपालविभागस्य भोपालमण्डलस्य केन्द्रमस्ति । इदं नगरं मध्यप्रदेशराज्यस्य राजधानी अस्ति । भोपाल-नगरं सरोवराणां नगरम् (City of lakes) इत्यपि प्रख्यातम् अस्ति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं भोपाल-नगरस्य जनसङ्ख्या १७,९५,६४८ अस्ति । अत्र ९,३९,५६० पुरुषाः, ८,५६,०८८ महिलाः च सन्ति । भारतस्य महानगरेषु भोपाल-नगरस्य सप्तदशः क्रमाङ्कः अस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते १६० जनाः वसन्ति । अत्र पुं-स्त्री अनुपातः १०००-९११ अस्ति । अत्र साक्षरता ८५.२४% अस्ति ।

भौगोलिकी स्थितिः

[सम्पादयतु]

भोपाल-नगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३º १५ उ. एवं ७७º २५ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४२७ मी. अस्ति । एतत् नगरं विन्ध्यपर्वतशृङ्खलायाः पूर्वे स्थितम् अस्ति । इदं नगरं पर्वतक्षेत्रे स्थितम् अस्ति परन्तु अत्र तापमानं उष्णतरमेव भवति । अत्र भूभागः असमतलः अस्ति । अत्र बहवः लघुपर्वताः अपि सन्ति, यथा – श्यामला हिल, ईदगाह हिल, अरेरा हिल, कतारा हिल इत्यादयः । अत्र ग्रीष्मर्तौ उष्णता, शीतर्तौ सामान्यशीतलता भवति । वर्षर्तुः सामान्यतः जून-मासतः सितम्बर-मासाभ्यान्तरं भवति ।

इतिहासः

[सम्पादयतु]
गोलघर

भोपाल-नगरस्य प्राचीनं नाम भूपालः इति । उच्यते यत् अस्य नगरस्य नामकरणं कस्यचित् भूपाल-नामकस्य राज्ञः नामोपरि कृतमासीत् । समयान्तरे इदं नगरं नष्टं जातम् । अष्टादशे शतके एतन्नगरं गोण्ड-राज्यस्य लघुग्रामः एव आसीत् । मुगल-शासकेन अफगान राजा दोस्त मुहम्मद खान इत्याख्येन वर्तमानभोपाल-नगरस्य स्थापना कृता । मुगलसाम्राज्यस्य विघटनसमये दोस्त खान इत्याख्येन छलेन बेरासिया-उपमण्डलं वशीकृतम् । एकदा गोण्ड-राज्यस्य राज्ञ्याः कमलापत्याः साहाय्यं दोस्त मुहम्मद खान इत्यनेन कृतमासीत् । अतः राज्ञ्या कमलापत्या गोण्ड-राज्यं दोस्त मुहम्मद खान इत्यस्मै प्रदत्तम् आसीत् । राज्ञ्याः मरणात् परं दोस्त मुहम्मद खान इत्यनेन गोण्ड-राज्यम् वशीकृतम् । १७२०-१७२६ काले दोस्त मुहम्मद खान इत्याख्येन भोपालं दुर्गवत् निर्माय तत्र नगरम् अन्तर्कृतम् । एवं रीत्या दोस्त मुहम्मद खान भोपाल-नगरस्य राजा बभूव । तदा भोपाल-नगरस्य स्थापना जाता । सिद्दीकी-बन्धू इति इमे दोस्त मुहम्मद खान इत्याख्यस्य मित्रे आस्ताम् । मित्रताकारणात् दोस्त मुहम्मद खान इत्ययं हैदराबाद्-नगरस्य निजाम मीर कमर उद्दीन (निजाम उल मुल्क) इत्यनेन सह युद्धमकरोत् । तदा दोस्त मुहम्मद खान इत्ययं पराजितो जातः । भोपाल-नगरं मीर कमर उद्दीन इत्याख्यस्य आधिपत्ये गतम् । मराठा-राजभिः भोपाल-प्रान्तात् करः सङ्गृहीतः । १७३९ तमे वर्षे मराठा-राजभिः मुगल-शासकाः पराजिताः । दोस्त मुहम्मद खान इत्यस्य उत्तराधिकारिणः ब्रिटिश-शासकैः सह सन्धिं कृतवन्तः आसन् । तदा भोपाल-प्रान्तः ब्रिटिश-शासनस्य एकः मुख्यालयः अभवत् । १९४७ तमे वर्षे भारतं स्वतन्त्रं जातम् । तत्समये भोपाल-प्रान्तस्य उत्तराधिकारी आबिद सुल्तान आसीत् । किन्तु सा सर्वं त्यक्त्वा पाकिस्तान-देशं गतवती । ततः परम् आबिद सुल्तान इति इयं स्वस्याः अनुजां भोपाल-प्रान्तस्य उत्तराधिकारिरूपेण उद्घोषितवती । १९४९ तमे वर्षे भारते भोपाल-प्रान्तस्य विलयः जातः ।

वीक्षणीयस्थलानि

[सम्पादयतु]

भोपाल-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तेषु – लघुतडागः, भीम बेटका, अभयारण्यं, भारतभवनम् इत्यादीनि सन्ति । नगरेऽस्मिन् सरोवराः प्रसिद्धाः सन्ति । भोपाल-नगरात् २८ कि. मी. दूरे भोजपुर-मन्दिरम् अस्ति । भोजपुर-मन्दिरम् एकम् ऐतिहासिकं दर्शनीयस्थलम् अस्ति ।

लक्ष्मीनारायण-मन्दिरं, भोपाल

[सम्पादयतु]

भोपाल-नगरस्य अरेरा-पर्वतक्षेत्रे एकं बिडला-मन्दिरम् अस्ति । इदं मन्दिरं पञ्चाशत्वर्षपुरातनम् अस्ति । अस्मिन् मन्दिरे भगवतः विष्णोः, लक्ष्म्याः च मनोहरा प्रतिमा अस्ति । इदं मन्दिरं धार्मिकास्थायाः एकं केन्द्रम् अस्ति । बहवः जनाः तत्र दर्शनार्थं गच्छन्ति । इदं मन्दिरं बहुविस्तृतम् अस्ति । इदं मन्दिरम् आभारते प्रसिद्धमस्ति ।

उच्यते यत् अस्य मन्दिरस्य शिलान्यासः १९६० तमे वर्षे अभवत् । तत्कालीनेन मुख्यमन्त्रिणा डॉ. कैलाशनाथ काटजू इत्याख्येन शिलान्यासः कृतः आसीत् । अस्य मन्दिरस्य उद्घाटनं १९६४ तमे वर्षे तत्कालीनेन मुख्यमन्त्रिणा द्वारका प्रसाद मिश्र इत्याख्येन कृतम् आसीत् । मन्दिरेऽस्मिन् श्वेतशैलेषु पौराणिकदृश्यानां प्रदर्शन्यः सन्ति । तेषु श्वेतशैलेषु गीतायाः रामायणस्य उपदेशाः सन्ति । मन्दिरेऽस्मिन् जगदम्बाशिवयोः अपि प्रतिमे स्तः । मन्दिरस्य परिसरे हनुमतः प्रतिमा शिवलिङ्गं च स्थापितम् अस्ति । मन्दिरस्य मुख्यप्रवेशद्वारे एकः विशालः शङ्खः अस्ति । अस्मिन् मन्दिरे नगरवासिनः कृष्णजन्माष्टमीमहोत्सवे श्रीकृष्णस्य जन्ममहोत्सवस्य आयोजनं कुर्वन्ति, यस्मिन् बहवः श्रद्धालवः गत्वा भगवतः विष्णोः आराधनां कुर्वन्ति ।

भोजपुरम्

[सम्पादयतु]

भोजपुरं भोपाल-नगरात् २८ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरे भगवतः शङ्करस्य एकं मन्दिरं वर्तते । अस्य मन्दिरस्य भोजेश्वर इति नाम । इदं मन्दिरं प्राचीनं, प्रसिद्धं च अस्ति । अस्य मन्दिरस्य निर्माणं परमार-वंशीयेन राज्ञा भोजेन कारितम् । अतः अस्य नगरस्य भोजपुर इति नाम । अस्मिन् मन्दिरे विशालं शिवलिङ्गम् अस्ति । भारतस्य विशालशिवलिङ्गेषु अन्यतमम् अस्ति इदं शिवलिङ्गम् ।

मोती मस्जिद, भोपाल

[सम्पादयतु]

मोती मस्जिद इत्यस्य निर्माणं १८६० तमे वर्षे कदसिया बेगम इत्याख्यायाः पुत्र्या सिकन्दर जहां बेगम इत्यनया कारितम् ।

ताज उल मस्जिद, भोपाल

[सम्पादयतु]
ताज उल मस्जिद

ताज उल मस्जिद इतीदं भारतस्य एकं विशालं मस्जिद अस्ति । अस्य निर्माणकार्यं भोपाल-नगरस्य अष्टमशासकस्य शाह जहाँ इत्यस्य शासनकाले प्रारम्भं जातम् आसीत् किन्तु तस्य जीवनपर्यन्तम् अपि निर्माणं न अभवत् ।

भारत-भवनम्

[सम्पादयतु]

भारत-भवनम् भारतस्य विशिष्टराष्ट्रियसंस्थानेषु अन्यतमं वर्तते । १९८२ तमे वर्षे अस्य भवनस्य निर्माणम् अभवत् । अस्मिन् भवने रचनात्मककलानां प्रदर्शनानि सन्ति |

भीमबेटका-गुहाः

[सम्पादयतु]

भीमबेटका इति इदं भोपाल-नगरात् ४६ कि. मी. दूरे स्थितमस्ति । भीमबेटका-गुहासु प्रागैतिहासिकाः चित्रकलाः सन्ति, येन इमाः गुहाः प्रसिद्धाः सन्ति । इमाः गुहाः परितः विन्ध्यपर्वतशृङ्खला अस्ति । एतासु गुहासु बहूनि चित्राणि सन्ति, यानि प्रागैतिहासिककालस्य जीवनस्य विवरणं कुर्वन्ति । अत्रत्या प्राचीनतमा चित्रकला द्वादशसहस्र(१२०००)वर्षपुरातना अस्ति ।

मार्गाः

[सम्पादयतु]
कुशाभाऊ ठाकरे अंतर्राज्यीय बस अड्डा (सम्पूर्ण दृश्य)

वायुमार्गः

[सम्पादयतु]

भोपाल-नगरे राजाभोज-नामकं विमानस्थानकम् अस्ति । तत् विमानस्थानकं भोपाल-नगरात् द्वादश (१२) कि. मी. दूरे स्थितम् अस्ति । देहली, मुम्बई, इन्दौर, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, कोलकाता, रायपुर इत्यादिभ्यः नगरेभ्यः भोपाल-नगरं प्राप्तुं शक्यते ।

राजाभोज विमानस्थानकम् (BHO)

धूमशकटमार्गः

[सम्पादयतु]

भोपाल-नगरस्य रेलस्थानकं देहली-चेन्नै-मुख्यमार्गे स्थितमस्ति । अतः प्रायशः सर्वाणि रेलयानानि इतः एव गच्छन्ति । मुम्बई, आगरा, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः भोपाल-नगरं प्राप्तुं शक्यते ।

भूमार्गः

[सम्पादयतु]

सांची, इन्दौर, खजुराहो, पचमढी, जबलपुरम् इत्यादिभ्यः नगरेभ्यः बस-यानेन भोपालं प्राप्तुं शक्यते । मध्यप्रदेशस्य अन्येभ्यः मण्डलेभ्यः, नगरेभ्यः, ग्रामेभ्यः च नियमितरूपेण भोपाल-नगराय बस-यानानि प्राप्यन्ते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भोपाल&oldid=472148" इत्यस्माद् प्रतिप्राप्तम्