सामग्री पर जाएँ

भोपाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भोपालनगरम् इत्यस्मात् पुनर्निर्दिष्टम्)
भोपाल
राजधानी, महानगरम्
भोपाल-नगरस्य कानिचन प्रसिद्धानि वीक्षणीयस्थलानि
भोपाल-नगरस्य कानिचन प्रसिद्धानि वीक्षणीयस्थलानि
Nickname(s): 
सरोवराणां नगरम्
मध्यप्रदेश राज्यस्य मानचित्रे भोपाल नगर मण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे भोपाल नगर मण्डलम्
देशः भारतम्
राज्यम् मध्यप्रदेशः
मण्डलम् भोपाल
Government
 • Body Bhopal Municipal Corporation
 • Mayor Krishna Gaur (बिजेपी)
 • Municipal Commissioner Rajnish Shrivastava
Area
 • Total ६९७.२४ km
Population
 (2011)
 • Total १७,९५,६४८
 • Density २,५७५/km
Demonym(s) Bhopali
भाषा:
 • अधिकृताः हिन्दी
 • Other उर्दु
Time zone UTC+5:30 (IST)
Pincode
462001 to 462050
Telephone +91755
Vehicle registration MP-04-
Website bhopalmunicipal.com

भोपाल ( /ˈbhpɑːlə/) (हिन्दी: भोपाल, आङ्ग्ल: Bhopal) इत्येतन्नगरं भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य दशविभागेषु अन्यतमस्य भोपालविभागस्य भोपालमण्डलस्य केन्द्रमस्ति । इदं नगरं मध्यप्रदेशराज्यस्य राजधानी अस्ति । भोपाल-नगरं सरोवराणां नगरम् (City of lakes) इत्यपि प्रख्यातम् अस्ति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं भोपाल-नगरस्य जनसङ्ख्या १७,९५,६४८ अस्ति । अत्र ९,३९,५६० पुरुषाः, ८,५६,०८८ महिलाः च सन्ति । भारतस्य महानगरेषु भोपाल-नगरस्य सप्तदशः क्रमाङ्कः अस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते १६० जनाः वसन्ति । अत्र पुं-स्त्री अनुपातः १०००-९११ अस्ति । अत्र साक्षरता ८५.२४% अस्ति ।

भौगोलिकी स्थितिः

[सम्पादयतु]

भोपाल-नगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३º १५ उ. एवं ७७º २५ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४२७ मी. अस्ति । एतत् नगरं विन्ध्यपर्वतशृङ्खलायाः पूर्वे स्थितम् अस्ति । इदं नगरं पर्वतक्षेत्रे स्थितम् अस्ति परन्तु अत्र तापमानं उष्णतरमेव भवति । अत्र भूभागः असमतलः अस्ति । अत्र बहवः लघुपर्वताः अपि सन्ति, यथा – श्यामला हिल, ईदगाह हिल, अरेरा हिल, कतारा हिल इत्यादयः । अत्र ग्रीष्मर्तौ उष्णता, शीतर्तौ सामान्यशीतलता भवति । वर्षर्तुः सामान्यतः जून-मासतः सितम्बर-मासाभ्यान्तरं भवति ।

इतिहासः

[सम्पादयतु]
गोलघर

भोपाल-नगरस्य प्राचीनं नाम भूपालः इति । उच्यते यत् अस्य नगरस्य नामकरणं कस्यचित् भूपाल-नामकस्य राज्ञः नामोपरि कृतमासीत् । समयान्तरे इदं नगरं नष्टं जातम् । अष्टादशे शतके एतन्नगरं गोण्ड-राज्यस्य लघुग्रामः एव आसीत् । मुगल-शासकेन अफगान राजा दोस्त मुहम्मद खान इत्याख्येन वर्तमानभोपाल-नगरस्य स्थापना कृता । मुगलसाम्राज्यस्य विघटनसमये दोस्त खान इत्याख्येन छलेन बेरासिया-उपमण्डलं वशीकृतम् । एकदा गोण्ड-राज्यस्य राज्ञ्याः कमलापत्याः साहाय्यं दोस्त मुहम्मद खान इत्यनेन कृतमासीत् । अतः राज्ञ्या कमलापत्या गोण्ड-राज्यं दोस्त मुहम्मद खान इत्यस्मै प्रदत्तम् आसीत् । राज्ञ्याः मरणात् परं दोस्त मुहम्मद खान इत्यनेन गोण्ड-राज्यम् वशीकृतम् । १७२०-१७२६ काले दोस्त मुहम्मद खान इत्याख्येन भोपालं दुर्गवत् निर्माय तत्र नगरम् अन्तर्कृतम् । एवं रीत्या दोस्त मुहम्मद खान भोपाल-नगरस्य राजा बभूव । तदा भोपाल-नगरस्य स्थापना जाता । सिद्दीकी-बन्धू इति इमे दोस्त मुहम्मद खान इत्याख्यस्य मित्रे आस्ताम् । मित्रताकारणात् दोस्त मुहम्मद खान इत्ययं हैदराबाद्-नगरस्य निजाम मीर कमर उद्दीन (निजाम उल मुल्क) इत्यनेन सह युद्धमकरोत् । तदा दोस्त मुहम्मद खान इत्ययं पराजितो जातः । भोपाल-नगरं मीर कमर उद्दीन इत्याख्यस्य आधिपत्ये गतम् । मराठा-राजभिः भोपाल-प्रान्तात् करः सङ्गृहीतः । १७३९ तमे वर्षे मराठा-राजभिः मुगल-शासकाः पराजिताः । दोस्त मुहम्मद खान इत्यस्य उत्तराधिकारिणः ब्रिटिश-शासकैः सह सन्धिं कृतवन्तः आसन् । तदा भोपाल-प्रान्तः ब्रिटिश-शासनस्य एकः मुख्यालयः अभवत् । १९४७ तमे वर्षे भारतं स्वतन्त्रं जातम् । तत्समये भोपाल-प्रान्तस्य उत्तराधिकारी आबिद सुल्तान आसीत् । किन्तु सा सर्वं त्यक्त्वा पाकिस्तान-देशं गतवती । ततः परम् आबिद सुल्तान इति इयं स्वस्याः अनुजां भोपाल-प्रान्तस्य उत्तराधिकारिरूपेण उद्घोषितवती । १९४९ तमे वर्षे भारते भोपाल-प्रान्तस्य विलयः जातः ।

वीक्षणीयस्थलानि

[सम्पादयतु]

भोपाल-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तेषु – लघुतडागः, भीम बेटका, अभयारण्यं, भारतभवनम् इत्यादीनि सन्ति । नगरेऽस्मिन् सरोवराः प्रसिद्धाः सन्ति । भोपाल-नगरात् २८ कि. मी. दूरे भोजपुर-मन्दिरम् अस्ति । भोजपुर-मन्दिरम् एकम् ऐतिहासिकं दर्शनीयस्थलम् अस्ति ।

लक्ष्मीनारायण-मन्दिरं, भोपाल

[सम्पादयतु]

भोपाल-नगरस्य अरेरा-पर्वतक्षेत्रे एकं बिडला-मन्दिरम् अस्ति । इदं मन्दिरं पञ्चाशत्वर्षपुरातनम् अस्ति । अस्मिन् मन्दिरे भगवतः विष्णोः, लक्ष्म्याः च मनोहरा प्रतिमा अस्ति । इदं मन्दिरं धार्मिकास्थायाः एकं केन्द्रम् अस्ति । बहवः जनाः तत्र दर्शनार्थं गच्छन्ति । इदं मन्दिरं बहुविस्तृतम् अस्ति । इदं मन्दिरम् आभारते प्रसिद्धमस्ति ।

उच्यते यत् अस्य मन्दिरस्य शिलान्यासः १९६० तमे वर्षे अभवत् । तत्कालीनेन मुख्यमन्त्रिणा डॉ. कैलाशनाथ काटजू इत्याख्येन शिलान्यासः कृतः आसीत् । अस्य मन्दिरस्य उद्घाटनं १९६४ तमे वर्षे तत्कालीनेन मुख्यमन्त्रिणा द्वारका प्रसाद मिश्र इत्याख्येन कृतम् आसीत् । मन्दिरेऽस्मिन् श्वेतशैलेषु पौराणिकदृश्यानां प्रदर्शन्यः सन्ति । तेषु श्वेतशैलेषु गीतायाः रामायणस्य उपदेशाः सन्ति । मन्दिरेऽस्मिन् जगदम्बाशिवयोः अपि प्रतिमे स्तः । मन्दिरस्य परिसरे हनुमतः प्रतिमा शिवलिङ्गं च स्थापितम् अस्ति । मन्दिरस्य मुख्यप्रवेशद्वारे एकः विशालः शङ्खः अस्ति । अस्मिन् मन्दिरे नगरवासिनः कृष्णजन्माष्टमीमहोत्सवे श्रीकृष्णस्य जन्ममहोत्सवस्य आयोजनं कुर्वन्ति, यस्मिन् बहवः श्रद्धालवः गत्वा भगवतः विष्णोः आराधनां कुर्वन्ति ।

भोजपुरम्

[सम्पादयतु]

भोजपुरं भोपाल-नगरात् २८ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरे भगवतः शङ्करस्य एकं मन्दिरं वर्तते । अस्य मन्दिरस्य भोजेश्वर इति नाम । इदं मन्दिरं प्राचीनं, प्रसिद्धं च अस्ति । अस्य मन्दिरस्य निर्माणं परमार-वंशीयेन राज्ञा भोजेन कारितम् । अतः अस्य नगरस्य भोजपुर इति नाम । अस्मिन् मन्दिरे विशालं शिवलिङ्गम् अस्ति । भारतस्य विशालशिवलिङ्गेषु अन्यतमम् अस्ति इदं शिवलिङ्गम् ।

मोती मस्जिद, भोपाल

[सम्पादयतु]

मोती मस्जिद इत्यस्य निर्माणं १८६० तमे वर्षे कदसिया बेगम इत्याख्यायाः पुत्र्या सिकन्दर जहां बेगम इत्यनया कारितम् ।

ताज उल मस्जिद, भोपाल

[सम्पादयतु]
ताज उल मस्जिद

ताज उल मस्जिद इतीदं भारतस्य एकं विशालं मस्जिद अस्ति । अस्य निर्माणकार्यं भोपाल-नगरस्य अष्टमशासकस्य शाह जहाँ इत्यस्य शासनकाले प्रारम्भं जातम् आसीत् किन्तु तस्य जीवनपर्यन्तम् अपि निर्माणं न अभवत् ।

भारत-भवनम्

[सम्पादयतु]

भारत-भवनम् भारतस्य विशिष्टराष्ट्रियसंस्थानेषु अन्यतमं वर्तते । १९८२ तमे वर्षे अस्य भवनस्य निर्माणम् अभवत् । अस्मिन् भवने रचनात्मककलानां प्रदर्शनानि सन्ति |

भीमबेटका-गुहाः

[सम्पादयतु]

भीमबेटका इति इदं भोपाल-नगरात् ४६ कि. मी. दूरे स्थितमस्ति । भीमबेटका-गुहासु प्रागैतिहासिकाः चित्रकलाः सन्ति, येन इमाः गुहाः प्रसिद्धाः सन्ति । इमाः गुहाः परितः विन्ध्यपर्वतशृङ्खला अस्ति । एतासु गुहासु बहूनि चित्राणि सन्ति, यानि प्रागैतिहासिककालस्य जीवनस्य विवरणं कुर्वन्ति । अत्रत्या प्राचीनतमा चित्रकला द्वादशसहस्र(१२०००)वर्षपुरातना अस्ति ।

मार्गाः

[सम्पादयतु]
कुशाभाऊ ठाकरे अंतर्राज्यीय बस अड्डा (सम्पूर्ण दृश्य)

वायुमार्गः

[सम्पादयतु]

भोपाल-नगरे राजाभोज-नामकं विमानस्थानकम् अस्ति । तत् विमानस्थानकं भोपाल-नगरात् द्वादश (१२) कि. मी. दूरे स्थितम् अस्ति । देहली, मुम्बई, इन्दौर, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, कोलकाता, रायपुर इत्यादिभ्यः नगरेभ्यः भोपाल-नगरं प्राप्तुं शक्यते ।

राजाभोज विमानस्थानकम् (BHO)

धूमशकटमार्गः

[सम्पादयतु]

भोपाल-नगरस्य रेलस्थानकं देहली-चेन्नै-मुख्यमार्गे स्थितमस्ति । अतः प्रायशः सर्वाणि रेलयानानि इतः एव गच्छन्ति । मुम्बई, आगरा, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः भोपाल-नगरं प्राप्तुं शक्यते ।

भूमार्गः

[सम्पादयतु]

सांची, इन्दौर, खजुराहो, पचमढी, जबलपुरम् इत्यादिभ्यः नगरेभ्यः बस-यानेन भोपालं प्राप्तुं शक्यते । मध्यप्रदेशस्य अन्येभ्यः मण्डलेभ्यः, नगरेभ्यः, ग्रामेभ्यः च नियमितरूपेण भोपाल-नगराय बस-यानानि प्राप्यन्ते ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भोपाल&oldid=472148" इत्यस्माद् प्रतिप्राप्तम्