यतीन्द्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
यतीन्द्रः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः महिममयं भारतम्, मेलनतीर्थम्, भास्करोदयम्

यतीन्द्रः वर्तमान-बाङग्लादेशस्थे कधुखिलग्रामे १९०८ ई० वर्षे जनिं प्रापत् । तस्य पिता रसिकचन्द्रचतुर्धरीणः प्राथमिकशालायां शिक्षकः सन्नपि समाजे समादृतः; जनैश्च गुरुरिति व्यपदिष्टः। अयं महाभागः सर्वस्वं दत्त्वापि कोलकातायां लन्दन-नगरे च यतीन्द्रस्य उच्चशिक्षाव्ययमुवाह । यतीन्द्रः स्वयमपि छात्रजीवने अर्थार्जनमकरोत् । पितुः प्रेरणया संस्कृताय सविशेषमस्य रुचिर्वर्धते स्म । १९२६ तमे ई० वर्ष स वैदिककर्मकाण्डेषु नारीति विषयमाश्रित्य शोधोपाधये लन्दनविश्वविद्यालयं प्रविष्टः, १९३४ तमेऽब्दे चाभिलषितमुपाधिमधिगतवान् । १९३७ ई० वर्ष यावदयं इण्डिया-आफिस-पुस्तकालये तथाच लन्दनविश्वविद्यालये कार्यरतः । तत्रैव दर्शनविषये शोधोपाधिं प्राप्तवती रमा तेन संगता, परिणीता च | भारतं प्रत्यागतो यतीन्द्रो वंगीय-संस्कृत-परिषदो मन्त्रित्वेन, संस्कृतमहाविद्यालयप्राचार्यत्वेन, प्रेसिडेंसीमहाविद्यालये विभागाध्यक्षत्वेन च संस्कृतविद्याया उन्नयने भृशं प्रायतत | १९४३ तमे वर्षेऽयं प्राच्यवाणीति संस्थां स्थापयाञ्चकार । ततश्च प्राच्यवाणीति त्रैमासिकीं शोधपत्रिका प्रकाशयामास, यत्र संस्कृतग्रन्थाः सानुवादं प्रकाशिताः।

प्राच्यवाण्यां वेद-दर्शन-साहित्य-स्मृति-तन्त्रादीनामुच्चशिक्षा दीयते । यतीन्द्रः स्वयमपि अध्यापयामास । अस्याः संस्थायाः कार्याणि विपुलानि आसन् । डॉ० बिमलचरणलाहामहोदयस्तस्याः अध्यक्षत्वेन नियोजितः। यतीन्द्रस्य नारीमात्रं मातृदृशापश्यत् । भारतविवेकेऽसावाह -

अमृतमथितं सागरजननं मातरि निहितं तुलनाहीनम्।

माक्षरकथनं कल्मषदहनं तृ सदा भवाब्धितरणे तरणम्॥

भारतहृदयारविन्देऽसौ देशप्रेम्णो धन्यतां रूपयति । विश्वबन्धुत्वे च सुदृढा तस्य श्रद्धा अभवत्।

यतीन्द्रेण स्वरूपकेषु शास्रीयविधानस्याक्षरशोऽनुसरणमकृत्वा लोकरुचिरेव प्रायशोऽवेक्षिता । शृंगारितप्रवृत्तिभ्योऽस्पृष्टानि रूपकाणि रचयित्वा स संस्कृतनाट्यकारान् प्राचीनगड्डरिकाया बहिरागमनाय प्रबोधयामास। स्वनाटकानां विषये स स्वयमेवैतदाह

"It has been my ambition, to popularise, “Sanskrit amongst all sections of people of India. And it is for this purpose that our dramas have been composed. The cosy flow of Sanskrit must not find any impediment in the rocky thickets of obsolete words or cross-currents of peculiar uses and easy Sanskrit, I have learnt from experience, is quite intelligible to Indians with an average education."[१]

रचनाः[सम्पादयतु]

यतीन्द्रस्य रचनासु काव्यनाटकानि, शोधप्रबन्धाः, सम्पादितग्रन्थाः, अनुवादाश्च विलसन्ति । स्वजीवनस्य चरमदशाब्देषु तेन त्रिंशत् संस्कृत-नाटकानि प्रणीतानि| एकं तस्य नाटकं पालिभाषायां विद्यते । शेक्सपीयरकवेः ‘ओथेलो' तथा च ‘मर्चेण्ट ऑफ वेनिस' इति द्वे नाटकेऽप्यनेनानूदिते प्रकाशिते च । अन्यच्च - शक्तिसाधनम् , मातृलीलातत्त्वम् , विवेकानन्दचरितचम्पूश्च तस्य काव्यानि सन्ति ।

यतीन्द्रस्य शोधकृतिषु संस्कृतसाहित्ये नारीणामवदानं सप्तभागेषु, मोहम्मदीयानां संस्कृतसंरक्षणं त्रिषु भागेषु, स्मृतिसाहित्ये बंगानामवदानं त्रिषु भागेषु सन्ति । बंगीय-दूतकाव्येतिहासमप्यसौ अरचयत्। तेन संस्कृतकोशकाव्यसंग्रहो बहूनि दूतकाव्यानि च सम्पादितानि। ऐतिहासिककाव्येषु अब्दुल्लाचरित-सुर्जनरित-वीरभद्रचम्पू-जामविजय-काव्यानि तेन सम्पाद्य प्रकाशितानि। बंगलाभाषायामपि तेन बहवो ग्रन्था विरचिताः।

कथावस्तुदृष्ट्या चतुर्विधानि यतीन्द्रस्य नाटकानि सन्ति । (१) मातृभूमि-वर्णनात्मकानि । (२) लोकनायकगाथात्मकानि । (३) नारीगौरवात्मकानि । (४) वैष्णवभक्तिचरितात्मकानि। एतत्क्रमेण तस्य नाटकान्यत्रानुशीलितानि।

१९६४ ई० वर्षे हृदयगत्यवरोधेनासौ अकालकालकवलितः।

महिममयभारतम्[सम्पादयतु]

महिममयभारतम् उपरूपकं १९५८ ई० वर्षे रचितम् । प्रस्तावनायां सूत्रधारो वस्तु परिचाययन्नाह - वैदिक-पौराणिक-महम्मदीय-वर्तमानयुगेषु नदीमातृकापूजन-संयमनादिकमधिकृत्य विरचितं रूपकम्।

सिन्धुक्षित् नामा वैदिकर्षिः सिन्धुनदीं पूजयामास । नद्यो मातृवत् पूज्या इति तेन निर्दिष्टम् । द्वितीयाङ्के गङ्गाप्रादुर्भावो वर्णितः। तृतीयाङ्के शाहजहाँ-तनया जहाँनारा यमुनां स्तौति । चतुर्थाङ्के रामरहीमौ द्वौ कर्मकरौ संवदतः । रहीमो गान्धीं प्रशंसति -

स्वाधीनतां स्थापयितुं स्वदेशे आजीवनं यो युयुधे नयज्ञः।

दयालवे गान्धिमहात्मने मे नमोऽस्तु जाते जनकाय तस्मै।।

नवभारतयुवानो देशोन्नतये नदीबन्धनजलप्रवाहण-विद्युदुत्पादनमत्स्यपालनादिविषये वार्तां कुर्वन्ति।

महिममयभारतं परम्परानुबद्धमपि नवीनं नाटकमस्ति । अत्र पञ्चसु अङ्केषु परस्परमसम्बद्धाः वैदिक-पौराणिक-मुहम्मदीयाधुनिकयुगगताः घटनाः सन्ति । दृश्यस्थली देवलोकात् भारतेषु प्रसृता। मातृभुवं प्रति प्रेम्णो जागरणमेव कवेः प्रयोजनम् । कार्यव्यापारस्यात्र अभावो दृश्यते। केवलं शाब्दिकाः मानसिकाः वा व्यापाराः प्रचरन्ति।

मेलनतीर्थम्[सम्पादयतु]

मेलनेन भारतं तीर्थ स्यादिति धारणया कविनेदं रूपकं प्रणीतम् । प्रथमाङ्के अथर्वा शिष्यैः सह वैदिकसंस्कृतिं समुपादिशन् दृश्यते । द्वितीयाङ्के मलयपर्वते अगस्त्यो स्वपत्न्या सह तथैव यतमानो वरीवर्ति । तृतीयाङ्के अशोकस्यानुभावः समुदितः। पञ्चमाङके अकबरस्य लोकप्रशान्तिकारिणो सवधर्मसमन्वयनीतिर्वर्णिता | षष्ठाङ्के चैतन्यस्य वैष्णवभक्तिभागीरथी प्रवहति । सप्तमाङ्क विवेकानन्दस्य विश्वोद्धारमार्गः चर्चितः । अष्टमे रवीन्द्रः विश्वजनीनतया स्वसत्त्वं समुदितं विधाय भारतान् विश्वगुरुत्वे प्रतिष्ठापयति । नवमाङ्के गान्धिनो नोआखालीयात्रा निदर्शिता । अन्तिमेऽङ्के जवाहरलालस्य विश्वमैत्रीप्रयासो वर्णितः।

भारतहृदयारविन्दम्[सम्पादयतु]

नाटकमिदं १९५९ ई० वर्षे प्रणीतम् । अत्र महर्षेरविन्दस्य चरितं चित्रितम् । अरविन्दस्य सन्देशः सम्यगत्र वर्णितः -

विज्ञानैरथ धर्मदर्शनकलाशास्त्रैश्चरादुन्नता-

प्येषा भारतभूमिरद्य भजते कष्टं पराधीनताम्।।

छित्त्वा पाशमिमं तदीयवदनं फुल्लं विधातुं वयं

कुर्मः किञ्चन कर्म देशहितकृद् यद् यस्य योग्यं भवेत्।।

नाटकमिदं भावप्रवणं विद्यते । यत्र तत्र गीतानां भूयान् समावेशो विहितः । अभिनये क्वचिद् मुष्टामुष्टियुद्धे विशिष्टरुचिरता वर्धते । वस्तुतो यतीन्द्रः स्वनाटकेषु अन्यत्र विरलं संसारं सृजति ।

भास्करोदयम्[सम्पादयतु]

जीवनचरितात्मकं भास्करोद्य नाटकं कवीन्द्ररवीन्द्रस्य जीवनचरितमुपनिबध्नाति । १९६० ई० वर्षे रवीन्द्रस्य शतवार्षिक्या अवसरेऽस्य प्रणयनमभवत् । न केवलं भारतेषु विदेशेष्वाप इदमभिनीतम् । भास्करोदयभारतभास्कर-भुवनभास्करेपु त्रिषु भागेषु समग्रमपि कवीन्द्रस्य जीवनमत्र समुपस्थापितम् । तृतीयाङ्के बालको रवीन्द्रः गवाक्षात् बहिरवलोकयन् निसर्गसान्निध्यमनुभवति -

वटदुमजटालस्त्वं छायामायावपुर्धरः।

अन्यस्ते राजते कोऽसौ विभुर्विश्वविमोहनः।।

गोपालिकां तारामसावाह -

पुष्करिणीदर्पणेऽहं पश्यामि विश्वचित्रम्।।

अस्मिन् रूपके रवीन्द्रस्य जीवने घटितानां समेषामपि प्रसङ्गानां निरूपणमसम्भवमेव आसीत् । अत एव सामाजिकानां कुतूहलवर्धनाय अंशत एव ते अवतारिताः । विष्कम्भक-प्रवेशको निराकृतौ। एकोक्तीनां भूयान् प्रयोग-विहितः । प्रयोगे हास्यावतारणा यतीन्द्रस्य विशिष्ट-प्रवृत्तिः । तद्यथा सप्तमाङ्के अक्षयस्य गीतम् -

आनन्दभोजनं परमसुशोभनं केनापि कारणेन नापैक्षणीयम्।

प्रतिवृक्षं विकसिता लजेंस-लता सदा हिता ।

शष्पेषु दृश्यते दलं दलं चकलेटा पराह्वयम् ॥

भारत-विवेकम्[सम्पादयतु]

भारतविवेक-नाटकं १९६३ ई० वर्षे प्रकाशितम् । अत्र विवेकानन्दस्य सत्त्वविकासो निरूपितः । विवेकानन्दस्य विचारसरणिरित्थं प्रकटिता - अहो लक्ष-लक्ष-संन्यासिनो वयं भारतवर्षस्य कठोरश्रमलब्धान्नपुष्टा देशवासिनां हितार्थं किं कुर्मः । अपि दर्शन-शास्त्र-जटिलतथ्यमात्रभाषणपरा एतान् न वञ्चायम इत्यादि। नाटकमिदं दृश्येसु विभक्तम् । अत्र द्वादश दृश्यानि विलसन्ति | पञ्चमदृश्ये विष्कम्भक-दृश्यान्तरे विद्यते । रुचि-परायण-संगीतनृत्ययोः विपुलोऽत्र सम्भारो वरीवर्ति। तद्यथा खेतडीनरेशसभायां विवेकानन्दस्य स्वागतगानम्।

यमुनाहृदयशोभिपुण्यमधुरजलं

दूषितखातवाहि यदिदं समलं।।

गङ्गास्रोतसि जातं पवित्रं सकलं

हर हर दोषान् मम सर्वदोषहर॥ ११-२१८

पदे पदे श्रीरामकृष्णपरमहंसस्य भक्तिगीतान्यपि तत्र समाविष्टानि । दशमदृश्ये धीवरगीतं मनो रमयति । हास्यसृष्टौ लेखकेन सर्वथा नैपुण्यं प्रदर्शितम् । विवेकानन्दस्य विवाहविषये नापित-घटकादीनां संवादोऽनया दृष्ट्यैव प्रवर्तितः । नवमदृश्ये हास्यप्रवर्तनाय कश्चिदाह -

स्त्रियो देवाः स्त्रियः प्राणाः स्त्रियश्चैव विभूषणम्।

स्त्रीसङ्गिना सदा भाव्यं साधुना मुक्तिकामिना।।

अस्मिन् नाटके महामानवस्यैकस्य समग्रजीवन-दर्शनं पाठकानामुदात्तीकरणाय कल्पते।

विश्वविवेकम्[सम्पादयतु]

विश्वविवेकमिति नाटकेऽष्टाङ्केषु विदेशयात्राया यावज्जीवं विवेकानन्दचरितं ग्रथितम् । विश्वधर्मसम्मेलने तस्य व्याख्यानमत्र प्रधानो विषयः । विवेकानन्दस्य अमेरिकायां तपोमयजीवनं साधु निरूपितम्।

स्वप्नरघुवंशम्[सम्पादयतु]

स्वप्नरघुवंशं यतीन्द्रस्य प्रथमनाटकम् | रघुवंशमाश्रित्यास्य कथा प्रवर्तते । १९५८ ई० वर्षे उज्जयिन्यां कालिदासमहोत्सवेऽस्याभिनयोऽभवत् ।

भारतजनकम्[सम्पादयतु]

भारतजनके यतीन्द्रेण राष्ट्रपितुः गान्धिनश्चरितकथा अफ्रीकायात्राया आरभ्य आजीवनं निरूपिता । अत्र षोडश अङ्काः सन्ति । अत्र भारतीयेषु गोरण्डानामत्याचारः, महात्मनो सत्याग्रहनीतिः, भारतस्वातन्त्र्यं च सम्यग् वर्णितानि।

भारतराजेन्द्रम् १९६३ ई० वर्षे यतीन्द्रो भारतराजेन्द्रं नाटकमरचयत् । अत्र राजेन्द्रप्रसादस्य चरितगाथा विद्यार्थिजीवनमनु विषयीकृता । यदा राजेन्द्रो गान्धिनः सम्पर्कमाप्नोति, तदा जन्मान्तरगता तस्य साधना स्पन्दते । गान्धी स्वविचिकित्सा तत्समक्षमुपस्थापयामास -

इदं भरतभूतलं चिरनिपीडितं दुर्जनैः

निरन्नवसनप्रजं हतहिरण्यरत्नादिकम्।

समुन्नमयितुं मयि प्रयतमानसे साम्प्रतं

विभो वितर पीडिते समुचितां शरीरस्थितिम्॥

अस्मिन् नाटके क्वचित् यतीन्द्रस्य चित्रोपमवर्णनानि हृदयमावर्जयन्ति । तथा कस्तूरबा-महाभागायाः चुल्लीज्वालनम् -

फूत्कारशुष्करसना भसिताचिताङ्गी

चुल्हीमुखप्रसृतधूमसमाकुलास्रा।

दीप्यन्निमीलद्वलोहितहर्षशोका

पर्याकुलास्ति जननी ज्वलनाय चुल्ल्याः॥

सुभाषसुभाषम्[सम्पादयतु]

सुभाषसुभाषे षडङ्काः सन्ति । अत्र सुभाषचन्द्रस्य विद्यार्थिजीवनमनु विदेशयात्राया आख्यानमुपनिबद्धम् । स्वातन्त्र्यसंग्रामे तस्य नेतृत्वं, तदर्थं विदेशेषु तस्य बलसञ्चयञ्चेति प्राधान्येन चित्रिते। अस्मिन् नाटके भारतीयशौर्यस्य वीरोत्साहवर्धिनी गाथा प्रपञ्चिता।

देशबन्धुदेशप्रियम्[सम्पादयतु]

देशबन्धुदेशप्रियमिति नाटके नवाङ्के देशबन्धुचित्तरञ्जनदासस्य महिममयजीवनं निदर्शितम् । चित्तरञ्जनदासो वाक्कीलव्यवसायमुज्झित्वा देशसेवाव्रतमुररीकृत्य बंगालप्रदेशस्य श्रेष्ठस्वातन्त्र्यसेनानीभिः सहकार्यनिरतोऽभवत् । कारागारयन्त्रितः स तपोमयं जीवनमयापयत्।

रक्षकश्रीगोरक्षम्[सम्पादयतु]

रक्षकश्रीगोरक्षस्य सप्ताङ्केषु महात्मनो गोरक्षनाथस्य चरितमुपनिबद्धम् । तस्य योगसिद्धिः गोरक्षसंस्कृतेः प्रचारश्चात्र निर्दिष्टौ।

निष्किञ्चनयशोधरम्[सम्पादयतु]

सप्ताङ्के निष्किञ्चनयशोधरे गौतमबुद्धपत्न्या यशोधराया महिमशालिन्या गौरवगाथाया निदर्शनं विद्यते । भारताचार्य-महाकवि-महामहोपाध्यायपद्मभूषणादिमानपदोपेतैः बंगदेशस्य शीर्षस्थसंस्कृतनाट्यकारैः श्रीमहरिदाससिद्धान्तवागीशैरस्य रूपकस्य आशीर्वाणीत्थं प्रकटिता -

"तदेतन्न केवलं तं प्रति स्नेहप्रकटनाथं न च केवलं तस्यैवंविधां ज्ञानलिप्सामधिकृत्य मदभिप्रायप्रकटनार्थं वा, परं तस्यायं प्रयत्नः पण्डितसमाजस्य कियानुपकारक इत्यत्र जनानां प्रबोधनार्थमपि।"

पूर्व कथामात्रशेषापि यशोधरा यतीन्द्रस्य बहुविधान्वेषणैः सुकृतधन्या बभूव । सा पत्युः धर्मसंघ-प्रतिष्ठायै आजीवनमयतत। अत्र प्रथमाङ्के यशोधरासिद्धार्थयोः विवाहस्य कथा विद्यते । शुद्धोदनो यशोधराया गुणैः प्रभावितः कथयति -

गोपा विशुद्धगुणभूषणजातशोभा

पुत्रोऽपि मे न समनामनया प्रयाति।

द्वितीयाङ्के यशोधराया उत्स्वप्नायितस्य शुभव्यञ्जना सिद्धार्थों व्यञ्जयति -

हर्षं लभस्व न च खेदमवाप्नुहि त्वं

तुष्टिं च विन्द जनयाद्य ममापि हर्षम्।

तूर्णं भविष्यति धराखिलमोहमुक्ता

गोपे प्रिये सकलमेव शुभं निमित्तम्।।

प्रव्रजिते गौतमे यशोधरा पतिगृहे तपोमयजीवनं व्यतीतवती । अन्ततश्च तस्या अनुरोधेन गौतमो भिक्षुणीसंघनिर्माणमनुमेने सप्तमाङ्के ७८ वर्षीया वृद्धा यशोधरा इहलीलासमाप्त्यर्थं गौतमस्यानुमतिं याचते।

अत्र हास्यविकासाय रंगपीठे मर्कटविषयकं गीतं रुचिरं विद्यते -

अहो जीव वृक्षचर कलिप्रिय विक्रमं, ते प्रकाशय झम्पे झम्पे हासय, धीमतो दर्शय वदनश्रियः।[1]

यशोधराया जलसेचनेन अन्धाया प्रजावत्या दृष्टयापादनं निष्क्रमणपथे सिद्धार्थस्य देवात् काषायप्राप्तिरित्यादयः प्रसंगाः अद्भुतरसं निष्पादयन्ति।

शक्तिसारदम्[सम्पादयतु]

शक्तिसारदे रूपके श्रीमद्रामकृष्णपत्न्या सारदायाश्चरितगाथा विद्यते। प्रत्येका नारीर्जगजनन्या अंशभूता सारदामणिश्च महाजननीत्यत्र प्रतिपाद्यम् । काहमिति पृष्ठो रामकृष्णस्तामवादीत् -

येयं सृष्टिलयस्थितिप्रणयिनी काली करालानना

या चेदं कृपया शरीरमसृजत् सर्वार्थसंसाधनम्।

सा मे मन्दिरवासिनी 'नहबत'-स्था चापि मे यादृशी

त्वं तादृश्यसि लेशतोऽपि न ततो भिन्नति मन्ये ध्रुवम्॥

ज्येष्ठामावस्यायां तां त्रिपुरसुन्दरीवेषे सज्जयित्वा रामकृष्णः पूजयति । पूजामनु उभौ समाधिस्थौ भवतः । रामकृष्णस्य महाप्रयाणसमये शारदा कथयति - 'अनन्तोऽपारो महासमुद्रस्त्वम् । तत्राहं केवलम् एको जललव एव | रामकृष्णः प्रत्याहन त्वं बिन्दुः, सिन्धुरेव त्वम्। त्वमेव मे शक्तिः, मम साधना मम सिद्धिश्च । जीवनव्रतं मे त्वय्येव प्रमूर्त जातम्।

यतीन्द्रस्य भाषा नाटकोचिता, क्वचित् भावानुरूपनादात्मकशब्दप्रयोगः सुखावहश्चास्ते । यथा - ‘जपसमये मनो वानरवल्लम्फझम्पं वाञ्च्छति’ गीतानां प्रचुरसन्निवेशे हास्यसर्जनेऽपि नाट्यकारः पटुः। 'मुक्तिसारदे' श्रीरामकृष्णस्य दिवंगमनमनु शारदायास्तानि तानि चरितानि वर्णितानि।

आनन्दराधम्[सम्पादयतु]

आनन्दराधे रूपके राधाकृष्णयोः गाथा विद्यते । एकदा घोरदुर्दिने राधा कृष्णं रक्षति | अन्यदा च तुलसी तामाशीर्वदति - श्रीकृष्णः सदा तव हृदयलग्नो विलसिष्यति । त्वां समाश्रित्यैव स राधावल्लभ इति परमशोभनामभिधामवाप्स्यति।

प्रीतिविष्णुप्रिय, अमरमीरम् , भारतलक्ष्मीः[सम्पादयतु]

प्रीतिविष्णुप्रिये चैतन्यपत्न्या विष्णुप्रियायाश्चरितगाथा निबद्धा। भक्तिविष्णुप्रियेऽपि तत्सम्बन्धिकथा अग्रे सरति। ‘अमरमीर'-नाटके मीरादेव्या विवाहोत्तरजीवनगाथा द्वादशाङ्केषु सविस्तरं प्रपञ्चिता। भारतलक्ष्मीरिति रूपके यतीन्द्रेण दशसु अङ्केषु सुप्रथितायाः झांसीराज्ञ्याः लक्ष्मीदेव्याश्चरितं निबद्धम् ।

महाप्रभुहरिदासम्[सम्पादयतु]

महाप्रभुहरिदासमिति रूपकस्य रचना यतीन्द्रेण पुर्यां रथयात्रोत्सवावसरे १९५८ ई० वर्षे कृता । १९६० ई० वर्षं यावदस्य दश प्रयोगाः अभूवन् । अत्र स्वामिनो हरिदासस्य भक्तिप्रवणता चित्रिता। पञ्चमांकस्य तृतीये दृश्ये छायातत्त्वानुसारि गर्भनाटकं संयोजितम् । अत्र श्रीवासो नारदं हरिदासश्च नगररक्षकमभिनयति । अनन्तरं महाप्रभुः राधारूपेणापि आयाति कथयति च – 'इयं तवैव राधाहं भाग्यवशाद् दूर नीता। त्वत्पादपद्मे चिरेणैव लीना भविष्यामि।'

अन्तिमे सप्तमाङ्के हरिदासः लक्षत्रयनामजपव्रतं पूरयितुमसमर्थः चैतन्यस्य पादपद्मं वक्षसि निधाय ब्रह्मणि लीनः । दिवङ्गते तस्मिंश्चैतन्यमहाप्रभुराह - 'हरिदास तव पादस्पर्शेन धन्या जाता धरणी । तव स्पर्शादहमपि अस्मि धन्यतमः । अद्य प्रभृति तव भक्तिः प्रवहतु नदी कल्लोलेषु, वहतु च सा पवनगतौ । काननपुष्पेषु भवतु सा विकसिता, पक्षिकण्ठेषु ध्वनिता, पार्थिवरजःसु प्रतिकणमुल्लसिता। अस्मिन् रूपके संवादेषु शिष्टाचारपद्धतिः व्यवहारबोधाय समङ्गीकृता।

विमलयतीन्द्रम्[सम्पादयतु]

विमलयतीन्द्रे रामानुजाचार्यस्य चरितगाथा चकास्ति । नातिदीर्धेऽस्मिन् रूपके सप्तदशाङ्काः सन्ति। विमलयतीन्द्रमिव 'दीनदासरघुनाथम्' इति रूपकमपि वैष्णवभक्तिधाराप्रतिपादकम्।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

संस्कृतसाहित्यम्

संस्कृतम्

उद्धरणम्[सम्पादयतु]

  1. आनन्दराघव-भूमिका पृ० ८
"https://sa.wikipedia.org/w/index.php?title=यतीन्द्रः&oldid=435758" इत्यस्माद् पुनः प्राप्तिः