रामचन्द्रः (नाट्यकारः)
रामचन्द्रः (नाट्यकारः) | |
---|---|
जननम् | मध्यकालः |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | नलविलासम्, सत्यहरिश्चन्द्रम्, रघुविलासम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
रामचन्द्रो हेमचन्द्रशिष्यो नलविलासं, सत्यहरिश्चन्द्रं, रघुविलासं, यादवाभ्युदयं, राघवाभ्युदयं च नाटकानि, निर्भयभीमं व्यायोगं, कौमुदीमित्रानन्दं, मल्लिकामकरन्दं, रोहिणीमृगाङ्कं चेति प्रकरणानि, वनमालां नाटिकां चारचयत्। गुर्जराधीश्वरः सिद्धराजो जयसिंहो (१०९४-११४२ ई०) हेमचन्द्रं ‘कट्टारमल्लं' इत्युपाधिना भूषितवान् । रामचन्द्राभ्युदयस्तत्पुत्रस्य कुमार पालस्य (११४३-११७२ ई०) राजत्वे परां कोटिं गतः । तदनन्तरं च जैनविरोधी जयपालस्तं तथा दुःखीकरोति स्म यत् ११७२ ई० वर्षे स मृतः । अत एव ख्रीष्टस्य द्वादशी शताब्दी रामचन्द्रस्योदयकालो निश्चित एव मन्यते।
असौ रामचन्द्रः आत्मानं प्रबन्धशतकर्तारं घोषयति । अद्यत्वे सप्तचत्वारिंशद् ग्रन्थाः तेन रचिता लभ्यन्ते । ते च रूपकाणि, काव्यानि, स्तोत्राणि, शास्त्रग्रन्याश्च सन्ति । तत्प्रणीतानां रूपकाणामेकादशानां षडेव प्राप्यन्ते; त्रयाणां चोल्लेखा एव तस्य नाट्यदर्पणे विद्यन्ते। कुमारविहारशतकमिति काव्यम्, अष्टाविंशतिः स्तोत्राणि तीर्थकराणामुपलभ्यन्ते । हैमबृहद्वृत्तिविन्यास इति शास्त्रग्रन्थस्तन्महिमानं प्रकाशयति । असौ गुणचन्द्र-विदुषा सहायेन द्रव्यालङ्कारं नाट्यदर्पणं च रचितवान् । स्वभावतस्तस्य स्वातन्त्र्यन-प्रियता नलविलासे स्फुटीभवति तथाहि -
स्वातन्त्र्यं यदि जीवितावधि, मुधा स्वर्भूर्भुवो वैभवम् ॥२.२
अनुभूतं न यद्येन रूपं नावैति तस्य सः ।।
न स्वतन्त्रो व्यथां वेत्ति परतन्त्रस्य देहिनः ॥६.७॥
यशोभिरनिशं दिशः कुमुदहासभासः सृज-
न्नजातगणनाः समाः परमत: स्वतन्त्रो भव॥
परानुहरणेन काव्यरचना नास्मै स्वदते ।
तन्मतेन नास्ति कुमुदानां विकासः कथमपि चन्द्रोदयपराधीनः; लोको यथा वा तथा वा वदतु - अमावस्यायामप्यविकलविकासीनि कुमुदान्ययं लोकश्चन्द्र-व्यतिकरविकासीनि वदति।
संयमं तृणीकृत्य चरन्त्यास्य लेखन्या ब्राह्मणेषु स्वैरं मषीनिपातः कृतः -
'अहो सर्वातिशायी द्विजन्मनां निसर्गसिद्धो लोभातिरेको यदयमन्त्येऽपि वयसि वृथा वृद्धो निधन-धन-परिग्रहान्न विरमति।'
अपि चायं तीर्थध्वांक्षान् प्रति वाचाटतामूरीकरोति –'परवञ्चनव्यसनिनः काशीवासिनः श्रूयन्ते।' नैतत्सर्वं तस्यौदात्यानुरूपम्।
नलविलासम्
[सम्पादयतु]नलविलासे सप्ताङ्के नाटके नल-दमयन्त्योः महाभारतीया कथा किञ्चिन्नवीभूता विलसति । विदर्भाणां राज्ञो भीमस्य दुहितरं दमयन्तीं चेदीनां कलचुरिनरेशः कामयमानः कापालिकरूपेण चरं भीमाय प्रेषयति स्म । तत्प्रभावेण च भीमोऽपि तस्मै कन्यादानं निश्चितवान् । अथैकदा सूर्यवने नलः सूर्यमुपस्थाय विदूषकेण सुहृदा कलहं सेन च सार्धं नैमित्तिकाय गत्वा स्वप्नं न्यवेदयत् - प्रातरवलोकिते स्वप्ने परिहिता मुक्तावली मम कण्ठात् पतिता पुनर्धृता च कान्तिं मे द्विगुणयामासेति । नैमित्तकश्चानन्दकरस्य स्त्रीरूपस्य सबाधां प्राप्तिं स्वप्नफलमिति प्रत्यवदत् । नातिकालानन्तरं तत्र लम्बोदरं नाम कापालिकमागतं नलः आलापादिना छद्मपरायणं चरमजानात् । विदूषकेण सह कलहायमानस्य तस्य लम्बोदरस्य कक्षात् पतितायाः पुटिकायाः कलचुरिनरेशं प्रति लिखितं पत्रमनुपमसुन्दर्याश्च चित्रं प्राप्तम् । राज्ञो दासी मकरिका नाम कुण्डिनपुर-वास्तव्यासीत् । सा तच्चित्रं दमयन्त्या इति सूचयामास । नलः स्वस्य दमयन्त्याश्च चित्राभ्यां सह सखायं कलहसं दासीं च मकरिकां प्रणयपथं समञ्जसयितुं प्रेषितवान् ।
ततो निवृत्तः कलंहसो राजानमसूचयत् - स्वसम्बन्धिनां द्वारेण मकरिका दमयन्तीं मिलित्वा तस्यै नलं वर्णितवती। मां च भिषग्रूपेण तत्रानयत् । दमयन्ती तस्याः सकाशान्नलस्य चित्रं प्राप्य देवतागृहे स्थापितवती, स्वस्य च तामेव प्रतिकृतिं चित्रं प्रेषयामासेति । घोरघोणो नाम कापालिकश्चित्रसेनाय दमयन्तीं दातुं भीमं बद्धप्रतिज्ञमकरोत् । तस्माद् घोरघोणभार्या लम्बस्तनी स्वपक्षे नेया, येन सा भीममस्माकं पक्षे प्रवर्तयेत्, सुतां नलाय दापयेच्च । कलहसेन सहैवायाता नलेनाभ्यर्थिता लम्बस्तनी अपुत्रेभ्यः पुत्रदायिनीं जारजभ्रूणानां पातयित्रीमात्मानं सर्वं कर्तुं अन्यथा कर्तुं च शक्तां घोषयित्वा दमयन्तीं नलाय प्रापयितुं प्रतिज्ञातवती।
सम्पन्ने स्वयंवरे, उढायां दमयन्त्यां नलेन, खरमारोहितेन घोरघोणेन, नलस्य युवराजं कुबरमभिसन्धाय कारिते दुरोदरे हारितसर्वस्वो नायको स्वराज्यान्निर्वासितो दमयन्ती-सद्वितीयो वनमधिवस्तुं गतः । दमयन्ती च वनप्रवासव्यसनं स्वपित्रं निवेदयितुं मकरिकां प्रेषयामास । विपदि चास्यां दम्पती विवेदर्भानेव शरणं लब्धवन्तौ । एकदा विपिने पिपासातुरायै दमयन्त्यै जलमन्वेष्टुं गतं नलं रचितकपटाभासो लम्बोदरो घोरघोणशिष्यः कृतसंन्यासिवेषः श्रुतसकलवृत्तान्तो भ्रमाकुलमति कृतवान् यत् व्यसनोपहतेन भवता श्वशुरकुलं नाश्रयणीयमिति । प्रत्यावृत्तं पतिमन्यमनसमिवाकलय्य शङ्काकुला दमयन्ती निद्रालुश्च शाटिकया तमाबध्य सुप्तवती । असिच्छिन्नवस्त्रो नलः तां वने विसृज्य कोशलान् प्रति प्रस्थितः । मार्गे सर्परूपधरो नलस्य पिता पुत्रं यथाकामं विद्रूपमकरोत् । पश्चात् सोऽप्रत्यभिज्ञात एव। कोसलाधीश्वरस्य दधिपर्णस्य सेवायां बाहुक इति नाम्ना नियुक्तः।
अथैकदायोध्यायां समागता नटा नलदमयन्त्योः उपाख्यानमभिनयन्ति स्म । तथा हि परित्यक्ता दमयन्ती वणिजां सार्थवाहेन संगता। मार्गे सा पाशबन्धेन स्वं हन्तुं कृतमतिः सार्थवाहानुचरै रक्षिता। कथं कथमपि विदर्भान् सा उपागता इति नाट्यकथादर्शनावसरे बाहुकस्य चेष्टाः पर्यवेक्ष्य दधिपर्णस्तं नलं ज्ञातवान् । अत्रान्तरे विदर्भेभ्यो दूतेन श्वस्तन एव दिने दमयन्त्याः स्वयंवर इति दधिपर्णो निमन्त्रितः । कथंकारं तत्रेयताल्पेन समयेन प्राप्तव्यमिति चिन्तापरं कोसलेशं नलो निजसारथित्वेन समीहितमाश्वसयामास । सोऽभिमन्त्रितं रथं वायुवेगेन कुण्डिनपुरमनयत् । नलो विदर्भेषु शोक-परिव्याप्तरजकुलां राजधानीमपश्यत् । स ब्राह्मणमुखाद् दमयन्त्या करिष्यमाणमात्मदाहं श्रुतवान् । कृतमरणनिश्चयां दमयन्तीं नलः प्रोवाच-तस्मै दुष्कृतिने मृत्युर्न वरणीयः। एवमुपदिशन्नलस्तया – किमयं पापः प्रलपतीति भर्त्सितः । तदा नल आत्मानं पूर्वावस्थं प्रकटयन्नवदत् -
येनाकस्मात् कठिनमनसा भीषणायां कराल-
व्यालायां त्वं वनभुवि हतेनातिधेयकृतासि।
निर्लज्जात्मा विकलकरणो विश्व-विश्वस्त-घाती
पत्याभासः सरसहृदये देवि सोऽयं नलोऽस्मि।।[१]
दम्पतीमिलनं पुनरजायत ।
सन्नपि जैनाचार्यों रामचन्द्रो महाभारतादेः कथावस्तूनि यथावदुपादाय क्वचिदेव जैनाभिषङ्गं दधानो नाट्यमर्यादा ऊरौकरोति निर्वाहयति च। दर्शकानां कौतूहलवृत्तिः किमग्रे किमग्रे इति विचिन्वती आफलागमं कथातन्तून् सूचयता तदेकमयतां सन्धत्ते । वृथा विस्तरैः कथानकं प्रायेण दुव्यूहमेव दृश्यते । भूयसा गुम्फितेषु पद्येषु कतिपयान्येव मनोहारितां भजन्ति -
सौदामनी-परिष्वगं मुञ्चान्त्यपि पयोमुचः।
न तु सौदामनी तेषामभिष्वगं विमुञ्चति।।
इत्यास्ते कोऽपि महिमा महिलाचरित्रस्य चित्रीकृतः । रामचन्द्रो रसवद्वचोऽभिमानं वहति -
कविः काव्ये रामः सरसवचसामेकवसतिः।[२]
सत्यहरिश्चन्द्रम्
[सम्पादयतु]सत्यहरिश्चन्द्रं षडङ्कं नाटकं लोकचरितस्यौदात्यमादर्शयता विरचितं रामचन्द्रेण। कथानिबन्धनदृष्ट्यापीदं नव्यताया भव्यतायाश्च मुकुटमेव । रसानां पौनःपुन्येन दीपनं कवेः स्वभावदोष एवेति विसृज्य नाटकमिदं हरति चेतांसि । पुराण-प्रसिद्धस्य लोकविख्यातस्य प्रतिग्रामं प्रतिवृद्धमनुगृहीतस्य सत्यवादिनो हरिश्चन्द्रस्येह नवावतार इव प्रतिभाति -
अहो दानमहो धैर्यमहो वीर्यमखण्डितम्।
उदार-धीर-वीराणां हरिश्चन्द्रो निदर्शनम्॥[३]
कुलपतिः सुधर्मायां सभायामिन्द्रमुखाद् हरिश्चन्द्रस्य स्तुतिं न सेहे । नृपस्य सात्त्विकतामन्यथा भावयितुमसौ कूटविधानमङ्गीचकार। शुक्रावतारपरिसरे वनषण्डे मुनीनुपरुन्धानं वराहं मृगयमाणेन नृपेण मुक्तो वाणी वराहं भित्त्वा गर्भिणीमाश्रम-हरिणीमपि जघान । सा च हरिणी कुलपतेः दुहितुर्वञ्चनायाः प्राणप्रियाऽऽसीत् । आश्रमं प्रविष्टोऽभिनन्दितोऽपि राजा कुलपतिना खेटको दण्डनीय इत्यादिष्ट आत्मानमेव दण्ड्यं घोषयामास । भ्रूणघाती सर्वस्वदानेनैव मुच्यत इति कृतवञ्चनो राजा ददामि स्वं सर्वमपीति कृतवचनो भ्रूणहत्यानिष्कृतिमैच्छत् । अथाङ्गारकेण तापसेन सद्वितीयः कुलपतिः राज्ञा सह स्वर्णमुद्रा प्राप्तुं गतः । राजकोशाद् वणिग्भ्यो वा नीतं धनं, राज्ञः स्वाभरणानि वा सर्वं ममैवेति कुलपतिर्न स्वीचकार । मन्त्री वसुभूतिः नायं कुलपतिर्मुनिरिति तस्य व्यवसितैः ज्ञतवान् । राजपरिचारकं कुन्तलं मुनिः शशाप–श्मशान-जम्बुको भवेति । वसुन्धरां त्यक्तुम् आमासपूर्तेः स्वर्णमुद्रालक्षं दातुं च राज्ञे क्रूरमादिदेश सः।
समीक्षा
[सम्पादयतु]कपटमुनिना बहुविधाभिः परीक्षाभिः सन्तापितो नायकः स्वर्णभास्वरतां लभतेऽस्मिन्नाटके। बहुशः पिष्टपेषणं, पौनःपुन्येन पुरातन-घटना-संघटनमतिरञ्जनापरतां च विहाय समीक्ष्यते चेत्, रामचन्द्रस्येयं कृतिः श्लाघ्यतामर्हति । स्वस्य कृतिं स्तुवन् रामचन्द्रः सीमानमतिक्रामति -
व्युत्पत्तिर्मुखमेव नाटकगुणव्यासे तु किं वर्ण्यते ।
सौरभ्य-प्रसवा नवा भणितिरप्यस्त्येव काचित् क्वचित्।
यं प्राणान् दशरूपकस्य सकरोत्क्षेपं समाचक्षते
साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम्।।[४]
नेयं कवेर्गर्वोक्तिः सर्वथा साधुः तथा हि -
गाहन्तां सरयूतटानि तुरगाः स्वैरं गणः सादिनां
तन्द्रालुर्बहुलाश्रमक्षितिरुहच्छायासु विश्राम्यतु।
कुञ्जेषु व्यवधास्थितेषु दधतामाधोरणाः कुञ्जरान्
वीक्षन्तां च मृगद्य वारवनिताः शक्रावतारश्रियम्॥[५]
इत्यत्र ‘गाहन्तां महिषा निपानसलिलम्' इत्यादिकस्य कालिदासस्य पद्यस्यच्छायैव गृहीता।
रघुविलासम्
[सम्पादयतु]अष्टाङ्के रघुविलासे नाटके कथासूत्राणि स्वयमेव रामचन्द्रः कविर्ददौ । यथा -
सीतां काननतो जहार विहितव्याजः पुरा रावण -
स्तं व्यापाद्य रणेन तां पुनरथो रामः समानीतवान् ।
एतस्मै कविसूक्ति-मौक्तिक-मणि-स्वायम्भसे भूर्भुवः -
स्वर्व्यामोहन-कार्मणाय सुकथारत्नाय नित्यं नमः।।
पितुराज्ञया वनाय प्रवसता रामेण सह गच्छन्तीं सीतां व्योमपथेन गच्छन् रावणो विलोक्य कामवशगो विराधरूपेणावतीर्णः। परतो रक्षसां कोलाहलं श्रुत्वा शमयितुं गते लक्ष्मणे विलम्बमाने रामोऽपि सीतामेकाकिनी विहाय गतः । पुष्पकविमानेन सीतां हरता रावणेन कृतयुद्धो जटायुहतः। सुग्रीवप्रेषिताद् विद्याधराद् रामः ‘कुटसुग्रीववपुर्धरः कोऽपि विद्याधरः परमार्थ सुग्रीवस्य भार्यां भुञ्जानो विद्यते' इति श्रुत्वा मायासुग्रीवस्य वधं प्रतिज्ञातवान् । लङ्कायां रावणो मायाभिः सीतावशीकरणे विफलो बभूव । युद्धे रावणबाणाहतो लक्ष्मणो भरतस्य मातुलेय्याः स्नानजलेनाभ्युक्षितः पुनरुज्जीवितः। युद्धे रावणो हतः। कविदृशा रामचरितं वैराग्यफलकं विस्मयफलकं च वर्तते -
मध्येऽम्भोधि बभूव विंशतिभुजं रक्षो दशास्यं पुनः-
स्तत् पाताल-मही-त्रिविष्टप-भटांश्चक्राम दोर्विक्रमैः।
मर्त्यस्तस्य पुनर्मृणालतृलया चिच्छेद कण्ठाटवीं
वैराग्यस्य च विस्मयस्य च पदं रामायणं वर्तते।।
कवित्वं चापि क्वचित् क्वचिदेव मनो हरति । यथा शृङ्गार-रसाभासप्रसङ्ग विक्षिप्तावस्थस्य रावणस्य प्रलापः -
वक्त्राणि हे हसत गायत तार-तारं
नेत्राणि चुम्बत विहस्य च कर्णपालीः।
दोर्वल्लयः कुरुत ताण्डवडम्बरं च
श्रीरावणं ननु विदेहसुता रिरंसुः॥ [६]
राघवाभ्युदयम्
[सम्पादयतु]रामचन्द्रस्य कृती राघवाभ्युदयं नाम दशाङ्कं महानाटकं नाद्यत्वे प्राप्यते । अस्य कथानकं आ सीतास्वयंवराद् गृहीतम् । रघुविलासस्य प्रस्तावनायामिदं रामचन्द्रः स्वरचनापञ्चके श्रेष्ठमुद्घोषयति । कविः नैव कृते नाट्यदर्पणेऽस्योद्धृता अंशा एवेदानीमस्माकं विभवः । सन्ति केचनात्रोदाहार्याः । यथा -
कलत्रमपि रक्षितुं निजमशक्तमात्मान्वय-
प्रसूतमभिवीक्ष्य मामहह जात-लज्जा-ज्वरः।
प्रकाशयितुमक्षमः क्षणमपि स्वमास्यं जने
प्रयाति चरमोदधौ पतितुमेष देवो रविः ।।
यस्य वंश्यः कलत्ररक्षणं न क्षमते, तस्य निमज्जनमेव श्रेय इति लोकमतिमनुसन्धान एवात्र रामचन्द्रः कवयति स्म । लक्ष्मणस्य ईषदुद्धतमुत्साहमालिखन् कविः सुतरां नावीन्यं भजति -
सीताया वदनं विकासमयतां, रामस्य शोकानलः
शान्तिं यातु, सगीतयश्चलभुजैर्नृत्यन्तु शाखामृगाः।
सन्धानाय विभीषणः प्रयततां लङ्काधिपत्यश्रियः
सौमिर्त्रेदशकण्ठ-कण्ठ-विपिनं कालः कियांश्छिन्दतः।।
इत्यस्ति कश्चिद् वाग्विशेषो रमणीयाभिनिवेशीति दिक् ।
यादवाभ्युदयम्
[सम्पादयतु]यादवाभ्युदयमपि रघुविलासप्रस्तावनायां श्रेष्ठस्वरचनापञ्चकेऽन्यतममुदघोषयद् रामचन्द्रः । तस्यैव नाट्यदर्पणे उदाहरणाष्टकमात्रमुपलब्धं परिचाययति तत्कृतिसौष्ठवम् । जैनपरम्परामनुसन्धान एव कविः कृष्णं नवमं वासुदेवं कलयामास । तस्य राज्याभिषेक-फलकं हि नाटकम् । अस्य बीजारोपो यथा -
उदयाभिमुख्यभाजां सम्पत्त्यर्थं विपत्तयः पुंसाम्।
ज्वलितानले प्रपातः कनकस्य हि तेजसो वृद्ध्यै।।
युधिष्ठिरमुखाद् भरतवाक्ये कविरात्मानमुल्लिखति -
कल्याणं भूर्भुवः स्वः प्रसरतु, विपदः प्रक्षयं यान्तु सर्वाः
सन्तः श्लाघां भजन्तामपचयमयतां दुर्मतिर्दुर्जनानाम्।
धर्मः पुष्णातु वृद्धिं सकल-यदुमनःकैरवारामचन्द्रः
प्राप्य स्वातन्त्रय-लक्ष्मीं मुदमथ वहतां शाश्वतीं यादवेन्द्रः॥
निर्भयभीमव्यायोगः
[सम्पादयतु]रामचन्द्रस्य निर्भयभीमाख्यो व्यायोगो पाण्डवानां वन-प्रवास-कथामाश्रयति । उद्धतो भीमोऽस्य नायको द्रौपदीं वनश्रियं दर्शयन् प्रविशति -
एते निर्झर-झात्कृतैस्तु मिलित-प्रस्थोदराः क्ष्माभृतः
किं चैते फल-पुष्प-पल्लव-भरैर्व्यस्तातपाः पादपाः।
चक्रोऽप्येष वधूमुखार्धदलितैर्वृत्तिं विधत्ते विसैः
कान्तां मन्द्ररुतस्तथैव परितः पारापतो नृत्यति।।
अहो निसर्ग-सौभाग्य-स्वभावोक्तिः । अत्रान्तरे प्रविश्य पुरुषः प्रतिदिनं पर्यायेण प्रेषितं जन्तुमेकमश्नन्तं बकं नामासुरं सूचयति । तस्मिन्नहनि कस्यचिद्युवकस्य वारो बभूव । पुत्रेण स्नुषया च सह वृद्धां मातरं विलपन्तीं भीमो द्रौपदी चापश्यताम् । युवा शिलायामुपाविशत् । स मातरं प्रोक्तवान् - मातः, मरणकालो मे समायातः न मे रक्षकः कोऽपि इति । तदाकर्त्य भीम उवाच द्रोपदीम् -
त्रस्तांस्त्रातुं सुदति न सहो यद्यहं गाढबन्ध-
स्कन्ध-स्थाम-ग्रहिल-ललितौ धिक् तदेतौ भुजौ मे।
रक्षोवक्षः सपदि गदया चेन्न संचूर्णयामि
व्यक्तं विश्ववितयविजयी नास्मि भीमस्तदानीम्॥
आगच्छति बकागमनवेलेति युवा वधूं कष्टं-कष्टं विसर्जितवान् । स भीममायातं राक्षसमेव मत्वा मूर्च्छितः । द्रौपदी तमाश्वस्तं चकार । द्रौपदी भीमेन मुहर्विसृज्यमानापि नातिदूरे वृक्षतलस्था बभूव । बकेन सार्धमायातौ राक्षसौ तां खादितुकामौ भीमस्य विषयेऽपृच्छताम् - किमयं गोपाल इति। युवयोरयं काल इति द्रौपदी सूचितवती। बकासुरः कठोरकलेवरं भीमं दशनदीर्णं कर्तुमशक्त उत्थाप्य गिरिशिखरमारुरोह । भीमस्तु बकासुरं हत्वा तत्रागतानां पाण्डवानामपि संभाजनतां गतः।
महाभारतीयेयं कथा नवीनतां भजन्ती व्यायोगेऽस्मिन् भीममादर्शपुरुषं प्रतिष्ठापयन्ती पुरुषकाराय प्रेरयति ।
रोहिणीमृगाङ्कम्
[सम्पादयतु]रामचन्द्रस्य नाट्यदर्पणे एव तस्य रोहिणीमृगाङ्क--प्रकरणस्य कतिपयांशा लभ्यन्ते । अत्र मृगाङ्कस्य नायकस्य रोहिणीं प्रति प्रेमा नाट्यायितः । स्त्रीकृतं प्रेम विशिष्यत इति द्रष्टा रामचन्द्र उत्कर्षं धत्ते खलु -
उन्मत्त-प्रेम-संरम्भादारभन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः।।
मृगाङ्केण कृता सौन्दर्यवर्णनाप्यभिनवामेवाभिख्यां दधाति -
सा स्वर्गलोकललना-जनवर्णिका वा
दिव्या पयोधिदुहितुः प्रतियातना वा ।
शिल्पाश्रियामथ विधेः पदमन्तिमं वा
विश्वत्रयी-नयन-संघटना-फलं वा ।।
कौमुदीमित्रानन्दम्
[सम्पादयतु]कौमुदीमित्रानन्दं नाम दशाङ्क प्रकरणं नाम्नैव कौमुद्याः (कुलपतिदुहितुः) मित्रानन्दस्य प्रणयकथां सूचयति। वरुणद्वीपं निकषा पोते भग्ने मैत्रेयेण (विदूषकमित्रेण) सह मित्रानन्दो दोलारूढां कौमुदीं दृष्ट्वा हृतः । प्रार्थितः कुलपतिस्तेन सुतायाः पाणिग्रहणमकारयत् ।
तेन कुटकुलपतिना कौमुद्द्या सह शयानो पुरुषो गर्ते निपात्य मार्यते इति ज्ञात्वा तस्या एव निर्देशेन जागुलीदेव्या हालाहलहरी विद्यामधिगत्य सदयितः पलाय्य मित्रानन्दः सिंहलद्वीपं गतः । तत्र चौर इति दण्डितः । पश्चात् राजा तस्य सर्वं वृत्तं श्रुत्वा तं मुञ्चति स्म, किन्तु मन्त्री कामरतिः कौमुदीकामो बभूव । अत्रान्तरे सर्पदष्टं राजकुमार शशाङ्कं जागुलीदत्तया विद्यया निर्विषं विधाय मित्रानन्दो राजमानं प्राप्य मन्त्रिणो गृहे सकौमुदीकोऽवसत्।
बहुविधानि नायकसंकटानि अत्र वर्णितानि । न किञ्चिन्नव्यत्वं भजत इदं प्रकरणम् । यत्र कुत्रापि उपदेशा योजिता । यथा -
अपत्यजीवितस्यार्थे प्राणानप जहाति या।
त्यजन्ति तामपि क्रूरा मातरं दारहेतवे।।[७]
मल्लिकामकरन्दम्
[सम्पादयतु]रामचन्द्रस्य षडङ्कं प्रकरणं मल्लिकामकरन्दं नाम भवभूतेः मालतीमाधवमनुहरति । प्रकाशितमिदं नाटकं सम्बोधि-पत्रिकायाम् १९७८-७९ वर्षे। मल्लिका चित्रलेखा - वैनतेययोः विद्याधरयोः दुहिता केनापि पालिता षोडशे वर्षे पितृभ्यां ग्रहणीयासीत् । तां च निशीथच्छन्ने काममन्दिरे स्वघातायोद्यतां मकरन्दोऽरक्षत् । ततो मकरन्दो द्यूकरैः गृहीतो मल्लिकायाः पालकेन मोचितः । इत्थं नायकयोर्बहुविधानि संकटानि प्रकरणेऽस्मिन् वर्णितानि । पद्यमस्य सोत्कर्षमास्वादनीयम् -
अस्य हास्यकरं शशाङ्कयशसा, बिम्बाधरः सोदरः
पीयूषस्य वचांसि मन्मथमहाराजस्य तेजांसि च ।
दृष्टिर्विष्टपचन्द्रिका स्तनतटी लक्ष्मी नटी-नाट्यभू-
रौचित्याचरणं विलासकरणं तस्याः प्रशस्यावधेः॥