"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) clean up, replaced: ॆ → े, ॊ → ो using AWB |
||
पङ्क्तिः ७: | पङ्क्तिः ७: | ||
==विषयविभागः== |
==विषयविभागः== |
||
[[पराशरः|पराशर]]मुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० |
[[पराशरः|पराशर]]मुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लोकाः विद्यन्ते । |
||
===प्रथामांशः=== |
===प्रथामांशः=== |
||
अस्मिन् जगतः उत्पत्तिः, [[प्रजापतयः]], [[देवताः]], पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, [[विष्णुः|विष्णोः]] महिमा च विवृता अस्ति । |
अस्मिन् जगतः उत्पत्तिः, [[प्रजापतयः]], [[देवताः]], पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, [[विष्णुः|विष्णोः]] महिमा च विवृता अस्ति । |
||
पङ्क्तिः ४४: | पङ्क्तिः ४४: | ||
===रमणीयश्लोकाः=== |
===रमणीयश्लोकाः=== |
||
शरद्वर्णनम् |
शरद्वर्णनम् |
||
::मयूरा मौनमातस्थुः परित्यक्तमदा |
::मयूरा मौनमातस्थुः परित्यक्तमदा वने । |
||
::असारतां परिज्ञाय संसारस्येव योगिनः ॥ |
::असारतां परिज्ञाय संसारस्येव योगिनः ॥ |
||
पङ्क्तिः ७८: | पङ्क्तिः ७८: | ||
}} |
}} |
||
<noinclude> |
<noinclude> |
||
[[वर्गः: |
[[वर्गः:पुराणानि]] |
||
[[वर्गः: |
[[वर्गः:हिन्दूधर्मः]] |
||
१३:१६, १ डिसेम्बर् २०११ इत्यस्य संस्करणं
विष्णुपुराणम्
अष्टादशसु पुराणेषु अन्यतमं वर्तते विष्णुपुराणम् । इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते । क्षीरसागरमथनकथा, ध्रुव-प्रह्लादकथा, जडभरतस्य कथा च अत्र विद्यन्ते । मनु-मन्वन्तराणां निरूपणं, वर्णाश्रमधर्माणां, संस्काराणां, श्राद्धकल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र ऊर्वशी, ययातिः, रामः इत्यादीनां चरित्रं, कौरवपाण्डवानां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । कृष्णकथा विवृता अस्ति । इदं पुराणरत्नम् इति प्रसिद्धम् । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति । अत्र निरूपितः मौर्येतिहासः विश्वासयोग्यः इति विन्सेण्ट् स्मित् स्व लेखे उल्लिखितवान् अस्ति ।
भाषाशैली
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । आर्षप्रयोगाः अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । ध्रुवचरित्रं, प्रह्लादचरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते । श्रीकृष्णचरित्रम् अपि मनोरमं विद्यते ।
विषयविभागः
पराशरमुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लोकाः विद्यन्ते ।
प्रथामांशः
अस्मिन् जगतः उत्पत्तिः, प्रजापतयः, देवताः, पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, विष्णोः महिमा च विवृता अस्ति ।
द्वितीयांशः
भूगोलस्य विवरणं, नवखण्डानां विभागः, अधोलोक-ऊर्ध्वलोकयोः विवरणं, ज्योतिश्चक्रस्य नवग्रहाणां च वर्णनं, जडभरत-ऋभु-निदाघानाम् आख्यानं च अत्र विद्यते ।
तृतीयांशः
मनुपुत्राणां वर्णनं, चतुर्युगानुसारं विभिन्नव्यासाः, चतुर्वेदानां विभागः, चातुर्वर्ण्यधर्मः, ब्रह्मचर्य-गार्हस्त्यश्रमयोः आचाराः, विस्तृतश्राद्धविधिः च अत्र प्रदत्ता वर्तते ।
चतुर्थांशः
वैवस्वत-इक्ष्वाकुवंशयोः विवरणं, श्रीरामस्य संक्षिप्तकथा, सोमवंश-यदुवंश-कुरुवंशयोः कथा, भावीराजानां विवरणं (भविष्यत्काले ये शासनं कुर्युः तेषां), मगधवंशविवरणं, कलियुगस्य राज्ञां, कलिधर्मस्य च विवरणम् अत्र उपलभ्यते ।
पञ्चमांशः
श्रीकृष्णस्य विस्तृतचरित्रं, यादवानाम् अन्त्यं, परीक्षितराजस्य पट्टाभिषेकः, पाण्डवानां स्वर्गारोहणं च अत्र विवृतम् अस्ति ।
षष्ठांशः
कलिधर्मः, शूद्राणां स्त्रीणां च महत्त्वं, कालविचारः, नैमित्तिकप्रलयः, प्राकृतप्रलयः, भगवतः पारमार्थिकस्वरूपं, ब्रह्मयोगः, शिष्यपरम्परा च अत्र प्रस्तुता अस्ति । अन्ते उपसंहारः कृतः अस्ति ।
व्याख्यानानि
अस्य पुराणस्य कृते श्रीधरस्वामिनः ‘आत्मप्रकाश’नामकं व्याख्यानं रचितवान् अस्ति । ‘विष्णुचित्तीय’नामकम् अपरं व्याख्यानम् अपि उपलभ्यते । रत्नगर्भः ‘वैष्णवाकूतचन्द्रिका’नामिकां टीकां रचितवान् अस्ति ।
प्रसिद्धश्लोकाः
वेदविषयसम्बद्धाः
- ‘एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम्’ ६।८।१२
- ‘नाहो न रात्रिर्ननभो न भूमिः नासीत्तमो ज्योतिरभूच्च नान्यत्’१।२।२३
राष्ट्रभक्तिप्रचोदकाः
- अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
- कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
- गायन्ति देवाः किल गीतकानि
- धन्यास्तु ते भारतभूमिभागे ।
- स्वर्गापवर्गास्पदमार्गभूते
- भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २।३।२३,२४
.]]
रमणीयश्लोकाः
शरद्वर्णनम्
- मयूरा मौनमातस्थुः परित्यक्तमदा वने ।
- असारतां परिज्ञाय संसारस्येव योगिनः ॥
- उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
- तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥
- तारका विमले व्योम्नि रराजाखण्डमण्डलः ।
- चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥
- तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
- तदप्राप्तिमहादुःखविलीनाशेषपातका ॥
- चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
- निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ ५।१३।२१,२२
नीतिश्लोकाः
- या दुस्त्यजा दुर्मतिभिः या न जीर्यतिजीर्यतः ।
- तां तृष्णां सन्त्य्जेत् प्राज्ञः सुखेनैवाभिपुर्यते ॥
- जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ते जीर्यतः ।
- धनाशा जीविताशा च जीर्यतोपि न जीर्यतः ॥ ४.१०.२६,२७