सामग्री पर जाएँ

शततन्त्री वीणा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शततन्त्री वीणा

शततन्त्री वीणा (फारसी: سَنْتُورْ, देवनागरी लिप्यान्तरण: सन्तूर्) हिन्दुस्थानिशास्त्रीयसङ्गीतम् प्रसिद्धं तन्त्रिवाद्यम्; एवं "सन्तूर्" इति पदं पारसिक भाषातः आगतम् । जम्बूद्वीपः (एशिया) तथा युरोपखण्डेषु यात्रिकसङ्गीतज्ञैः प्रचारं कृतवन्तः । विविधेषु देशेषु विविधविन्यासेषु इदं वाद्यं दृश्यते । ईरान, इराक़् तथा तुर्कीदेशेषु ७२ तन्त्रियुक्तं वाद्यं भवति । एतेषु देशेषु सन्तूर् इत्येव व्यवहारः अस्ति । ४५ तन्त्रियुक्तं वाद्यं चीनदेशे भवति । अस्य नामस्तु "याङ्-चिन्" (चीनी: सरलीकृत चीनी वर्ण: 扬琴, पारम्परिक चीनी वर्ण: 揚琴) इति व्यवहारः अस्ति । यवनदेशे "सन्दूरि" (यूनानी: σαντούρι) अथवा "प्साल्तॆरिऒन्" (यूनानी: ψᾰλτήρῐον) इति व्यवहारः अस्ति अस्यैव वाद्यस्य ।

भारतीयसन्तूर

[सम्पादयतु]

भारते पूर्वं एतत् वाद्यं जनपदसङ्गीते उपयोगं कुर्वन्तिस्म । कालान्तरे पण्डित शिवकुमारस्य परिश्रमेण शास्त्रीयसङ्गीतवाद्यत्वेन अस्य वाद्यस्य परिवर्तनं जातम् । प्रायः भारतीयसन्तूरवाद्ये ८२ तन्त्र्यः भवन्ति ।

प्रसिद्धिः

[सम्पादयतु]

काश्मीरस्य जनपदसङ्गीतवाद्यम् आसीत् । अस्मिन् वाद्ये १०० तन्त्र्यः आसन् । सूफ़िसन्तजनाः स्वसङ्गीते मुख्यतया उपयोगं कुर्वन्तिस्म । पण्डित शिवकुमारस्य पिता पण्डित उमादत्तः शर्मा शास्त्रीयसङ्गीताय सूक्तं वाद्यं इति चिन्तितवान् आसीत् । गच्छताकालेन शिवकुमारेण विशिष्टानि परिवर्तनानि आनीतानि । भारतीय शास्त्रीयसङ्गीते आवष्यक गमकादीनां वादनसामर्त्यम् अस्मिन् वाद्ये पूर्वं नासीत् । किन्तु शिवकामरः एव गामकादीनां वादनसामर्थ्यम् अस्य वाद्याय अनीतवान् स्वपरिश्रमेण । तन्त्रीणाम् उपरि क़लम् चालनसहायेन गमकादीनां वादनं शक्यते । १९५५ वर्षे प्रप्रथमतया शास्त्रीयसङ्गीतसभायां वादनं कृतवन्तः ।

वादकाः

[सम्पादयतु]

श्रव्यम्

[सम्पादयतु]

दृश्यम्

[सम्पादयतु]

वीथिका

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=शततन्त्री_वीणा&oldid=491217" इत्यस्माद् प्रतिप्राप्तम्