सदस्यः:RaviTeja DS/प्रयोगपृष्ठम्
1. {{ | infobox settlement | name = अब्बिजलपातः | image_skyline = | image_caption = अब्बिजलपातः }}
निर्देशाङ्कः : १२°२७′३२.४″ उत्तरदिक् ७५°४३′१०.५″ पूर्वदिक् / 12.459000°उत्तरदिक् 75.719583°पूर्वदिक्
अब्बिजलपातः - अब्बि इत्युक्ते कर्णाटकभाषायां जलपातः । कर्णाटकस्य कोडगुमण्डलस्य केन्द्रं मडिकेरी । ततः ५कि.मी.दूरे एषः जलपातः अस्ति । राजधानीबेङ्गळूरुतः मडिकेरीपर्यन्तं लोकयानव्यवस्था अस्ति । ततः भाटकयानेन जलपातपर्यन्तं गन्तुं शक्यते । सामान्यतः ५००मी. काफीवाटिकामार्गे पद्भ्यां गम्यते चेत् सुन्दरं जलपातम् अवलोकयितुं शक्नुमः । १०७पादपरिमितात् औन्नत्यात् कावेरीनदी पतति । अब्बिजलपातः बेङ्गळूरुतः २५०कि.मी.दूरे, मङ्गळूरुतः १२०कि.मी.दूरे अस्ति । उपमण्डलकेन्द्रे मडिकेरिपत्तने वसतिगृहाणि इन्धनपूरणकेन्द्राणि, भोजनोपाहारगृहाणि सन्ति एव । समीपे एव मनोहरः अगस्थ्यपर्वतः, तलकावेरी इति कावेर्याः उद्भवस्थानम्, इरुप्पुजलपातः, भागमण्डलम्, बैलकुप्पे (टिबेटीयअधिवासकेन्द्रम्) इति दर्शनयोग्यस्थानानि सन्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]can't use in sandboxकर्णाटकस्य जलपाताः]] can't use in sandboxस्टब्स् भारतसम्बद्धाः]] can't use in sandboxसर्वे अपूर्णलेखाः]]
2.
राजा |
---|
सः पौरवकुलस्य राजा आसीत्।
can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
3.
अभिजित् | |
---|---|
अभिजित् |
सः यादवकुलस्य राजा आसीत्।
can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
4. अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --
- काव्येषु नाटकं रम्यं तत्र रम्य़ा शकुन्तला।
- तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।
कालिदासस्य तुलनां जनाः शेक्सपियर् नाटककारेण सह कुर्वन्ति।
शाकुन्तलविषये गटेनामकस्य जर्मनकवे: अभिप्राय:
Wouldst thou the young year’s blossoms
and the fruits of it decline,
And all by which the soul is charmed,
enraptured, feasted, fed,
Wouldst thou the earth and heaven itself
in one sole name combine?
I name thee, o S’akuntala !
and all at once is said.
अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् ।
नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।
नामकरणम्
[सम्पादयतु]“अभिज्ञायते अनेन इति अभिज्ञानम् चिह्नमिति, अभि+ ज्ञा + ल्युट् । शकुन्तैः लालिता शकुन्तला । शकुन्तलामधिकृत्य कृतं नाटकं शाकुन्तलम् ‘अधिकृत्यकृते ग्रन्थे’ इति सूत्रेण ‘अण्’ प्रत्ययः । अभिज्ञानप्रधानं शाकुन्तलम् ‘अभिज्ञानशाकुन्तलम्’ इति व्युत्पतिं दर्शं दर्शं सिध्दमेव अभिज्ञानशाकुन्तलस्य समस्या प्रधानत्वम्, नायिकाप्रधानत्वं च । अतः समस्यां नायिकां च आदाय कृतमस्य ‘अभिज्ञानशाकुन्तलम्’ इति नामकरणं सर्वथा सफलमुचितम् चास्ति । अथवा – अभिज्ञानसहितं शाकुन्तलम् अभिज्ञानशाकुन्तलम् । अथवा अभिज्ञानञ्च शकुन्तलाञ्च इति अभिज्ञानशाकुन्तलम् । कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् । अभिज्ञानशाकुन्तले चतुर्थेऽङ्के कविः कण्वरुपेण उपस्तितोऽस्ति ।
अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्के लौकिकालौकिक प्रकृतिमानवयोः विलक्षणं समन्वयोऽस्ति । वनौकसोऽपि वयं लौकिकज्ञा एव इति कण्वस्य उद्घोषणा चतुर्थाऽङ्कस्य वैशिष्ट्यं द्विगुणयति । अरण्यवासिन्याः शाकुन्तलायाः पतिगृह- हस्तिना पुरगमनम् अरण्यराजप्रसादयोः किमपि विलक्षणं सम्बन्धं प्रतिपादयति । दुर्वाससः शापः, आकाशवाणी, शकुन्तलायाः पतिगृहगमनम्, वनस्पतिभ्यः शकुन्तलायै आभूषणप्रदानम्, कोकिलरवेण शकुन्तलायाः पतिगृहगमनाय वनस्पतीनां स्वीकृतिः , मृगशावकेन् शकुन्तलामार्गावरोधः, शकुन्तलायाः प्रस्थानं चेति चतुर्थोऽङ्कस्य महत्वपूर्णाः घटनाः सन्ति । अभुज्ञानशाकुन्तलस्य चमत्कारो दुर्वाससः शापघटनायामाश्रितोऽस्ति, अत एव अंकोऽयं विशिष्टं स्थानं बिभर्ति । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् इत्यनेन शकुन्तलायाः पतिगृहगमनाय अनुज्ञा प्रार्थिता ।
- क्षौमं केनचिदिन्दुपाण्डुतरुणा मांगल्यमाविष्कृतम् इत्यनेन शकुन्तलायै वनस्पतिभि आभूषणप्रदानमपि विशिष्टा घटना अस्ति । अस्मान् साधु विचिन्त्य् “ इति महर्षिणा कण्वेन दुष्यन्ताय तथा ‘शुश्रूषस्व गुरुन् कुरु’- इत्यनेन शाकुन्तलायै कृत उपदेशः शाश्वतिकः तथा समाजे सर्वेषां कृते महदुपयोगी अस्ति ।
- आपरितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् ।
- बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥
ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते इति नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति ।
कथा
[सम्पादयतु]पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् ।
दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।
कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं "सर्वदमन" इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास ।
यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला - "महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर" इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणॆ किमपि अजानन् इव -
- धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।
- गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥
अस्य तात्पर्यमेतत् - धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- "महाराज ! जानन्नपि कुतः एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति" इत्यादिभिः वचनैः भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न स्मरन् सः अन्ते तामेव "वेश्यापुत्रि !" इति निन्दति । शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना पुत्रेण सह ततः निर्गता । तावता - "भरस्व पुत्रं दुष्यन्त ! मावमंस्थाः शकुन्तलाम्" (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय । शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित् भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति । ततः दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य राजसभायां मन्त्रिपुरोहितं च उद्दिश्य - "अहं तु एतां जाया इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान् अधुना अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता ।
शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात् अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे, मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता इति ज्ञायते ।
कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नस्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति ।
ततः दुष्यन्तः कञ्चित् हरिणं अनुधावन् राजा दुष्यन्तः रथं वाहयन् सूतश्च प्रविशतः । दुष्यन्तः यावत् हरिणस्य उपरि बाणं प्रयोक्तुं सिद्धः तावता आश्रमस्य तपस्विनः आगत्य - "राजन् ! आश्रममृगोऽयं मा हन्यताम्" इति वदन्ति । समीपे विद्यमानं कण्वस्य आश्रमं प्रदर्श्य तत्र कण्वः अधुना आश्रमे नास्ति, परं कण्वदुहिता शकुन्तला तव सत्कारं करिष्यति गत्वा अतिथिसत्कारं स्वीकृत्य गच्छ इति सूचयन्ति । दुष्यन्तः स्वयम् एकाकी आश्रमं प्रति गच्छति । तत्रा तिसृभिः तापसकन्यकाभिः वृक्षेभ्यः जलं सिच्यमानम् असीत् । तासां मधुराणि सम्भाषणानि प्रच्छन्नः स्थित्वैव शृणोति । तासु तिसृषु अन्यतमायाः शकुन्तलायाः अप्रतिमं सौन्दर्यं विलोक्य विस्मितः भवति राजा । तस्याः अव्याजमनोहरं सौन्दर्यं स्वदते सः । तासां पुरतः आत्मानं दर्शयितुं समयं प्रतीक्षमाणः भवति । तावता कश्चन भ्रमरः शकुन्तलां पीडयन् भवति । तदा राजा आत्मनः प्रकटनाय अयं समुचितः कालः इति चिन्तयन् तद्दूरीकरणाय सः प्रविशति । तयोः सख्योः सम्भाषणेन शकुन्तला विश्वामित्रमेनकयोः पुत्रीति, ताभ्यां परित्यक्ता शकुन्तपक्षिभिः वने पोषितां तां कण्वमहर्षिः आश्रमं प्रति आनीय तां पोषयन् अस्ति इत्यादिविषयान् ज्ञात्वा राजा सन्तुष्टः भवति । एषा क्षत्रियकन्या, मया परिणेतुं योग्या इति चिन्तयन् मनसि हृष्टः भवति ।
can't use in sandboxकालिदासस्य कृतयः]] can't use in sandboxसंस्कृतनाटकानि]] can't use in sandboxसारमञ्जूषा योजनीया]]
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Abhijnana Sakuntalam - Transliterated text at GRETIL
- Complete translation by Arthur W. Ryder
विकिस्रोतसि एतत्सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते : RaviTeja DS/प्रयोगपृष्ठम् |
5.
अभिनेता | |
---|---|
अभिनेता |
अभिनयं करोति इति अभिनेता । पात्रधारी इत्यपि नामान्तरम् । नाटकेषु, चलच्चित्रेषु सामान्यतः ये अभिनयं कुर्वन्ति ते अभिनेतारः इति अभिधीयन्ते ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Csapo, Eric, and William J. Slater. 1994. The Context of Ancient Drama. Ann Arbor: The U of Michigan P. ISBN 0-472-08275-2.
- Elam, Keir. 1980. The Semiotics of Theatre and Drama. New Accents Ser. London and New York: Methuen. ISBN 0-416-72060-9.
- Weimann, Robert. 1978. Shakespeare and the Popular Tradition in the Theater: Studies in the Social Dimension of Dramatic Form and Function. Ed. Robert Schwartz. Baltimore and London: The Johns Hopkins University Press. ISBN 0-8018-3506-2.
- An Actor's Work by Constantin Stanislavski
- A Dream of Passion: The Development of the Method by Lee Strasberg (Plume Books, ISBN 0-452-26198-8, 1990)
- Sanford Meisner on Acting by Sanford Meisner (Vintage, ISBN 0-394-75059-4, 1987)
- Letters to a Young Actor by Robert Brustein (Basic Books, ISBN 0-465-00806-2, 2005).
- The Empty Space by Peter Brook
- The Technique of Acting by Stella Adler
- Actors' Equity Association (AEA): a union representing U. S. theatre actors and stage managers.
- American Federation of Television and Radio Artists (AFTRA): a union representing U. S. television and radio actors and broadcasters (on-air journalists, etc.).
- British Actors' Equity: a trade union representing UK artists, including actors, singers, dancers, choreographers, stage managers, theatre directors and designers, variety and circus artists, television and radio presenters, walk-on and supporting artists, stunt performers and directors and theatre fight directors.
- Media Entertainment & Arts Alliance: an Australian/New Zealand trade union representing everyone in the media, entertainment, sports, and arts industries.
- Screen Actors Guild (SAG): a union representing U. S. film and TV actors.
can't use in sandboxसामाजिकवृत्तयः]] can't use in sandboxसमाजसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
6.
मिमाम्सदर्षनम् |
---|
मीमांसकेषु वाक्यार्थ सम्बन्धे प्रमुखौ द्वौ वादौ वर्तेते । तत्र प्रथमं कुमारिलभट्टस्य अभिहितान्वयवादः, तथा प्रभाकरस्य अन्विताभिधानवादश्च । तत्र अभिहितान्वयवादिनां मतानुसारं सर्वप्रथमम् अभिधाशक्त्या पदार्थस्य बोधो भवति । तदनन्तरं तात्पर्यानुसारं तेषां पदार्थानां परस्परमन्वयो भवति, येन वाक्यार्थस्य प्रतीतिर्जायते । अर्थात् अभिहितान्वयवादे, अभिधावृत्तेः एकैकपदार्थं बोधयित्वा विरामात् लक्षणावृत्तेश्च ‘शब्दबुद्धिकर्मणां विरम्य व्यापारभावः’ इति न्यायात् पुनरुत्थानाऽसम्भवात् आकांक्षा योग्यता सन्निधिवशात् पदार्थानां परस्परसम्बन्धे बुभुत्सिते अपदार्थोऽपि वाच्याद्यर्थविलक्षणशरीरः वाक्यार्थरुपः तात्पर्यार्थः अनुभवविषयो भवतीति। अस्यायमाशयः ‘घटं करोति’ इत्यस्मिन् वाक्ये अभिधा कम्बुग्रीवादिमन्तं घटपदार्थम्, अम् विभक्त्या कर्मत्वं चाभिधाय विरमति। वृत्तिता तु न कस्याप्यर्थः इति अपदार्थोऽपि वृत्तितावशात् अनयोः संसर्गविधया भासते। इत्थं तात्पर्यवृत्यैव पदार्थानां मिथोऽन्वयो भवतीति अभिहितान्वयवादिनां कुमारिलभट्टादीनां मतम्। द्वितीयोदाहरणं यथा, देवदत्तो ग्रामं गच्छतीत्यत्र प्रत्येकं पदस्य पृथक् पृथक् अर्थं बोधयित्वा विरतायामभिधायां देवदत्तकर्तृकवर्तमानकालिकग्रामकर्मकगमनानुकूलो व्यापारः इति विशिष्टार्थं बोधयितुं तात्पर्याख्यवृत्तेः आवश्यकता भवति। न पदार्थबोधमिव विशिष्टार्थमपि अभिधैव बोधयिष्यति किं तात्पर्यवृत्येति वाच्यम् ?
‘शब्दबुद्धिकर्मणां विरम्यव्यापारभावः’ इति न्यायेन पदार्थमात्रं बोधयित्वा अयिधायाः विरामाङ्गीकारात्, अन्वयांशे विशिष्टार्थबोधाय तात्पर्यवृत्तिरवश्यं मन्तव्या इत्यभिहितान्वयवादिनां मतम् । अभिहितानां स्वस्ववृत्या पदैरुपस्थितानामर्थानाम् अन्वयो भवतीति ये वदन्ति ते अभिहितान्वयवादिनः । तात्पर्यार्थोऽपि केषुचित् । अत्र केषुचित्’ इति बहुवचोपादानेनायं मम्मटस्याभिप्रेतः इति स्पष्टमेव ।
कथनस्य तात्पर्योऽयं यत् कस्यापि पदस्यार्थः प्रथमतः अभिधया ज्ञायते । पश्चात् सोऽर्थः आकाङ्क्षासंनिधियोग्यताभिः परस्परं सम्बन्धरुपं भासते। सम्बद्धरुपं पदार्थज्ञानं वाक्यार्थबोधः शब्दबोधो वा कथ्यते यथा – ‘गामानय इत्यत्र‘ गोपदस्यार्थः सास्नादिविशिष्टपदार्थः सामान्यार्थो वर्तते । एवमेव ‘अम्’ प्रत्ययस्यार्थः सामान्यकर्मत्वं तथा ‘आनय’ इति क्रियापदेत सामान्यानयनरुपक्रियायां ज्ञानं भवति । अत्र वक्ता अभीष्टप्राणिविशेषस्य ग्रहणं न करोति । विशिष्टोऽयमर्थः तदैव ज्ञायते यदा आकाङ्क्षासन्निधियोग्यताद्वारेण एकस्य् पदस्य अर्थेन सह अपरपदस्यार्यस्य सम्बन्धो भवति।
निष्कर्षः
[सम्पादयतु]इहानन्त्याद् व्यभिचाराच्च वाक्यस्य वाकयार्थ इव विशेषरुपे पदार्थपदस्य सङ्केतं कर्तुं न पारयति इति सामान्य एव सङ्केतः । आकाङ्क्षासंनिधियोग्यतावशात् सामान्यानामभिहितानां सतामन्वय इति पदार्थानां वैशिष्ट्यम् । एवं चापदार्थोऽपि वाक्यार्थस्तात्पर्यशक्त्या प्रतिपाद्यते । अत्र पक्षे पूर्वमभिधा, ततोऽन्वयबोधे लक्षणा, ततस्तृतीयकक्षायां व्यञ्जनेति । यतः पदेभ्यः पूर्वं पदार्थस्मृतिः, अथ पदार्थविशेषाणामन्वयविशेषरुपस्य वाक्यार्थस्य प्रत्ययः, ततो व्यङ्ग्यप्रतीतिस्तृतीयकक्षायां तत्र कुतोऽभिधायाः प्रसरणम् ? शब्दबुद्धिकर्मणां विरम्य व्यापारभावः इति ।
can't use in sandboxमीमांसादर्शनम्]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxविषयः वर्धनीयः]] can't use in sandboxसारमञ्जूषा योजनीया]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]
7.
अभ्यङ |
---|
दिनचर्यायाः विषयः एषः। अष्टाङ्गहृदये एवमुक्तम्,
अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा।
दृष्टिप्रसादपुष्ट्यायुःसुत्वक्त्वदार्ढ्यकृत् ॥
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- अभ्यङ्गः बान्यान् बोटानिकल्स्।
- अभ्यङ्गः इत्युक्ते किम्? कालिफोर्निया विश्वविद्यालयम्।
can't use in sandboxयोगः]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxसारमञ्जूषा योजनीया]] can't use in sandboxसर्वे अपूर्णलेखाः]]
8.
अमजद अली खान | |
---|---|
अमजद अली खान |
भारतीय सङ्गीतकारः।
can't use in sandboxचलच्चित्रसङ्गीतनिर्देशकाः|खान, अमज़द अली]] can't use in sandboxचलच्चित्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
9.
अमर् गोपल् बोस् |
---|
अमर गोपाल बोस (१९२९ - ) आविष्कारक: अस्ति.
अवलंबम्
[सम्पादयतु]Bold text
can't use in sandboxविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
10.
अमरकोशः (आङ्ग्लभाषा:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशः अस्ति। शब्दार्थकोशाः 'निघण्टुः' इति कथ्यते। नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७)। 'अर्थान् निघण्ट्यत्यस्मात् निघण्टुः परिकीर्तितः'। अत्र शब्दानां सङ्ग्रहः, समानार्थकाः पर्यायशब्दाः, अनेकार्थकाः शब्दाः च अत्र उपलभ्यन्ते । संस्कृते सर्वविधानां कोशानां मूलम् अस्ति वैदिकनिघण्टुः। यास्केन रचितः निरुक्तः अस्य वैदिकनिघण्टोः भाष्यम्।
- अमरकोशस्य कर्ता अमरसिंहः। एषः चतुर्थे शतके द्वितीय-चन्द्रगुप्तस्य आस्थाने विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् इति श्रूयते। केचन वदन्ति अयं सप्तमे शतके विक्रमादित्यस्य आस्थाने आसीत् इति। 'नामलिङ्गानुशासनम्' इत्येतत् अस्य अपरं नाम वर्तते। अत्र शब्दानाम् अर्थेन सह लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं ग्रन्थः अत्युपयुक्तः वर्तते ।
ग्रन्थस्वरूपम्
[सम्पादयतु]अमरकोशः श्लोकरूपेण रचितः अस्ति। अतः कण्ठपाठार्थं बहु सुलभं भवति। अमरकोशे त्रीणि काण्डानि (अध्यायाः) सन्ति। स्वर्गादिकाण्डं, भूवर्गादिकाण्डं,सामान्यादिकाण्डम् चेति। एकैकस्मिन् काण्डे अनेके वर्गाः सन्ति। विषयानुगुणं शब्दाः अत्र वर्गीकृताः सन्ति। नानार्थवर्गे विषयविभागः अशक्यः इत्यतः अत्र अन्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतम् अस्ति। शब्देन सह अत्र लिङ्गनिर्देशः अपि कृतः अस्ति इति कारणतः अयं कोशः अत्यन्तम् उपयुक्तः अस्ति।
प्रथमकाण्डम्/स्वर्गादिकाण्डम्
[सम्पादयतु]स्वर्गादिकाण्डे एकादश वर्गाः सन्ति। तानि
- १ स्वर्गवर्गः २ व्योमवर्गः ३ दिग्वर्गः
- ४ कालवर्गः ५ धीवर्गः ६ वाग्वर्गः
- ७ शब्दादिवर्गः ८ नाट्यवर्गः ९ पातालभोगिवर्गः
- १० नरकवर्गः ११ वारिवर्गः
द्वितीयकाण्डम्/भूवर्गादिकाण्डम्
[सम्पादयतु]अस्मिन् काण्डे दश वर्गाः सन्ति। तानि
- १ भूमिवर्गः २ पुरवर्गः ३ शैलवर्गः
- ४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः
- ७ ब्रह्मवर्गः ८ क्षत्रियवर्गः ९ वैश्यवर्गः
- १० शूद्रवर्गः
तृतीयकाण्डम्/सामान्यादिकाण्डम्
[सम्पादयतु]अस्मिन् षड्वर्गाः सन्ति। तानि
- १ विशेष्यनिघ्नवर्गः २ सङ्कीर्णवर्गः ३ नानार्थवर्गः
- ४ नानार्थाव्ययवर्गः ५ अव्ययवर्गः ६ लिङ्गादिसङ्ग्रहवर्गः
वैशिष्ट्यानि
[सम्पादयतु]'अष्टाध्यायी जगन्मातामरकोशो जगत्पिता' इत्येषा उक्तिः अमरकोशस्य श्रेष्ठतां दर्शयति। संस्कृतभाषायाः साम्प्रदायिकाध्ययनक्रमे अमरकोशस्य कण्ठपाठः अनिवार्यरूपेण योजितः आसीत्। अमरसिंहः तस्मिन् समये विद्यमानान् सर्वान् निघण्टून् शास्त्रान्तराणि च परिशील्य एव एतं ग्रन्थं रचितवान् अस्ति। अतः एव ग्रन्थस्य आरम्भे सः लिखति - 'समाहृत्यान्यतन्त्राणि' इति। व्याकरणम्।व्याकरणशास्त्रे तस्य विशेषा अभिरुचिः आसीत्। पाणिनेः अष्टाध्याय्याः सूत्र-वार्तिक-भाष्यादीनि सम्यक् परिशील्य तान् शब्दान् अमरकोशे योजितवान् अस्ति। अतः एव 'अमरसिंहो हि पापीयान् सर्वं भाष्यमचूचरत्' (अमरसिंह्ः व्याकरणभाष्यं समग्रं चोरितवान्!) इति व्याजस्तुतिः पण्डितगोष्ठीषु प्रसिद्धा अस्ति।
व्याख्यानानि
[सम्पादयतु]अमरकोशस्य ५० व्याख्यानानि उपलभ्यन्ते। तेषु प्रमुखानि - क्षीरस्वामी।क्षीरस्वामिना विरचितम् 'अमरकोशोद्घाटनम्' भानुदीक्षितः।भानुदीक्षितेन विरचितं 'व्याख्यासुधा' वन्ध्यघटीयसर्वानन्देन विरचितं 'टीकासर्वस्वम्' रायमुक्तेन विरचितं 'पदचरितम्' जिनेन्द्रभूदिना विरचितं 'काशिकाविवरणपञ्जिका'
अमरकोशस्थाः केचन श्लोकाः
[सम्पादयतु]पीठिकाश्लोकाः
- यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः।
- सेव्यतामक्षयो धीरास्स श्रिय्यै चामृताय च।।
- समाहृत्यान्यतन्त्राणि संक्षिप्त्यैः प्रतिसंस्कृतैः।
- सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्।
- प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्।
- स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्।।
- भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः।
- कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते।।
- त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
- निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्।।
स्वर्गः
- स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।
- सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे तिविष्टपम्।।
बुद्धिः
- बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः।।
- प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः।
भूमिः
- भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।
- धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः।।
- सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
- गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही।।
नमस्कृतम्
- स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्।
पूजितम्
- वरिवसिते वरिवस्यितमुपासितं चोपचरितं च।।
ककारान्ताः
- पद्ये यशसि च श्लोकश्शरे खड्गे च सायकः।
- जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ।।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि एतत्सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते : RaviTeja DS/प्रयोगपृष्ठम् |
can't use in sandboxसंस्कृतकोषाः]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxसारमञ्जूषा योजनीया]]