सदस्यः:Vishal Maheta/प्रयोगपृष्ठम्/2
पूज्य मोटा (गुजराती: પૂજ્ય મોટા, आङ्ग्ल: pujya mota ) इत्यनेन हरि ओम् आश्रमः इति नामिका लोककल्याणस्य पावनप्रवृत्तिकर्त्री एका प्रसिद्धा संस्था स्थापिता । इयं संस्था ज्ञानविज्ञानस्य विकासं प्रोत्साहयति । अविकसितविस्तारेषु, ग्रामेषु च शालानिर्माणकार्ये साहाय्यं करोति । [१] सुरुचिं पोषयितुं, ज्ञानपिपासां शमयितुं योग्यं साहित्यमपि प्रकटयति । यस्य महापुरुषस्य प्रेरणया एतानि कार्याणि आरभन्त, साम्प्रतं च तानि कार्याणि अविरतं चलन्ति सन्ति सः महापुरुष एव पूज्य मोटा इति ।
जन्म, परिवारश्च
[सम्पादयतु]१८९८ तमस्य वर्षस्य सितम्बर-मासस्य चतुर्थे दिनाङ्के वडोदरा-जनपदस्य सावलीग्रामे चुनीलाल इत्यस्य जन्म अभवत् । तस्य पितुः नाम आसाराम भगत आसीत् । [२]सः रङ्गनकार्यं करोति स्म । तस्य मातुः नाम सूरजबा इति । सापि परिस्थित्यनुसारं ग्रामे धान्यपेषणस्य कार्यं करोति स्म । जनाः तं पूज्य मोटा इति नाम्ना एव जानन्ति स्म ।
बाल्यम्
[सम्पादयतु]तस्य पिता व्यसनी आसीत् । सः गृहात् बहिः स्थित्वा धुम्रपानं करोति स्म । तत्र समीपस्य चतुष्पादे अतिथिः शयनरतः आसीत् । तदानीन्तने काले गृहे कोऽपि आगतः चेत्, तस्य नाम सैनिकमथके लिखितं भवेत् इति अनिवार्यम् आसीत् । तदानीमेव ततः द्वौ सैनिकौ निर्गतौ । [३] अतिथिं दृष्ट्वा एकः सैनिकः अवदत् कः अस्ति अयम् इति । श्रुत्वा पू. मोटा इत्यस्य पिता अतिथिः अस्ति इति अवदत् । पुनः सैनिकः नियमानुसारं नाम लेखनं कारितमस्ति न वा इति अपृच्छत् । सः नाम लेखनं तु चौरस्य वा नीचवर्णीयस्य कर्तव्यं भवति । अपमानजनकमिदं वाक्यं श्रुत्वा सैनिकौ ताडनं कृर्वन् तं सैनिकमथके अनयत् । तत् दृष्ट्वा पू. मोटा रावसाहेब मनुभाइ इत्यस्य गृहं गतः । तस्य माता तत्र कार्यं कुर्वन्ती आसीत् । सः मातरं, मनुभाइ इत्येतं च सम्पूर्णं वृत्तान्तं श्रावितवान् ।[४] तदनन्तरं मनुभाइ सैनिकान् उद्बुद्ध्य आशाराम इत्येतं मुक्तम् अकरोत् ।
पूज्यमोटा इत्यस्य सङ्कल्पः
[सम्पादयतु]पञ्चवर्षणां वयसि सः अनेन प्रसङ्गेन प्रभावितः अभवत् । सः अहं श्रेष्ठः भविष्यामि इति च व्यचारयत् । श्रेष्ठः भवितुं पठनम् आवश्यकम् इत्यपि सः व्यचारयत् । किन्तु पठनाय धनस्य आवश्यकता आसीत् ।[५] कुटुम्बस्य आर्थिकपरिस्थितिं, पठनाय धनस्य आवश्यकतां च विचिन्त्य सः कालोल-ग्रामे एंग्लो इन्डियन् इति नामिकायां नूतनायां शालायां मासस्य १.५ इति रूप्यकधनाय स्वच्छतायाः वृत्तिं स्व्यकरोत् । तत्र कर्मकरस्यापि सर्वाणि कार्याणि स एव करोति स्म । सः शालायाः प्राध्यापकस्य अपि सर्वाणि कार्याणि करोति स्म । तत्र नियमानुसारं पठने अधिकम् कालः गमिष्यति इति विचार्य, सः आचार्याय "अहं ग्रीष्मावकाशम् अपि नेच्छामि" इति प्रार्थयत् । तदनन्तरं सः १.५ वर्षे चतुर्णां वर्षाणाम् अभ्यासं समापितवान् । ततः परं सः हाई-स्कूल् इत्यत्र अभ्यासार्थं व्यचारयत् । [६]किन्तु ततः प्राक् कृषिवले बीजवपनस्य कार्यं स्व्यकरोत् । आदिनं कार्यं कृत्वा सायङ्काले सः एकां रोटिकां प्राप्नोति स्म । सः बुभुक्षाधिक्यात् स्वामिनम् अधिकां रोटिकाम् याचते । किन्तु स्वामी 'त्वं बालः असि' अधिकं खादितुं न शक्ष्यसि इति अवदत् । ततः परम् एकदा सः इष्टिकायाः निर्माणस्थलेऽपि कार्यम् अकरोत् । तत्र बहुवारम् अग्निना हस्तस्य ज्वलनमपि अभवत् । तथापि सः पराजयं न गतः । तस्य मनसि धनिकः श्रेष्ठश्च भवितुम् एका रुचिः आसीत् ।
कार्येषु प्रामाणिकता
[सम्पादयतु]सः अभ्यासं कुर्वन् कुटुम्बस्य साहाय्यं कर्तुं निर्णयम् अकरोत् । तदर्थं सः एकस्मिन् धान्यस्य-आपणे पञ्चरूप्यकाणां वेतनेन वृत्तिं स्व्यकरोत् ।[७] तत्र सः स्वच्छतायाः कार्यं करोति स्म । तत् कार्यमपि सः रुचिपूर्वकं विदधाति स्म । सः प्रतिदिनम् आपणं स्वच्छं करोति स्म । आपणस्य स्वामी यत्र उपविशति स्म, तत् स्थानमपि सः स्वच्छं करोति स्म । आपणस्य प्रवेशद्वारस्य पूजनमपि करोति स्म । एतत् सर्वं दृष्ट्वा तस्योपरि स्वामी प्रसन्नः सन् तस्मै कृषिभ्यो अन्नक्रयणस्य कार्यम् अयच्छत् ।[८] स्वामी २० कि.ग्रा अन्ने १ कि.ग्रा अन्नम् अधिकम् प्राप्नोत् तथा अन्नस्य तोलनं कर्तव्यम् इति असूचयत् च। किन्तु तत् पू.मोटा एकस्मात् कर्णात् श्रुत्वा अन्यस्मात् अपाकरोत् । एकदा कृषकस्य, व्यापारिणः च कलहः अभवत् । पुनः तोलनम् अभवत्, तोलने दाषः वा कपटं नासीदतः कलहः शान्तश्च अभवत् । किन्तु पू.मोटा स्वामिनः कथनानुसारं तोलं न करोति स्म इति अन्यः कश्चन व्यापारी अजानात् । सः तत् स्वामिनम् असूचयत् । स्वामी पू.मोटा इत्येतं कठोराणि वचनानि अवदत् ।[९]श्रुत्वा पू.मोटा वृत्तिम् अत्यजत् ।
शिक्षणम्
[सम्पादयतु]सः पठने अपि निपुणः आसीत् । किन्तु परिस्थितिवशात् सः सातत्येन पठितुं न शक्नोति स्म । तथापि सः स्वस्याः शालायं तु प्रथमक्रमम् एव प्राप्नोति स्म । १९१९ तमे वर्षे सः मेट्रिक् इति परीक्षायाम् उत्तीर्णः अभवत् । इत्थं तस्य किशोरावस्थायाः प्रसङ्गाः तस्य व्यक्तित्वं, साफल्यं च दर्शयति ।
मातुः उपदेशः
[सम्पादयतु]दीनता वशात् पूज्य मोटा मोदकादीनां भोजनं न प्राप्नोति स्म । एकदा ग्रामे कस्यापि अन्यायाः जातेः भोजनम् आसीत् । यस्याः जातेः भोजनम् आसीत्, तस्याः जातेः श्रेष्ठीजनस्य पुत्रः पूज्य मोटा इत्यस्य मित्रम् आसीत् । [१०]सः स्नेहाधिक्यत् पूज्य मोटा इत्यस्मै मोदकान् अयच्छत् । पूज्य मोटा गृहस्य जनैः साकं भोजनं करिष्यामि इति विचार्य मोदकस्य करण्डं गृहे अनयत् । गृहे गते सति सूरज बा तम् कुतः मोदकानि आनीतानि इति अपृच्छत् । सः मातरं सर्वम् अकथयत् । माता वयम् एतान् मोदकान् खादितुम् अधिकारिणः न स्मः । अतः दीनजनेभ्यः अस्य वितरणं करोतु इति अवदत् । तदनन्तरं माता तस्मै परिश्रमेण प्राप्तान्नस्य भोजनं कारितवती । ततः परं पूज्य मोटा उपदेशममुम् अङ्गीकृत्य अन्येभ्यः प्रदत्तं वस्त्रमपि दीनजनेभ्यः यच्छति स्म ।[११]
उच्चाभ्यासः
[सम्पादयतु]मेट्रिक् इति परीक्षाम् उत्तीर्य सः उच्चाभ्यासार्थं वडोदरा नगरम् अगच्छत् । तत्र शालायाः एकस्य शिक्षकस्य सम्बन्धी पूज्य मोटा इत्यस्य निवासस्य, भोजनस्य, पठनस्य च सर्वाः व्यवस्थाः कृत्वा तस्य सहायताम् अकरोत् । । पूज्य मोटा इत्यनेन तल्लाभः स्वीकृतः । तथापि स्वल्पेन व्ययेन वास्तव्यम् इत्यपि विचारितम् । तत्र छात्रालयेन सञ्चालिते भोजनालये भोजनस्य मूल्यं बह्वधिकम् आसीत् । अतः सः वडोदरा-नगरस्य "हवेली सम्प्रदायस्य" भोजनालये भोजनं कर्तुं गच्छति स्म । तत्र गमनस्य मार्गः २.५ की.मी दूरम् आसीत् तथापि सः पद्भ्यामेव गच्छति स्म । [१२]तदानीमेव भारतस्वातन्त्र्यस्य आन्दोलनानि उग्राणि अभूवन् । तस्य प्रभावः महाविद्यालयेषु अपि दृश्यते स्म । तत् दृष्ट्वा पूज्य मोटा इत्यस्य हृदये अपि देशसेवायाः भावाः प्रकाटिताः अभूवन् । सः महात्मनः कार्याणि कर्तुम् इच्छुकः अभवत् ।
स्वातन्त्र्यकार्ये सम्मिलितः
[सम्पादयतु]पूज्य मोटा इत्ययं स्वस्य, कुटुम्बस्य च विचारं त्यक्त्वा, देशस्य स्वातन्त्र्याय सज्जः अभवत् । देशाय सः स्वस्य अभ्यासमपि अत्यजत् । सः महात्मनः प्रत्येकेषु कार्यक्रमेषु उपस्थितः भविष्यामि इति सङ्कल्पम् अकरोत् । बहवः जनाः तं बोधितवन्तः किन्तु सः दृढप्रतिज्ञः आसीत् ।[१३] सः आजीवनं देशसेवां कर्तु्ं व्यचारयत् । तस्य हितेच्छुकेभ्यः, कुटुम्बिजनेभ्यश्च तत् रुचिकरं नाभवत् । सः पठनं त्यक्त्वा अहमदावाद-नगरस्य गुजरातविद्यापीठ इति नामिकायं राष्ट्रियायां शालायां सम्मिलितः अभवत् । ततः परं राष्ट्रियां पद्धतिं ज्ञातुम् आरभत । तत्र सः नवजीवन इति मासिकस्य विक्रयणं कृत्वा स्वस्मै प्रदत्तानि कार्याणि साधयति स्म ।
लोभस्य त्यागः
[सम्पादयतु]एकदा सः पूर्व अफ्रीका इत्यस्य कम्पाला इति नामके स्थले शिक्षकस्य वृत्तिं प्रापत् । तत्र सः स्वस्य आर्थिकपरिस्थितिः स्वल्पे एव काले परिवर्तिता भवेत् तावत् अधिकवेतनस्य, अवसरमपि प्रापत् ।[१४] । किन्तु सः स्वस्य प्रतिज्ञायै अटलः आसीत् । सः देशस्य सेवायै विचारम् अकरोत् ततः परं कदापि लोभाविष्टः न अभवत् इति । देशाय सः सानन्दं काठिन्यं सहते स्म । कुटुम्बाय धनं दातुं न शक्नोति स्म । अतः तेभ्यः स्वस्य भारमपि न ददाति स्म । सः बुभुक्षिते शयने सत्यपि स्वस्य प्रतिज्ञां न त्यजति स्म ।
गुजरातविद्यापीठस्य अपि त्यागः
[सम्पादयतु]यदा पूज्य मोटा इत्यस्य स्नातकस्य द्वितीये वर्षे अभ्यासरतः आसीत्, तदा महात्मा गुजरातविद्यापीठे समागतः तत्र तेन यूनः सम्बोध्य सम्पूर्णः देशः अग्नौ ज्वलति तथापि भवन्तः एकस्मै प्रमाणपत्राय मोहिताः सन्ति ।[१५] साम्प्रतं तु सर्वं त्यक्त्वा ग्रामाः जागरूकाः भवेयुः तदर्थं प्रयासः कर्तव्यः । तदानीं महात्मनः विचारैः प्रभावितौ भूत्वा द्वौ छात्रौ सज्जौ अभवताम् । तौ च पूज्य मोटा ,पाण्डुरङ्ग विठ्ठल वणामे इति ।
हरिजन इति ज्ञातीयानाम् अन्येभ्यः तिरस्कारः
[सम्पादयतु]तदानीं हरिजन इति ज्ञातीयानां जनानां तिरस्कारः भवति स्म । तेषाम् अपमानमपि भवति स्म । जनाः तेभ्यः गालिकां यच्छन्ति स्म । तदानीन्तने काले जनाः तेभ्यः अन्यायं न कुर्युः,ते शिक्षणं च प्राप्नुयुः तदर्थं प्रयासाः भवन्ति स्म । तच्च सर्वं काठिन्यतायुतमपि आसीत् । तथापि तानि कार्याणि पूज्य मोटा इत्ययं स्व्यकरोत् । [१६] एकत्र समाजस्य कलहः अन्यत्र कौटुम्बिकानां कलहः, उभयत्र पूज्य मोटा इत्यस्य भविष्यं तु अन्धकारमयमेव आसीत् ।
देशस्य सेवा कुटुम्बस्य निर्वाहः
[सम्पादयतु]एकत्र देशसेवायाः दृढा प्रतिज्ञा, अन्यत्र कुटुम्बस्य सहायतायाः कर्तव्यम् च आसीत् ।[१७] तथापि सः "हरिजन सेवा सङ्घ" इत्यस्मिन् सम्मिलितः । तस्मिन् इन्दुलाल याज्ञिकेन सह ४५ रुप्यकाणां मासिकवेतनाय कार्यम् अकरोत् । तेन तस्य सेवाकार्यमपि अभवत् गृहस्य कर्तव्यपालनमपि अभवत् । कार्यविभाजने पूज्य मोटा इत्यस्य कार्यक्षेत्रं नडियाद-नगरमासीत् । तस्य ज्येष्ठभ्राता अपि "हरिजन सेवा सङ्घ" इत्यस्मिन् संलग्नः आसीत् । किन्तु सः क्षयरोगवशात् अधिकं कार्यं कर्तुं न अशक्नोत् । क्षयरोगग्रस्तः भ्राता जमनादासः अन्ते मृतः । ततः परं कुटुम्बे माता, विधवा भ्रातृजाया, तस्याः पुत्री शान्ति,अनुजौ, पूज्य मोटा च मिलित्वा षड् सभ्याः आसन् । तेषां पोषणं ४५ रुप्यकैः कर्तव्यम् आसीत् । एतासु काठिन्ययुतासु परिस्थितिषु कार्यं कृत्वा तस्मै हृदयरोगः अभवत् । तथापि सः देशसेवायाः कार्याणि सोत्साहम् करोति स्म । सहसा इन्दुलाल संघकार्यम् अत्यजत् । अतः पूज्य मोटा इत्यस्मै उभयोः कार्यभारः आपतितः । तथापि सः शालायाः, कार्यालयस्य च कार्याणि स्व्यकरोत् । किन्तु तत् केनापि महात्मने सूचितम् । अतः महात्मा तम् आहूतवान् । [१८]पूज्य मोटा गत्वा स्वस्य परिस्थितिविषये स्वभ्रातृविषये महात्मानं सर्वम् उद्बोधितवान् ।
महात्मा पूज्य मोटा इत्येतम् एतावति वयसि शालायाः कार्यालयस्य कार्यं कथं कर्तुं शक्नोषि ? । पूज्य मोटा निर्भयः भूत्वा विलियम पीट २३ वर्षस्य वयसि देशस्य प्रधानमन्त्रिपदस्य भारं वोढुम् अशक्नोत्, तर्हि अहम् उभयविधमपि कार्यं कर्तुं कथं न शक्नोमि इति महात्मानम् अकथयत् । [१९]महात्मा तस्य भावं ज्ञात्वा तं गृहं प्रैषयत् । तस्य कार्यभारं च न्यूनम् अकरोत् ।
हरि ओम् इति मन्त्रोपदेशः
[सम्पादयतु]पूज्य मोटा इत्ययमपि रोगग्रस्तः आसीत् । सः स्वस्य परिस्थितेः कारणात् चिकित्सां न कारितवान् । एकदा एकः साधुः तं हरि ओम् इति मन्त्रस्य रटनं कर्तुम् अकथयत् ।[२०] किन्तु तत् तस्मै योग्यं न भाति स्म । ततः परम् एकदा सः गृहस्य सोपानात् अधः अपतत् । यदा सः अधः अपतत्, तदा तस्मै तस्य साधोः दर्शनम् अभवत् । सः महात्मानं पत्रम् अलिखत् । महात्मा रामनाम्नः वा हरि ओम् इत्यस्य जपेन किमपि भवितुं शक्यमिति तम् असूचयत् । ततः परं पूज्य मोटा हरि ओम् इति मन्त्रस्य जपम् निरन्तरं करोति स्म । तेन तस्य रोगस्य अपि नाशः अभवत् ।
आध्यात्मिकसाधनायाः आरम्भः
[सम्पादयतु]गुरोः कृपया सः २४ तमे वयसि आध्यात्मिकसाधनायां रतः अभवत् । प्रतिरात्रि सः श्मशाने गत्वा एकान्ते साधनां करोति स्म । एतत् तस्य नित्यक्रमः अभवत् ।[२१] आदिनं देशसेवायाः कार्याणि करोति स्म एकमपि अवकाशं न स्वीकरोति स्म । किन्तु प्रत्येकस्मिन् वर्षे एकमासस्य अवकाशं गृहीत्वा स्वस्य आध्यात्मिकायै उन्नत्यै साधनां करोति स्म । इत्थं सः सांसारिके जीवनेऽपि उन्नतः आसीत् ।
विवाहर्थं सज्जः
[सम्पादयतु]माता सूरज बा पूज्य मोटा इत्यस्य विवाहं कारयितुं समुत्सुका आसीत्, किन्तु पुत्रस्य मनः आध्यात्मिके मार्गे अगच्छत् । तथापि माता तं विवाहार्थं मया कुटुम्बिजनानां कृते ग्राम्यजनानां धान्यपेषणं कृतम् किन्तु ते मम कथनानुसारं न चलन्ति इति अवदत् । तत् कथनं पूज्य मोटा इत्यस्मै सत्यम् अभाषत सः विवाहार्थं सज्जः समभवत् [२२]। किन्तु विवाहार्थं धनं नासीत् । कुटुम्बस्य निकटस्था एका भगिनी स्वल्पं धनं दत्तवती ।
धनं प्राप्य पूज्य मोटा विवाहार्थं निर्गतः । सः स्वयं पेटिकां स्वमस्तके गृहीत्वा अगच्छत् । तत् दृष्ट्वा सूरज बा क्रोधाविष्टा भवति स्म । किन्तु पूज्य मोटा स्वरीत्या एव चलति स्म । लग्नमण्डपे कन्यायाः आगमनम् अभवत् किन्तु पूज्य मोटा तु भक्तौ एव रतः आसीत् । हस्तमेलनकाले एव सः समाधिस्थः अभवत् । किन्तु तत् सामान्यजनैः नावगतम् । तैः हृदयरोगस्य अपघातः अभवत् इति अनुमानं कृतम् । तस्योपरि विवाहस्य प्रभावः नासीत् ।[२३] तस्य पत्नी अपि श्वसुरगृहात् प्रागेव स्वर्गं गता इति ।
विवाहस्य समाप्तिरभवत् ततः परं या विवाहार्थं धनं दत्तवती सा अपि सक्रोधं धनं याचते स्म । एकदा पूज्य मोटा इत्ययं भजनरतः मार्गात् निर्गच्छति स्म, तदा सा मार्गे ऐ भो तिष्ठ इति उक्तवा तस्य ताडनम् अकरोत् । सः तस्याः चरणं स्पृष्ट्वा, तस्यै स्वार्थरपरायणस्य संसारस्य ज्ञानं कारितवती अतः धन्यवादम् अपाठयत् । [२४]भगवतः अपि उपकारः स्वीकृतः ।
शिक्षकः
[सम्पादयतु]पूज्य मोटा इत्ययं प्रतिरात्रि स्मशाने साधनां करोति स्म । गमनागमनकाले भजनानि गायति स्म । दिवसे हरिजन इति जातीयान् बालकान् पाठयति स्म । सायङ्काले प्राङ्गणे जनान् रामायणं महाभारतं च उपदिशति स्म । तेन बालकाः धैर्यवन्तः स्युः इत्येव तस्य उद्देश्यमासीत् । [२५]एकदा केचन मुस्लिमबालकाः शालायां रजः, कङ्कणानि च क्षिप्त्वा अन्यान् बालकान् पीडयन्ति स्म । ज्येष्ठाः तान् उद्बोधयन्ति स्म, किन्तु ते नावगच्छन्ति स्म । एकदा पूज्य मोटा इत्ययं द्वारस्य पृष्ठे स्थित्वा तेषाम् आगमनस्य प्रतीक्षाम् अकरोत् । ते आगताः तदन्ते दण्डेन तान् शिक्षां च अकरोत् इति । तस्मिन्नेव दिवसे सायङ्काले तेषां पितरः तत्र समागताः । पूज्य मोटा इत्ययं तान् अकथयत् यदि अहं ताड्यः तर्हि ताडनं विदधातु, किन्तु तेभ्यः शिक्षा आवश्यकी आसीत् इति । इत्थं पूज्य मोटा इत्यस्य कथनं सर्वेभ्यः अरोचत । सर्वे ततः निर्गताः
सरदार पटेल इत्यनेन सह मेलनम्
[सम्पादयतु]एकदा पूज्य मोटा इत्ययं 'मोटा बोदाला' इत्यत्र आश्रमे गतवान् ।[२६] तत्र सरदार पटेल इत्यनेन सह मेलनं तस्य अभवत् । आश्रमे जनाधिक्यम् आसीत्, अतः पूज्यमोटा इत्ययं शयनार्थम् एकान्तस्थलम् अन्विषति स्म ।
सर्पस्य दंशः प्रभुनामस्मरणस्य फलम्
[सम्पादयतु]आश्रमे रात्रौ पूज्य मोटा इत्यस्य जङ्घायां सर्पेण दंशः कृतः । पूज्य मोटा इत्ययं तु हरि ओम् इति मन्त्रस्य जपं कुर्वन् नर्तनं करोति स्म । इत्थं सः दिनद्वयं यावत् अकरोत् । ततः परं जनाः तम् आणन्द-नगरे चिकित्सालयं नीतवन्तः । तत्र चिकित्सकः परीक्षणान्ते एतं विषयुक्तेन सर्पेण दंशः कृतः इति अवदत् । कस्य औषधं स्वीकृतम् इति अपृच्छत् च । [२७]पूज्य मोटा इत्ययं तत् प्रभोः नाम्नः स्मरणस्य फलमस्ति इति अजानात् ।
कारागारे निवासः
[सम्पादयतु]१९३२ तमे वर्षे सः कारागारे निवासम् अकरोत् । तदानीं काले सत्याग्रहिभ्यः कारागारे बहूनि कार्याणि दीयन्ते स्म । तत्र तस्मै अन्नपेषणस्य कार्यं प्रदत्तम् । सः प्रदत्तम् कार्यं सहर्षं स्वीकरोति स्म । एकदा सत्याग्रहीभ्यः ताडनस्य दण्डः प्रदत्तः । सः अनेन स्वीकृतः । तथापि एकः सैनिकः तस्मै पुनः दण्डम् अकरोत् । किन्तु पूज्य मोटा सहसा तं प्रति अपश्यत् । तस्य तपः प्रभावात् सैनिकस्य दण्डः स्वरीत्यैव अधः अभवत् । [२८] सः अन्येषां सत्याग्रहीणाम् अनुकरणं न विदधाति स्म ।सः कारागारे अपि प्रदत्तं कार्यं करोति स्म ।
ईश्वरस्य साक्षात्कारः गुरुकृपा च
[सम्पादयतु]पूज्य मोटा विंशति वर्षान्ते सानन्दं भ्रमति स्म । ईश्वरस्य आराधनां च विदधाति स्म । १९३९ तमे वर्षे स्वस्य ४१ तमस्य वयसि तस्मै ईश्वरस्य साक्षात्कारः अभवत् । अर्थात् भगवतः गुणधर्माणां, सर्वासां शक्तीनां सामर्थ्यस्य च प्राकट्यम् अभवत् । सः चुनिलाल इत्यस्मात् वास्तविकः पूज्यमोटा अभवत् । [२९]तस्य शक्तेः भानं जनेभ्यः अपि न भवति स्म । तदैव तस्य गुरोः आदेशानुसारं सः हरिजनसङ्घम् अत्यजत् । तदनन्तरं सः स्वरीत्यैव जनानां मार्गदर्शकः अभवत् ।
मातुः आज्ञा
[सम्पादयतु]पूज्य मोटा इत्यस्य अयं निर्णयः तस्य मात्रे सूरज बा इत्यस्यै नारोचत । किन्तु पूज्य मोटा इत्यस्य निर्णयः अटलः आसीत् । सः मातरम् गृहचालनाय मासे कति रुप्यकाणि आवश्यकानि इति अपृच्छत् । मात्रा रुप्यकाणां विषये सूचितस्य, प्रभोः कृपया इच्छितस्य धनस्य व्यवस्थापि भवति स्म । किन्तु मात्रा तस्मै एका आज्ञा कृता । मम अन्तिमे समये यत्र कुत्रापि स्यात् त्वया मम समीपे आगन्तव्यमिति । पूज्य मोटा इत्ययमपि तत् स्व्यकरोत् । सूरज बा इत्यस्य अन्तिमे समये अनिवार्य कारणवशात् तस्य आगमनम् अशक्यमासीत् । [३०]सः काशीक्षेत्रे आसीत् । सः मातुः वचनं पालयितुम् असमर्थः भविष्यति इति विचारेण सः प्रार्थनाम् अकरोत् । प्रार्थनया सः माता समक्षं प्रकटितः अभवत् । पूज्य मोटा इत्यस्मिन् एतादृश्यः बहव्यः शक्तयः आसन् । किन्तु सः तासां शक्तीनां यथेष्टम् उपयोगं न करोति स्म ।
सङ्घस्य साहाय्ये
[सम्पादयतु]१९४२ तमे वर्षे सः सङ्घस्य आर्थिकपरिस्थितिं शिथिलां दृष्ट्वा सङ्घस्य कार्यं साधयितुं धनार्जनम् आरभत । सः मुम्बई-महानगरे निर्भयः सन् समाजात् धनस्य सङ्ग्रहणम् आरभत ।[३१] एकदा सः व्यापारिणां सभायाम् अगच्छत् । तत्र सः व्यापारिणः दानार्थम् प्रार्थयत् । एकः व्यापारी ५०१ रुप्यकाणि अलेखयत् । अन्ये स्वशक्त्यनुसारम् अलेखयन् । एदस्मिन् दिवसे पू.मोटा तस्य आपणे धनार्थं गतः । सः शतं रूप्यकाणि दत्तवान् । पू.मोटा तं ५०१ लेखितवान् इति असूचयत् । सः अन्ये भवते अधिकं धनं दद्युः तदर्थमहं पञ्चशतं लेखितवान् इति असूचयत् । किन्तु पू.मोटा तं ५०१ रूप्यकाण्यः दातुम् अकथयत् । [३२]यदि त्वं धनं न दास्यसि, तर्हि अहं न गमिष्यामि इति च अकथयत् । अन्ते सः व्यापारी पू.मोटा इत्यस्य कार्यं दृष्ट्वा तस्मै ५०१ रूप्यकाणि अयच्छत् ।
हरि ओम् आश्रमस्य कार्याणि
[सम्पादयतु]१९६० तमे वर्षे तेन सम्पूर्णं समाजं जागरितुं सङ्कल्पः कृतः । तेन समाजस्य उत्थानं भवेत् तदर्थं विविधाः कार्यक्रमाः कृताः । हरि ओम् आश्रमः तस्य केन्द्रम् अभवत् । अस्मै कार्याय पूज्य मोटा प्रत्येकस्य गृहस्य अतिथिः अभवत् । कालान्तरे सः सम्पूर्णस्य समाजस्य हृदयस्थः अभवत् । [३३] तेन नडियाद-नगरस्य शेठी नद्याः तटे हरि ओम् आश्रमस्य स्थापना कृता । तदनन्तरम् सञ्चितानि रूप्यकाणि तेन समाजस्य कृते प्रदत्तानि । आश्रमस्य सञ्चालनविषये अपि चिन्ता न कृता । सर्वाण्यपि रूप्यकाणि तेन जनानां गुणवर्धनं भवेत् तादृशेषु कार्येषु योजितानि ।
ज्ञानविकासस्य कार्याणि
[सम्पादयतु]जगतः भिन्नेषु विषयेषु ज्ञानं विस्तृतं दृष्ट्वा, सः तत् सर्वं गुर्जरभाषायां प्राप्नुयात् तथा प्रयत्नान् अकरोत् । सः ज्ञानगङ्गोत्री किशोरभारती बालभारती आदीनां प्रकाशनसंस्थानां स्थापनां कृतवान् ।[३४] अस्माकं संस्कृतेः विकासः भवेत् तदर्थं वेदस्य रामायणस्य महाभारतस्य भागवतस्य च गुर्जरभाषायां प्रकाशनं कारितवान्। ते च ग्रन्थाः न्यूनेन मूल्येन प्राप्नुयुः तदर्थमपि प्रयत्नान् अकरोत् ।
प्रोत्साहनस्य कार्याणि
[सम्पादयतु]मनुष्यस्य बुद्धेः उत्तमानां परिणामानां संशोधनार्थं, तस्य लाभः समाजः अपि प्राप्नुयात् इति विचिन्त्य गृहस्य निर्माणं न्यूनेन मूल्येन भवेत् । समुद्रस्य जलस्य उपयोगं कर्तुं शक्नुमः । दुग्धस्य उत्पादनम् अधिकाधिकं कथं स्यात् ?[३५] कृषिकार्येण उद्योगः कथं विकसितः स्यात् ? इत्यादीनि कार्याणि अधिकाधिकानि स्युः इति विचिन्त्य सः संशोधनकतृणां प्रोत्साहनस्य कार्याणि अकरोत् ।
मृत्युः
[सम्पादयतु]१९७६ तमे वर्षे पू.मोटा इत्यस्य शरीरं रोगयुक्तम् अभवत् । अस्य वर्षस्य जुलाई-मासे तस्य मलमूत्रयोः त्यागे अपि अवरोधाः अभवन् । अस्यां स्थितौ सः जीवितुं नैच्छत् ।[३६] सः स्वयमेव देहस्य त्यागम् अकरोत्
मरणोत्तरकार्याणि
[सम्पादयतु]पूज्य मोटा इत्ययं स्वस्य मरणान्ते स्वस्य स्मारकं मा रचयतु इति एकस्यां चिटिकायाम् अलिखत् । किन्तु तानि एव रूप्यकाणि वनवासिजनानां शालायां प्रकोष्ठनिर्माणाय च ददतु इति प्रार्थनाम् अकरोत् । [३७]इत्थं तस्य स्वजनैः एककोटी धनम् वनवासीशालानां विकासार्थं योजितम् । इत्थं पूज्य मोटा इत्ययं स्थूलाभावनायाः न अपि तु सूक्ष्मभावनायाः दर्शनम् अकारयत् । तेन समाजे शक्तेः, ज्ञानस्य , गुणानां च विकासः स्यात् इति विचारितम् । पूज्य मोटा इत्ययम् अस्मभ्यं त्यागाय, परमार्थाय च प्रेरयति । यदि वयम् अनया रीत्या जीवामः, तर्हि अस्माकं धर्मः प्रकाशते । अस्माकं देशः महत्वम् अधिगच्छेत् इति ।
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 5.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 6.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 6.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 7.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 7.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 8.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 9.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 9.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 10.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 10.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 11.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 12.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 12.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 13.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 14.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 14.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 15.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 16.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 17.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 18.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 19.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 19.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 22.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 23.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 24.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 24.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 25.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 25.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 26.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 27.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 28.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 30.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 33.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 33.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 35.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 38.
- ↑ रमेश भट्ट (2013). पूज्य मोटा. बालभारती प्रकाशन अहमदाबाद. p. 39.